Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ पञ्चत्रिंशस्सर्गः ।
Shloka 1
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।
निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥ 1 ॥

upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ |
niśāyāṃ suprabhātāyāṃ viśvāmitro'bhyabhāṣata || 1 ||

Shloka 2
सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ॥ 2 ॥

suprabhātā niśā rāma pūrvā sandhyā pravartate |
uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya || 2 ||

Shloka 3
तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् ।
गमनं रोचयामास वाक्यं चेदमुवाच ह ॥ 3 ॥
गमनं रोचयामास वाक्यं चेदमुवाच ह ॥ 3 ॥
tacchrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām |
gamanaṃ rocayāmāsa vākyaṃ cedamuvāca ha || 3 ||

Shloka 4
अयं शोणश्शुभजलोऽगाधः पुलिनमण्डितः ।
कतरेण पथा ब्रह्मन् सन्तरिष्यामहे वयम् ॥ 4 ॥

ayaṃ śoṇaśśubhajalo'gādhaḥ pulinamaṇḍitaḥ |
katareṇa pathā brahman santariṣyāmahe vayam || 4 ||

Shloka 5
एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् ।
एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥ 5 ॥

evamuktastu rāmeṇa viśvāmitro'bravīdidam |
eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ || 5 ||

Shloka 6
एवमुक्ता महर्षयो विश्वामित्रेण धीमता ।
पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥ 6 ॥

evamuktā maharṣayo viśvāmitreṇa dhīmatā |
paśyantaste prayātā vai vanāni vividhāni ca || 6 ||

Shloka 7
ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा ।
जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥ 7 ॥

te gatvā dūramadhvānaṃ gate'rdhadivase tadā |
jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśurmunisevitām || 7 ||

Shloka 8
तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् ।
बभूवुर्मुदिता स्सर्वे मुनयस्सह राघवाः ॥ 8 ॥

tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām |
babhūvurmuditā ssarve munayassaha rāghavāḥ || 8 ||

Shloka 9
तस्यास्तीरे ततश्चक्रुस्त आवासपरिग्रहम् ।
ततस्स्नात्वा यथान्यायं सन्तर्प्य पितृदेवताः ॥ 9 ॥

tasyāstīre tataścakrusta āvāsaparigraham |
tatassnātvā yathānyāyaṃ santarpya pitṛdevatāḥ || 9 ||

Shloka 10
हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ।
विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः ॥ 10 ॥

hutvā caivāgnihotrāṇi prāśya cāmṛtavaddhaviḥ |
viviśurjāhnavītīre śucau muditamānasāḥ || 10 ||

Shloka 11
विश्वामित्रं महात्मानं परिवार्य समन्ततः ।
अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत् ॥ 11 ॥

viśvāmitraṃ mahātmānaṃ parivārya samantataḥ |
atha tatra tadā rāmo viśvāmitramathābravīt || 11 ||

Shloka 12
भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ।
त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥ 12 ॥

bhagavan śrotumicchāmi gaṅgāṃ tripathagāṃ nadīm |
trailokyaṃ kathamākramya gatā nadanadīpatim || 12 ||

Shloka 13
चोदितो रामवाक्येन विश्वामित्रो महामुनिः ।
वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥ 13 ॥

codito rāmavākyena viśvāmitro mahāmuniḥ |
vṛddhiṃ janma ca gaṅgāyā vaktumevopacakrame || 13 ||

Shloka 14
शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् ।
तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥ 14 ॥

śailendro himavānnāma dhātūnāmākaro mahān |
tasya kanyādvayaṃ rāma rūpeṇāpratimaṃ bhuvi || 14 ||

Shloka 15
या मेरुदुहिता राम तयोर्माता सुमध्यमा ।
नाम्ना मनोरमा नाम पत्नी हिमवतः प्रिया ॥ 15 ॥

yā meruduhitā rāma tayormātā sumadhyamā |
nāmnā manoramā nāma patnī himavataḥ priyā || 15 ||

Shloka 16
तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतस्सुता ।
उमा नाम द्वितीयाभून्नाम्ना तस्यैव राघव ॥ 16 ॥

tasyāṃ gaṅgeyamabhavajjyeṣṭhā himavatassutā |
umā nāma dvitīyābhūnnāmnā tasyaiva rāghava || 16 ||

Shloka 17
अथ ज्येष्ठां सुरास्सर्वे देवतार्थचिकीर्षया ।
शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ॥ 17 ॥

atha jyeṣṭhāṃ surāssarve devatārthacikīrṣayā |
śailendraṃ varayāmāsurgaṅgāṃ tripathagāṃ nadīm || 17 ||

Shloka 18
ददौ धर्मेण हिमवान् तनयां लोकपावनीम् ।
स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥ 18 ॥

dadau dharmeṇa himavān tanayāṃ lokapāvanīm |
svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā || 18 ||

Shloka 19
प्रतिगृह्य ततो देवास्त्रिलोकहितकारिणः ।
गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना ॥ 19 ॥

pratigṛhya tato devāstrilokahitakāriṇaḥ |
gaṅgāmādāya te'gacchan kṛtārthenāntarātmanā || 19 ||

Shloka 20
या चान्या शैलदुहिता कन्यासीद्रघुनन्दन ।
उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना ॥ 20 ॥

yā cānyā śailaduhitā kanyāsīdraghunandana |
ugraṃ sā vratamāsthāya tapastepe tapodhanā || 20 ||

Shloka 21
उग्रेण तपसा युक्तां ददौ शैलवरस्सुताम् ।
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥ 21 ॥

ugreṇa tapasā yuktāṃ dadau śailavarassutām |
rudrāyāpratirūpāya umāṃ lokanamaskṛtām || 21 ||

Shloka 22
एते ते शैलराजस्य सुते लोकनमस्कृते ।
गङ्गा च सरितां श्रेष्ठा उमादेवी च राघव ॥ 22 ॥

ete te śailarājasya sute lokanamaskṛte |
gaṅgā ca saritāṃ śreṣṭhā umādevī ca rāghava || 22 ||

Shloka 23
एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी ।
खं गता प्रथमं तात गतिं गतिमतां वर ॥ 23 ॥

etatte sarvamākhyātaṃ yathā tripathagā nadī |
khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara || 23 ||

Shloka 24
सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा ।
सुरलोकं समारूढा विपापा जलवाहिनी ॥ 24 ॥
सुरलोकं समारूढा विपापा जलवाहिनी ॥ 24 ॥
saiṣā suranadī ramyā śailendrasya sutā tadā |
suralokaṃ samārūḍhā vipāpā jalavāhinī || 24 ||

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे पञ्चत्रिंशस्सर्गः ॥
Sanskrit — Devanagari (original)
श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ पञ्चत्रिंशस्सर्गः ।
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।
निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥ 1 ॥
सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ॥ 2 ॥
तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् ।
गमनं रोचयामास वाक्यं चेदमुवाच ह ॥ 3 ॥
अयं शोणश्शुभजलोऽगाधः पुलिनमण्डितः ।
कतरेण पथा ब्रह्मन् सन्तरिष्यामहे वयम् ॥ 4 ॥
एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् ।
एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥ 5 ॥
एवमुक्ता महर्षयो विश्वामित्रेण धीमता ।
पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥ 6 ॥
ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा ।
जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥ 7 ॥
तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् ।
बभूवुर्मुदिता स्सर्वे मुनयस्सह राघवाः ॥ 8 ॥
तस्यास्तीरे ततश्चक्रुस्त आवासपरिग्रहम् ।
ततस्स्नात्वा यथान्यायं सन्तर्प्य पितृदेवताः ॥ 9 ॥
हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ।
विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः ॥ 10 ॥
विश्वामित्रं महात्मानं परिवार्य समन्ततः ।
अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत् ॥ 11 ॥
भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ।
त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥ 12 ॥
चोदितो रामवाक्येन विश्वामित्रो महामुनिः ।
वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥ 13 ॥
शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् ।
तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥ 14 ॥
या मेरुदुहिता राम तयोर्माता सुमध्यमा ।
नाम्ना मनोरमा नाम पत्नी हिमवतः प्रिया ॥ 15 ॥
तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतस्सुता ।
उमा नाम द्वितीयाभून्नाम्ना तस्यैव राघव ॥ 16 ॥
अथ ज्येष्ठां सुरास्सर्वे देवतार्थचिकीर्षया ।
शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ॥ 17 ॥
ददौ धर्मेण हिमवान् तनयां लोकपावनीम् ।
स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥ 18 ॥
प्रतिगृह्य ततो देवास्त्रिलोकहितकारिणः ।
गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना ॥ 19 ॥
या चान्या शैलदुहिता कन्यासीद्रघुनन्दन ।
उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना ॥ 20 ॥
उग्रेण तपसा युक्तां ददौ शैलवरस्सुताम् ।
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥ 21 ॥
एते ते शैलराजस्य सुते लोकनमस्कृते ।
गङ्गा च सरितां श्रेष्ठा उमादेवी च राघव ॥ 22 ॥
एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी ।
खं गता प्रथमं तात गतिं गतिमतां वर ॥ 23 ॥
सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा ।
सुरलोकं समारूढा विपापा जलवाहिनी ॥ 24 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे पञ्चत्रिंशस्सर्गः ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.