📚 Narayaniyam

नारायणीयं दशक 87 - कुचेलोपाख्यानम्

Dashakam 87

✍️ Author Melpathur Narayana Bhattathiri 🖋️ Devanagari script 🔢 10 verses
📄 Download PDF
View: Text in this script too →
🖋️ Script: कोंकणी ▾
Meaning —
Verse 1
कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः ।
त्वदेकरागेण धनादिनिस्स्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥1॥
kucelanāmā bhavataḥ satīrthyatāṃ gataḥ sa sāndīpanimandire dvijaḥ |
tvadekarāgeṇa dhanādinisspṛho dināni ninye praśamī gṛhāśramī ||1||
Verse 2
समानशीलाऽपि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी ।
कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥2॥
samānaśīlā'pi tadīyavallabhā tathaiva no cittajayaṃ sameyuṣī |
kadācidūce bata vṛttilabdhaye ramāpatiḥ kiṃ na sakhā niṣevyate ||2||
Verse 3
इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे ।
तदा त्वदालोकनकौतुकाद्ययौ वहन् पटान्ते पृथुकानुपायनम् ॥3॥
itīrito'yaṃ priyayā kṣudhārtayā jugupsamāno'pi dhane madāvahe |
tadā tvadālokanakautukādyayau vahan paṭānte pṛthukānupāyanam ||3||
Verse 4
गतोऽयमाश्चर्यमयीं भवत्पुरीं गृहेषु शैब्याभवनं समेयिवान् ।
प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥4॥
gato'yamāścaryamayīṃ bhavatpurīṃ gṛheṣu śaibyābhavanaṃ sameyivān |
praviśya vaikuṇṭhamivāpa nirvṛtiṃ tavātisambhāvanayā tu kiṃ punaḥ ||4||
Verse 5
प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाऽकथयः पुराकृतम् ।
यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्ष तदमर्षि कानने ॥5॥
prapūjitaṃ taṃ priyayā ca vījitaṃ kare gṛhītvā'kathayaḥ purākṛtam |
yadindhanārthaṃ gurudāracoditairapartuvarṣa tadamarṣi kānane ||5||
Verse 6
त्रपाजुषोऽस्मात् पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया ।
कृतं कृतं नन्वियतेति सम्भ्रमाद्रमा किलोपेत्य करं रुरोध ते ॥6॥
trapājuṣo'smāt pṛthukaṃ balādatha pragṛhya muṣṭau sakṛdāśite tvayā |
kṛtaṃ kṛtaṃ nanviyateti sambhramādramā kilopetya karaṃ rurodha te ||6||
Verse 7
भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् ।
बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥7॥
bhakteṣu bhaktena sa mānitastvayā purīṃ vasannekaniśāṃ mahāsukham |
batāparedyurdraviṇaṃ vinā yayau vicitrarūpastava khalvanugrahaḥ ||7||
Verse 8
यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ ।
त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् ॥8॥
yadi hyayāciṣyamadāsyadacyuto vadāmi bhāryāṃ kimiti vrajannasau |
tvaduktilīlāsmitamagnadhīḥ punaḥ kramādapaśyanmaṇidīpramālayam ||8||
Verse 9
किं मार्गविभ्रंश इति भ्रम्मन् क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् ।
सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् ॥9॥
kiṃ mārgavibhraṃśa iti bhramman kṣaṇaṃ gṛhaṃ praviṣṭaḥ sa dadarśa vallabhām |
sakhīparītāṃ maṇihemabhūṣitāṃ bubodha ca tvatkaruṇāṃ mahādbhutām ||9||
Verse 10
स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ ।
त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश हरस्व मे गदान् ॥10॥
sa ratnaśālāsu vasannapi svayaṃ samunnamadbhaktibharo'mṛtaṃ yayau |
tvamevamāpūritabhaktavāñchito marutpurādhīśa harasva me gadān ||10||
Sanskrit — Devanagari (original)
कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः ।
त्वदेकरागेण धनादिनिस्स्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥1॥
समानशीलाऽपि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी ।
कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥2॥
इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे ।
तदा त्वदालोकनकौतुकाद्ययौ वहन् पटान्ते पृथुकानुपायनम् ॥3॥
गतोऽयमाश्चर्यमयीं भवत्पुरीं गृहेषु शैब्याभवनं समेयिवान् ।
प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥4॥
प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाऽकथयः पुराकृतम् ।
यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्ष तदमर्षि कानने ॥5॥
त्रपाजुषोऽस्मात् पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया ।
कृतं कृतं नन्वियतेति सम्भ्रमाद्रमा किलोपेत्य करं रुरोध ते ॥6॥
भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् ।
बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥7॥
यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ ।
त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् ॥8॥
किं मार्गविभ्रंश इति भ्रम्मन् क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् ।
सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् ॥9॥
स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ ।
त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश हरस्व मे गदान् ॥10॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in