2.67 अयोध्याकाण्ड - सप्तषष्टितम सर्गः

2.67 Ayodhyakanda - Saptashashtitama Sargah

✍️ Valmiki 🖋️ Devanagari script
📄 Download PDF
श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ सप्तषष्टितमस्सर्गः ।
आक्रन्दितनिरानन्दा सास्रकण्ठजनाकुला ।
अयोध्यायामवतता सा व्यतीयाय शर्वरी ॥ 1 ॥
व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः ।
समेत्य राजकर्तारः सभामीयुर्द्विजातयः ॥ 2 ॥
मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः ।
कात्यायनो गौतमश्च जाबालिश्च महायशाः ॥ 3 ॥
एते द्विजा स्सहामात्यैः पृथग्वा च मुदीरयन् ।
वसिष्ठमेवाभिमुखाः श्रेष्ठं राजपुरोहितम् ॥ 4 ॥
अतीता शर्वरी दुःखं या नो वर्षशतोपमा ।
अस्मिन्पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे ॥ 5 ॥
स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः ।
लक्ष्मणश्चापि तेजस्वी रामेणैव गतस्सह ॥ 6 ॥
उभौ भरतशत्रुघ्नौ केकयेषु परन्तपौ ।
पुरे राजगृहे रम्ये मातामहनिवेशने ॥ 7 ॥
इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् ।
अराजकं हि नो राष्ट्रं विनाशं समवाप्नुयात् ॥ 8 ॥
नाराजके जनपदे विद्युन्माली महास्वनः ।
अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा ॥ 9 ॥
नाराजके जनपदे बीजमुष्टिः प्रकीर्यते ।
नाराजके पितुः पुत्रो भार्या वा वर्तते वशे ॥ 10 ॥
नाराजके धनं चास्ति नास्ति भार्या प्यराजके ।
इद मत्याहितं चान्यत्कुतस्सत्य मराजके ॥ 11 ॥
नाराजके जनपदे कारयन्ति सभां नराः ।
उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च ॥ 12 ॥
नाराजके जनपदे यज्ञशीला द्विजातयः ।
सत्राण्यन्वासते दान्ता ब्राह्मणा स्संशितव्रताः ॥ 13 ॥
नाराजके जनपदे महायज्ञेषु यज्वनः ।
ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥ 14 ॥
नाराजके जनपदे प्रभूतनटनर्तकाः ।
उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः ॥ 15 ॥
नाराजके जनपदे सिद्धार्था व्यवहारिणः ।
कथाभिरनुरज्यन्ते कथाशीलाः कथाप्रियैः ॥ 16 ॥
नाराजके जनपदे उद्यानानि समागताः ।
सायाह्ने क्रीडितुं यान्ति कुमार्यो हेमभूषिताः ॥ 17 ॥
नाराजके जनपदे वाहनै शशीघ्रगामिभिः ।
नरा निर्यान्त्यरण्यानि नारीभिस्सह कामिनः ॥ 18 ॥
नाराजके जनपदे धनवन्तस्सुरक्षिताः ।
शेरते विवृतद्वाराः कृषिगोरक्षजीविनः ॥ 19 ॥
नाराजके जनपदे बद्धघण्टाविषाणिनः ।
अटन्ति राजमार्गेषु कुञ्जरा षष्टिहायनाः ॥ 20 ॥
नाराजके जनपदे शरान्सन्ततमस्यताम् ।
श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥ 21 ॥
नाराजके जनपदे वणिजो दूरगामिनः ।
गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिताः ॥ 22 ॥
नाराजके जनपदे चरत्येकचरो वशी ।
भावयन्नात्मनाऽत्मानं यत्र सायङ्गृहो मुनिः ॥ 23 ॥
नाराजके जनपदे योगक्षेमं प्रवर्तते ।
नचाप्यराजके सेना शत्रून्विषहते युधि ॥ 24 ॥
नाराजके जनपदे हृष्टैः परमवाजिभिः ।
नरास्संयान्ति सहसा रथैश्च परिमण्डिताः ॥ 25 ॥
नाराजके जनपदे नराश्शास्त्रविशारदाः ।
संवदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥ 26 ॥
नाराजके जनपदे माल्यमोदकदक्षिणाः ।
देवताभ्यर्चनार्थाय कल्प्यन्ते नियतैर्जनैः ॥ 27 ॥
नाराजके जनपदे चन्दनागरुरूषिताः ।
राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥ 28 ॥
यथा ह्यनुदका नद्यः यथा वाऽप्यतृणं वनम् ।
अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ॥ 29 ॥
नाराजके जनपदे स्वकं भवति कस्यचित् ।
मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् ॥ 30 ॥
ये हि सम्भिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः ।
तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः ॥ 31 ॥
यथा दृष्टि श्शरीरस्य नित्यमेव प्रवर्तते ।
तथा नरेन्द्रो राष्ट्रस्य प्रभवस्सत्यधर्मयोः ॥ 32 ॥
राजा सत्यं च धर्मश्च राजा कुलवतां कुलम् ।
राजा माता पिता चैव राजा हितकरो नृणाम् ॥ 33 ॥
यमो वैश्रवण श्शक्रः वरुणश्च महाबलः ।
विशेष्यन्ते नरेन्द्रेण वृत्तेन महता ततः ॥ 34 ॥
अहो तम इवेदं स्यान्नप्रज्ञायेत किञ्चन ।
राजा चे न्न भवे ल्लोके विभज साध्वसाधुनी ॥ 35 ॥
जीवत्यपि महाराजे तवैव वचनं वयम् ।
नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः ॥ 36 ॥
स न स्समीक्ष्य द्विजवर्य वृत्तं नृपं विना राज्यमरण्यभूतम् ।
कुमारमिक्ष्वाकुसुतं वदान्यं त्वमेव राजानमिहाभिषिञ्च ॥ 37 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे सप्तषष्टितमस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe ayodhyākāṇḍam |
atha saptaṣaṣṭitamassargaḥ |
ākranditanirānandā sāsrakaṇṭhajanākulā |
ayodhyāyāmavatatā sā vyatīyāya śarvarī || 1 ||
vyatītāyāṃ tu śarvaryāmādityasyodaye tataḥ |
sametya rājakartāraḥ sabhāmīyurdvijātayaḥ || 2 ||
mārkaṇḍeyo'tha maudgalyo vāmadevaśca kāśyapaḥ |
kātyāyano gautamaśca jābāliśca mahāyaśāḥ || 3 ||
ete dvijā ssahāmātyaiḥ pṛthagvā ca mudīrayan |
vasiṣṭhamevābhimukhāḥ śreṣṭhaṃ rājapurohitam || 4 ||
atītā śarvarī duḥkhaṃ yā no varṣaśatopamā |
asminpañcatvamāpanne putraśokena pārthive || 5 ||
svargataśca mahārājo rāmaścāraṇyamāśritaḥ |
lakṣmaṇaścāpi tejasvī rāmeṇaiva gatassaha || 6 ||
ubhau bharataśatrughnau kekayeṣu parantapau |
pure rājagṛhe ramye mātāmahaniveśane || 7 ||
ikṣvākūṇāmihādyaiva kaścidrājā vidhīyatām |
arājakaṃ hi no rāṣṭraṃ vināśaṃ samavāpnuyāt || 8 ||
nārājake janapade vidyunmālī mahāsvanaḥ |
abhivarṣati parjanyo mahīṃ divyena vāriṇā || 9 ||
nārājake janapade bījamuṣṭiḥ prakīryate |
nārājake pituḥ putro bhāryā vā vartate vaśe || 10 ||
nārājake dhanaṃ cāsti nāsti bhāryā pyarājake |
ida matyāhitaṃ cānyatkutassatya marājake || 11 ||
nārājake janapade kārayanti sabhāṃ narāḥ |
udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca || 12 ||
nārājake janapade yajñaśīlā dvijātayaḥ |
satrāṇyanvāsate dāntā brāhmaṇā ssaṃśitavratāḥ || 13 ||
nārājake janapade mahāyajñeṣu yajvanaḥ |
brāhmaṇā vasusampannā visṛjantyāptadakṣiṇāḥ || 14 ||
nārājake janapade prabhūtanaṭanartakāḥ |
utsavāśca samājāśca vardhante rāṣṭravardhanāḥ || 15 ||
nārājake janapade siddhārthā vyavahāriṇaḥ |
kathābhiranurajyante kathāśīlāḥ kathāpriyaiḥ || 16 ||
nārājake janapade udyānāni samāgatāḥ |
sāyāhne krīḍituṃ yānti kumāryo hemabhūṣitāḥ || 17 ||
nārājake janapade vāhanai śaśīghragāmibhiḥ |
narā niryāntyaraṇyāni nārībhissaha kāminaḥ || 18 ||
nārājake janapade dhanavantassurakṣitāḥ |
śerate vivṛtadvārāḥ kṛṣigorakṣajīvinaḥ || 19 ||
nārājake janapade baddhaghaṇṭāviṣāṇinaḥ |
aṭanti rājamārgeṣu kuñjarā ṣaṣṭihāyanāḥ || 20 ||
nārājake janapade śarānsantatamasyatām |
śrūyate talanirghoṣa iṣvastrāṇāmupāsane || 21 ||
nārājake janapade vaṇijo dūragāminaḥ |
gacchanti kṣemamadhvānaṃ bahupaṇyasamācitāḥ || 22 ||
nārājake janapade caratyekacaro vaśī |
bhāvayannātmanā'tmānaṃ yatra sāyaṅgṛho muniḥ || 23 ||
nārājake janapade yogakṣemaṃ pravartate |
nacāpyarājake senā śatrūnviṣahate yudhi || 24 ||
nārājake janapade hṛṣṭaiḥ paramavājibhiḥ |
narāssaṃyānti sahasā rathaiśca parimaṇḍitāḥ || 25 ||
nārājake janapade narāśśāstraviśāradāḥ |
saṃvadanto'vatiṣṭhante vaneṣūpavaneṣu ca || 26 ||
nārājake janapade mālyamodakadakṣiṇāḥ |
devatābhyarcanārthāya kalpyante niyatairjanaiḥ || 27 ||
nārājake janapade candanāgarurūṣitāḥ |
rājaputrā virājante vasanta iva śākhinaḥ || 28 ||
yathā hyanudakā nadyaḥ yathā vā'pyatṛṇaṃ vanam |
agopālā yathā gāvastathā rāṣṭramarājakam || 29 ||
nārājake janapade svakaṃ bhavati kasyacit |
matsyā iva narā nityaṃ bhakṣayanti parasparam || 30 ||
ye hi sambhinnamaryādā nāstikāśchinnasaṃśayāḥ |
te'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ || 31 ||
yathā dṛṣṭi śśarīrasya nityameva pravartate |
tathā narendro rāṣṭrasya prabhavassatyadharmayoḥ || 32 ||
rājā satyaṃ ca dharmaśca rājā kulavatāṃ kulam |
rājā mātā pitā caiva rājā hitakaro nṛṇām || 33 ||
yamo vaiśravaṇa śśakraḥ varuṇaśca mahābalaḥ |
viśeṣyante narendreṇa vṛttena mahatā tataḥ || 34 ||
aho tama ivedaṃ syānnaprajñāyeta kiñcana |
rājā ce nna bhave lloke vibhaja sādhvasādhunī || 35 ||
jīvatyapi mahārāje tavaiva vacanaṃ vayam |
nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ || 36 ||
sa na ssamīkṣya dvijavarya vṛttaṃ nṛpaṃ vinā rājyamaraṇyabhūtam |
kumāramikṣvākusutaṃ vadānyaṃ tvameva rājānamihābhiṣiñca || 37 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye ayodhyākāṇḍe saptaṣaṣṭitamassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in