2.53 अयोध्याकाण्ड - त्रिपञ्चाश सर्गः

2.53 Ayodhyakanda - Tripanchasha Sargah

✍️ Valmiki 🖋️ Devanagari script
📄 Download PDF
श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ त्रिपञ्चाशस्सर्गः ।
स तं वृक्षं समासाद्य सन्ध्यामन्वास्यपश्चिमाम् ।
रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् ॥ 1 ॥
अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः ।
या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ॥ 2 ॥
जागर्तव्यमतन्द्रिभ्यामद्यप्रभृति रात्रिषु ।
योगक्षेमौ हि सीताया वर्तेते लक्ष्मणावयोः ॥ 3 ॥
रात्रिं कथञ्चिदेवेमां सौमित्रे वर्तयामहे ।
अपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः ॥ 4 ॥
स तु संविश्य मेदिन्यां महार्हशयनोचितः ।
इमाः सौमित्रये रामो व्याजहार कथाः शुभाः ॥ 5 ॥
ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण ।
कृतकामा तु कैकेयी तुष्टा भवितुमर्हति ॥ 6 ॥
सा हि देवी महाराजं कैकेयी राज्यकारणात् ।
अपि न च्यावयेत्प्राणान् दृष्ट्वा भरतमागतम् ॥ 7 ॥
अनाथश्च हि वृद्धश्च मया चैव विनाकृतः ।
किं करिष्यति कामात्मा कैकेयी वशमागतः ॥ 8 ॥
इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम् ।
काम एवार्थधर्माभ्यां गरीयानिति मे मतिः ॥ 9 ॥
को ह्यविद्वानपि पुमान् प्रमदायाः कृते त्यजेत् ।
छन्दानुवर्तिनं पुत्रं तातो मामिव लक्ष्मण ॥ 10 ॥
सुखी बत सभार्यश्च भरतः केकयीसुतः ।
मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत् ॥ 11 ॥
स हि सर्वस्य राज्यस्य मुखमेकं भविष्यति ।
ताते च वयसाऽतीते मयि चारण्यमास्थिते ॥ 12 ॥
अर्थधर्मौ परित्यज्य य काममनुवर्तते ।
एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥ 13 ॥
मन्ये दशरथान्ताय मम प्रव्राजनाय च ।
कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥ 14 ॥
अपीदानीं तु कैकेयी सौभाग्यमदमोहिता ।
कौसल्यां च सुमित्रां च सम्प्रबाधेत मत्कृते ॥ 15 ॥
मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत् ।
अयोध्यामित एव त्वं काल्ये प्रविश लक्ष्मण ॥ 16 ॥
अहमेको गमिष्यामि सीतया सह दण्डकान् ।
अनाथाया हि नाथस्त्वं कौशल्याया भविष्यसि ॥ 17 ॥
क्षुद्रकर्मा हि कैकेयी द्वेष्यमन्याय्यमाचरेत् ।
परिदद्याहि धर्मज्ञे भरते मम मातरम् ॥ 18 ॥
नूनं जात्यन्तरे कस्मिन् स्त्रियः पुत्रैर्वियोजिताः ।
जनन्या मम सौमित्रे तस्मादेतदुपस्थितम् ॥ 19 ॥
मया हि चिरपुष्टेन दुखसंवर्धितेन च ।
विप्रयुज्यत कौशल्या फलकाले धिगस्तु माम् ॥ 20 ॥
मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् ।
सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम् ॥ 21 ॥
मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका ।
यस्यास्तच्छ्रूयते वाक्यं शुक पादमरेर्दश ॥ 22 ॥
शोचन्त्या अल्पभाग्याया न किञ्चिदुपकुर्वता ।
पुत्रेण किमपुत्राया मया कार्यमरिन्दम ॥ 23 ॥
अल्पभाग्या हि मे माता कौशल्या रहिता मया ।
शेते परमदुःखार्ता पतिता शोकसागरे ॥ 24 ॥
एको ह्यहमयोध्यां च पृथिवीं चापि लक्ष्मण ।
तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम् ॥ 25 ॥
अधर्मभयभीतश्च परलोकस्य चानघ ।
तेन लक्ष्मण नाद्याह मात्मानमभिषेचये ॥ 26 ॥
एतदन्यश्च करुणं विलप्य विजने वने ।
अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत् ॥ 27 ॥
विलप्योपरतं रामं गतार्चिषमिवानलम् ।
समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः ॥ 28 ॥
ध्रुवमद्य पुरी राजन्नयोध्यायुधिनां वर ।
निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी ॥ 29 ॥
नैतदौपयिकं राम यदिदं परितप्यते ।
विषादयसि सीतां च मां चैव पुरुषर्षभ ॥ 30 ॥
न च सीता त्वया हीना न चाहमपि राघव ।
मुहूर्तमपि जीवावो जलान्मत्स्याविनोद्धृतौ ॥ 31 ॥
नहि तातं न शत्रुघ्नं न सुमित्रां परन्तप ।
द्रष्टुमिच्छेयमद्याहं स्वर्गं चापि त्वया विना ॥ 32 ॥
ततस्तत्र सुखासीनौ नातिदूरे निरीक्ष्य ताम् ।
न्यग्रोधे सुकृतां शय्यां भेजाते धर्मवत्सलौ ॥ 33 ॥
स लक्ष्मणस्योत्तमपुष्कलं वचो निशम्य चैवं वनवासमादरात् ।
समाः समस्ता विदधे परन्तपः प्रपद्य धर्मं सुचिराय राघवः ॥ 34 ॥
ततस्तु तस्मिन् विजने वने तदा महाबलौ राघववंशवर्धनौ ।
न तौ भयं सम्भ्रममभ्युपेयतु र्यथैव सिंहौ गिरिसानुगोचरौ ॥ 35 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे त्रिपञ्चाशस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe ayodhyākāṇḍam |
atha tripañcāśassargaḥ |
sa taṃ vṛkṣaṃ samāsādya sandhyāmanvāsyapaścimām |
rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam || 1 ||
adyeyaṃ prathamā rātriryātā janapadādbahiḥ |
yā sumantreṇa rahitā tāṃ notkaṇṭhitumarhasi || 2 ||
jāgartavyamatandribhyāmadyaprabhṛti rātriṣu |
yogakṣemau hi sītāyā vartete lakṣmaṇāvayoḥ || 3 ||
rātriṃ kathañcidevemāṃ saumitre vartayāmahe |
apāvartāmahe bhūmāvāstīrya svayamārjitaiḥ || 4 ||
sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ |
imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ || 5 ||
dhruvamadya mahārājo duḥkhaṃ svapiti lakṣmaṇa |
kṛtakāmā tu kaikeyī tuṣṭā bhavitumarhati || 6 ||
sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt |
api na cyāvayetprāṇān dṛṣṭvā bharatamāgatam || 7 ||
anāthaśca hi vṛddhaśca mayā caiva vinākṛtaḥ |
kiṃ kariṣyati kāmātmā kaikeyī vaśamāgataḥ || 8 ||
idaṃ vyasanamālokya rājñaśca mativibhramam |
kāma evārthadharmābhyāṃ garīyāniti me matiḥ || 9 ||
ko hyavidvānapi pumān pramadāyāḥ kṛte tyajet |
chandānuvartinaṃ putraṃ tāto māmiva lakṣmaṇa || 10 ||
sukhī bata sabhāryaśca bharataḥ kekayīsutaḥ |
muditān kosalāneko yo bhokṣyatyadhirājavat || 11 ||
sa hi sarvasya rājyasya mukhamekaṃ bhaviṣyati |
tāte ca vayasā'tīte mayi cāraṇyamāsthite || 12 ||
arthadharmau parityajya ya kāmamanuvartate |
evamāpadyate kṣipraṃ rājā daśaratho yathā || 13 ||
manye daśarathāntāya mama pravrājanāya ca |
kaikeyī saumya samprāptā rājyāya bharatasya ca || 14 ||
apīdānīṃ tu kaikeyī saubhāgyamadamohitā |
kausalyāṃ ca sumitrāṃ ca samprabādheta matkṛte || 15 ||
mā sma matkāraṇāddevī sumitrā duḥkhamāvaset |
ayodhyāmita eva tvaṃ kālye praviśa lakṣmaṇa || 16 ||
ahameko gamiṣyāmi sītayā saha daṇḍakān |
anāthāyā hi nāthastvaṃ kauśalyāyā bhaviṣyasi || 17 ||
kṣudrakarmā hi kaikeyī dveṣyamanyāyyamācaret |
paridadyāhi dharmajñe bharate mama mātaram || 18 ||
nūnaṃ jātyantare kasmin striyaḥ putrairviyojitāḥ |
jananyā mama saumitre tasmādetadupasthitam || 19 ||
mayā hi cirapuṣṭena dukhasaṃvardhitena ca |
viprayujyata kauśalyā phalakāle dhigastu mām || 20 ||
mā sma sīmantinī kācijjanayetputramīdṛśam |
saumitre yo'hamambāyā dadmi śokamanantakam || 21 ||
manye prītiviśiṣṭā sā matto lakṣmaṇa śārikā |
yasyāstacchrūyate vākyaṃ śuka pādamarerdaśa || 22 ||
śocantyā alpabhāgyāyā na kiñcidupakurvatā |
putreṇa kimaputrāyā mayā kāryamarindama || 23 ||
alpabhāgyā hi me mātā kauśalyā rahitā mayā |
śete paramaduḥkhārtā patitā śokasāgare || 24 ||
eko hyahamayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa |
tareyamiṣubhiḥ kruddho nanu vīryamakāraṇam || 25 ||
adharmabhayabhītaśca paralokasya cānagha |
tena lakṣmaṇa nādyāha mātmānamabhiṣecaye || 26 ||
etadanyaśca karuṇaṃ vilapya vijane vane |
aśrupūrṇamukho rāmo niśi tūṣṇīmupāviśat || 27 ||
vilapyoparataṃ rāmaṃ gatārciṣamivānalam |
samudramiva nirvegamāśvāsayata lakṣmaṇaḥ || 28 ||
dhruvamadya purī rājannayodhyāyudhināṃ vara |
niṣprabhā tvayi niṣkrānte gatacandreva śarvarī || 29 ||
naitadaupayikaṃ rāma yadidaṃ paritapyate |
viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha || 30 ||
na ca sītā tvayā hīnā na cāhamapi rāghava |
muhūrtamapi jīvāvo jalānmatsyāvinoddhṛtau || 31 ||
nahi tātaṃ na śatrughnaṃ na sumitrāṃ parantapa |
draṣṭumiccheyamadyāhaṃ svargaṃ cāpi tvayā vinā || 32 ||
tatastatra sukhāsīnau nātidūre nirīkṣya tām |
nyagrodhe sukṛtāṃ śayyāṃ bhejāte dharmavatsalau || 33 ||
sa lakṣmaṇasyottamapuṣkalaṃ vaco niśamya caivaṃ vanavāsamādarāt |
samāḥ samastā vidadhe parantapaḥ prapadya dharmaṃ sucirāya rāghavaḥ || 34 ||
tatastu tasmin vijane vane tadā mahābalau rāghavavaṃśavardhanau |
na tau bhayaṃ sambhramamabhyupeyatu ryathaiva siṃhau girisānugocarau || 35 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye ayodhyākāṇḍe tripañcāśassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in