श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ एकचत्वारिंशस्सर्गः ।
ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् ।
दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥ 1 ॥
नील मग्निसुतं चैव हनुमन्तं च वानरम् ।
पितामहसुतं चैव जाम्बवन्तं महाबलम् ॥ 2 ॥
सुहोत्रं च शरारिं च शरगुल्मं तथैव च ।
गजं गवाक्षं गवयं सुषेणमृषभं तथा ॥ 3 ॥
मैन्दं च द्विविदं चैव विजयं गन्धमादनम् ।
उल्कामुखमसङ्गं च हुताशनसुतावुभौ ॥ 4 ॥
अङ्गदप्रमुखान्वीरान्वीरः कपिगणेश्वरः ।
वेगविक्रमसम्पन्नान्सन्दिदेश विशेषवित् ॥ 5 ॥
तेषामग्रेसरं चैव महाबलमथाङ्गदम् ।
विधाय हरिवीराणामादिशद्दक्षिणां दिशम् ॥ 6 ॥
ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः ।
कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ॥ 7 ॥
सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् ।
नर्मदां च नदीं रम्यां महोरगनिषेविताम् ॥ 8 ॥
ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम् ।
वरदां च महाभागां महोरगनिषेविताम् ॥ 9 ॥
मेखलामुत्कलां चैव दशार्णनगराण्यपि ।
आश्ववन्तीमवन्तीं च सर्वामेवानुपश्यत ॥ 10 ॥
विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि ।
तथा वङ्गान्कलिङ्गांश्च कौशिकांश्च समन्ततः ॥ 11 ॥
अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहाम् ।
नदीं गोदावरीं चैव सर्वमेवानुपश्यत ॥ 12 ॥
तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान्पाण्ड्यान्त्स केरलान् ।
अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ॥ 13 ॥
विचित्रशिखर श्श्रीमांश्चित्रपुष्पितकाननः ।
सचन्दनवनोद्देशो मार्गितव्यो महागिरिः ॥ 14 ॥
ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् ।
तत्र द्रक्ष्यथ कावेरीं विहितामप्सरोगणैः ॥ 15 ॥
तस्यासीनं नगस्याग्रे मलयस्य महौजसम् ।
द्रक्ष्यथाऽदित्यसङ्काशमगस्त्यमृषिसत्तमम् ॥ 16 ॥
ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ।
ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् ॥ 17 ॥
सा चन्दनवनैर्दिव्यै प्रच्छन्ना द्वीपशालिनी ।
कान्तेव युवतिः कान्तां समुद्रमवगाहते ॥ 18 ॥
ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ।
युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ॥ 19 ॥
ततस्समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम् ।
अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ॥ 20 ॥
चित्रनानानगः श्रीमान्महेन्द्रः पर्वतोत्तमः ।
जातरूपमयः श्रीमानवगाढो महार्णवम् ॥ 21 ॥
नानाविधैर्नगै स्सर्वैलताभिश्चोपशोभितम् ।
देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ॥ 22 ॥
सिद्धचारणसङ्घैश्च प्रकीर्णं समनोरमम् ।
तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ॥ 23 ॥
द्वीपस्तस्यापरे पारे शतयोजनमायतः ।
अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः ॥ 24 ॥
तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ।
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः ॥ 25 ॥
राक्षसाधिपतेर्वासस्सहस्राक्षसमद्युतेः ।
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ॥ 26 ॥
अङ्गारकेति विख्याता छायामाकृष्य भोजिनी ।
एवं निस्संशयान्कृत्वा संशयान्नष्टसंशयाः ॥ 27 ॥
मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः ।
तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजने ॥ 28 ॥
गिरिः पुष्पितको नाम सिद्धचारणसेवितः ।
चन्द्रसूर्यांशुसङ्काशस्सागराम्बुसमावृतः ॥ 29 ॥
भ्राजते विपुलैश्शृङ्गैरम्बरं विलिखन्निव ।
तस्यैकं काञ्चनं शृङ्गं सेवतेऽयं दिवाकरः ॥ 30 ॥
श्वेतं राजतमेकं च सेवतेऽयं निशाकरः ।
न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥ 31 ॥
प्रणम्य शिरसा शैलं तं विमार्गत वानराः ।
तमतिक्रम्य दुर्धर्ष स्सूर्यवान्नाम पर्वतः ॥ 32 ॥
अध्वना दुर्विगाहेन योजनानि चतुर्दश ।
ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः ॥ 33 ॥
सर्वकामफलैर्वृक्षै स्सर्वकालमनोहरैः ।
तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ॥ 34 ॥
मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ।
तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः ॥ 35 ॥
अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ।
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ॥ 36 ॥
शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ।
तत्र भोगवती नाम सर्पाणामालयः पुरी ॥ 37 ॥
विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता ।
रक्षिता पन्नगैर्घोरैस्तीक्ष्णदष्ट्रैरैर्महाविषैः ॥ 38 ॥
सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः ।
निर्याय मार्गितव्या च सा च भोगवती पुरी ॥ 39 ॥
तत्र चानन्तरा देशा ये केचन सुसम्वृताः ।
तं च देशमतिक्रम्य महानृषभसंस्थितः ॥ 40 ॥
सर्वरत्नमयः श्रीमान् ऋषभो नाम पर्वतः ।
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् ॥ 41 ॥
दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् ।
न तु तच्चन्दनं दृष्टवा स्प्रष्टव्यं च कदाचन ॥ 42 ॥
रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम् ।
तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः ॥ 43 ॥
शैलूषो ग्रामणी श्शिग्रु श्शुभ्रो बभ्रुस्तथैव च ।
रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम् ॥ 44 ॥
अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ।
ततः परं न वस्सेव्यः पितृलोक स्सुदारुणः ॥ 45 ॥
राजधानी यमस्यैषा कष्टेन तमसा वृता ।
एतावदेव युष्माभिर्वीरा वानरपुङ्गवाः ॥ 46 ॥
शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ।
सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते ॥ 47 ॥
गतिं विदित्वा वैदेह्या स्सन्निवर्तितुमर्हथ ।
यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति ॥ 48 ॥
मत्तुल्यविभवो भोगै स्सुखं स विहरिष्यति ।
ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः ॥ 49 ॥
कृतापराधो बहुशो मम बन्धुर्भविष्यति ।
अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः ।
मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमारभध्वम् ॥ 50 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकचत्वारिंशस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe kiṣkindhākāṇḍam |
atha ekacatvāriṃśassargaḥ |
tataḥ prasthāpya sugrīvastanmahadvānaraṃ balam |
dakṣiṇāṃ preṣayāmāsa vānarānabhilakṣitān || 1 ||
nīla magnisutaṃ caiva hanumantaṃ ca vānaram |
pitāmahasutaṃ caiva jāmbavantaṃ mahābalam || 2 ||
suhotraṃ ca śarāriṃ ca śaragulmaṃ tathaiva ca |
gajaṃ gavākṣaṃ gavayaṃ suṣeṇamṛṣabhaṃ tathā || 3 ||
maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam |
ulkāmukhamasaṅgaṃ ca hutāśanasutāvubhau || 4 ||
aṅgadapramukhānvīrānvīraḥ kapigaṇeśvaraḥ |
vegavikramasampannānsandideśa viśeṣavit || 5 ||
teṣāmagresaraṃ caiva mahābalamathāṅgadam |
vidhāya harivīrāṇāmādiśaddakṣiṇāṃ diśam || 6 ||
ye kecana samuddeśāstasyāṃ diśi sudurgamāḥ |
kapīśaḥ kapimukhyānāṃ sa teṣāṃ tānudāharat || 7 ||
sahasraśirasaṃ vindhyaṃ nānādrumalatāyutam |
narmadāṃ ca nadīṃ ramyāṃ mahoraganiṣevitām || 8 ||
tato godāvarīṃ ramyāṃ kṛṣṇaveṇīṃ mahānadīm |
varadāṃ ca mahābhāgāṃ mahoraganiṣevitām || 9 ||
mekhalāmutkalāṃ caiva daśārṇanagarāṇyapi |
āśvavantīmavantīṃ ca sarvāmevānupaśyata || 10 ||
vidarbhānṛṣikāṃścaiva ramyānmāhiṣakānapi |
tathā vaṅgānkaliṅgāṃśca kauśikāṃśca samantataḥ || 11 ||
anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguhām |
nadīṃ godāvarīṃ caiva sarvamevānupaśyata || 12 ||
tathaivāndhrāṃśca puṇḍrāṃśca colānpāṇḍyāntsa keralān |
ayomukhaśca gantavyaḥ parvato dhātumaṇḍitaḥ || 13 ||
vicitraśikhara śśrīmāṃścitrapuṣpitakānanaḥ |
sacandanavanoddeśo mārgitavyo mahāgiriḥ || 14 ||
tatastāmāpagāṃ divyāṃ prasannasalilāṃ śivām |
tatra drakṣyatha kāverīṃ vihitāmapsarogaṇaiḥ || 15 ||
tasyāsīnaṃ nagasyāgre malayasya mahaujasam |
drakṣyathā'dityasaṅkāśamagastyamṛṣisattamam || 16 ||
tatastenābhyanujñātāḥ prasannena mahātmanā |
tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm || 17 ||
sā candanavanairdivyai pracchannā dvīpaśālinī |
kānteva yuvatiḥ kāntāṃ samudramavagāhate || 18 ||
tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam |
yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ || 19 ||
tatassamudramāsādya sampradhāryārthaniścayam |
agastyenāntare tatra sāgare viniveśitaḥ || 20 ||
citranānānagaḥ śrīmānmahendraḥ parvatottamaḥ |
jātarūpamayaḥ śrīmānavagāḍho mahārṇavam || 21 ||
nānāvidhairnagai ssarvailatābhiścopaśobhitam |
devarṣiyakṣapravarairapsarobhiśca sevitam || 22 ||
siddhacāraṇasaṅghaiśca prakīrṇaṃ samanoramam |
tamupaiti sahasrākṣaḥ sadā parvasu parvasu || 23 ||
dvīpastasyāpare pāre śatayojanamāyataḥ |
agamyo mānuṣairdīptastaṃ mārgadhvaṃ samantataḥ || 24 ||
tatra sarvātmanā sītā mārgitavyā viśeṣataḥ |
sa hi deśastu vadhyasya rāvaṇasya durātmanaḥ || 25 ||
rākṣasādhipatervāsassahasrākṣasamadyuteḥ |
dakṣiṇasya samudrasya madhye tasya tu rākṣasī || 26 ||
aṅgāraketi vikhyātā chāyāmākṛṣya bhojinī |
evaṃ nissaṃśayānkṛtvā saṃśayānnaṣṭasaṃśayāḥ || 27 ||
mṛgayadhvaṃ narendrasya patnīmamitatejasaḥ |
tamatikramya lakṣmīvānsamudre śatayojane || 28 ||
giriḥ puṣpitako nāma siddhacāraṇasevitaḥ |
candrasūryāṃśusaṅkāśassāgarāmbusamāvṛtaḥ || 29 ||
bhrājate vipulaiśśṛṅgairambaraṃ vilikhanniva |
tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate'yaṃ divākaraḥ || 30 ||
śvetaṃ rājatamekaṃ ca sevate'yaṃ niśākaraḥ |
na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ || 31 ||
praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ |
tamatikramya durdharṣa ssūryavānnāma parvataḥ || 32 ||
adhvanā durvigāhena yojanāni caturdaśa |
tatastamapyatikramya vaidyuto nāma parvataḥ || 33 ||
sarvakāmaphalairvṛkṣai ssarvakālamanoharaiḥ |
tatra bhuktvā varārhāṇi mūlāni ca phalāni ca || 34 ||
madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ |
tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ || 35 ||
agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā |
tatra yojanavistāramucchritaṃ daśayojanam || 36 ||
śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam |
tatra bhogavatī nāma sarpāṇāmālayaḥ purī || 37 ||
viśālakakṣyā durdharṣā sarvataḥ parirakṣitā |
rakṣitā pannagairghoraistīkṣṇadaṣṭrairairmahāviṣaiḥ || 38 ||
sarparājo mahāprājño yasyāṃ vasati vāsukiḥ |
niryāya mārgitavyā ca sā ca bhogavatī purī || 39 ||
tatra cānantarā deśā ye kecana susamvṛtāḥ |
taṃ ca deśamatikramya mahānṛṣabhasaṃsthitaḥ || 40 ||
sarvaratnamayaḥ śrīmān ṛṣabho nāma parvataḥ |
gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam || 41 ||
divyamutpadyate yatra taccaivāgnisamaprabham |
na tu taccandanaṃ dṛṣṭavā spraṣṭavyaṃ ca kadācana || 42 ||
rohitā nāma gandharvā ghorā rakṣanti tadvanam |
tatra gandharvapatayaḥ pañca sūryasamaprabhāḥ || 43 ||
śailūṣo grāmaṇī śśigru śśubhro babhrustathaiva ca |
ravisomāgnivapuṣāṃ nivāsaḥ puṇyakarmaṇām || 44 ||
ante pṛthivyā durdharṣāstatra svargajitaḥ sthitāḥ |
tataḥ paraṃ na vassevyaḥ pitṛloka ssudāruṇaḥ || 45 ||
rājadhānī yamasyaiṣā kaṣṭena tamasā vṛtā |
etāvadeva yuṣmābhirvīrā vānarapuṅgavāḥ || 46 ||
śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ |
sarvametatsamālokya yaccānyadapi dṛśyate || 47 ||
gatiṃ viditvā vaidehyā ssannivartitumarhatha |
yastu māsānnivṛtto'gre dṛṣṭā sīteti vakṣyati || 48 ||
mattulyavibhavo bhogai ssukhaṃ sa vihariṣyati |
tataḥ priyataro nāsti mama prāṇādviśeṣataḥ || 49 ||
kṛtāparādho bahuśo mama bandhurbhaviṣyati |
amitabalaparākramā bhavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ |
manujapatisutāṃ yathā labhadhvaṃ tadadhiguṇaṃ puruṣārthamārabhadhvam || 50 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye kiṣkindhākāṇḍe ekacatvāriṃśassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.