Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
ध्यानम्
नमस्सवित्रे जगदेक चक्षुसे
जगत्प्रसूति स्थिति नाशहेतवे
त्रयीमयाय त्रिगुणात्म धारिणे
विरिञ्चि नारायण शङ्करात्मने
Verse 1
ततो युद्ध परिश्रान्तं समरे चिन्तयास्थितम् ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ 1 ॥

tato yuddha pariśrāntaṃ samare cintayāsthitam |
rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam || 1 ||

Verse 2
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपागम्याब्रवीद्रामं अगस्त्यो भगवान् ऋषिः ॥ 2 ॥

daivataiśca samāgamya draṣṭumabhyāgato raṇam |
upāgamyābravīdrāmaṃ agastyo bhagavān ṛṣiḥ || 2 ||

Verse 3
राम राम महाबाहो शृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसि ॥ 3 ॥

rāma rāma mahābāho śṛṇu guhyaṃ sanātanam |
yena sarvānarīn vatsa samare vijayiṣyasi || 3 ||

Verse 4
आदित्यहृदयं पुण्यं सर्वशत्रु-विनाशनम् ।
जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् ॥ 4 ॥

ādityahṛdayaṃ puṇyaṃ sarvaśatru-vināśanam |
jayāvahaṃ japennityaṃ akṣayyaṃ paramaṃ śivam || 4 ||

Verse 5
सर्वमङ्गल-माङ्गल्यं सर्वपाप-प्रणाशनम् ।
चिन्ताशोक-प्रशमनं आयुर्वर्धनमुत्तमम् ॥ 5 ॥

sarvamaṅgala-māṅgalyaṃ sarvapāpa-praṇāśanam |
cintāśoka-praśamanaṃ āyurvardhanamuttamam || 5 ||

Verse 6
रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ 6 ॥

raśmimantaṃ samudyantaṃ devāsura namaskṛtam |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram || 6 ||

Verse 7
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुर-गणान् लोकान् पाति गभस्तिभिः ॥ 7 ॥

sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ |
eṣa devāsura-gaṇān lokān pāti gabhastibhiḥ || 7 ||

Verse 8
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥ 8 ॥

eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ |
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ || 8 ||

Verse 9
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ॥ 9 ॥

pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ |
vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ || 9 ||

Verse 11
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः ॥ 10 ॥ [स्वरणरेता दिवाकरः]
हरिदश्वः सहस्रार्चिः सप्तसप्ति-र्मरीचिमान् ।
तिमिरोन्मथनः शम्भुः त्वष्टा मार्ताण्डकोंऽशुमान् ॥ 11 ॥

ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān |
suvarṇasadṛśo bhānuḥ hiraṇyaretā divākaraḥ || 10 || [svaraṇaretā divākaraḥ]
haridaśvaḥ sahasrārciḥ saptasapti-rmarīcimān |
timironmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍakoṃ'śumān || 11 ||

Verse 12
हिरण्यगर्भः शिशिरः तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ 12 ॥

hiraṇyagarbhaḥ śiśiraḥ tapano bhāskaro raviḥ |
agnigarbho'diteḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ || 12 ||

Verse 13
व्योमनाथ-स्तमोभेदी ऋग्यजुःसाम-पारगः ।
घनावृष्टिरपां मित्रः विन्ध्यवीथी प्लवङ्गमः ॥ 13 ॥

vyomanātha-stamobhedī ṛgyajuḥsāma-pāragaḥ |
ghanāvṛṣṭirapāṃ mitraḥ vindhyavīthī plavaṅgamaḥ || 13 ||

Verse 14
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ 14 ॥

ātapī maṇḍalī mṛtyuḥ piṅgalaḥ sarvatāpanaḥ |
kavirviśvo mahātejā raktaḥ sarvabhavodbhavaḥ || 14 ||

Verse 15
नक्षत्र ग्रह ताराणां अधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्म-न्नमोऽस्तु ते ॥ 15 ॥

nakṣatra graha tārāṇāṃ adhipo viśvabhāvanaḥ |
tejasāmapi tejasvī dvādaśātma-nnamo'stu te || 15 ||

Verse 16
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ 16 ॥

namaḥ pūrvāya giraye paścimāyādraye namaḥ |
jyotirgaṇānāṃ pataye dinādhipataye namaḥ || 16 ||

Verse 17
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ 17 ॥

jayāya jayabhadrāya haryaśvāya namo namaḥ |
namo namaḥ sahasrāṃśo ādityāya namo namaḥ || 17 ||

Verse 18
नम उग्राय वीराय सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ 18 ॥

nama ugrāya vīrāya sāraṅgāya namo namaḥ |
namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ || 18 ||

Verse 19
ब्रह्मेशानाच्युतेशाय सूर्यायादित्य-वर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ 19 ॥

brahmeśānācyuteśāya sūryāyāditya-varcase |
bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ || 19 ||

Verse 20
तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ 20 ॥

tamoghnāya himaghnāya śatrughnāyā mitātmane |
kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ || 20 ||

Verse 21
तप्त चामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोऽभि निघ्नाय रवये लोकसाक्षिणे ॥ 21 ॥

tapta cāmīkarābhāya vahnaye viśvakarmaṇe |
namastamo'bhi nighnāya ravaye lokasākṣiṇe || 21 ||

Verse 22
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ 22 ॥

nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ |
pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ || 22 ||

Verse 23
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ॥ 23 ॥

eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ |
eṣa evāgnihotraṃ ca phalaṃ caivāgni hotriṇām || 23 ||

Verse 24
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ 24 ॥

vedāśca kratavaścaiva kratūnāṃ phalameva ca |
yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ || 24 ||

Verse 25
फलश्रुतिः
एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्नावशीदति राघव ॥ 25 ॥

phalaśrutiḥ
ena māpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca |
kīrtayan puruṣaḥ kaścinnāvaśīdati rāghava || 25 ||

Verse 26
पूजयस्वैन मेकाग्रः देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ 26 ॥

pūjayasvaina mekāgraḥ devadevaṃ jagatpatim |
etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi || 26 ||

Verse 27
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् ॥ 27 ॥

asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi |
evamuktvā tadāgastyo jagāma ca yathāgatam || 27 ||

Verse 28
एतच्छ्रुत्वा महातेजाः नष्टशोकोऽभवत्तदा ।
धारयामास सुप्रीतः राघवः प्रयतात्मवान् ॥ 28 ॥

etacchrutvā mahātejāḥ naṣṭaśoko'bhavattadā |
dhārayāmāsa suprītaḥ rāghavaḥ prayatātmavān || 28 ||

Verse 29
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ 29 ॥

ādityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān |
trirācamya śucirbhūtvā dhanurādāya vīryavān || 29 ||

Verse 30
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ 30 ॥

rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat |
sarvayatnena mahatā vadhe tasya dhṛto'bhavat || 30 ||

Verse 31
अध रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपति सङ्क्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति ॥ 31 ॥

adha raviravadannirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ |
niśicarapati saṅkṣayaṃ viditvā suragaṇa madhyagato vacastvareti || 31 ||

इत्यार्षे श्रीमद्रामायणे वाल्मिकीये आदिकाव्ये युद्धकाण्डे पञ्चाधिक शततमः सर्गः ॥
Sanskrit — Devanagari (original)
ध्यानम्
नमस्सवित्रे जगदेक चक्षुसे
जगत्प्रसूति स्थिति नाशहेतवे
त्रयीमयाय त्रिगुणात्म धारिणे
विरिञ्चि नारायण शङ्करात्मने
ततो युद्ध परिश्रान्तं समरे चिन्तयास्थितम् ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ 1 ॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपागम्याब्रवीद्रामं अगस्त्यो भगवान् ऋषिः ॥ 2 ॥
राम राम महाबाहो शृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसि ॥ 3 ॥
आदित्यहृदयं पुण्यं सर्वशत्रु-विनाशनम् ।
जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् ॥ 4 ॥
सर्वमङ्गल-माङ्गल्यं सर्वपाप-प्रणाशनम् ।
चिन्ताशोक-प्रशमनं आयुर्वर्धनमुत्तमम् ॥ 5 ॥
रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ 6 ॥
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुर-गणान् लोकान् पाति गभस्तिभिः ॥ 7 ॥
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥ 8 ॥
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ॥ 9 ॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः ॥ 10 ॥ [स्वरणरेता दिवाकरः]
हरिदश्वः सहस्रार्चिः सप्तसप्ति-र्मरीचिमान् ।
तिमिरोन्मथनः शम्भुः त्वष्टा मार्ताण्डकोंऽशुमान् ॥ 11 ॥
हिरण्यगर्भः शिशिरः तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ 12 ॥
व्योमनाथ-स्तमोभेदी ऋग्यजुःसाम-पारगः ।
घनावृष्टिरपां मित्रः विन्ध्यवीथी प्लवङ्गमः ॥ 13 ॥
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ 14 ॥
नक्षत्र ग्रह ताराणां अधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्म-न्नमोऽस्तु ते ॥ 15 ॥
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ 16 ॥
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ 17 ॥
नम उग्राय वीराय सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ 18 ॥
ब्रह्मेशानाच्युतेशाय सूर्यायादित्य-वर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ 19 ॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ 20 ॥
तप्त चामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोऽभि निघ्नाय रवये लोकसाक्षिणे ॥ 21 ॥
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ 22 ॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ॥ 23 ॥
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ 24 ॥
फलश्रुतिः
एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्नावशीदति राघव ॥ 25 ॥
पूजयस्वैन मेकाग्रः देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ 26 ॥
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् ॥ 27 ॥
एतच्छ्रुत्वा महातेजाः नष्टशोकोऽभवत्तदा ।
धारयामास सुप्रीतः राघवः प्रयतात्मवान् ॥ 28 ॥
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ 29 ॥
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ 30 ॥
अध रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपति सङ्क्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति ॥ 31 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मिकीये आदिकाव्ये युद्धकाण्डे पञ्चाधिक शततमः सर्गः ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.