Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ सप्ततितमस्सर्गः ।
Shloka 1
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।
बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ॥ 1 ॥

tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau |
bāhupāśaparikṣiptau kabandho vākyamabravīt || 1 ||

Shloka 2
तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ ।
आहारार्थं तु सन्दिष्टौ दैवेन गतचेतसौ ॥ 2 ॥

tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau |
āhārārthaṃ tu sandiṣṭau daivena gatacetasau || 2 ||

Shloka 3
तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा ।
उवाचाऽर्तिं समापन्नो विक्रमे कृतलक्षणः ॥ 3 ॥

tacchrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā |
uvācā'rtiṃ samāpanno vikrame kṛtalakṣaṇaḥ || 3 ||

Shloka 4
त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः ।
तस्मादसिभ्यामस्याशु बाहू छिन्दावहै गुरू ॥ 4 ॥

tvāṃ ca māṃ ca purā tūrṇamādatte rākṣasādhamaḥ |
tasmādasibhyāmasyāśu bāhū chindāvahai gurū || 4 ||

Shloka 5
भीषणोऽयं महाकायो राक्षसो भुजविक्रमः ।
लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति ॥ 5 ॥

bhīṣaṇo'yaṃ mahākāyo rākṣaso bhujavikramaḥ |
lokaṃ hyatijitaṃ kṛtvā hyāvāṃ hantumihecchati || 5 ||

Shloka 6
निश्चेष्टानां वधो राजन्कुत्सितो जगतीपतेः ।
क्रतुमध्योपनीतानां पशूनामिव राघव ॥ 6 ॥
क्रतुमध्योपनीतानां पशूनामिव राघव ॥ 6 ॥
niśceṣṭānāṃ vadho rājankutsito jagatīpateḥ |
kratumadhyopanītānāṃ paśūnāmiva rāghava || 6 ||

Shloka 7
एतत्सञ्जल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः ।
विदार्याऽस्यं तदा रौद्रस्तौ भक्षयितुमारभत् ॥ 7 ॥

etatsañjalpitaṃ śrutvā tayoḥ kruddhastu rākṣasaḥ |
vidāryā'syaṃ tadā raudrastau bhakṣayitumārabhat || 7 ||

Shloka 8
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ ।
अच्छिन्दतां सुसंविग्नौ बाहू तस्यांसदेशतः ॥ 8 ॥

tatastau deśakālajñau khaḍgābhyāmeva rāghavau |
acchindatāṃ susaṃvignau bāhū tasyāṃsadeśataḥ || 8 ||

Shloka 9
दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः ।
चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः ॥ 9 ॥

dakṣiṇo dakṣiṇaṃ bāhumasaktamasinā tataḥ |
ciccheda rāmo vegena savyaṃ vīrastu lakṣmaṇaḥ || 9 ||

Shloka 10
स पपात महाबाहुश्छिन्नबाहुर्महास्वनः ।
खं च गां च दिशश्चैव नादयञ्जलदो यथा ॥ 10 ॥

sa papāta mahābāhuśchinnabāhurmahāsvanaḥ |
khaṃ ca gāṃ ca diśaścaiva nādayañjalado yathā || 10 ||

Shloka 11
स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः ।
दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ॥ 11 ॥

sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ |
dīnaḥ papraccha tau vīrau kau yuvāmiti dānavaḥ || 11 ||

इति तस्य ब्रुवाणस्य लक्ष्मणश्शुभलक्षणः ।
शशंस राघवं तस्य कबन्धस्य महात्मनः ॥ 12 ॥

Shloka 13
अयमिक्ष्वाकुदायादो रामो नाम जनैश्श्रुतः ।
अस्यैवावरजं विद्दि भ्रातरं मां च लक्ष्मणम् ॥ 13 ॥

ayamikṣvākudāyādo rāmo nāma janaiśśrutaḥ |
asyaivāvarajaṃ viddi bhrātaraṃ māṃ ca lakṣmaṇam || 13 ||

Shloka 14
अस्य देवप्रभावस्य वसतो विजने वने ।
रक्षसाऽपहृता पत्नी यामिच्छन्ताविहागतौ ॥ 14 ॥

asya devaprabhāvasya vasato vijane vane |
rakṣasā'pahṛtā patnī yāmicchantāvihāgatau || 14 ||

Shloka 15
त्वं तु को वा किमर्थं वा कबन्धसदृशो वने ।
आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे ॥ 15 ॥

tvaṃ tu ko vā kimarthaṃ vā kabandhasadṛśo vane |
āsyenorasi dīptena bhagnajaṅgho viceṣṭase || 15 ||

Shloka 16
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः ।
उवाच परमप्रीत स्तदिन्द्रवचनं स्मरन् ॥ 16 ॥

evamuktaḥ kabandhastu lakṣmaṇenottaraṃ vacaḥ |
uvāca paramaprīta stadindravacanaṃ smaran || 16 ||

Shloka 17
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम् ।
दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ॥ 17 ॥

svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpyaham |
diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau || 17 ||

Shloka 18
विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा ।
तन्मे शृणु नरव्याघ्र तत्त्वतश्शंसतस्तव ॥ 18 ॥

virūpaṃ yacca me rūpaṃ prāptaṃ hyavinayādyathā |
tanme śṛṇu naravyāghra tattvataśśaṃsatastava || 18 ||

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे सप्ततितमस्सर्गः ॥
Sanskrit — Devanagari (original)
श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ सप्ततितमस्सर्गः ।
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।
बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ॥ 1 ॥
तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ ।
आहारार्थं तु सन्दिष्टौ दैवेन गतचेतसौ ॥ 2 ॥
तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा ।
उवाचाऽर्तिं समापन्नो विक्रमे कृतलक्षणः ॥ 3 ॥
त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः ।
तस्मादसिभ्यामस्याशु बाहू छिन्दावहै गुरू ॥ 4 ॥
भीषणोऽयं महाकायो राक्षसो भुजविक्रमः ।
लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति ॥ 5 ॥
निश्चेष्टानां वधो राजन्कुत्सितो जगतीपतेः ।
क्रतुमध्योपनीतानां पशूनामिव राघव ॥ 6 ॥
एतत्सञ्जल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः ।
विदार्याऽस्यं तदा रौद्रस्तौ भक्षयितुमारभत् ॥ 7 ॥
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ ।
अच्छिन्दतां सुसंविग्नौ बाहू तस्यांसदेशतः ॥ 8 ॥
दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः ।
चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः ॥ 9 ॥
स पपात महाबाहुश्छिन्नबाहुर्महास्वनः ।
खं च गां च दिशश्चैव नादयञ्जलदो यथा ॥ 10 ॥
स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः ।
दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ॥ 11 ॥
इति तस्य ब्रुवाणस्य लक्ष्मणश्शुभलक्षणः ।
शशंस राघवं तस्य कबन्धस्य महात्मनः ॥ 12 ॥
अयमिक्ष्वाकुदायादो रामो नाम जनैश्श्रुतः ।
अस्यैवावरजं विद्दि भ्रातरं मां च लक्ष्मणम् ॥ 13 ॥
अस्य देवप्रभावस्य वसतो विजने वने ।
रक्षसाऽपहृता पत्नी यामिच्छन्ताविहागतौ ॥ 14 ॥
त्वं तु को वा किमर्थं वा कबन्धसदृशो वने ।
आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे ॥ 15 ॥
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः ।
उवाच परमप्रीत स्तदिन्द्रवचनं स्मरन् ॥ 16 ॥
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम् ।
दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ॥ 17 ॥
विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा ।
तन्मे शृणु नरव्याघ्र तत्त्वतश्शंसतस्तव ॥ 18 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे सप्ततितमस्सर्गः ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.