श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ सप्तचत्वारिंशस्सर्गः ।
रावणेन तु वैदेही तदा पृष्टा जिहीर्षता ।
परिव्राजकरूपेण शशंसात्मानमात्मना ॥ 1 ॥
ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम् ।
इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ॥ 2 ॥
दुहिता जनकस्याहं मैथिलस्य महात्मनः ।
सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम ॥ 3 ॥
उषित्वा द्वादश समा इक्ष्वाकुणां निवेशने ।
भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी ॥ 4 ॥
ततस्त्रयोदशे वर्षे राजामन्त्रयत प्रभुः ।
अभिषेचयितुं रामं समेतो राजमन्त्रिभिः ॥ 5 ॥
तस्मिन्सम्भ्रियमाणे तु राघवस्याभिषेचने ।
कैकेयी नाम भर्तारमार्या सा याचते वरम् ॥ 6 ॥
प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे ।
मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् ॥ 7 ॥
द्वावयाचत भर्तारं सत्यसन्धं नृपोत्तमम् ।
नाद्य भोक्ष्ये न च स्वप्स्ये न पास्येच कथञ्चन ॥ 8 ॥
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।
इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः ॥ 9 ॥
अयाचतार्थैरन्वर्थैर्न च याञ्चां चकार सा ।
मम भर्तामहातेजा वयसा पञ्चविंशकः ॥ 10 ॥
अष्टादश हि वर्षाणि मम जन्मनि गण्यते ।
रामेति प्रथितो लोके गुणवान्सत्यवान्शुचिः ॥ 11 ॥
विशालाक्षो महाबाहुस्सर्वभूतहिते रतः ।
कामार्तस्तु महातेजाः पिता दशरथस्स्वयम् ॥ 12 ॥
कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत् ।
अभिषेकाय तु पितुस्समीपं राममागतम् ॥ 13 ॥
कैकेयी मम भर्तारमित्युवाच धृतं वचः ।
तव पित्रा समाज्ञप्तं ममेदं शृणु राघव ॥ 14 ॥
भरताय प्रदातव्यमिदं राज्यमकण्टकम् ।
त्वया हि खलु वस्तव्यं नव वर्षाणि पञ्च च ॥ 15 ॥
वने प्रव्रज काकुत्स्थ पितरं मोचयानृतान् ।
तथेत्युक्त्वा च तां रामः कैकेयीमकुतोभयः ॥ 16 ॥
चकार तद्वचस्तस्या मम भर्ता दृढव्रतः ।
दद्यान्न प्रतिगृह्णीयात्सत्यं ब्रूयान्न चानृतम् ॥ 17 ॥
एतद्ब्राह्मण रामस्य ध्रृवं व्रतमनुत्तमम् ।
तस्य भ्राता तु द्वैमात्रो लक्ष्मणो नाम वीर्यवान् ॥ 18 ॥
रामस्य पुरुषव्याघ्रस्सहायस्समरेरिहा ।
स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः ॥ 19 ॥
अन्वगच्छद्दनुष्पाणिः प्रव्रजन्तं मया सह ।
जटी तापसरूपेण मया सह सहानुजः ॥ 20 ॥
प्रविष्टो दण्डकारण्यं धर्मनित्यो जितेन्द्रियः ।
ते वयं प्रच्युता राज्यात्कैकेय्यास्तु कृते त्रयः ॥ 21 ॥
विचरामो द्विजश्रेष्ठ वनं गम्भीरमोजसा ।
समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया ॥ 22 ॥
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् ।
रुरून्गोधा न्वराहांश्च हत्वाऽदायाऽमिषान्बहून् ॥ 23 ॥
स त्वं नाम च गोत्रञ्च कुलं चाचक्ष्व तत्त्वतः ।
एकश्च दण्डकारण्ये किमर्थं चरसि द्विज ॥ 24 ॥
एवं बृवन्त्यां सीतायां रामपत्न्यां महाबलः ।
प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ॥ 25 ॥
येन वित्रासिता लोकास्सदेवासुरपन्नगाः ।
अहं तु रावणो नाम सीते रक्षोगणेश्वरः ॥ 26 ॥
त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् ।
रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते ॥ 27 ॥
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ।
सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ 28 ॥
लङ्कानाम समुद्रस्य मम मध्ये महापुरी ।
सागरेण परिक्षिस्ता निविष्टा नगमूर्धनि ॥ 29 ॥
तत्र सीते मया सार्धं वनेषु विहरिष्यसि ।
न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि ॥ 30 ॥
पञ्च दास्यस्सहस्राणि सर्वाभरणभूषिताः ।
सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥ 31 ॥
रावणेनैवमुक्ता तु कुपिता जनकात्मजा ।
प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम् ॥ 32 ॥
महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् ।
महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥ 33 ॥
सर्वलक्षणसम्पन्नं न्यग्रोधपरिमण्डलम् ।
सत्यसन्धं महाभागमहं राममनुव्रता ॥ 34 ॥
महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् ।
नृसिंहं सिंहसङ्काशमहं राममनुव्रता ॥ 35 ॥
पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम् ।
पृथुकीर्तिं महात्मानमहं राममनुव्रता ॥ 36 ॥
त्वं पुनर्जम्बुकस्सिंहीं मामिच्छसि सुदुर्लभाम् ।
नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥ 37 ॥
पादपान्काञ्चनान्नूनं बहून्पश्यसि मन्दभाक् ।
राघपस्य प्रियां भार्यां यस्त्वमिच्छसि रावण ॥ 38 ॥
क्षुधितस्य हि सिंहस्य मृगशत्रोस्तरस्विनः ।
आशीविषस्य मुखाद्दंष्ट्रामादातुमिच्छसि ॥ 39 ॥
मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि ।
कालकूटं विषं पीत्वा स्वस्तिमान्गन्तुमिच्छसि ॥ 40 ॥
अक्षि सूच्या प्रमृजसि जिह्वया लेक्षि च क्षुरम् ।
राघवस्य प्रियां भार्यां योऽधिगन्तुं त्वमिच्छसि ॥ 41 ॥
अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि ।
सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि ॥ 42 ॥
यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि ।
अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि ॥ 43 ॥
काल्याणवृत्तां रामस्य यो भार्यांहर्तुमिच्छसि ।
अयोमुखानां शूलानामग्रे चरितुमिच्छसि ॥ 44 ॥
रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि ।
यदन्तरं सिंहशृगालयोर्वने यदन्तरं स्यन्दिनिका समुद्रयोः ।
सुराग्र्य सौवीरकयोर्यदन्तरं तदन्तरं वै तव राघवस्य च ॥ 45 ॥
यदन्तरं काञ्चनसीसलोहयोर्यदन्तरं चन्दनवारिपङ्कयोः ।
यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दाशरथेस्तवैव च ॥ 46 ॥
यदन्तरं वायसवैनतेययोर्यदन्तरं मद्गुमयूरयोरपि ।
यदन्तरं सारसगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च ॥ 47 ॥
तस्मिन्सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ ।
हृतापि तेहं न जरां गमिष्ये वज्रं यथा मक्षिकयावगीर्णम् ॥ 48 ॥
इतीव तद्वाक्यमदुष्टभावा सुदुष्टमुक्त्वा रजनीचरं तम् ।
गात्रप्रकम्पाद्व्यथिता बभूव वातोद्धता सा कदलीव तन्वी ॥ 49 ॥
तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः ।
कुलं बलं नाम च कर्म चात्मनः समाचचक्षे भयकारणार्थम् ॥ 50 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे सप्तचत्वारिंशस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe araṇyakāṇḍam |
atha saptacatvāriṃśassargaḥ |
rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣatā |
parivrājakarūpeṇa śaśaṃsātmānamātmanā || 1 ||
brāhmaṇaścātithiścāyamanukto hi śapeta mām |
iti dhyātvā muhūrtaṃ tu sītā vacanamabravīt || 2 ||
duhitā janakasyāhaṃ maithilasya mahātmanaḥ |
sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama || 3 ||
uṣitvā dvādaśa samā ikṣvākuṇāṃ niveśane |
bhuñjānā mānuṣānbhogānsarvakāmasamṛddhinī || 4 ||
tatastrayodaśe varṣe rājāmantrayata prabhuḥ |
abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ || 5 ||
tasminsambhriyamāṇe tu rāghavasyābhiṣecane |
kaikeyī nāma bhartāramāryā sā yācate varam || 6 ||
pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me |
mama pravrājanaṃ bharturbharatasyābhiṣecanam || 7 ||
dvāvayācata bhartāraṃ satyasandhaṃ nṛpottamam |
nādya bhokṣye na ca svapsye na pāsyeca kathañcana || 8 ||
eṣa me jīvitasyānto rāmo yadyabhiṣicyate |
iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ || 9 ||
ayācatārthairanvarthairna ca yāñcāṃ cakāra sā |
mama bhartāmahātejā vayasā pañcaviṃśakaḥ || 10 ||
aṣṭādaśa hi varṣāṇi mama janmani gaṇyate |
rāmeti prathito loke guṇavānsatyavānśuciḥ || 11 ||
viśālākṣo mahābāhussarvabhūtahite rataḥ |
kāmārtastu mahātejāḥ pitā daśarathassvayam || 12 ||
kaikeyyāḥ priyakāmārthaṃ taṃ rāmaṃ nābhyaṣecayat |
abhiṣekāya tu pitussamīpaṃ rāmamāgatam || 13 ||
kaikeyī mama bhartāramityuvāca dhṛtaṃ vacaḥ |
tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava || 14 ||
bharatāya pradātavyamidaṃ rājyamakaṇṭakam |
tvayā hi khalu vastavyaṃ nava varṣāṇi pañca ca || 15 ||
vane pravraja kākutstha pitaraṃ mocayānṛtān |
tathetyuktvā ca tāṃ rāmaḥ kaikeyīmakutobhayaḥ || 16 ||
cakāra tadvacastasyā mama bhartā dṛḍhavrataḥ |
dadyānna pratigṛhṇīyātsatyaṃ brūyānna cānṛtam || 17 ||
etadbrāhmaṇa rāmasya dhrṛvaṃ vratamanuttamam |
tasya bhrātā tu dvaimātro lakṣmaṇo nāma vīryavān || 18 ||
rāmasya puruṣavyāghrassahāyassamarerihā |
sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ || 19 ||
anvagacchaddanuṣpāṇiḥ pravrajantaṃ mayā saha |
jaṭī tāpasarūpeṇa mayā saha sahānujaḥ || 20 ||
praviṣṭo daṇḍakāraṇyaṃ dharmanityo jitendriyaḥ |
te vayaṃ pracyutā rājyātkaikeyyāstu kṛte trayaḥ || 21 ||
vicarāmo dvijaśreṣṭha vanaṃ gambhīramojasā |
samāśvasa muhūrtaṃ tu śakyaṃ vastumiha tvayā || 22 ||
āgamiṣyati me bhartā vanyamādāya puṣkalam |
rurūngodhā nvarāhāṃśca hatvā'dāyā'miṣānbahūn || 23 ||
sa tvaṃ nāma ca gotrañca kulaṃ cācakṣva tattvataḥ |
ekaśca daṇḍakāraṇye kimarthaṃ carasi dvija || 24 ||
evaṃ bṛvantyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ |
pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ || 25 ||
yena vitrāsitā lokāssadevāsurapannagāḥ |
ahaṃ tu rāvaṇo nāma sīte rakṣogaṇeśvaraḥ || 26 ||
tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm |
ratiṃ svakeṣu dāreṣu nādhigacchāmyanindite || 27 ||
bahvīnāmuttamastrīṇāmāhṛtānāmitastataḥ |
sarvāsāmeva bhadraṃ te mamāgramahiṣī bhava || 28 ||
laṅkānāma samudrasya mama madhye mahāpurī |
sāgareṇa parikṣistā niviṣṭā nagamūrdhani || 29 ||
tatra sīte mayā sārdhaṃ vaneṣu vihariṣyasi |
na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini || 30 ||
pañca dāsyassahasrāṇi sarvābharaṇabhūṣitāḥ |
sīte paricariṣyanti bhāryā bhavasi me yadi || 31 ||
rāvaṇenaivamuktā tu kupitā janakātmajā |
pratyuvācānavadyāṅgī tamanādṛtya rākṣasam || 32 ||
mahāgirimivākampyaṃ mahendrasadṛśaṃ patim |
mahodadhimivākṣobhyamahaṃ rāmamanuvratā || 33 ||
sarvalakṣaṇasampannaṃ nyagrodhaparimaṇḍalam |
satyasandhaṃ mahābhāgamahaṃ rāmamanuvratā || 34 ||
mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam |
nṛsiṃhaṃ siṃhasaṅkāśamahaṃ rāmamanuvratā || 35 ||
pūrṇacandrānanaṃ rāmaṃ rājavatsaṃ jitendriyam |
pṛthukīrtiṃ mahātmānamahaṃ rāmamanuvratā || 36 ||
tvaṃ punarjambukassiṃhīṃ māmicchasi sudurlabhām |
nāhaṃ śakyā tvayā spraṣṭumādityasya prabhā yathā || 37 ||
pādapānkāñcanānnūnaṃ bahūnpaśyasi mandabhāk |
rāghapasya priyāṃ bhāryāṃ yastvamicchasi rāvaṇa || 38 ||
kṣudhitasya hi siṃhasya mṛgaśatrostarasvinaḥ |
āśīviṣasya mukhāddaṃṣṭrāmādātumicchasi || 39 ||
mandaraṃ parvataśreṣṭhaṃ pāṇinā hartumicchasi |
kālakūṭaṃ viṣaṃ pītvā svastimāngantumicchasi || 40 ||
akṣi sūcyā pramṛjasi jihvayā lekṣi ca kṣuram |
rāghavasya priyāṃ bhāryāṃ yo'dhigantuṃ tvamicchasi || 41 ||
avasajya śilāṃ kaṇṭhe samudraṃ tartumicchasi |
sūryācandramasau cobhau pāṇibhyāṃ hartumicchasi || 42 ||
yo rāmasya priyāṃ bhāryāṃ pradharṣayitumicchasi |
agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartumicchasi || 43 ||
kālyāṇavṛttāṃ rāmasya yo bhāryāṃhartumicchasi |
ayomukhānāṃ śūlānāmagre caritumicchasi || 44 ||
rāmasya sadṛśīṃ bhāryāṃ yo'dhigantuṃ tvamicchasi |
yadantaraṃ siṃhaśṛgālayorvane yadantaraṃ syandinikā samudrayoḥ |
surāgrya sauvīrakayoryadantaraṃ tadantaraṃ vai tava rāghavasya ca || 45 ||
yadantaraṃ kāñcanasīsalohayoryadantaraṃ candanavāripaṅkayoḥ |
yadantaraṃ hastibiḍālayorvane tadantaraṃ dāśarathestavaiva ca || 46 ||
yadantaraṃ vāyasavainateyayoryadantaraṃ madgumayūrayorapi |
yadantaraṃ sārasagṛdhrayorvane tadantaraṃ dāśarathestavaiva ca || 47 ||
tasminsahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau |
hṛtāpi tehaṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam || 48 ||
itīva tadvākyamaduṣṭabhāvā suduṣṭamuktvā rajanīcaraṃ tam |
gātraprakampādvyathitā babhūva vātoddhatā sā kadalīva tanvī || 49 ||
tāṃ vepamānāmupalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ |
kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham || 50 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye araṇyakāṇḍe saptacatvāriṃśassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.