📚 Valmiki Ramayana · Ayodhya Kanda

2.103 अयोध्याकाण्ड - त्र्यधिकशततम सर्गः

Sarga 103

✍️ Author Maharishi Valmiki 🖋️ Devanagari script 🔢 32 verses
📄 Download PDF
View: Text in this script too →
🖋️ Script: कोंकणी ▾
Meaning —
श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ त्र्यधिकशततमस्सर्गः ।
Shloka 1
वसिष्ठः पुरतः कृत्वा दारान्दशरथस्य च ।
अभिचक्राम तं देशं रामदर्शनतर्षितः ॥ 1 ॥
vasiṣṭhaḥ purataḥ kṛtvā dārāndaśarathasya ca |
abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ || 1 ||
Shloka 2
राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ।
ददृशु स्तत्र तत् तीर्थं रामलक्ष्मणसेवितम् ॥ 2 ॥
rājapatnyaśca gacchantyo mandaṃ mandākinīṃ prati |
dadṛśu statra tat tīrthaṃ rāmalakṣmaṇasevitam || 2 ||
Shloka 3
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता ।
सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः ॥ 3 ॥
kausalyā bāṣpapūrṇena mukhena pariśuṣyatā |
sumitrāmabravīddīnā yāścānyā rājayoṣitaḥ || 3 ||
Shloka 4
इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् ।
वने प्राक्कलनं तीर्थं ये ते निर्विषयीकृताः ॥ 4 ॥
idaṃ teṣāmanāthānāṃ kliṣṭamakliṣṭakarmaṇām |
vane prākkalanaṃ tīrthaṃ ye te nirviṣayīkṛtāḥ || 4 ||
Shloka 5
इत स्सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः ।
स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ 5 ॥
ita ssumitre putraste sadā jalamatandritaḥ |
svayaṃ harati saumitrirmama putrasya kāraṇāt || 5 ||
Shloka 6
जघन्यमपि ते पुत्रः कृतवान् न तु गर्हितः ।
भ्रातुर्यदर्थरहितं सर्वं तद् गर्हितंं गुणैः ॥ 6 ॥
jaghanyamapi te putraḥ kṛtavān na tu garhitaḥ |
bhrāturyadartharahitaṃ sarvaṃ tad garhitaṃṃ guṇaiḥ || 6 ||
Shloka 7
अद्यायमपि ते पुत्रः क्लेशानामतथोचितः ।
नीचानर्थ समाचारं सज्जं कर्म प्रमुञ्चतु ॥ 7 ॥
adyāyamapi te putraḥ kleśānāmatathocitaḥ |
nīcānartha samācāraṃ sajjaṃ karma pramuñcatu || 7 ||
Shloka 8
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले ।
पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ 8 ॥
dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale |
pituriṅgudipiṇyākaṃ nyastamāyatalocanā || 8 ||
Shloka 9
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा ।
उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥ 9 ॥
taṃ bhūmau piturārtena nyastaṃ rāmeṇa vīkṣya sā |
uvāca devī kausalyā sarvā daśarathastriyaḥ || 9 ||
Shloka 10
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः ।
राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ 10 ॥
idamikṣvākunāthasya rāghavasya mahātmanaḥ |
rāghaveṇa piturdattaṃ paśyataitadyathāvidhi || 10 ||
Shloka 11
तस्य देवसमानस्य पार्थिवस्य महात्मनः ।
नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ 11 ॥
tasya devasamānasya pārthivasya mahātmanaḥ |
naitadaupayikaṃ manye bhuktabhogasya bhojanam || 11 ||
Shloka 12
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभुः ।
कथमिङ्गुदिपिण्याकं स भुक्ते वसुधाधिपः ॥ 12 ॥
caturantāṃ mahīṃ bhuktvā mahendrasadṛśo vibhuḥ |
kathamiṅgudipiṇyākaṃ sa bhukte vasudhādhipaḥ || 12 ||
Shloka 13
अतो दुःखतरं लोके न किञ्चित्प्रतिभाति मा ।
यत्र रामः पितुर्दद्यादिङ्गुदिक्षोदमृद्धिमान् ॥ 13 ॥
ato duḥkhataraṃ loke na kiñcitpratibhāti mā |
yatra rāmaḥ piturdadyādiṅgudikṣodamṛddhimān || 13 ||
Shloka 14
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे ।
कथं दुःखेन हृदयं न स्फोटति सहस्रधा ॥ 14 ॥
rāmeṇeṅgudipiṇyākaṃ piturdattaṃ samīkṣya me |
kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā || 14 ||
Shloka 15
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा ।
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ 15 ॥
śrutistu khalviyaṃ satyā laukikī pratibhāti mā |
yadannaḥ puruṣo bhavati tadannāstasya devatāḥ || 15 ||
Shloka 16
एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।
ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ 16 ॥
evamārtāṃ sapatnyastā jagmurāśvāsya tāṃ tadā |
dadṛśuścāśrame rāmaṃ svargacyutamivāmaram || 16 ||
Shloka 17
सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः ।
आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः ॥ 17 ॥
sarvabhogaiḥ parityaktaṃ rāmaṃ samprekṣya mātaraḥ |
ārtā mumucuraśrūṇi sasvaraṃ śokakarśitāḥ || 17 ||
Shloka 18
तासां रामस्समुत्थाय जग्राह चरणान् शुभान् ।
मात्रूणां मनुजव्याघ्रस्सर्वासां सत्यसङ्गरः ॥ 18 ॥
tāsāṃ rāmassamutthāya jagrāha caraṇān śubhān |
mātrūṇāṃ manujavyāghrassarvāsāṃ satyasaṅgaraḥ || 18 ||
Shloka 19
ताः पाणिभि स्सुखस्पर्शैर्मृद्वङ्गुलितलै श्शुभैः ।
प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः ॥ 19 ॥
tāḥ pāṇibhi ssukhasparśairmṛdvaṅgulitalai śśubhaiḥ |
pramamārjū rajaḥ pṛṣṭhādrāmasyāyatalocanāḥ || 19 ||
Shloka 20
सौमित्रिरपि ता स्सर्वा मातृस्सम्प्रेक्ष्य दुःखितः ।
अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥ 20 ॥
saumitrirapi tā ssarvā mātṛssamprekṣya duḥkhitaḥ |
abhyavādayatāsaktaṃ śanai rāmādanantaram || 20 ||
Shloka 21
यथा रामे तथा तस्मिन्सर्वा ववृतिरे स्त्रियः ।
वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ 21 ॥
yathā rāme tathā tasminsarvā vavṛtire striyaḥ |
vṛttiṃ daśarathājjāte lakṣmaṇe śubhalakṣaṇe || 21 ||
Shloka 22
सीताऽपि चरणांस्तासामुपसङ्गृह्य दुःखिता ।
श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥ 22 ॥
sītā'pi caraṇāṃstāsāmupasaṅgṛhya duḥkhitā |
śvaśrūṇāmaśrupūrṇākṣī sā babhūvāgrataḥ sthitā || 22 ||
Shloka 23
तां परिष्वज्य दुःखार्तां माता दुहितरं यथा ।
वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ 23 ॥
tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā |
vanavāsakṛśāṃ dīnāṃ kausalyā vākyamabravīt || 23 ||
Shloka 24
विदेहराजस्य सुता स्नुषा दशरथस्य च ।
रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने ॥ 24 ॥
videharājasya sutā snuṣā daśarathasya ca |
rāmapatnī kathaṃ duḥkhaṃ samprāptā nirjane vane || 24 ||
Shloka 25
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् ।
काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः ॥ 25 ॥
padmamātapasantaptaṃ parikliṣṭamivotpalam |
kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candramivāmbudaiḥ || 25 ||
Shloka 26
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाऽश्रयम् ।
भृशं मनसि वैदेहि व्यसनारणिसम्भवः ॥ 26 ॥
mukhaṃ te prekṣya māṃ śoko dahatyagnirivā'śrayam |
bhṛśaṃ manasi vaidehi vyasanāraṇisambhavaḥ || 26 ||
Shloka 27
ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः ।
पादावासाद्य जग्राह वसिष्ठस्य च राघवः ॥ 27 ॥
bruvantyāmevamārtāyāṃ jananyāṃ bharatāgrajaḥ |
pādāvāsādya jagrāha vasiṣṭhasya ca rāghavaḥ || 27 ||
Shloka 28
पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्रमिवामराधिपः ।
प्रगृह्य पादौ सुसमृद्धतेजसस्सहैव तेनोपविवेश राघवः ॥ 28 ॥
purohitasyāgnisamasya vai tadā bṛhaspaterindramivāmarādhipaḥ |
pragṛhya pādau susamṛddhatejasassahaiva tenopaviveśa rāghavaḥ || 28 ||
Shloka 29
ततो जघन्यं सहितै स्समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः ।
जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरत स्तदाऽग्रजम् ॥ 29 ॥
tato jaghanyaṃ sahitai ssamantribhiḥ purapradhānaiśca sahaiva sainikaiḥ |
janena dharmajñatamena dharmavānupopaviṣṭo bharata stadā'grajam || 29 ||
Shloka 30
उपोपविष्ट स्तु तदा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।
श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम् ॥ 30 ॥
upopaviṣṭa stu tadā sa vīryavāṃstapasviveṣeṇa samīkṣya rāghavam |
śriyā jvalantaṃ bharataḥ kṛtāñjaliryathā mahendraḥ prayataḥ prajāpatim || 30 ||
Shloka 31
किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।
इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ 31 ॥
kimeṣa vākyaṃ bharato'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati |
itīva tasyāryajanasya tattvato babhūva kautūhalamuttamaṃ tadā || 31 ||
Shloka 32
स राघव स्सत्यधृति श्च लक्ष्मणो महानुभावो भरत श्च धार्मिकः ।
वृताः सुहृद्भि श्च विरेजुरध्वरे यथा सदस्यै स्सहितास्त्रयोऽग्नयः ॥ 32 ॥
sa rāghava ssatyadhṛti śca lakṣmaṇo mahānubhāvo bharata śca dhārmikaḥ |
vṛtāḥ suhṛdbhi śca virejuradhvare yathā sadasyai ssahitāstrayo'gnayaḥ || 32 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे त्र्यधिकशततमस्सर्गः ॥
Sanskrit — Devanagari (original)
श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ त्र्यधिकशततमस्सर्गः ।
वसिष्ठः पुरतः कृत्वा दारान्दशरथस्य च ।
अभिचक्राम तं देशं रामदर्शनतर्षितः ॥ 1 ॥
राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ।
ददृशु स्तत्र तत् तीर्थं रामलक्ष्मणसेवितम् ॥ 2 ॥
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता ।
सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः ॥ 3 ॥
इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् ।
वने प्राक्कलनं तीर्थं ये ते निर्विषयीकृताः ॥ 4 ॥
इत स्सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः ।
स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ 5 ॥
जघन्यमपि ते पुत्रः कृतवान् न तु गर्हितः ।
भ्रातुर्यदर्थरहितं सर्वं तद् गर्हितंं गुणैः ॥ 6 ॥
अद्यायमपि ते पुत्रः क्लेशानामतथोचितः ।
नीचानर्थ समाचारं सज्जं कर्म प्रमुञ्चतु ॥ 7 ॥
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले ।
पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ 8 ॥
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा ।
उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥ 9 ॥
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः ।
राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ 10 ॥
तस्य देवसमानस्य पार्थिवस्य महात्मनः ।
नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ 11 ॥
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभुः ।
कथमिङ्गुदिपिण्याकं स भुक्ते वसुधाधिपः ॥ 12 ॥
अतो दुःखतरं लोके न किञ्चित्प्रतिभाति मा ।
यत्र रामः पितुर्दद्यादिङ्गुदिक्षोदमृद्धिमान् ॥ 13 ॥
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे ।
कथं दुःखेन हृदयं न स्फोटति सहस्रधा ॥ 14 ॥
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा ।
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ 15 ॥
एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।
ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ 16 ॥
सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः ।
आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः ॥ 17 ॥
तासां रामस्समुत्थाय जग्राह चरणान् शुभान् ।
मात्रूणां मनुजव्याघ्रस्सर्वासां सत्यसङ्गरः ॥ 18 ॥
ताः पाणिभि स्सुखस्पर्शैर्मृद्वङ्गुलितलै श्शुभैः ।
प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः ॥ 19 ॥
सौमित्रिरपि ता स्सर्वा मातृस्सम्प्रेक्ष्य दुःखितः ।
अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥ 20 ॥
यथा रामे तथा तस्मिन्सर्वा ववृतिरे स्त्रियः ।
वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ 21 ॥
सीताऽपि चरणांस्तासामुपसङ्गृह्य दुःखिता ।
श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥ 22 ॥
तां परिष्वज्य दुःखार्तां माता दुहितरं यथा ।
वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ 23 ॥
विदेहराजस्य सुता स्नुषा दशरथस्य च ।
रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने ॥ 24 ॥
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् ।
काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः ॥ 25 ॥
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाऽश्रयम् ।
भृशं मनसि वैदेहि व्यसनारणिसम्भवः ॥ 26 ॥
ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः ।
पादावासाद्य जग्राह वसिष्ठस्य च राघवः ॥ 27 ॥
पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्रमिवामराधिपः ।
प्रगृह्य पादौ सुसमृद्धतेजसस्सहैव तेनोपविवेश राघवः ॥ 28 ॥
ततो जघन्यं सहितै स्समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः ।
जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरत स्तदाऽग्रजम् ॥ 29 ॥
उपोपविष्ट स्तु तदा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।
श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम् ॥ 30 ॥
किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।
इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ 31 ॥
स राघव स्सत्यधृति श्च लक्ष्मणो महानुभावो भरत श्च धार्मिकः ।
वृताः सुहृद्भि श्च विरेजुरध्वरे यथा सदस्यै स्सहितास्त्रयोऽग्नयः ॥ 32 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे त्र्यधिकशततमस्सर्गः ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in