2.31 अयोध्याकाण्ड - एकत्रिंश सर्गः

2.31 Ayodhyakanda - Ekatrimsha Sargah

✍️ Valmiki 🖋️ Devanagari script
📄 Download PDF
श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ एकत्रिंशस्सर्गः ।
एवं शृत्वा तु संवादं लक्ष्मणः पूर्वमागतः ।
बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् ॥ 1 ॥
स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः ।
सीतामुवाचातियशां राघवं च महाव्रतम् ॥ 2 ॥

बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् ॥ 3 ॥
स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः ।
सीतामुवाचातियशां राघवं च महाव्रतम् ॥ 4 ॥
यदि गन्तुं कृताबुद्धिर्वनं मृगगजायुतम् ।
अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः ॥ 5 ॥
मया समेतोऽरण्यानि बहूनि विचरिष्यसि ।
पक्षिभिर्मृगयूथैश्च सङ्घुष्टानि समन्ततः ॥ 6 ॥
न देवलोकाक्रमणं नामरत्वमहं वृणे ।
ऐश्वर्यं वापि लोकानां कामये न त्वया विना ॥ 7 ॥
एवं ब्रुवाणस्सौमित्रिर्वनवासाय निश्चितः ।
रामेण बहुभिस्सान्त्वैर्निषिध्दः पुनरब्रवीत् ॥ 8 ॥
अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् ।
किमिदानीं पुनरिदं क्रियते मन्निवारणम् ॥ 9 ॥
यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः ।
एतदिच्छामि विज्ञातुं संशयो हि ममानघ ॥ 10 ॥
ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः ।
स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥ 11 ॥
स्निग्धो धर्मरतो वीरस्सततं सत्पथे स्थितः ।
प्रियः प्राणसमो वश्यो भ्राता चापि सखा च मे ॥ 12 ॥
मयाऽद्य सह सौमित्रे त्वयि गच्छति तद्वनम् ।
को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ 13 ॥
अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव ।
स कामपाशपर्यस्तो महातेजा महीपतिः ॥ 14 ॥
सा हि राज्यमिदं प्राप्य नृपस्याश्वपते स्सुता ।
दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ 15 ॥
न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम् ।
भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः ॥ 16 ॥
तामार्यां स्वयमेवेह राजानुग्रहणेन वा ।
सौमित्रे भर कौशल्यामुक्तमर्थमिमं चर ॥ 17 ॥
एवं मम च ते भक्तिर्भविष्यति सुदर्शिता ।
धर्मज्ञ गुरुपूजायां धर्मश्चाप्यतुलो महान् ॥ 18 ॥
एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन ।
अस्माभिर्विप्रहीणाया मातुर्नो न भवेत्सुखम् ॥ 19 ॥
एवमुक्तस्तु रामेण लक्ष्मण श्श्लक्ष्णया गिरा ।
प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ॥ 20 ॥
तवैव तेजसा वीर भरतः पूजयिष्यति ।
कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः ॥ 21 ॥
कौशल्या बिभृयादार्या सहस्रमपि मद्विधान् ।
यस्यास्सहस्रं ग्रामाणां सम्प्राप्त मुपजीवनम् ॥ 22 ॥
तदात्मभरणे चैव मम मातुस्तथैव च ।
पर्याप्ता मद्विधानां च भरणाय यशस्विनी ॥ 23 ॥
कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते ।
कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्पते ॥ 24 ॥
धनुरादाय सशरं खनित्रपिटकाधरः ।
अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन् ॥ 25 ॥
आहरिष्यामि ते नित्यं मूलानि च फलानि च ।
वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् ॥ 26 ॥
भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते ।
अहं सर्वं करिष्यामि जाग्रत स्स्वपतश्च ते ॥ 27 ॥
रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ।
व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ॥ 28 ॥
ये च राज्ञो ददौ दिव्ये महात्मा वरुण स्स्वयम् ।
जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥ 29 ॥
अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ ।
आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ॥ 30 ॥
सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि ।
सर्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण ॥ 31 ॥
स सुहृज्जनमामन्त्र्यवनवासाय निश्चितः ।
इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम् ॥ 32 ॥
तद्धिव्यं राजशार्दूल सत्कृतं माल्यभूषितम् ।
रामाय दर्शयामास सौमित्रिस्सर्वमायुधम् ॥ 33 ॥
तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम् ।
काले त्वमागत सौम्य काङ्क्षिते मम लक्ष्मण ॥ 34 ॥
अहं प्रदातुमिच्छामि यदिदं मामकं धनम् ।
ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परन्तप ॥ 35 ॥
वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः ।
तेषामपि च मे भूयस्सर्वेषाञ्चोपजीविनाम् ॥ 36 ॥
वशिष्ठपुत्रं तु सुयज्ञमार्यं त्वमानयाशु प्रवरं द्विजानाम् ।
अभिप्रयास्यामि वनं समस्ता नभ्यर्च्य शिष्टानपरान् द्विजातीन् ॥ 37 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे एकत्रिंशस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe ayodhyākāṇḍam |
atha ekatriṃśassargaḥ |
evaṃ śṛtvā tu saṃvādaṃ lakṣmaṇaḥ pūrvamāgataḥ |
bāṣpaparyākulamukhaḥ śokaṃ soḍhumaśaknuvan || 1 ||
sa bhrātuścaraṇau gāḍhaṃ nipīḍya raghunandanaḥ |
sītāmuvācātiyaśāṃ rāghavaṃ ca mahāvratam || 2 ||

bāṣpaparyākulamukhaḥ śokaṃ soḍhumaśaknuvan || 3 ||

sītāmuvācātiyaśāṃ rāghavaṃ ca mahāvratam || 4 ||
yadi gantuṃ kṛtābuddhirvanaṃ mṛgagajāyutam |
ahaṃ tvānugamiṣyāmi vanamagre dhanurdharaḥ || 5 ||
mayā sameto'raṇyāni bahūni vicariṣyasi |
pakṣibhirmṛgayūthaiśca saṅghuṣṭāni samantataḥ || 6 ||
na devalokākramaṇaṃ nāmaratvamahaṃ vṛṇe |
aiśvaryaṃ vāpi lokānāṃ kāmaye na tvayā vinā || 7 ||
evaṃ bruvāṇassaumitrirvanavāsāya niścitaḥ |
rāmeṇa bahubhissāntvairniṣidhdaḥ punarabravīt || 8 ||
anujñātaśca bhavatā pūrvameva yadasmyaham |
kimidānīṃ punaridaṃ kriyate mannivāraṇam || 9 ||
yadarthaṃ pratiṣedho me kriyate gantumicchataḥ |
etadicchāmi vijñātuṃ saṃśayo hi mamānagha || 10 ||
tato'bravīnmahātejā rāmo lakṣmaṇamagrataḥ |
sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim || 11 ||
snigdho dharmarato vīrassatataṃ satpathe sthitaḥ |
priyaḥ prāṇasamo vaśyo bhrātā cāpi sakhā ca me || 12 ||
mayā'dya saha saumitre tvayi gacchati tadvanam |
ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm || 13 ||
abhivarṣati kāmairyaḥ parjanyaḥ pṛthivīmiva |
sa kāmapāśaparyasto mahātejā mahīpatiḥ || 14 ||
sā hi rājyamidaṃ prāpya nṛpasyāśvapate ssutā |
duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam || 15 ||
na smariṣyati kausalyāṃ sumitrāṃ ca suduḥkhitām |
bharato rājyamāsādya kaikeyyāṃ paryavasthitaḥ || 16 ||
tāmāryāṃ svayameveha rājānugrahaṇena vā |
saumitre bhara kauśalyāmuktamarthamimaṃ cara || 17 ||
evaṃ mama ca te bhaktirbhaviṣyati sudarśitā |
dharmajña gurupūjāyāṃ dharmaścāpyatulo mahān || 18 ||
evaṃ kuruṣva saumitre matkṛte raghunandana |
asmābhirviprahīṇāyā māturno na bhavetsukham || 19 ||
evamuktastu rāmeṇa lakṣmaṇa śślakṣṇayā girā |
pratyuvāca tadā rāmaṃ vākyajño vākyakovidam || 20 ||
tavaiva tejasā vīra bharataḥ pūjayiṣyati |
kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ || 21 ||
kauśalyā bibhṛyādāryā sahasramapi madvidhān |
yasyāssahasraṃ grāmāṇāṃ samprāpta mupajīvanam || 22 ||
tadātmabharaṇe caiva mama mātustathaiva ca |
paryāptā madvidhānāṃ ca bharaṇāya yaśasvinī || 23 ||
kuruṣva māmanucaraṃ vaidharmyaṃ neha vidyate |
kṛtārtho'haṃ bhaviṣyāmi tava cārthaḥ prakalpate || 24 ||
dhanurādāya saśaraṃ khanitrapiṭakādharaḥ |
agrataste gamiṣyāmi panthānamanudarśayan || 25 ||
āhariṣyāmi te nityaṃ mūlāni ca phalāni ca |
vanyāni yāni cānyāni svāhārāṇi tapasvinām || 26 ||
bhavāṃstu saha vaidehyā girisānuṣu raṃsyate |
ahaṃ sarvaṃ kariṣyāmi jāgrata ssvapataśca te || 27 ||
rāmastvanena vākyena suprītaḥ pratyuvāca tam |
vrajāpṛcchasva saumitre sarvameva suhṛjjanam || 28 ||
ye ca rājño dadau divye mahātmā varuṇa ssvayam |
janakasya mahāyajñe dhanuṣī raudradarśane || 29 ||
abhedyakavace divye tūṇī cākṣayasāyakau |
ādityavimalau cobhau khaḍgau hemapariṣkṛtau || 30 ||
satkṛtya nihitaṃ sarvametadācāryasadmani |
sarvamāyudhamādāya kṣipramāvraja lakṣmaṇa || 31 ||
sa suhṛjjanamāmantryavanavāsāya niścitaḥ |
ikṣvākugurumāgamya jagrāhāyudhamuttamam || 32 ||
taddhivyaṃ rājaśārdūla satkṛtaṃ mālyabhūṣitam |
rāmāya darśayāmāsa saumitrissarvamāyudham || 33 ||
tamuvācātmavān rāmaḥ prītyā lakṣmaṇamāgatam |
kāle tvamāgata saumya kāṅkṣite mama lakṣmaṇa || 34 ||
ahaṃ pradātumicchāmi yadidaṃ māmakaṃ dhanam |
brāhmaṇebhyastapasvibhyastvayā saha parantapa || 35 ||
vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ |
teṣāmapi ca me bhūyassarveṣāñcopajīvinām || 36 ||
vaśiṣṭhaputraṃ tu suyajñamāryaṃ tvamānayāśu pravaraṃ dvijānām |
abhiprayāsyāmi vanaṃ samastā nabhyarcya śiṣṭānaparān dvijātīn || 37 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye ayodhyākāṇḍe ekatriṃśassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in