2.91 अयोध्याकाण्ड - एकनवतितम सर्गः

2.91 Ayodhyakanda - Ekanavatitama Sargah

✍️ Valmiki 🖋️ Devanagari script
📄 Download PDF
श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ एकनवतितमस्सर्गः ।
कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।
भरतं कैकयीपुत्रमातिथ्येनन्यमन्त्रयत् ॥ 1 ॥
अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ।
पाद्यमर्घ्यं तथाऽतिथ्यं वने यदुपपद्यते ॥ 2 ॥
अथोवाच भरद्वाजो भरतं प्रहसन्निव ।
जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ 3 ॥
सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् ।
मम प्रीतिर्यथारूपा तथार्हो मनुजर्षभ ॥ 4 ॥
किमर्थं चापि निक्षिप्य दूरे बलमिहागतः ।
कस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभः ॥ 5 ॥
भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ।
ससैन्यो नोपयातोऽस्मि भगवन्भगवद्भयात् ॥ 6 ॥
राज्ञा च भगवन्नित्यं राजपुत्रेण वा सदा ।
यत्नतः परिहर्तव्या विषयेषु तपस्विनः ॥ 7 ॥
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः ।
प्रच्छाद्य भगवन्भूमिं महतीमनुयान्ति माम् ॥ 8 ॥
ते वृक्षानुदकं भूमिमाश्रमेषूटजां स्तथा ।
न हिंस्युरिति तेनाऽहमेक एव समागतः ॥ 9 ॥
आनीयतामितस्सेनेत्याज्ञप्तः परमर्षिणा ।
ततस्तु चक्रे भरतस्सेनायास्समुपागमम् ॥ 10 ॥
अग्निशालां प्रविश्याथ पीत्वाऽपः परिमृज्य च ।
आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ 11 ॥
आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ 12 ॥
आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ 13 ॥
प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च ।
पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ॥ 14 ॥
अन्या स्रवन्तु मैरेयं सुरामन्यास्सुविष्ठिताम् ।
अपरा श्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ 15 ॥
आह्वये देवगन्धर्वान्विश्वावसुहहाहुहून् ।
तथैवाप्सरसो देवीर्गन्धर्वीश्चापि सर्वशः ॥ 16 ॥
घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।
नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ 17 ॥
शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः ।
सर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः ॥ 18 ॥
वनं कुरुषु यद्दिव्यं वासोभूषणपत्रवत् ।
दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ 19 ॥
इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् ।
भक्ष्यम्भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ 20 ॥
विचित्राणि च माल्यानि पादपप्रच्युतानि च ।
सुरादीनि च पेयानि मांसानि विविधानि च ॥ 21 ॥
एवं समाधिना युक्तस्तेजसाऽप्रतिमेन च ।
शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ 22 ॥
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः ।
आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ 23 ॥
मलयं दर्दुरं चैव ततस्स्वेदनुदोऽनिलः ।
उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखश्शिवः ॥ 24 ॥
ततोऽभ्यवर्षन्त घना दिव्याः कुसुमवृष्टयः ।
दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ 25 ॥
प्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः ।
जगुश्च देवगन्धर्वा वीणाः प्रमुमुचुस्स्वरान् ॥ 26 ॥
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।
विवेशोच्चरितश्श्लक्ष्णस्समो लयसमन्वितः ॥ 27 ॥
तस्मिन्नुपरते शब्दे दिव्ये श्रोत्र सुखे नृणाम् ।
ददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ 28 ॥
बभूव हि समा भूमिस्समन्तात्पञ्चयोजना ।
शाद्वलैर्भहुभिश्चन्ना नीलवैढूर्यसन्निभैः ॥ 29 ॥
तस्मिन्बिल्वाः कपित्थाश्च पनसा बीजपूरकाः ।
आमलक्यो बभूवुश्च चूताश्च फलभूषणाः ॥ 30 ॥
उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् ।
आजगाम नदी दिव्या तीरजैर्भहुभिर्वृता ॥ 31 ॥
चतुश्शालानि शुभ्राणि शालाश्च गजवाजिनाम् ।
हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ 32 ॥
सितमेघनिभं चापि राजवेश्म सुतोरणम् ।
दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ 33 ॥
चतुरश्रमसम्बाधं शयनासनयानवत् ।
दिव्यैस्सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ॥ 34 ॥
उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ।
क्लुप्तसर्वासनं श्रीमत्स्वास्तीर्णशयनोत्तमम् ॥ 35 ॥
प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ।
वेश्म तद्रत्नसम्पूर्णं भरतः कैकयीसुतः ॥ 36 ॥
अनुजग्मुश्च तं सर्वे मन्त्रिणस्सपुरोहिताः ।
बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ 37 ॥
तत्र राजासनं दिव्यं व्यजनं छत्रमेव च ।
भरतो मन्त्रिभिस्सार्धमभ्यवर्तत राजवत् ॥ 38 ॥
आसनं पूजयामास रामायाभिप्रणम्य च ।
वालव्यजनमादाय न्यषीदत्सचिवासने ॥ 39 ॥
आनुपूर्व्यान्निषेदुश्च सर्वे मन्त्रिपुरोहिताः ।
ततस्सेनापतिः पश्चात्प्रशास्ताच निषेदतुः ॥ 40 ॥
तत स्तत्र मुहूर्तेन नद्यः पायसकर्दमाः ।
उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ 41 ॥
तासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः ।
रम्याश्चावसधा दिव्या ब्रह्मणस्तु प्रसादजाः ॥ 42 ॥
तेनैव च मूहूर्तेन दिव्याऽभरणभूषिताः ।
आगुर्विंशतिसाहस्राः ब्रह्मणा प्रहिताः स्त्रियः ॥ 43 ॥
सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः ।
आगुर्विंशतिसाहास्राः कुबेरप्रहिताः स्त्रियः ॥ 44 ॥
याभिर्गृहीतः पुरुषस्सोन्माद इव लक्ष्यते ।
आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥ 45 ॥
नारदस्तुम्भुरुर्गोपः प्रवरास्सूर्यवर्चसः ।
एते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥ 46 ॥
अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ वामना ।
उपानृत्यंस्तु भरतं भरद्वाजस्य शासनात् ॥ 47 ॥
यानि माल्यानि देवेषु यानि चैत्ररथे वने ।
प्रयागे तान्यदृश्यन्त भरद्वाजस्य शासनात् ॥ 48 ॥
बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः ।
अश्वत्था नर्तकाश्चासन्भरद्वाजस्य शासनात् ॥ 49 ॥
ततस्सरलतालाश्च तिलका नक्तमालकाः ।
प्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाऽथ वामनाः ॥ 50 ॥
शिंशुपामलकीजम्ब्वो याश्चान्याः काननेषु ताः मालती मल्लिका जातिर्याश्चान्याः कानने लताः ।
प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमेऽवदन् ॥ 51 ॥
सुरास्सुरापाः पिबत पायसं च बुभुक्षिताः ॥ 52 ॥
मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ 53 ॥
उच्छाद्य स्नापयन्ति स्म नदीतीरेष वल्गुषु ।
अप्येकमेकं पुरषं प्रमदास्सप्त चाष्ट च ॥ 54 ॥
संवाहन्त्यस्समापेतुर्नार्यो रुचिरलोचनाः ।
परिमृज्य तथाऽन्योन्यं पाययन्ति वराङ्गनाः ॥ 55 ॥
हयान् गजान् खारानुष्ट्रान्तथैव सुरभेस्सुतान् ।
अभोजयन्वाहनपास्तेषां भोज्यं यथाविधि ॥ 56 ॥
इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् ।
इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ 57 ॥
नाश्वबन्धोऽश्वमाजानान्नगजं कुञ्जरग्रहः ।
मत्तप्रमत्तमुदिता चमूः सा तत्र सम्बभौ ॥ 58 ॥
तर्पितास्सर्वकामैस्ते रक्तचन्दनरूषिताः ।
अप्सरोगणसंयुक्तास्सैन्या वाचमुदैरयन् ॥ 59 ॥
नैवायोध्यां गमिष्यामो नगमिष्याम दण्डकान् ।
कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ 60 ॥
इति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः ।
अनाथास्तं विधिं लब्ध्वा वाचमेतामुदीरयन् ॥ 61 ॥
सम्म्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः ।
भरतस्यानुयातारस्स्वर्गोऽयमिति चाब्रुवन् ॥ 62 ॥
नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः समन्तात्परिधावन्ति माल्योपेतास्सहस्रशः ॥ 63 ॥
ततो भुक्तवतां तेषां तदन्नममृतोपमम् ।
दिव्यानुद्वीक्ष्य भक्ष्यां स्तानभवद्भक्षणे मतिः ॥ 64 ॥
प्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्च सहस्रशः ।
बभूवुस्ते भृशं दृप्तास्सर्वे चाहतवाससः ॥ 65 ॥
कुञ्जराश्च खरोष्ट्राश्च गोऽश्वाश्च मृगपक्षिणः ।
बभूवुस्सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ 66 ॥
नाऽशुक्लवासा स्तत्राऽसीत्क्षुधितो मलिनोऽपि वा ।
रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ 67 ॥
आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः ।
फलनिर्यूह संसिद्दैस्सूपैर्गन्ध रसान्वितैः ॥ 68 ॥
पुष्पध्वजवतीः पूर्णाश्शुक्लस्यान्नस्य चाभितः ।
ददृशुर्विस्मितास्तत्रनरा लौहीस्सहस्रशः ॥ 69 ॥
बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः ।
ताश्चकामदुघा गावो द्रुमाश्चासन्मधुश्च्युतः ॥ 70 ॥
वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः ।
प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः ॥ 71 ॥
पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ।
न्यर्बुधानि च पात्राणि शातकुम्भमयानि च ॥ 72 ॥
स्थाल्यः कुम्भ्य करम्भ्य श्च दधिपूर्णास्सुसंस्कृताः ।
यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ 73 ॥
ह्रदाः पूर्णा रसालस्य दध्नश्श्वेतस्य चापरे ।
बभूवुः पायसस्यान्ये शर्करायावसञ्चयाः ॥ 74 ॥
कल्कान्चूर्णकषायांश्च स्नानानि विविधानि च ।
ददृशुर्भाजनस्थानि तीर्थेषु सरतां नराः ॥ 75 ॥
शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ।
शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥ 76 ॥
दर्पणापरिमृष्टांश्च वाससां चापि सञ्चयान् ।
पादुकोपानहां चैव युग्मानिच सहस्रशः ॥ 77 ॥
आञ्जनीः कङ्कतान्कूर्चान् शस्त्राणि च धनूंषि च ।
मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ 78 ॥
प्रतिपानह्रदान्पूर्णन्खरोष्ट्रगजवाजिनाम् ।
अवगाह्यसुतीर्थांश्चह्रदान् सोत्पलपुष्करान् ॥ 79 ॥
आकाश वर्णप्रतिमान् स्वच्छतोयान्सुखप्लवान् ।
नीपवैडूर्यवर्णांश्च मृदून्यवससञ्चयान् ।
निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः ॥ 80 ॥
व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।
दृष्ट्वाऽतिथ्यं कृतं तादृग्भरतस्य महर्षिणा ॥ 81 ॥
इत्येवं रममाणानां देवानामिव नन्दने ।
भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत ॥ 82 ॥
प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।
भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥ 83 ॥
तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागरुचन्दनोक्षिताः ।
तथैव दिव्या विविधास्स्रगुत्तमाः पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः ॥ 84 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे एकनवतितमस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe ayodhyākāṇḍam |
atha ekanavatitamassargaḥ |
kṛtabuddhiṃ nivāsāya tatraiva sa munistadā |
bharataṃ kaikayīputramātithyenanyamantrayat || 1 ||
abravīdbharatastvenaṃ nanvidaṃ bhavatā kṛtam |
pādyamarghyaṃ tathā'tithyaṃ vane yadupapadyate || 2 ||
athovāca bharadvājo bharataṃ prahasanniva |
jāne tvāṃ prītisaṃyuktaṃ tuṣyestvaṃ yena kenacit || 3 ||
senāyāstu tavaitasyāḥ kartumicchāmi bhojanam |
mama prītiryathārūpā tathārho manujarṣabha || 4 ||
kimarthaṃ cāpi nikṣipya dūre balamihāgataḥ |
kasmānnehopayāto'si sabalaḥ puruṣarṣabhaḥ || 5 ||
bharataḥ pratyuvācedaṃ prāñjalistaṃ tapodhanam |
sasainyo nopayāto'smi bhagavanbhagavadbhayāt || 6 ||
rājñā ca bhagavannityaṃ rājaputreṇa vā sadā |
yatnataḥ parihartavyā viṣayeṣu tapasvinaḥ || 7 ||
vājimukhyā manuṣyāśca mattāśca varavāraṇāḥ |
pracchādya bhagavanbhūmiṃ mahatīmanuyānti mām || 8 ||
te vṛkṣānudakaṃ bhūmimāśrameṣūṭajāṃ stathā |
na hiṃsyuriti tenā'hameka eva samāgataḥ || 9 ||
ānīyatāmitassenetyājñaptaḥ paramarṣiṇā |
tatastu cakre bharatassenāyāssamupāgamam || 10 ||
agniśālāṃ praviśyātha pītvā'paḥ parimṛjya ca |
ātithyasya kriyāhetorviśvakarmāṇamāhvayat || 11 ||
āhvaye viśvakarmāṇamahaṃ tvaṣṭārameva ca |
ātithyaṃ kartumicchāmi tatra me saṃvidhīyatām || 12 ||
āhvaye lokapālāṃstrīn devān śakramukhāṃstathā |
ātithyaṃ kartumicchāmi tatra me saṃvidhīyatām || 13 ||
prāksrotasaśca yā nadyaḥ pratyaksrotasa eva ca |
pṛthivyāmantarikṣe ca samāyāntvadya sarvaśaḥ || 14 ||
anyā sravantu maireyaṃ surāmanyāssuviṣṭhitām |
aparā ścodakaṃ śītamikṣukāṇḍarasopamam || 15 ||
āhvaye devagandharvānviśvāvasuhahāhuhūn |
tathaivāpsaraso devīrgandharvīścāpi sarvaśaḥ || 16 ||
ghṛtācīmatha viśvācīṃ miśrakeśīmalambusām |
nāgadantāṃ ca hemāṃ ca himāmadrikṛtasthalām || 17 ||
śakraṃ yāścopatiṣṭhanti brahmāṇaṃ yāśca yoṣitaḥ |
sarvāstumburuṇā sārdhamāhvaye saparicchadāḥ || 18 ||
vanaṃ kuruṣu yaddivyaṃ vāsobhūṣaṇapatravat |
divyanārīphalaṃ śaśvattatkauberamihaitu ca || 19 ||
iha me bhagavān somo vidhattāmannamuttamam |
bhakṣyambhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu || 20 ||
vicitrāṇi ca mālyāni pādapapracyutāni ca |
surādīni ca peyāni māṃsāni vividhāni ca || 21 ||
evaṃ samādhinā yuktastejasā'pratimena ca |
śīkṣāsvarasamāyuktaṃ tapasā cābravīnmuniḥ || 22 ||
manasā dhyāyatastasya prāṅmukhasya kṛtāñjaleḥ |
ājagmustāni sarvāṇi daivatāni pṛthakpṛthak || 23 ||
malayaṃ darduraṃ caiva tatassvedanudo'nilaḥ |
upaspṛśya vavau yuktyā supriyātmā sukhaśśivaḥ || 24 ||
tato'bhyavarṣanta ghanā divyāḥ kusumavṛṣṭayaḥ |
divyadundubhighoṣaśca dikṣu sarvāsu śuśruve || 25 ||
pravavuścottamā vātā nanṛtuścāpsarogaṇāḥ |
jaguśca devagandharvā vīṇāḥ pramumucussvarān || 26 ||
sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca |
viveśoccaritaśślakṣṇassamo layasamanvitaḥ || 27 ||
tasminnuparate śabde divye śrotra sukhe nṛṇām |
dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ || 28 ||
babhūva hi samā bhūmissamantātpañcayojanā |
śādvalairbhahubhiścannā nīlavaiḍhūryasannibhaiḥ || 29 ||
tasminbilvāḥ kapitthāśca panasā bījapūrakāḥ |
āmalakyo babhūvuśca cūtāśca phalabhūṣaṇāḥ || 30 ||
uttarebhyaḥ kurubhyaśca vanaṃ divyopabhogavat |
ājagāma nadī divyā tīrajairbhahubhirvṛtā || 31 ||
catuśśālāni śubhrāṇi śālāśca gajavājinām |
harmyaprāsādasambādhāstoraṇāni śubhāni ca || 32 ||
sitameghanibhaṃ cāpi rājaveśma sutoraṇam |
divyamālyakṛtākāraṃ divyagandhasamukṣitam || 33 ||
caturaśramasambādhaṃ śayanāsanayānavat |
divyaissarvarasairyuktaṃ divyabhojanavastravat || 34 ||
upakalpitasarvānnaṃ dhautanirmalabhājanam |
kluptasarvāsanaṃ śrīmatsvāstīrṇaśayanottamam || 35 ||
praviveśa mahābāhuranujñāto maharṣiṇā |
veśma tadratnasampūrṇaṃ bharataḥ kaikayīsutaḥ || 36 ||
anujagmuśca taṃ sarve mantriṇassapurohitāḥ |
babhūvuśca mudā yuktā dṛṣṭvā taṃ veśmasaṃvidhim || 37 ||
tatra rājāsanaṃ divyaṃ vyajanaṃ chatrameva ca |
bharato mantribhissārdhamabhyavartata rājavat || 38 ||
āsanaṃ pūjayāmāsa rāmāyābhipraṇamya ca |
vālavyajanamādāya nyaṣīdatsacivāsane || 39 ||
ānupūrvyānniṣeduśca sarve mantripurohitāḥ |
tatassenāpatiḥ paścātpraśāstāca niṣedatuḥ || 40 ||
tata statra muhūrtena nadyaḥ pāyasakardamāḥ |
upātiṣṭhanta bharataṃ bharadvājasya śāsanāt || 41 ||
tāsāmubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ |
ramyāścāvasadhā divyā brahmaṇastu prasādajāḥ || 42 ||
tenaiva ca mūhūrtena divyā'bharaṇabhūṣitāḥ |
āgurviṃśatisāhasrāḥ brahmaṇā prahitāḥ striyaḥ || 43 ||
suvarṇamaṇimuktena pravālena ca śobhitāḥ |
āgurviṃśatisāhāsrāḥ kuberaprahitāḥ striyaḥ || 44 ||
yābhirgṛhītaḥ puruṣassonmāda iva lakṣyate |
āgurviṃśatisāhasrā nandanādapsarogaṇāḥ || 45 ||
nāradastumbhururgopaḥ pravarāssūryavarcasaḥ |
ete gandharvarājāno bharatasyāgrato jaguḥ || 46 ||
alambusā miśrakeśī puṇḍarīkā'tha vāmanā |
upānṛtyaṃstu bharataṃ bharadvājasya śāsanāt || 47 ||
yāni mālyāni deveṣu yāni caitrarathe vane |
prayāge tānyadṛśyanta bharadvājasya śāsanāt || 48 ||
bilvā mārdaṅgikā āsan śamyāgrāhā vibhītakāḥ |
aśvatthā nartakāścāsanbharadvājasya śāsanāt || 49 ||
tatassaralatālāśca tilakā naktamālakāḥ |
prahṛṣṭāstatra sampetuḥ kubjā bhūtvā'tha vāmanāḥ || 50 ||
śiṃśupāmalakījambvo yāścānyāḥ kānaneṣu tāḥ mālatī mallikā jātiryāścānyāḥ kānane latāḥ |
pramadāvigrahaṃ kṛtvā bharadvājāśrame'vadan || 51 ||
surāssurāpāḥ pibata pāyasaṃ ca bubhukṣitāḥ || 52 ||
māṃsāni ca sumedhyāni bhakṣyantāṃ yāvadicchatha || 53 ||
ucchādya snāpayanti sma nadītīreṣa valguṣu |
apyekamekaṃ puraṣaṃ pramadāssapta cāṣṭa ca || 54 ||
saṃvāhantyassamāpeturnāryo ruciralocanāḥ |
parimṛjya tathā'nyonyaṃ pāyayanti varāṅganāḥ || 55 ||
hayān gajān khārānuṣṭrāntathaiva surabhessutān |
abhojayanvāhanapāsteṣāṃ bhojyaṃ yathāvidhi || 56 ||
ikṣūṃśca madhulājāṃśca bhojayanti sma vāhanān |
ikṣvākuvarayodhānāṃ codayanto mahābalāḥ || 57 ||
nāśvabandho'śvamājānānnagajaṃ kuñjaragrahaḥ |
mattapramattamuditā camūḥ sā tatra sambabhau || 58 ||
tarpitāssarvakāmaiste raktacandanarūṣitāḥ |
apsarogaṇasaṃyuktāssainyā vācamudairayan || 59 ||
naivāyodhyāṃ gamiṣyāmo nagamiṣyāma daṇḍakān |
kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham || 60 ||
iti pādātayodhāśca hastyaśvārohabandhakāḥ |
anāthāstaṃ vidhiṃ labdhvā vācametāmudīrayan || 61 ||
sammprahṛṣṭā vineduste narāstatra sahasraśaḥ |
bharatasyānuyātārassvargo'yamiti cābruvan || 62 ||
nṛtyanti sma hasanti sma gāyanti sma ca sainikāḥ samantātparidhāvanti mālyopetāssahasraśaḥ || 63 ||
tato bhuktavatāṃ teṣāṃ tadannamamṛtopamam |
divyānudvīkṣya bhakṣyāṃ stānabhavadbhakṣaṇe matiḥ || 64 ||
preṣyāśceṭyaśca vadhvaśca balasthāśca sahasraśaḥ |
babhūvuste bhṛśaṃ dṛptāssarve cāhatavāsasaḥ || 65 ||
kuñjarāśca kharoṣṭrāśca go'śvāśca mṛgapakṣiṇaḥ |
babhūvussubhṛtāstatra nānyo hyanyamakalpayat || 66 ||
nā'śuklavāsā statrā'sītkṣudhito malino'pi vā |
rajasā dhvastakeśo vā naraḥ kaścidadṛśyata || 67 ||
ājaiścāpi ca vārāhairniṣṭhānavarasañcayaiḥ |
phalaniryūha saṃsiddaissūpairgandha rasānvitaiḥ || 68 ||
puṣpadhvajavatīḥ pūrṇāśśuklasyānnasya cābhitaḥ |
dadṛśurvismitāstatranarā lauhīssahasraśaḥ || 69 ||
babhūvurvanapārśveṣu kūpāḥ pāyasakardamāḥ |
tāścakāmadughā gāvo drumāścāsanmadhuścyutaḥ || 70 ||
vāpyo maireyapūrṇāśca mṛṣṭamāṃsacayairvṛtāḥ |
prataptapiṭharaiścāpi mārgamāyūrakaukkuṭaiḥ || 71 ||
pātrīṇāṃ ca sahasrāṇi sthālīnāṃ niyutāni ca |
nyarbudhāni ca pātrāṇi śātakumbhamayāni ca || 72 ||
sthālyaḥ kumbhya karambhya śca dadhipūrṇāssusaṃskṛtāḥ |
yauvanasthasya gaurasya kapitthasya sugandhinaḥ || 73 ||
hradāḥ pūrṇā rasālasya dadhnaśśvetasya cāpare |
babhūvuḥ pāyasasyānye śarkarāyāvasañcayāḥ || 74 ||
kalkāncūrṇakaṣāyāṃśca snānāni vividhāni ca |
dadṛśurbhājanasthāni tīrtheṣu saratāṃ narāḥ || 75 ||
śuklānaṃśumataścāpi dantadhāvanasañcayān |
śuklāṃścandanakalkāṃśca samudgeṣvavatiṣṭhataḥ || 76 ||
darpaṇāparimṛṣṭāṃśca vāsasāṃ cāpi sañcayān |
pādukopānahāṃ caiva yugmānica sahasraśaḥ || 77 ||
āñjanīḥ kaṅkatānkūrcān śastrāṇi ca dhanūṃṣi ca |
marmatrāṇāni citrāṇi śayanānyāsanāni ca || 78 ||
pratipānahradānpūrṇankharoṣṭragajavājinām |
avagāhyasutīrthāṃścahradān sotpalapuṣkarān || 79 ||
ākāśa varṇapratimān svacchatoyānsukhaplavān |
nīpavaiḍūryavarṇāṃśca mṛdūnyavasasañcayān |
nirvāpārthān paśūnāṃ te dadṛśustatra sarvaśaḥ || 80 ||
vyasmayanta manuṣyāste svapnakalpaṃ tadadbhutam |
dṛṣṭvā'tithyaṃ kṛtaṃ tādṛgbharatasya maharṣiṇā || 81 ||
ityevaṃ ramamāṇānāṃ devānāmiva nandane |
bharadvājāśrame ramye sā rātrirvyatyavartata || 82 ||
pratijagmuśca tā nadyo gandharvāśca yathāgatam |
bharadvājamanujñāpya tāśca sarvā varāṅganāḥ || 83 ||
tathaiva mattā madirotkaṭā narāstathaiva divyāgarucandanokṣitāḥ |
tathaiva divyā vividhāssraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ || 84 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye ayodhyākāṇḍe ekanavatitamassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in