श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ पञ्चाधिकशततमस्सर्गः ।
ततः पुरुषसिंहानां वृतानां तै स्सुहृद्गणैः ।
शोचतामेव रजनी दुःखेन व्यत्यवर्तत ॥ 1 ॥
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः ।
मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ 2 ॥
तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् ।
भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ 3 ॥
सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।
तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ 4 ॥
महतेवाम्बुवेगेन भिन्नस्सेतुर्जलागमे ।
दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ 5 ॥
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः ।
अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥ 6 ॥
सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते ।
राम तेन तु दुर्जीवं यः परानुपजीवति ॥ 7 ॥
यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः ।
ह्रस्वकेण दुरारोहो रूढस्कन्धो महाद्रुमः ॥ 8 ॥
स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।
स तां नानुभवेत्प्रीतिं यस्य हेतोः प्ररोपितः ॥ 9 ॥
एषोपमा महाबाहो तमर्थं वेत्तु मर्हसि ।
यदि त्वमस्मान्वृषभो भर्ता भृत्यान्न शाधि हि ॥ 10 ॥
श्रेणयस्त्वां महाराज पश्यन्त्वग्य्राश्च सर्वशः ।
प्रतपन्तमिवादित्यं राज्ये स्थित मरिन्दमम् ॥ 11 ॥
तवानुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः ।
अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः ॥ 12 ॥
तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः ।
भरतस्य वच श्श्रुत्वा रामं प्रत्यनुयाचतः ॥ 13 ॥
तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् ।
रामः कृतात्मा भरतं समाश्वासयदात्मवान् ॥ 14 ॥
नाऽत्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः ।
इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥ 15 ॥
सर्वे क्षयान्ताः निचयाः पतनान्ता समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ 16 ॥
यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ।
एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ 17 ॥
यथाऽगारं दृढस्थूणं जीर्णं भूत्वाऽवसीदति ।
तथैव सीदन्ति नरा जरामृत्युवशं गताः ॥ 18 ॥
अत्येति रजनी या तु सा न प्रतिनिवर्तते ।
यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ 19 ॥
अहो रात्राणि गग्च्छन्ति सर्वेषां प्राणिनां इह ।
आयूम्षि क्षपयन्त्य् आशु ग्रीष्मे जलं इव अंशवः ॥ 20 ॥
आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।
आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ 21 ॥
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।
गत्वासुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥ 22 ॥
गात्रेषु वलयः प्राप्ता श्श्वेताश्चैव शिरोरुहाः ।
जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ 23 ॥
नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमितेऽहनि ।
आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ 24 ॥
हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिहागतम् ।
ऋतूनां परिवर्तेन प्राणिनां प्राणसङ्क्षयः ॥ 25 ॥
यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।
समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ 26 ॥
एवं भार्याश्चपुत्राश्च ज्ञातयश्च धनानि च ।
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥ 27 ॥

समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ 28 ॥

समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥ 29 ॥
नात्र कश्चिद्यथाभावं प्राणी समभिवर्तते ।
तेन तस्मिन्न सामर्थ्यं प्रेतस्या स्त्यनुशोचतः ॥ 30 ॥
यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितः ।
अहमप्यागमिष्यामि पृष्ठतो भवता मिति ॥ 31 ॥
एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः ।
तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥ 32 ॥
वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः ।
आत्मा सुखे नियोक्तव्यस्सुखभाजः प्रजाः स्मृताः ॥ 33 ॥
धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः ।
स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः ॥ 34 ॥
भृत्यानां भरणात्सम्यक्प्रजानां परिपालनात् ।
अर्थादानाच्च धर्मेण पिता न स्त्रिदिवङ्गतः ॥ 35 ॥
कर्मभि स्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः ।
स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः ॥ 36 ॥
इष्ट्वा बहुविधैर्यज्ञैर्भोगां श्चावाप्य पुष्कलान् ।
उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥ 37 ॥
आयुरुत्तममासाद्य भोगानपि च राघवः ।
स न शोच्यः पिता तात स्वर्गत स्सत्कृत स्सताम् ॥ 38 ॥
स जीर्णं मानुषं देहं परित्यज्य पिता हि नः ।
दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ 39 ॥
तं तु नैवंविधः कश्चित्प्राज्ञ श्शोचितुमर्हति ।
तत्विधो मद्विधश्चापि श्रुतवान्बुद्धिमत्तरः ॥ 40 ॥
एते बहुविधा शोका विलापरुदिते तथा ।
वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ 41 ॥
स स्वस्थो भव मा शोचेर्यात्वा चावसतां पुरीम् ।
तथा पित्रा नियुक्तोऽसि वशिना वदतां वर ॥ 42 ॥
यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा ।
तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम् ॥ 43 ॥
न मया शासनं तस्य त्यक्तुं न्याय्य मरिन्दम ।
स त्वयापि सदा मान्यं स वै बन्धु स नः पिता ॥ 44 ॥
तद्वचः पितुरेवाहं सम्मतं धर्मचारिणः ।
कर्मणा पालयिष्यामि वनवासेन राघव ॥ 45 ॥
धार्मिकेणानृशंसेन नरेण गुरुवर्तिना ।
भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥ 46 ॥
आत्मानमनुतिष्ठत्वं स्वभावेन नरर्षभ ।
निशाम्यतु शुभं वृत्तं पितुर्दशरथस्य नः ॥ 47 ॥
इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेश प्रतिपालनार्थम् ।
यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः ॥ 48 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे पञ्चाधिकशततमस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe ayodhyākāṇḍam |
atha pañcādhikaśatatamassargaḥ |
tataḥ puruṣasiṃhānāṃ vṛtānāṃ tai ssuhṛdgaṇaiḥ |
śocatāmeva rajanī duḥkhena vyatyavartata || 1 ||
rajanyāṃ suprabhātāyāṃ bhrātaraste suhṛdvṛtāḥ |
mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmamupāgaman || 2 ||
tūṣṇīṃ te samupāsīnā na kaścitkiñcidabravīt |
bharatastu suhṛnmadhye rāmaṃ vacanamabravīt || 3 ||
sāntvitā māmikā mātā dattaṃ rājyamidaṃ mama |
taddadāmi tavaivāhaṃ bhuṅkṣva rājyamakaṇṭakam || 4 ||
mahatevāmbuvegena bhinnasseturjalāgame |
durāvāraṃ tvadanyena rājyakhaṇḍamidaṃ mahat || 5 ||
gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ |
anugantuṃ na śaktirme gatiṃ tava mahīpate || 6 ||
sujīvaṃ nityaśastasya yaḥ parairupajīvyate |
rāma tena tu durjīvaṃ yaḥ parānupajīvati || 7 ||
yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ |
hrasvakeṇa durāroho rūḍhaskandho mahādrumaḥ || 8 ||
sa yadā puṣpito bhūtvā phalāni na vidarśayet |
sa tāṃ nānubhavetprītiṃ yasya hetoḥ praropitaḥ || 9 ||
eṣopamā mahābāho tamarthaṃ vettu marhasi |
yadi tvamasmānvṛṣabho bhartā bhṛtyānna śādhi hi || 10 ||
śreṇayastvāṃ mahārāja paśyantvagyrāśca sarvaśaḥ |
pratapantamivādityaṃ rājye sthita marindamam || 11 ||
tavānuyāne kākutstha mattā nardantu kuñjarāḥ |
antaḥpuragatā nāryo nandantu susamāhitāḥ || 12 ||
tasya sādhvityamanyanta nāgarā vividhā janāḥ |
bharatasya vaca śśrutvā rāmaṃ pratyanuyācataḥ || 13 ||
tamevaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam |
rāmaḥ kṛtātmā bharataṃ samāśvāsayadātmavān || 14 ||
nā'tmanaḥ kāmakāro'sti puruṣo'yamanīśvaraḥ |
itaścetarataścainaṃ kṛtāntaḥ parikarṣati || 15 ||
sarve kṣayāntāḥ nicayāḥ patanāntā samucchrayāḥ |
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam || 16 ||
yathā phalānāṃ pakvānāṃ nānyatra patanādbhayam |
evaṃ narasya jātasya nānyatra maraṇādbhayam || 17 ||
yathā'gāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvā'vasīdati |
tathaiva sīdanti narā jarāmṛtyuvaśaṃ gatāḥ || 18 ||
atyeti rajanī yā tu sā na pratinivartate |
yātyeva yamunā pūrṇā samudramudakākulam || 19 ||
aho rātrāṇi gagcchanti sarveṣāṃ prāṇināṃ iha |
āyūmṣi kṣapayanty āśu grīṣme jalaṃ iva aṃśavaḥ || 20 ||
ātmānamanuśoca tvaṃ kimanyamanuśocasi |
āyuste hīyate yasya sthitasya ca gatasya ca || 21 ||
sahaiva mṛtyurvrajati saha mṛtyurniṣīdati |
gatvāsudīrghamadhvānaṃ sahamṛtyurnivartate || 22 ||
gātreṣu valayaḥ prāptā śśvetāścaiva śiroruhāḥ |
jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet || 23 ||
nandantyudita āditye nandantyastamite'hani |
ātmano nāvabudhyante manuṣyā jīvitakṣayam || 24 ||
hṛṣyantyṛtumukhaṃ dṛṣṭvā navaṃ navamihāgatam |
ṛtūnāṃ parivartena prāṇināṃ prāṇasaṅkṣayaḥ || 25 ||
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave |
sametya ca vyapeyātāṃ kālamāsādya kañcana || 26 ||
evaṃ bhāryāścaputrāśca jñātayaśca dhanāni ca |
sametya vyavadhāvanti dhruvo hyeṣāṃ vinābhavaḥ || 27 ||

sametya ca vyapeyātāṃ kālamāsādya kañcana || 28 ||

sametya vyavadhāvanti dhruvo hyeṣāṃ vinābhavaḥ || 29 ||
nātra kaścidyathābhāvaṃ prāṇī samabhivartate |
tena tasminna sāmarthyaṃ pretasyā styanuśocataḥ || 30 ||
yathā hi sārthaṃ gacchantaṃ brūyātkaścitpathi sthitaḥ |
ahamapyāgamiṣyāmi pṛṣṭhato bhavatā miti || 31 ||
evaṃ pūrvairgato mārgaḥ pitṛpaitāmaho dhruvaḥ |
tamāpannaḥ kathaṃ śocedyasya nāsti vyatikramaḥ || 32 ||
vayasaḥ patamānasya srotaso vā'nivartinaḥ |
ātmā sukhe niyoktavyassukhabhājaḥ prajāḥ smṛtāḥ || 33 ||
dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiścāptadakṣiṇaiḥ |
svargaṃ daśarathaḥ prāptaḥ pitā naḥ pṛthivīpatiḥ || 34 ||
bhṛtyānāṃ bharaṇātsamyakprajānāṃ paripālanāt |
arthādānācca dharmeṇa pitā na stridivaṅgataḥ || 35 ||
karmabhi stu śubhairiṣṭaiḥ kratubhiścāptadakṣiṇaiḥ |
svargaṃ daśarathaḥ prāptaḥ pitā naḥ pṛthivīpatiḥ || 36 ||
iṣṭvā bahuvidhairyajñairbhogāṃ ścāvāpya puṣkalān |
uttamaṃ cāyurāsādya svargataḥ pṛthivīpatiḥ || 37 ||
āyuruttamamāsādya bhogānapi ca rāghavaḥ |
sa na śocyaḥ pitā tāta svargata ssatkṛta ssatām || 38 ||
sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ |
daivīmṛddhimanuprāpto brahmalokavihāriṇīm || 39 ||
taṃ tu naivaṃvidhaḥ kaścitprājña śśocitumarhati |
tatvidho madvidhaścāpi śrutavānbuddhimattaraḥ || 40 ||
ete bahuvidhā śokā vilāparudite tathā |
varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā || 41 ||
sa svastho bhava mā śoceryātvā cāvasatāṃ purīm |
tathā pitrā niyukto'si vaśinā vadatāṃ vara || 42 ||
yatrāhamapi tenaiva niyuktaḥ puṇyakarmaṇā |
tatraivāhaṃ kariṣyāmi piturāryasya śāsanam || 43 ||
na mayā śāsanaṃ tasya tyaktuṃ nyāyya marindama |
sa tvayāpi sadā mānyaṃ sa vai bandhu sa naḥ pitā || 44 ||
tadvacaḥ piturevāhaṃ sammataṃ dharmacāriṇaḥ |
karmaṇā pālayiṣyāmi vanavāsena rāghava || 45 ||
dhārmikeṇānṛśaṃsena nareṇa guruvartinā |
bhavitavyaṃ naravyāghra paralokaṃ jigīṣatā || 46 ||
ātmānamanutiṣṭhatvaṃ svabhāvena nararṣabha |
niśāmyatu śubhaṃ vṛttaṃ piturdaśarathasya naḥ || 47 ||
ityevamuktvā vacanaṃ mahātmā piturnideśa pratipālanārtham |
yavīyasaṃ bhrātaramarthavacca prabhurmuhūrtādvirarāma rāmaḥ || 48 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye ayodhyākāṇḍe pañcādhikaśatatamassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.