📚 Ashtavakra Gita

अष्टावक्र गीता तृतीयोऽध्यायः

Chapter 3

✍️ Traditional (authorship not fixed) 📂 Gita 🖋️ Devanagari script 🔢 14 verses 32 views
📄 Download PDF
View: Text in this script too →
🖋️ Script: कोंकणी ▾
Meaning —
अष्टावक्र उवाच ॥
Verse 3-1
अविनाशिनमात्मानमेकं विज्ञाय तत्त्वतः ।
तवात्मज्ञानस्य धीरस्य कथमर्थार्जने रतिः ॥ 3-1॥
avināśinamātmānamekaṃ vijñāya tattvataḥ |
tavātmajñānasya dhīrasya kathamarthārjane ratiḥ || 3-1||
Verse 3-2
आत्माज्ञानादहो प्रीतिर्विषयभ्रमगोचरे ।
शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे ॥ 3-2॥
ātmājñānādaho prītirviṣayabhramagocare |
śukterajñānato lobho yathā rajatavibhrame || 3-2||
Verse 3-3
विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे ।
सोऽहमस्मीति विज्ञाय किं दीन इव धावसि ॥ 3-3॥
viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare |
so'hamasmīti vijñāya kiṃ dīna iva dhāvasi || 3-3||
Verse 3-4
श्रुत्वापि शुद्धचैतन्य आत्मानमतिसुन्दरम् ।
उपस्थेऽत्यन्तसंसक्तो मालिन्यमधिगच्छति ॥ 3-4॥
śrutvāpi śuddhacaitanya ātmānamatisundaram |
upasthe'tyantasaṃsakto mālinyamadhigacchati || 3-4||
Verse 3-5
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
मुनेर्जानत आश्चर्यं ममत्वमनुवर्तते ॥ 3-5॥
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani |
munerjānata āścaryaṃ mamatvamanuvartate || 3-5||
Verse 3-6
आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः ।
आश्चर्यं कामवशगो विकलः केलिशिक्षया ॥ 3-6॥
āsthitaḥ paramādvaitaṃ mokṣārthe'pi vyavasthitaḥ |
āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā || 3-6||
Verse 3-7
उद्भूतं ज्ञानदुर्मित्रमवधार्यातिदुर्बलः ।
आश्चर्यं काममाकाङ्क्षेत् कालमन्तमनुश्रितः ॥ 3-7॥
udbhūtaṃ jñānadurmitramavadhāryātidurbalaḥ |
āścaryaṃ kāmamākāṅkṣet kālamantamanuśritaḥ || 3-7||
Verse 3-8
इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः ।
आश्चर्यं मोक्षकामस्य मोक्षाद् एव विभीषिका ॥ 3-8॥
ihāmutra viraktasya nityānityavivekinaḥ |
āścaryaṃ mokṣakāmasya mokṣād eva vibhīṣikā || 3-8||
Verse 3-9
धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा ।
आत्मानं केवलं पश्यन् न तुष्यति न कुप्यति ॥ 3-9॥
dhīrastu bhojyamāno'pi pīḍyamāno'pi sarvadā |
ātmānaṃ kevalaṃ paśyan na tuṣyati na kupyati || 3-9||
Verse 3-10
चेष्टमानं शरीरं स्वं पश्यत्यन्यशरीरवत् ।
संस्तवे चापि निन्दायां कथं क्षुभ्येत् महाशयः ॥ 3-10॥
ceṣṭamānaṃ śarīraṃ svaṃ paśyatyanyaśarīravat |
saṃstave cāpi nindāyāṃ kathaṃ kṣubhyet mahāśayaḥ || 3-10||
Verse 3-11
मायामात्रमिदं विश्वं पश्यन् विगतकौतुकः ।
अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः ॥ 3-11॥
māyāmātramidaṃ viśvaṃ paśyan vigatakautukaḥ |
api sannihite mṛtyau kathaṃ trasyati dhīradhīḥ || 3-11||
Verse 3-12
निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः ।
तस्यात्मज्ञानतृप्तस्य तुलना केन जायते ॥ 3-12॥
niḥspṛhaṃ mānasaṃ yasya nairāśye'pi mahātmanaḥ |
tasyātmajñānatṛptasya tulanā kena jāyate || 3-12||
Verse 3-13
स्वभावाद् एव जानानो दृश्यमेतन्न किञ्चन ।
इदं ग्राह्यमिदं त्याज्यं स किं पश्यति धीरधीः ॥ 3-13॥
svabhāvād eva jānāno dṛśyametanna kiñcana |
idaṃ grāhyamidaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ || 3-13||
Verse 3-14
अन्तस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः ।
यदृच्छयागतो भोगो न दुःखाय न तुष्टये ॥ 3-14॥
antastyaktakaṣāyasya nirdvandvasya nirāśiṣaḥ |
yadṛcchayāgato bhogo na duḥkhāya na tuṣṭaye || 3-14||
Sanskrit — Devanagari (original)
अष्टावक्र उवाच ॥
अविनाशिनमात्मानमेकं विज्ञाय तत्त्वतः ।
तवात्मज्ञानस्य धीरस्य कथमर्थार्जने रतिः ॥ 3-1॥
आत्माज्ञानादहो प्रीतिर्विषयभ्रमगोचरे ।
शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे ॥ 3-2॥
विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे ।
सोऽहमस्मीति विज्ञाय किं दीन इव धावसि ॥ 3-3॥
श्रुत्वापि शुद्धचैतन्य आत्मानमतिसुन्दरम् ।
उपस्थेऽत्यन्तसंसक्तो मालिन्यमधिगच्छति ॥ 3-4॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
मुनेर्जानत आश्चर्यं ममत्वमनुवर्तते ॥ 3-5॥
आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः ।
आश्चर्यं कामवशगो विकलः केलिशिक्षया ॥ 3-6॥
उद्भूतं ज्ञानदुर्मित्रमवधार्यातिदुर्बलः ।
आश्चर्यं काममाकाङ्क्षेत् कालमन्तमनुश्रितः ॥ 3-7॥
इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः ।
आश्चर्यं मोक्षकामस्य मोक्षाद् एव विभीषिका ॥ 3-8॥
धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा ।
आत्मानं केवलं पश्यन् न तुष्यति न कुप्यति ॥ 3-9॥
चेष्टमानं शरीरं स्वं पश्यत्यन्यशरीरवत् ।
संस्तवे चापि निन्दायां कथं क्षुभ्येत् महाशयः ॥ 3-10॥
मायामात्रमिदं विश्वं पश्यन् विगतकौतुकः ।
अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः ॥ 3-11॥
निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः ।
तस्यात्मज्ञानतृप्तस्य तुलना केन जायते ॥ 3-12॥
स्वभावाद् एव जानानो दृश्यमेतन्न किञ्चन ।
इदं ग्राह्यमिदं त्याज्यं स किं पश्यति धीरधीः ॥ 3-13॥
अन्तस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः ।
यदृच्छयागतो भोगो न दुःखाय न तुष्टये ॥ 3-14॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in