📚 Ashtavakra Gita

अष्टावक्र गीता चतुर्दशोऽध्यायः

Chapter 14

✍️ Traditional (authorship not fixed) 📂 Gita 🖋️ Devanagari script 🔢 4 verses 42 views
📄 Download PDF
View: Text in this script too →
🖋️ Script: कोंकणी ▾
Meaning —
जनक उवाच ॥
Verse 14-1
प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः ।
निद्रितो बोधित इव क्षीणसंस्मरणो हि सः ॥ 14-1॥
prakṛtyā śūnyacitto yaḥ pramādād bhāvabhāvanaḥ |
nidrito bodhita iva kṣīṇasaṃsmaraṇo hi saḥ || 14-1||
Verse 14-2
क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः ।
क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा ॥ 14-2॥
kva dhanāni kva mitrāṇi kva me viṣayadasyavaḥ |
kva śāstraṃ kva ca vijñānaṃ yadā me galitā spṛhā || 14-2||
Verse 14-3
विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे ।
नैराश्ये बन्धमोक्षे च न चिन्ता मुक्तये मम ॥ 14-3॥
vijñāte sākṣipuruṣe paramātmani ceśvare |
nairāśye bandhamokṣe ca na cintā muktaye mama || 14-3||
Verse 14-4
अन्तर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः ।
भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते ॥ 14-4॥
antarvikalpaśūnyasya bahiḥ svacchandacāriṇaḥ |
bhrāntasyeva daśāstāstāstādṛśā eva jānate || 14-4||
Sanskrit — Devanagari (original)
जनक उवाच ॥
प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः ।
निद्रितो बोधित इव क्षीणसंस्मरणो हि सः ॥ 14-1॥
क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः ।
क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा ॥ 14-2॥
विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे ।
नैराश्ये बन्धमोक्षे च न चिन्ता मुक्तये मम ॥ 14-3॥
अन्तर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः ।
भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते ॥ 14-4॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in