ॐ श्री परमात्मने नमः
अथ अष्टादशोऽध्यायः
मोक्षसन्न्यासयोगः
अर्जुन उवाच
सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥1॥
श्री भगवानुवाच
काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥2॥
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥3॥
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥4॥
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥5॥
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥6॥
नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागः तामसः परिकीर्तितः ॥7॥
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥8॥
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥9॥
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टः मेधावी छिन्नसंशयः ॥10॥
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥11॥
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥12॥
पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥13॥
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टाः दैवं चैवात्र पञ्चमम् ॥14॥
शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥15॥
तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वात् न स पश्यति दुर्मतिः ॥16॥
यस्य नाहङ्कृतो भावः बुद्धिर्यस्य न लिप्यते ।
हत्वाऽपि स इमाँल्लोकान् न हन्ति न निबध्यते ॥17॥
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥18॥
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥19॥
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥20॥
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥21॥
यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥22॥
नियतं सङ्गरहितम् अरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥23॥
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥24॥
अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥25॥
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥26॥
रागी कर्मफलप्रेप्सुः लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥27॥
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥28॥
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥29॥
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥30॥
यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥31॥
अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥32॥
धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥33॥
यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥34॥
यया स्वप्नं भयं शोकं विषादं मदमेव च ।
न विमुञ्चति दुर्मेधाः धृतिः सा तामसी मता ॥35॥
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥36॥
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
तत्सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् ॥37॥
विषयेन्द्रियसंयोगात् यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥38॥
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥39॥
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥40॥
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥41॥
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥42॥
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥43॥
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥44॥
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥45॥
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥46॥
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥47॥
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥48॥
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥49॥
सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥50॥
बुद्ध्या विशुद्धया युक्तः धृत्याऽऽत्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥51॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥52॥
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तः ब्रह्मभूयाय कल्पते ॥53॥
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥54॥
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥55॥
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥56॥
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः ।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥57॥
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वमहङ्कारात् न श्रोष्यसि विनङ्क्ष्यसि ॥58॥
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥59॥
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत् ॥60॥
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥61॥
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥62॥
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥63॥
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥64॥
मन्मना भव मद्भक्तः मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥65॥
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः ॥66॥
इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥67॥
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥68॥
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मात् अन्यः प्रियतरो भुवि ॥69॥
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहम् इष्टः स्यामिति मे मतिः ॥70॥
श्रद्धावाननसूयश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभाఁल्लोकान् प्राप्नुयात्पुण्यकर्मणाम् ॥71॥
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय ॥72॥
अर्जुन उवाच
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥73॥
सञ्जय उवाच
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिममश्रौषम् अद्भुतं रोमहर्षणम् ॥74॥
व्यासप्रसादाच्छ्रुतवान् इमं गुह्यतमं परम् ।
योगं योगेश्वरात्कृष्णात् साक्षात्कथयतः स्वयम् ॥75॥
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥76॥
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान्राजन् हृष्यामि च पुनः पुनः ॥77॥
यत्र योगेश्वरः कृष्णः यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिः ध्रुवा नीतिर्मतिर्मम ॥78॥
॥ ॐ तत्सदिति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां श्रीमद्भीष्मपर्वणि श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नाम अष्टादशोऽध्यायः ॥
Roman (IAST) Transliteration
oṃ śrī paramātmane namaḥ
atha aṣṭādaśo'dhyāyaḥ
mokṣasannyāsayogaḥ
arjuna uvāca
sannyāsasya mahābāho tattvamicchāmi veditum |
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana ||1||
śrī bhagavānuvāca
kāmyānāṃ karmaṇāṃ nyāsaṃ sannyāsaṃ kavayo viduḥ |
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ||2||
tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ |
yajñadānatapaḥkarma na tyājyamiti cāpare ||3||
niścayaṃ śṛṇu me tatra tyāge bharatasattama |
tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ||4||
yajñadānatapaḥkarma na tyājyaṃ kāryameva tat |
yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ||5||
etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca |
kartavyānīti me pārtha niścitaṃ matamuttamam ||6||
niyatasya tu sannyāsaḥ karmaṇo nopapadyate |
mohāttasya parityāgaḥ tāmasaḥ parikīrtitaḥ ||7||
duḥkhamityeva yatkarma kāyakleśabhayāttyajet |
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ||8||
kāryamityeva yatkarma niyataṃ kriyate'rjuna |
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ ||9||
na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate |
tyāgī sattvasamāviṣṭaḥ medhāvī chinnasaṃśayaḥ ||10||
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ |
yastu karmaphalatyāgī sa tyāgītyabhidhīyate ||11||
aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam |
bhavatyatyāgināṃ pretya na tu sannyāsināṃ kvacit ||12||
pañcaitāni mahābāho kāraṇāni nibodha me |
sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ||13||
adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham |
vividhāśca pṛthakceṣṭāḥ daivaṃ caivātra pañcamam ||14||
śarīravāṅmanobhiryat karma prārabhate naraḥ |
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ ||15||
tatraivaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ |
paśyatyakṛtabuddhitvāt na sa paśyati durmatiḥ ||16||
yasya nāhaṅkṛto bhāvaḥ buddhiryasya na lipyate |
hatvā'pi sa imā~llokān na hanti na nibadhyate ||17||
jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā |
karaṇaṃ karma karteti trividhaḥ karmasaṅgrahaḥ ||18||
jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ |
procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi ||19||
sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate |
avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam ||20||
pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān |
vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ||21||
yattu kṛtsnavadekasmin kārye saktamahaitukam |
atattvārthavadalpaṃ ca tattāmasamudāhṛtam ||22||
niyataṃ saṅgarahitam arāgadveṣataḥ kṛtam |
aphalaprepsunā karma yattatsāttvikamucyate ||23||
yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ |
kriyate bahulāyāsaṃ tadrājasamudāhṛtam ||24||
anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam |
mohādārabhyate karma yattattāmasamucyate ||25||
muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ |
siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate ||26||
rāgī karmaphalaprepsuḥ lubdho hiṃsātmako'śuciḥ |
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ||27||
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko'lasaḥ |
viṣādī dīrghasūtrī ca kartā tāmasa ucyate ||28||
buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu |
procyamānamaśeṣeṇa pṛthaktvena dhanañjaya ||29||
pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye |
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī ||30||
yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca |
ayathāvatprajānāti buddhiḥ sā pārtha rājasī ||31||
adharmaṃ dharmamiti yā manyate tamasā''vṛtā |
sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī ||32||
dhṛtyā yayā dhārayate manaḥ prāṇendriyakriyāḥ |
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ||33||
yayā tu dharmakāmārthān dhṛtyā dhārayate'rjuna |
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ||34||
yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca |
na vimuñcati durmedhāḥ dhṛtiḥ sā tāmasī matā ||35||
sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha |
abhyāsādramate yatra duḥkhāntaṃ ca nigacchati ||36||
yattadagre viṣamiva pariṇāme'mṛtopamam |
tatsukhaṃ sāttvikaṃ proktam ātmabuddhiprasādajam ||37||
viṣayendriyasaṃyogāt yattadagre'mṛtopamam |
pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam ||38||
yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ |
nidrālasyapramādotthaṃ tattāmasamudāhṛtam ||39||
na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ |
sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ||40||
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa |
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ||41||
śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca |
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam ||42||
śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam |
dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam ||43||
kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam |
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam ||44||
sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ |
svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu ||45||
yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam |
svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ ||46||
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt |
svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam ||47||
sahajaṃ karma kaunteya sadoṣamapi na tyajet |
sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ ||48||
asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ |
naiṣkarmyasiddhiṃ paramāṃ sannyāsenādhigacchati ||49||
siddhiṃ prāpto yathā brahma tathā''pnoti nibodha me |
samāsenaiva kaunteya niṣṭhā jñānasya yā parā ||50||
buddhyā viśuddhayā yuktaḥ dhṛtyā''tmānaṃ niyamya ca |
śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca ||51||
viviktasevī laghvāśī yatavākkāyamānasaḥ |
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ||52||
ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham |
vimucya nirmamaḥ śāntaḥ brahmabhūyāya kalpate ||53||
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati |
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ||54||
bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ |
tato māṃ tattvato jñātvā viśate tadanantaram ||55||
sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ |
matprasādādavāpnoti śāśvataṃ padamavyayam ||56||
cetasā sarvakarmāṇi mayi sannyasya matparaḥ |
buddhiyogamupāśritya maccittaḥ satataṃ bhava ||57||
maccittaḥ sarvadurgāṇi matprasādāttariṣyasi |
atha cettvamahaṅkārāt na śroṣyasi vinaṅkṣyasi ||58||
yadahaṅkāramāśritya na yotsya iti manyase |
mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati ||59||
svabhāvajena kaunteya nibaddhaḥ svena karmaṇā |
kartuṃ necchasi yanmohāt kariṣyasyavaśo'pi tat ||60||
īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati |
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ||61||
tameva śaraṇaṃ gaccha sarvabhāvena bhārata |
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ||62||
iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā |
vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ||63||
sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ |
iṣṭo'si me dṛḍhamiti tato vakṣyāmi te hitam ||64||
manmanā bhava madbhaktaḥ madyājī māṃ namaskuru |
māmevaiṣyasi satyaṃ te pratijāne priyo'si me ||65||
sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarvapāpebhyaḥ mokṣayiṣyāmi mā śucaḥ ||66||
idaṃ te nātapaskāya nābhaktāya kadācana |
na cāśuśrūṣave vācyaṃ na ca māṃ yo'bhyasūyati ||67||
ya imaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati |
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ ||68||
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ |
bhavitā na ca me tasmāt anyaḥ priyataro bhuvi ||69||
adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ |
jñānayajñena tenāham iṣṭaḥ syāmiti me matiḥ ||70||
śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ |
so'pi muktaḥ śubhāఁllokān prāpnuyātpuṇyakarmaṇām ||71||
kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā |
kaccidajñānasammohaḥ praṇaṣṭaste dhanañjaya ||72||
arjuna uvāca
naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayā'cyuta |
sthito'smi gatasandehaḥ kariṣye vacanaṃ tava ||73||
sañjaya uvāca
ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ |
saṃvādamimamaśrauṣam adbhutaṃ romaharṣaṇam ||74||
vyāsaprasādācchrutavān imaṃ guhyatamaṃ param |
yogaṃ yogeśvarātkṛṣṇāt sākṣātkathayataḥ svayam ||75||
rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam |
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ ||76||
tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ |
vismayo me mahānrājan hṛṣyāmi ca punaḥ punaḥ ||77||
yatra yogeśvaraḥ kṛṣṇaḥ yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtiḥ dhruvā nītirmatirmama ||78||
|| oṃ tatsaditi śrīmanmahābhārate śatasāhasrikāyāṃ saṃhitāyāṃ vaiyāsikyāṃ śrīmadbhīṣmaparvaṇi śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṃ
yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasannyāsayogo nāma aṣṭādaśo'dhyāyaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.