Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ द्वात्रिंशस्सर्गः ।
Shloka 1
ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः ।
अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥ 1 ॥

brahmayonirmahānāsīt kuśo nāma mahātapāḥ |
akliṣṭavratadharmajñaḥ sajjanapratipūjakaḥ || 1 ||

Shloka 2
स महात्मा कुलीनायां युक्तायां सुगुणोल्बणान् ।
वैदर्भ्यां जनयामास चतुरस्सदृशान् सुतान् ॥ 2 ॥

sa mahātmā kulīnāyāṃ yuktāyāṃ suguṇolbaṇān |
vaidarbhyāṃ janayāmāsa caturassadṛśān sutān || 2 ||

Shloka 3
कुशाम्बं कुशनाभं च अधूर्तरजसं वसुम् ।
दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥ 3 ॥

kuśāmbaṃ kuśanābhaṃ ca adhūrtarajasaṃ vasum |
dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā || 3 ||

Shloka 4
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।
क्रियतां पालनं पुत्राः धर्मं प्राप्स्यथ पुष्कलम् ॥ 4 ॥

tānuvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ |
kriyatāṃ pālanaṃ putrāḥ dharmaṃ prāpsyatha puṣkalam || 4 ||

Shloka 5
ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मताः ।
निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥ 5 ॥

ṛṣestu vacanaṃ śrutvā catvāro lokasammatāḥ |
niveśaṃ cakrire sarve purāṇāṃ nṛvarāstadā || 5 ||

Shloka 6
कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम् ।
कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥ 6 ॥

kuśāmbastu mahātejāḥ kauśāmbīmakarotpurīm |
kuśanābhastu dharmātmā puraṃ cakre mahodayam || 6 ||

Shloka 7
अधूर्तरजसो राम धर्मारण्यं महीपतिः ।
चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ॥ 7 ॥

adhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ |
cakre puravaraṃ rājā vasuścakre girivrajam || 7 ||

Shloka 8
एषा वसुमती राम वसोस्तस्य महात्मनः ।
एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥ 8 ॥

eṣā vasumatī rāma vasostasya mahātmanaḥ |
ete śailavarāḥ pañca prakāśante samantataḥ || 8 ||

Shloka 9
सुमागधी नदी रम्या मगधान् विश्रुताययौ ।
पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥ 9 ॥

sumāgadhī nadī ramyā magadhān viśrutāyayau |
pañcānāṃ śailamukhyānāṃ madhye māleva śobhate || 9 ||

Shloka 10
सैषा हि मागधी राम वसोस्तस्य महात्मनः ।
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥ 10 ॥

saiṣā hi māgadhī rāma vasostasya mahātmanaḥ |
pūrvābhicaritā rāma sukṣetrā sasyamālinī || 10 ||

Shloka 11
कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् ।
जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥ 11 ॥

kuśanābhastu rājarṣiḥ kanyāśatamanuttamam |
janayāmāsa dharmātmā ghṛtācyāṃ raghunandana || 11 ||

Shloka 12
तास्तु यौवनशालिन्यो रूपवत्य स्स्वलङ्कृताः ।
उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥ 12 ॥

tāstu yauvanaśālinyo rūpavatya ssvalaṅkṛtāḥ |
udyānabhūmimāgamya prāvṛṣīva śatahradāḥ || 12 ||

Shloka 13
गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वशः ।
आमोदं परमं जग्मुर्वराभरणभूषिताः ॥ 13 ॥
आमोदं परमं जग्मुर्वराभरणभूषिताः ॥ 13 ॥
gāyantyo nṛtyamānāśca vādayantyaśca sarvaśaḥ |
āmodaṃ paramaṃ jagmurvarābharaṇabhūṣitāḥ || 13 ||

Shloka 14
अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि ।
उद्यानभूमिमागम्य तारा इव घनान्तरे ॥ 14 ॥

atha tāścārusarvāṅgyo rūpeṇāpratimā bhuvi |
udyānabhūmimāgamya tārā iva ghanāntare || 14 ||

Shloka 15
तास्सर्वगुणसम्पन्ना रूपयौवनसंयुताः ।
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥ 15 ॥

tāssarvaguṇasampannā rūpayauvanasaṃyutāḥ |
dṛṣṭvā sarvātmako vāyuridaṃ vacanamabravīt || 15 ||

Shloka 16
अहं वः कामये सर्वा भार्या मम भविष्यथ ।
मानुषस्त्यज्यतां भावः दीर्घमायुरवाप्स्यथ ॥ 16 ॥

ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha |
mānuṣastyajyatāṃ bhāvaḥ dīrghamāyuravāpsyatha || 16 ||

Shloka 17
चलं हि यौवनं नित्यं मानुषेषु विशेषतः ।
अक्षय्यं यौवनं प्राप्ताः अमर्यश्च भविष्यथ ॥ 17 ॥

calaṃ hi yauvanaṃ nityaṃ mānuṣeṣu viśeṣataḥ |
akṣayyaṃ yauvanaṃ prāptāḥ amaryaśca bhaviṣyatha || 17 ||

Shloka 18
तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः ।
अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥ 18 ॥

tasya tadvacanaṃ śrutvā vāyorakliṣṭakarmaṇaḥ |
apahāsya tato vākyaṃ kanyāśatamathābravīt || 18 ||

Shloka 19
अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम ।
प्रभावज्ञाः स्म ते सर्वाः किमस्मानवमन्यसे ॥ 19 ॥

antaścarasi bhūtānāṃ sarveṣāṃ tvaṃ surottama |
prabhāvajñāḥ sma te sarvāḥ kimasmānavamanyase || 19 ||

Shloka 20
कुशनाभसुतास्सर्वाः समर्थास्त्वां सुरोत्तम ।
स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥ 20 ॥

kuśanābhasutāssarvāḥ samarthāstvāṃ surottama |
sthānāccyāvayituṃ devaṃ rakṣāmastu tapo vayam || 20 ||

Shloka 21
माभूत्स कालो दुर्मेधः पितरं सत्यवादिनम् ।
नावमन्यस्व धर्मेण स्वयं वरमुपास्महे ॥ 21 ॥

mābhūtsa kālo durmedhaḥ pitaraṃ satyavādinam |
nāvamanyasva dharmeṇa svayaṃ varamupāsmahe || 21 ||

Shloka 22
पिता हि प्रभुरस्माकं दैवतं परमं हि नः ।
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ 22 ॥

pitā hi prabhurasmākaṃ daivataṃ paramaṃ hi naḥ |
yasya no dāsyati pitā sa no bhartā bhaviṣyati || 22 ||

Shloka 23
तासां तद्वचनं श्रुत्वा वायुः परमकोपनः ।
प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥ 23 ॥

tāsāṃ tadvacanaṃ śrutvā vāyuḥ paramakopanaḥ |
praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ || 23 ||

Shloka 24
ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् ।
प्रापतन् भुवि सम्भ्रान्तास्सलज्जा स्सास्रलोचनाः ॥ 24 ॥

tāḥ kanyā vāyunā bhagnā viviśurnṛpatergṛham |
prāpatan bhuvi sambhrāntāssalajjā ssāsralocanāḥ || 24 ||

Shloka 25
स च ता दयिता दीनाः कन्याः परमशोभनाः ।
दृष्ट्वा भग्नास्तदा राजा सम्भ्रान्त इदमब्रवीत् ॥ 25 ॥

sa ca tā dayitā dīnāḥ kanyāḥ paramaśobhanāḥ |
dṛṣṭvā bhagnāstadā rājā sambhrānta idamabravīt || 25 ||

Shloka 26
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते ।
कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ ।
एवं राजा विनिश्श्वस्य समाधिं सन्दधे ततः ॥ 26 ॥

kimidaṃ kathyatāṃ putryaḥ ko dharmamavamanyate |
kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha |
evaṃ rājā viniśśvasya samādhiṃ sandadhe tataḥ || 26 ||

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे द्वात्रिंशस्सर्गः ॥
Sanskrit — Devanagari (original)
श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ द्वात्रिंशस्सर्गः ।
ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः ।
अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥ 1 ॥
स महात्मा कुलीनायां युक्तायां सुगुणोल्बणान् ।
वैदर्भ्यां जनयामास चतुरस्सदृशान् सुतान् ॥ 2 ॥
कुशाम्बं कुशनाभं च अधूर्तरजसं वसुम् ।
दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥ 3 ॥
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।
क्रियतां पालनं पुत्राः धर्मं प्राप्स्यथ पुष्कलम् ॥ 4 ॥
ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मताः ।
निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥ 5 ॥
कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम् ।
कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥ 6 ॥
अधूर्तरजसो राम धर्मारण्यं महीपतिः ।
चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ॥ 7 ॥
एषा वसुमती राम वसोस्तस्य महात्मनः ।
एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥ 8 ॥
सुमागधी नदी रम्या मगधान् विश्रुताययौ ।
पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥ 9 ॥
सैषा हि मागधी राम वसोस्तस्य महात्मनः ।
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥ 10 ॥
कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् ।
जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥ 11 ॥
तास्तु यौवनशालिन्यो रूपवत्य स्स्वलङ्कृताः ।
उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥ 12 ॥
गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वशः ।
आमोदं परमं जग्मुर्वराभरणभूषिताः ॥ 13 ॥
अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि ।
उद्यानभूमिमागम्य तारा इव घनान्तरे ॥ 14 ॥
तास्सर्वगुणसम्पन्ना रूपयौवनसंयुताः ।
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥ 15 ॥
अहं वः कामये सर्वा भार्या मम भविष्यथ ।
मानुषस्त्यज्यतां भावः दीर्घमायुरवाप्स्यथ ॥ 16 ॥
चलं हि यौवनं नित्यं मानुषेषु विशेषतः ।
अक्षय्यं यौवनं प्राप्ताः अमर्यश्च भविष्यथ ॥ 17 ॥
तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः ।
अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥ 18 ॥
अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम ।
प्रभावज्ञाः स्म ते सर्वाः किमस्मानवमन्यसे ॥ 19 ॥
कुशनाभसुतास्सर्वाः समर्थास्त्वां सुरोत्तम ।
स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥ 20 ॥
माभूत्स कालो दुर्मेधः पितरं सत्यवादिनम् ।
नावमन्यस्व धर्मेण स्वयं वरमुपास्महे ॥ 21 ॥
पिता हि प्रभुरस्माकं दैवतं परमं हि नः ।
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ 22 ॥
तासां तद्वचनं श्रुत्वा वायुः परमकोपनः ।
प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥ 23 ॥
ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् ।
प्रापतन् भुवि सम्भ्रान्तास्सलज्जा स्सास्रलोचनाः ॥ 24 ॥
स च ता दयिता दीनाः कन्याः परमशोभनाः ।
दृष्ट्वा भग्नास्तदा राजा सम्भ्रान्त इदमब्रवीत् ॥ 25 ॥
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते ।
कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ ।
एवं राजा विनिश्श्वस्य समाधिं सन्दधे ततः ॥ 26 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे द्वात्रिंशस्सर्गः ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.