Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
अस्य श्री आदित्यकवचस्तोत्रमहामन्त्रस्य अगस्त्यो भगवानृषिः अनुष्टुप्छन्दः आदित्यो देवता श्रीं बीजं णीं शक्तिः सूं कीलकं मम आदित्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।
asya śrī ādityakavacastotramahāmantrasya agastyo bhagavānṛṣiḥ anuṣṭupchandaḥ ādityo devatā śrīṃ bījaṃ ṇīṃ śaktiḥ sūṃ kīlakaṃ mama ādityaprasādasiddhyarthe jape viniyogaḥ |
ध्यानं
dhyānaṃ
जपाकुसुमसङ्काशं द्विभुजं पद्महस्तकम्
japākusumasaṅkāśaṃ dvibhujaṃ padmahastakam
सिन्दूराम्बरमाल्यं च रक्तगन्धानुलेपनम् ।
sindūrāmbaramālyaṃ ca raktagandhānulepanam |
माणिक्यरत्नखचित-सर्वाभरणभूषितम्
māṇikyaratnakhacita-sarvābharaṇabhūṣitam
सप्ताश्वरथवाहं तु मेरुं चैव प्रदक्षिणम् ॥
saptāśvarathavāhaṃ tu meruṃ caiva pradakṣiṇam ||
देवासुरवरैर्वन्द्यं घृणिभिः परिसेवितम् ।
devāsuravarairvandyaṃ ghṛṇibhiḥ parisevitam |
ध्यायेत्पठेत्सुवर्णाभं सूर्यस्य कवचं मुदा ॥
dhyāyetpaṭhetsuvarṇābhaṃ sūryasya kavacaṃ mudā ||
कवचं
kavacaṃ
घृणिः पातु शिरोदेशे सूर्यः पातु ललाटकम् ।
ghṛṇiḥ pātu śirodeśe sūryaḥ pātu lalāṭakam |
आदित्यो लोचने पातु श्रुती पातु दिवाकरः ॥
ādityo locane pātu śrutī pātu divākaraḥ ||
घ्राणं पातु सदा भानुः मुखं पातु सदारविः ।
ghrāṇaṃ pātu sadā bhānuḥ mukhaṃ pātu sadāraviḥ |
जिह्वां पातु जगन्नेत्रः कण्ठं पातु विभावसुः ॥
jihvāṃ pātu jagannetraḥ kaṇṭhaṃ pātu vibhāvasuḥ ||
स्कन्धौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः ।
skandhau grahapatiḥ pātu bhujau pātu prabhākaraḥ |
करावब्जकरः पातु हृदयं पातु नभोमणिः ॥
karāvabjakaraḥ pātu hṛdayaṃ pātu nabhomaṇiḥ ||
द्वादशात्मा कटिं पातु सविता पातु सक्थिनी ।
dvādaśātmā kaṭiṃ pātu savitā pātu sakthinī |
ऊरू पातु सुरश्रेष्टो जानुनी पातु भास्करः ॥
ūrū pātu suraśreṣṭo jānunī pātu bhāskaraḥ ||
जङ्घे मे पातु मार्ताण्डो गुल्फौ पातु त्विषाम्पतिः ।
jaṅghe me pātu mārtāṇḍo gulphau pātu tviṣāmpatiḥ |
पादौ दिनमणिः पातु पातु मित्रोऽखिलं वपुः ॥
pādau dinamaṇiḥ pātu pātu mitro'khilaṃ vapuḥ ||
आदित्यकवचं पुण्यमभेद्यं वज्रसन्निभम् ।
ādityakavacaṃ puṇyamabhedyaṃ vajrasannibham |
सर्वरोगभयादिभ्यो मुच्यते नात्र संशयः ॥
sarvarogabhayādibhyo mucyate nātra saṃśayaḥ ||
संवत्सरमुपासित्वा साम्राज्यपदवीं लभेत् ।
saṃvatsaramupāsitvā sāmrājyapadavīṃ labhet |
अशेषरोगशान्त्यर्थं ध्यायेदादित्यमण्डलम् ।
aśeṣarogaśāntyarthaṃ dhyāyedādityamaṇḍalam |
आदित्य मण्डल स्तुतिः –
āditya maṇḍala stutiḥ –
अनेकरत्नसंयुक्तं स्वर्णमाणिक्यभूषणम् ।
anekaratnasaṃyuktaṃ svarṇamāṇikyabhūṣaṇam |
कल्पवृक्षसमाकीर्णं कदम्बकुसुमप्रियम् ॥
kalpavṛkṣasamākīrṇaṃ kadambakusumapriyam ||
सिन्दूरवर्णाय सुमण्डलाय
sindūravarṇāya sumaṇḍalāya
सुवर्णरत्नाभरणाय तुभ्यम् ।
suvarṇaratnābharaṇāya tubhyam |
पद्मादिनेत्रे च सुपङ्कजाय
padmādinetre ca supaṅkajāya
ब्रह्मेन्द्र-नारायण-शङ्कराय ॥
brahmendra-nārāyaṇa-śaṅkarāya ||
संरक्तचूर्णं ससुवर्णतोयं
saṃraktacūrṇaṃ sasuvarṇatoyaṃ
सकुङ्कुमाभं सकुशं सपुष्पम् ।
sakuṅkumābhaṃ sakuśaṃ sapuṣpam |
प्रदत्तमादाय च हेमपात्रे
pradattamādāya ca hemapātre
प्रशस्तनादं भगवन् प्रसीद ॥
praśastanādaṃ bhagavan prasīda ||
इति आदित्यकवचम् ।
Sanskrit — Devanagari (original)
अस्य श्री आदित्यकवचस्तोत्रमहामन्त्रस्य अगस्त्यो भगवानृषिः अनुष्टुप्छन्दः आदित्यो देवता श्रीं बीजं णीं शक्तिः सूं कीलकं मम आदित्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ध्यानं
जपाकुसुमसङ्काशं द्विभुजं पद्महस्तकम्
सिन्दूराम्बरमाल्यं च रक्तगन्धानुलेपनम् ।
माणिक्यरत्नखचित-सर्वाभरणभूषितम्
सप्ताश्वरथवाहं तु मेरुं चैव प्रदक्षिणम् ॥
देवासुरवरैर्वन्द्यं घृणिभिः परिसेवितम् ।
ध्यायेत्पठेत्सुवर्णाभं सूर्यस्य कवचं मुदा ॥
कवचं
घृणिः पातु शिरोदेशे सूर्यः पातु ललाटकम् ।
आदित्यो लोचने पातु श्रुती पातु दिवाकरः ॥
घ्राणं पातु सदा भानुः मुखं पातु सदारविः ।
जिह्वां पातु जगन्नेत्रः कण्ठं पातु विभावसुः ॥
स्कन्धौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः ।
करावब्जकरः पातु हृदयं पातु नभोमणिः ॥
द्वादशात्मा कटिं पातु सविता पातु सक्थिनी ।
ऊरू पातु सुरश्रेष्टो जानुनी पातु भास्करः ॥
जङ्घे मे पातु मार्ताण्डो गुल्फौ पातु त्विषाम्पतिः ।
पादौ दिनमणिः पातु पातु मित्रोऽखिलं वपुः ॥
आदित्यकवचं पुण्यमभेद्यं वज्रसन्निभम् ।
सर्वरोगभयादिभ्यो मुच्यते नात्र संशयः ॥
संवत्सरमुपासित्वा साम्राज्यपदवीं लभेत् ।
अशेषरोगशान्त्यर्थं ध्यायेदादित्यमण्डलम् ।
आदित्य मण्डल स्तुतिः –
अनेकरत्नसंयुक्तं स्वर्णमाणिक्यभूषणम् ।
कल्पवृक्षसमाकीर्णं कदम्बकुसुमप्रियम् ॥
सिन्दूरवर्णाय सुमण्डलाय
सुवर्णरत्नाभरणाय तुभ्यम् ।
पद्मादिनेत्रे च सुपङ्कजाय
ब्रह्मेन्द्र-नारायण-शङ्कराय ॥
संरक्तचूर्णं ससुवर्णतोयं
सकुङ्कुमाभं सकुशं सपुष्पम् ।
प्रदत्तमादाय च हेमपात्रे
प्रशस्तनादं भगवन् प्रसीद ॥
इति आदित्यकवचम् ।
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.