Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
Verse 1
उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् ।
अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥1॥

upayātānāṃ sudṛśāṃ kusumāyudhabāṇapātavivaśānām |
abhivāñchitaṃ vidhātuṃ kṛtamatirapi tā jagātha vāmamiva ||1||

Verse 2
गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् ।
धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥2॥

gaganagataṃ muninivahaṃ śrāvayituṃ jagitha kulavadhūdharmam |
dharmyaṃ khalu te vacanaṃ karma tu no nirmalasya viśvāsyam ||2||

Verse 3
आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः ।
मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः ॥3॥

ākarṇya te pratīpāṃ vāṇīmeṇīdṛśaḥ paraṃ dīnāḥ |
mā mā karuṇāsindho parityajetyaticiraṃ vilepustāḥ ||3||

Verse 4
तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् ।
ताभिस्समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥4॥

tāsāṃ ruditairlapitaiḥ karuṇākulamānaso murāre tvam |
tābhissamaṃ pravṛtto yamunāpulineṣu kāmamabhirantum ||4||

Verse 5
चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु ।
गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥5॥

candrakarasyandalasatsundarayamunātaṭāntavīthīṣu |
gopījanottarīyairāpāditasaṃstaro nyaṣīdastvam ||5||

Verse 6
सुमधुरनर्मालपनैः करसङ्ग्रहणैश्च चुम्बनोल्लासैः ।
गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥6॥

sumadhuranarmālapanaiḥ karasaṅgrahaṇaiśca cumbanollāsaiḥ |
gāḍhāliṅganasaṅgaistvamaṅganālokamākulīcakṛṣe ||6||

Verse 7
वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् ।
तदपि विभो रसविवशस्वान्तानां कान्त सुभ्रुवामदधाः ॥7॥

vāsoharaṇadine yadvāsoharaṇaṃ pratiśrutaṃ tāsām |
tadapi vibho rasavivaśasvāntānāṃ kānta subhruvāmadadhāḥ ||7||

Verse 8
कन्दलितघर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् ।
नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥8॥

kandalitagharmaleśaṃ kundamṛdusmeravaktrapāthojam |
nandasuta tvāṃ trijagatsundaramupagūhya nanditā bālāḥ ||8||

Verse 9
विरहेष्वङ्गारमयः शृङ्गारमयश्च सङ्गमे हि त्वम् नितरामङ्गारमयस्तत्र पुनस्सङ्गमेऽपि चित्रमिदम् ॥9॥
viraheṣvaṅgāramayaḥ śṛṅgāramayaśca saṅgame hi tvam nitarāmaṅgāramayastatra punassaṅgame'pi citramidam ||9||
Verse 10
राधातुङ्गपयोधरसाधुपरीरम्भलोलुपात्मानम् ।
आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ॥10॥

rādhātuṅgapayodharasādhuparīrambhalolupātmānam |
ārādhaye bhavantaṃ pavanapurādhīśa śamaya sakalagadān ||10||

Sanskrit — Devanagari (original)
उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् ।
अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥1॥
गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् ।
धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥2॥
आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः ।
मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः ॥3॥
तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् ।
ताभिस्समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥4॥
चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु ।
गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥5॥
सुमधुरनर्मालपनैः करसङ्ग्रहणैश्च चुम्बनोल्लासैः ।
गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥6॥
वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् ।
तदपि विभो रसविवशस्वान्तानां कान्त सुभ्रुवामदधाः ॥7॥
कन्दलितघर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् ।
नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥8॥
विरहेष्वङ्गारमयः शृङ्गारमयश्च सङ्गमे हि त्वम् नितरामङ्गारमयस्तत्र पुनस्सङ्गमेऽपि चित्रमिदम् ॥9॥
राधातुङ्गपयोधरसाधुपरीरम्भलोलुपात्मानम् ।
आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ॥10॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.