श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ द्विपञ्चाशस्सर्गः ।
धूम्राक्षम्प्रेक्ष्यनिर्यान्तंराक्षसम्भीमविक्रमम् ।
विनेदुर्वानरास्सर्वेप्रहृष्टायुद्धकाङ् क्षिणः ॥ 1 ॥
तेषांसुतुमुलंयुद्धंसञ्जज्ञेकपिरक्षसाम् ।
अन्योन्यम्पादपैर्घोरन्निघ्नतांशूलमुद्गरैः ॥ 2 ॥
राक्षसैर्वानराघोराविनिकृत्तस्समन्ततः ।
वानरैराक्षसाश्चापिद्रुमैर्भूमिसमीकृताः ॥ 3 ॥
राक्षसास्त्वभिसङ्क्रुद्धावानरान्निशितैश्शरैः ।
विव्यथुर्घोरसङ्काशैःकङ्कपत्रैरजिह्मगैः ॥ 4 ॥
तेगदाभिश्चभीमाभिःपट्टसैः कूटमुद्गरैः ।
घोरैश्चपरिघैश्चित्रैस्त्रिशूलैश्चापिसंश्रितैः ॥ 5 ॥
विदार्यमाणारक्षोभिर्वानरास्तेमहाबलाः ।
अमर्षाज्जनितोद्धर्षाश्चक्रुःकर्माण्यभीतवत् ॥ 6 ॥
शरनिर्भिन्नगात्रास्तेशूलनिर्भिन्नदेहिनः ।
जगृहुस्तेद्रुमांस्तत्रशिलाश्चहरियूथपाः ॥ 7 ॥
तेभीमवेगाहरयोनर्दमानास्ततस्ततः ।
ममन्थूराक्षसान्वीरान्नामानिचबभाषिरे ॥ 8 ॥
तद्भभूवाद्भुतङ्घोरंयुद्धंवानररक्षसाम् ।
शिलाभिर्विविधाभिश्चबहुभिश्चैवपादपैः ॥ 9 ॥
राक्षसामथिताःकेचिद्वानरैर्जितकाशिभिः ।
ववमूरुधिरङ्केचिन्मुखैरुधिरभोजनाः ॥ 10 ॥
पार्श्वेषुदारिताःकेचित्केचिद्राशीकृताद्रुमैः ।
शिलाभिश्चूर्णिताःकेचित्केचिद्धन्तैर्विदारिताः ॥ 11 ॥
ध्वजैर्विमथितैर्भग्नैःखङ्गैश्चविनिपातितैः ।
रथैर्विध्वंसितैश्चापिपतितैःरजनीचरैः ॥ 12 ॥
गजेन्द्रैःपर्वताकारैःपर्वताग्रैर्वनौकसाम् ।
मथितैर्वाजिभिःकीर्णंसारोहैर्वसुधातलम् ॥ 13 ॥
वानरैर्भीमविक्रान्स्सैराप्लुत्याऽप्लुत्यवेगितैः ।
राक्षसाःकरजैस्तीक्ष्णैर्मुखेषुविनिर्तिताः ॥ 14 ॥
विषण्णवदनाभूयोविप्रकीर्णशिरोरुहाः ।
मूढाश्शोणितगन्धेननिपेतुर्धरणीतले ॥ 15 ॥
अन्येतुपरमसङ्कृक्रुद्धाराक्षसाभीमनिश्वनाः ।
तलैरेवाभिधावन्तिवज्रस्पर्शसमैर्हरीन् ॥ 16 ॥
वानरैरापतन्तस्तेवेगितावेगवत्तरैः ।
मुष्टिभिश्चरणैर्दन्स्सैःपादपैश्चावपोथिता ॥ 17 ॥
सैन्यन्तुविद्रुतन्दृष्टवाधूम्राक्षोराक्षसर्षभः ।
रोषेणकदनञ्चक्रेवानराणांयुयुत्सताम् ॥ 18 ॥
प्तासैःप्रमथिताःकेचिद्वानराश्शोणितस्रवाः ।
मुद्गरैराहताःकेचित्पातिताधरणीतले ॥ 19 ॥
परिघैर्मथिताःकेचिद्भिण्डिवालैर्विदारिताः ।
पट्टसैराहताः केचिद्विह्वलन्तोगतासवः ॥ 20 ॥
केचिद्विनिहताश्शूलैरुधिरार्द्रावनौकसः ।
केचिद्विद्रावितानष्टाःसङ्क्रुद्धैराक्षसैर्युधि ॥ 21 ॥
विभिन्नहृदयाःकेचिदेकपार्श्वेनदारिताः ।
विदारितास्त्रिशूलैश्चकेचिदान्स्रैर्विनिःसृताः ॥ 22 ॥
तत्सुभीमम्महायुद्धंहरिराक्षससङ्कुलम् ।
प्रबभौशब्दबहुलंशिलापादपसङ्कुलम् ॥ 23 ॥
धनुर्ज्यातन्त्रिमधुरंहिक्कातालसमन्वितम् ।
मन्धस्न्तितसङ्गीतन्तद्युद्धगान्धर्वमाबभौ ॥ 24 ॥
धूम्राक्षस्तुधनुष्पाणिर्वानरान्रणमूर्धनि ।
हसन्विद्रावयामासदिशस्तुशरवृष्टिभिः ॥ 25 ॥
धूम्राक्षेणार्दितंसैन्यंव्यथितम्प्रेक्ष्यमारुतिः ।
अभ्यवर्ततसङ्क्रुद्धःप्रगृह्यविपुलांशिलाम् ॥ 26 ॥
क्रोधाद् द्विद्द्विगुणताम्राक्षःपितृस्तुल्यपराक्रमः ।
शिलान्ताम्पातयामासधूम्राक्षस्यरथम्प्रति ॥ 27 ॥
आपततनींशिलान्दृष्टवागदामुद्यम्यसम्भ्रमात् ।
रथादाप्लुत्यवेगेनवसुधायांव्यतिष्ठत ॥ 28 ॥
साप्रमथ्यरथन्तस्यनिपपातशिलाभुवि ।
सचक्रकूबरसाश्वंसध्वजंसशरासनम् ॥ 29 ॥
सभङ् क्त्वातुरथन्तस्यहनुमान् मारुतात्मजः ।
रक्षसाङ्कदनञ्चक्रेसस्कन्धविटपैर्द्रुमैः ॥ 30 ॥
विभिन्नशिरसोभूत्वाराक्षसाश्शोणितोक्षिताः ।
द्रुमैःप्रमथिताश्चान्येनिपेतुर्धरणीतले ॥ 31 ॥
विद्राव्यराक्षसंसैन्यंहनुमान्मारुतात्मजः ।
गिरिशशिखरमादायधूम्राक्षमभिदुद्रुवे ॥ 32 ॥
तमापतन्तन्धूम्राक्षोगदामुद्यम्यवीर्यवान् ।
विनर्दमानःसहसाहनूमन्तमभिद्रवत् ॥ 33 ॥
तस्यक्रुद्धस्यरोषेणगदान्ताम्बहुकण्टकाम् ।
पातयामासधूम्राक्षोमस्तकेऽथहनूमतः ॥ 34 ॥
ताडितःसतयातत्रगदयाभीमरूपया ।
सकपिर्मारुतबलस्तम्प्रहारमचिन्तयन् ॥ 35 ॥
पपात सहसा भूमौ विकीर्ण;इव पर्वतः ।
धूम्र अक्षं निहतं दृष्ट्वा हत शेषा निशा चराः ॥ 36 ॥
धूम्राक्षन्निहतन्दृष्टवाहतशेषानिशाचराः ॥ 37 ॥
त्रस्ताःप्रविविशुर्लङ्कांवध्यमानाःप्लवङ्गमैः ।
सतुपवनसुतोनिहत्यशत्रून्क्षतजवहरिस्सरितश्चसन्निकीर्य ।
रिपुवधजनितश्रमोमहात्मामुदमगमत्कपिभिःसुपूज्यमानः ॥ 38 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे द्विपञ्चाशस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe yuddhakāṇḍam |
atha dvipañcāśassargaḥ |
dhūmrākṣamprekṣyaniryāntaṃrākṣasambhīmavikramam |
vinedurvānarāssarveprahṛṣṭāyuddhakāṅ kṣiṇaḥ || 1 ||
teṣāṃsutumulaṃyuddhaṃsañjajñekapirakṣasām |
anyonyampādapairghorannighnatāṃśūlamudgaraiḥ || 2 ||
rākṣasairvānarāghorāvinikṛttassamantataḥ |
vānarairākṣasāścāpidrumairbhūmisamīkṛtāḥ || 3 ||
rākṣasāstvabhisaṅkruddhāvānarānniśitaiśśaraiḥ |
vivyathurghorasaṅkāśaiḥkaṅkapatrairajihmagaiḥ || 4 ||
tegadābhiścabhīmābhiḥpaṭṭasaiḥ kūṭamudgaraiḥ |
ghoraiścaparighaiścitraistriśūlaiścāpisaṃśritaiḥ || 5 ||
vidāryamāṇārakṣobhirvānarāstemahābalāḥ |
amarṣājjanitoddharṣāścakruḥkarmāṇyabhītavat || 6 ||
śaranirbhinnagātrāsteśūlanirbhinnadehinaḥ |
jagṛhustedrumāṃstatraśilāścahariyūthapāḥ || 7 ||
tebhīmavegāharayonardamānāstatastataḥ |
mamanthūrākṣasānvīrānnāmānicababhāṣire || 8 ||
tadbhabhūvādbhutaṅghoraṃyuddhaṃvānararakṣasām |
śilābhirvividhābhiścabahubhiścaivapādapaiḥ || 9 ||
rākṣasāmathitāḥkecidvānarairjitakāśibhiḥ |
vavamūrudhiraṅkecinmukhairudhirabhojanāḥ || 10 ||
pārśveṣudāritāḥkecitkecidrāśīkṛtādrumaiḥ |
śilābhiścūrṇitāḥkecitkeciddhantairvidāritāḥ || 11 ||
dhvajairvimathitairbhagnaiḥkhaṅgaiścavinipātitaiḥ |
rathairvidhvaṃsitaiścāpipatitaiḥrajanīcaraiḥ || 12 ||
gajendraiḥparvatākāraiḥparvatāgrairvanaukasām |
mathitairvājibhiḥkīrṇaṃsārohairvasudhātalam || 13 ||
vānarairbhīmavikrānssairāplutyā'plutyavegitaiḥ |
rākṣasāḥkarajaistīkṣṇairmukheṣuvinirtitāḥ || 14 ||
viṣaṇṇavadanābhūyoviprakīrṇaśiroruhāḥ |
mūḍhāśśoṇitagandhenanipeturdharaṇītale || 15 ||
anyetuparamasaṅkṛkruddhārākṣasābhīmaniśvanāḥ |
talairevābhidhāvantivajrasparśasamairharīn || 16 ||
vānarairāpatantastevegitāvegavattaraiḥ |
muṣṭibhiścaraṇairdanssaiḥpādapaiścāvapothitā || 17 ||
sainyantuvidrutandṛṣṭavādhūmrākṣorākṣasarṣabhaḥ |
roṣeṇakadanañcakrevānarāṇāṃyuyutsatām || 18 ||
ptāsaiḥpramathitāḥkecidvānarāśśoṇitasravāḥ |
mudgarairāhatāḥkecitpātitādharaṇītale || 19 ||
parighairmathitāḥkecidbhiṇḍivālairvidāritāḥ |
paṭṭasairāhatāḥ kecidvihvalantogatāsavaḥ || 20 ||
kecidvinihatāśśūlairudhirārdrāvanaukasaḥ |
kecidvidrāvitānaṣṭāḥsaṅkruddhairākṣasairyudhi || 21 ||
vibhinnahṛdayāḥkecidekapārśvenadāritāḥ |
vidāritāstriśūlaiścakecidānsrairviniḥsṛtāḥ || 22 ||
tatsubhīmammahāyuddhaṃharirākṣasasaṅkulam |
prababhauśabdabahulaṃśilāpādapasaṅkulam || 23 ||
dhanurjyātantrimadhuraṃhikkātālasamanvitam |
mandhasntitasaṅgītantadyuddhagāndharvamābabhau || 24 ||
dhūmrākṣastudhanuṣpāṇirvānarānraṇamūrdhani |
hasanvidrāvayāmāsadiśastuśaravṛṣṭibhiḥ || 25 ||
dhūmrākṣeṇārditaṃsainyaṃvyathitamprekṣyamārutiḥ |
abhyavartatasaṅkruddhaḥpragṛhyavipulāṃśilām || 26 ||
krodhād dviddviguṇatāmrākṣaḥpitṛstulyaparākramaḥ |
śilāntāmpātayāmāsadhūmrākṣasyarathamprati || 27 ||
āpatatanīṃśilāndṛṣṭavāgadāmudyamyasambhramāt |
rathādāplutyavegenavasudhāyāṃvyatiṣṭhata || 28 ||
sāpramathyarathantasyanipapātaśilābhuvi |
sacakrakūbarasāśvaṃsadhvajaṃsaśarāsanam || 29 ||
sabhaṅ ktvāturathantasyahanumān mārutātmajaḥ |
rakṣasāṅkadanañcakresaskandhaviṭapairdrumaiḥ || 30 ||
vibhinnaśirasobhūtvārākṣasāśśoṇitokṣitāḥ |
drumaiḥpramathitāścānyenipeturdharaṇītale || 31 ||
vidrāvyarākṣasaṃsainyaṃhanumānmārutātmajaḥ |
giriśaśikharamādāyadhūmrākṣamabhidudruve || 32 ||
tamāpatantandhūmrākṣogadāmudyamyavīryavān |
vinardamānaḥsahasāhanūmantamabhidravat || 33 ||
tasyakruddhasyaroṣeṇagadāntāmbahukaṇṭakām |
pātayāmāsadhūmrākṣomastake'thahanūmataḥ || 34 ||
tāḍitaḥsatayātatragadayābhīmarūpayā |
sakapirmārutabalastamprahāramacintayan || 35 ||
papāta sahasā bhūmau vikīrṇa;iva parvataḥ |
dhūmra akṣaṃ nihataṃ dṛṣṭvā hata śeṣā niśā carāḥ || 36 ||
dhūmrākṣannihatandṛṣṭavāhataśeṣāniśācarāḥ || 37 ||
trastāḥpraviviśurlaṅkāṃvadhyamānāḥplavaṅgamaiḥ |
satupavanasutonihatyaśatrūnkṣatajavaharissaritaścasannikīrya |
ripuvadhajanitaśramomahātmāmudamagamatkapibhiḥsupūjyamānaḥ || 38 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye yuddhakāṇḍe dvipañcāśassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.