विदुर नीति - उद्योग पर्वम्, अध्यायः 40

Vidura Niti - Udyoga Parvam, Adhyayah 40

✍️ Vyasa 🖋️ Devanagari script
📄 Download PDF
॥ इति श्रीमाहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये चत्वारिंशोऽध्यायः ॥
विदुर उवाच ।
योऽभ्यर्थितः सद्भिरसज्जमानः
करोत्यर्थं शक्तिमहापयित्वा ।
क्षिप्रं यशस्तं समुपैति सन्तमलं
प्रसन्ना हि सुखाय सन्तः ॥ 1॥
महान्तमप्यर्थमधर्मयुक्तं
यः सन्त्यजत्यनुपाक्रुष्ट एव ।
सुखं स दुःखान्यवमुच्य शेते
जीर्णां त्वचं सर्प इवावमुच्य ॥ 2॥
अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।
गुरोश्चालीक निर्बन्धः समानि ब्रह्महत्यया ॥ 3॥
असूयैक पदं मृत्युरतिवादः श्रियो वधः ।
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥ 4॥
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् ।
सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् ॥ 5॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ 6॥
आशा धृतिं हन्ति समृद्धिमन्तकः
क्रोधः श्रियं हन्ति यशः कदर्यता ।
अपालनं हन्ति पशूंश्च राजन्न्
एकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ॥ 7॥
अजश्च कांस्यं च रथश्च नित्यं
मध्वाकर्षः शकुनिः श्रोत्रियश् च ।
वृद्धो ज्ञातिरवसन्नो वयस्य
एतानि ते सन्तु गृहे सदैव ॥ 8॥
अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी ।
विषमौदुम्बरं शङ्खः स्वर्णं नाभिश्च रोचना ॥ 9॥
गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् ।
देव ब्राह्मण पूजार्थमतिथीनां च भारत ॥ 10॥
इदं च त्वां सर्वपरं ब्रवीमि
पुण्यं पदं तात महाविशिष्टम् ।
न जातु कामान्न भयान्न लोभाद्
धर्मं त्यजेज्जीवितस्यापि हेतोः ॥ 11॥
नित्यो धर्मः सुखदुःखे त्वनित्ये
नित्यो जीवो धातुरस्य त्वनित्यः ।
त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये
सन्तुष्य त्वं तोष परो हि लाभः ॥ 12॥
महाबलान्पश्य मनानुभावान्
प्रशास्य भूमिं धनधान्य पूर्णाम् ।
राज्यानि हित्वा विपुलांश्च भोगान्
गतान्नरेन्द्रान्वशमन्तकस्य ॥ 13॥
मृतं पुत्रं दुःखपुष्टं मनुष्या
उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति ।
तं मुक्तकेशाः करुणं रुदन्तश्
चितामध्ये काष्ठमिव क्षिपन्ति ॥ 14॥
अन्यो धनं प्रेतगतस्य भुङ्क्ते
वयांसि चाग्निश्च शरीरधातून् ।
द्वाभ्यामयं सह गच्छत्यमुत्र
पुण्येन पापेन च वेष्ट्यमानः ॥ 15॥
उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः ।
अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् ॥ 16॥
अस्माल्लोकादूर्ध्वममुष्य चाधो
महत्तमस्तिष्ठति ह्यन्धकारम् ।
तद्वै महामोहनमिन्द्रियाणां
बुध्यस्व मा त्वां प्रलभेत राजन् ॥ 17॥
इदं वचः शक्ष्यसि चेद्यथावन्
निशम्य सर्वं प्रतिपत्तुमेवम् ।
यशः परं प्राप्स्यसि जीवलोके
भयं न चामुत्र न चेह तेऽस्ति ॥ 18॥
आत्मा नदी भारत पुण्यतीर्था
सत्योदका धृतिकूला दमोर्मिः ।
तस्यां स्नातः पूयते पुण्यकर्मा
पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव ॥ 19॥
कामक्रोधग्राहवतीं पञ्चेन्द्रिय जलां नदीम् ।
कृत्वा धृतिमयीं नावं जन्म दुर्गाणि सन्तर ॥ 20॥
प्रज्ञा वृद्धं धर्मवृद्धं स्वबन्धुं
विद्या वृद्धं वयसा चापि वृद्धम् ।
कार्याकार्ये पूजयित्वा प्रसाद्य
यः सम्पृच्छेन्न स मुह्येत्कदा चित् ॥ 21॥
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ।
चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ 22॥
नित्योदकी नित्ययज्ञोपवीती
नित्यस्वाध्यायी पतितान्न वर्जी ।
ऋतं ब्रुवन्गुरवे कर्म कुर्वन्
न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ 23॥
अधीत्य वेदान्परिसंस्तीर्य चाग्नीन्
इष्ट्वा यज्ञैः पालयित्वा प्रजाश् च ।
गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा
हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति ॥ 24॥
वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश् च
धनैः काले संविभज्याश्रितांश् च ।
त्रेता पूतं धूममाघ्राय पुण्यं
प्रेत्य स्वर्गे देव सुखानि भुङ्क्ते ॥ 25॥
ब्रह्मक्षत्रं वैश्य वर्णं च शूद्रः
क्रमेणैतान्न्यायतः पूजयानः ।
तुष्टेष्वेतेष्वव्यथो दग्धपापस्
त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ॥ 26॥
चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो
हेतुं चात्र ब्रुवतो मे निबोध ।
क्षात्राद्धर्माद्धीयते पाण्डुपुत्रस्
तं त्वं राजन्राजधर्मे नियुङ्क्ष्व ॥ 27॥
धृतराष्ट्र उवाच ।
एवमेतद्यथा मां त्वमनुशासति नित्यदा ।
ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ॥ 28॥
सा तु बुद्दिः कृताप्येवं पाण्डवान्रप्ति मे सदा ।
दुर्योधनं समासाद्य पुनर्विपरिवर्तते ॥ 29॥
न दिष्टमभ्यतिक्रान्तुं शक्यं मर्त्येन केन चित् ।
दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् ॥ 30॥
॥ इति श्रीमाहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये चत्वारिंशोऽध्यायः ॥ 40॥
इति विदुर नीति समाप्ता ॥
Roman (IAST) Transliteration
|| iti śrīmāhābhārate udyogaparvaṇi prajāgaraparvaṇi viduravākye catvāriṃśo'dhyāyaḥ ||
vidura uvāca |
yo'bhyarthitaḥ sadbhirasajjamānaḥ
karotyarthaṃ śaktimahāpayitvā |
kṣipraṃ yaśastaṃ samupaiti santamalaṃ
prasannā hi sukhāya santaḥ || 1||
mahāntamapyarthamadharmayuktaṃ
yaḥ santyajatyanupākruṣṭa eva |
sukhaṃ sa duḥkhānyavamucya śete
jīrṇāṃ tvacaṃ sarpa ivāvamucya || 2||
anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam |
guroścālīka nirbandhaḥ samāni brahmahatyayā || 3||
asūyaika padaṃ mṛtyurativādaḥ śriyo vadhaḥ |
aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ || 4||
sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham |
sukhārthī vā tyajedvidyāṃ vidyārthī vā sukhaṃ tyajet || 5||
nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ |
nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā || 6||
āśā dhṛtiṃ hanti samṛddhimantakaḥ
krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā |
apālanaṃ hanti paśūṃśca rājann
ekaḥ kruddho brāhmaṇo hanti rāṣṭram || 7||
ajaśca kāṃsyaṃ ca rathaśca nityaṃ
madhvākarṣaḥ śakuniḥ śrotriyaś ca |
vṛddho jñātiravasanno vayasya
etāni te santu gṛhe sadaiva || 8||
ajokṣā candanaṃ vīṇā ādarśo madhusarpiṣī |
viṣamaudumbaraṃ śaṅkhaḥ svarṇaṃ nābhiśca rocanā || 9||
gṛhe sthāpayitavyāni dhanyāni manurabravīt |
deva brāhmaṇa pūjārthamatithīnāṃ ca bhārata || 10||
idaṃ ca tvāṃ sarvaparaṃ bravīmi
puṇyaṃ padaṃ tāta mahāviśiṣṭam |
na jātu kāmānna bhayānna lobhād
dharmaṃ tyajejjīvitasyāpi hetoḥ || 11||
nityo dharmaḥ sukhaduḥkhe tvanitye
nityo jīvo dhāturasya tvanityaḥ |
tyaktvānityaṃ pratitiṣṭhasva nitye
santuṣya tvaṃ toṣa paro hi lābhaḥ || 12||
mahābalānpaśya manānubhāvān
praśāsya bhūmiṃ dhanadhānya pūrṇām |
rājyāni hitvā vipulāṃśca bhogān
gatānnarendrānvaśamantakasya || 13||
mṛtaṃ putraṃ duḥkhapuṣṭaṃ manuṣyā
utkṣipya rājansvagṛhānnirharanti |
taṃ muktakeśāḥ karuṇaṃ rudantaś
citāmadhye kāṣṭhamiva kṣipanti || 14||
anyo dhanaṃ pretagatasya bhuṅkte
vayāṃsi cāgniśca śarīradhātūn |
dvābhyāmayaṃ saha gacchatyamutra
puṇyena pāpena ca veṣṭyamānaḥ || 15||
utsṛjya vinivartante jñātayaḥ suhṛdaḥ sutāḥ |
agnau prāstaṃ tu puruṣaṃ karmānveti svayaṃ kṛtam || 16||
asmāllokādūrdhvamamuṣya cādho
mahattamastiṣṭhati hyandhakāram |
tadvai mahāmohanamindriyāṇāṃ
budhyasva mā tvāṃ pralabheta rājan || 17||
idaṃ vacaḥ śakṣyasi cedyathāvan
niśamya sarvaṃ pratipattumevam |
yaśaḥ paraṃ prāpsyasi jīvaloke
bhayaṃ na cāmutra na ceha te'sti || 18||
ātmā nadī bhārata puṇyatīrthā
satyodakā dhṛtikūlā damormiḥ |
tasyāṃ snātaḥ pūyate puṇyakarmā
puṇyo hyātmā nityamambho'mbha eva || 19||
kāmakrodhagrāhavatīṃ pañcendriya jalāṃ nadīm |
kṛtvā dhṛtimayīṃ nāvaṃ janma durgāṇi santara || 20||
prajñā vṛddhaṃ dharmavṛddhaṃ svabandhuṃ
vidyā vṛddhaṃ vayasā cāpi vṛddham |
kāryākārye pūjayitvā prasādya
yaḥ sampṛcchenna sa muhyetkadā cit || 21||
dhṛtyā śiśnodaraṃ rakṣetpāṇipādaṃ ca cakṣuṣā |
cakṣuḥ śrotre ca manasā mano vācaṃ ca karmaṇā || 22||
nityodakī nityayajñopavītī
nityasvādhyāyī patitānna varjī |
ṛtaṃ bruvangurave karma kurvan
na brāhmaṇaścyavate brahmalokāt || 23||
adhītya vedānparisaṃstīrya cāgnīn
iṣṭvā yajñaiḥ pālayitvā prajāś ca |
gobrāhmaṇārthe śastrapūtāntarātmā
hataḥ saṅgrāme kṣatriyaḥ svargameti || 24||
vaiśyo'dhītya brāhmaṇānkṣatriyāṃś ca
dhanaiḥ kāle saṃvibhajyāśritāṃś ca |
tretā pūtaṃ dhūmamāghrāya puṇyaṃ
pretya svarge deva sukhāni bhuṅkte || 25||
brahmakṣatraṃ vaiśya varṇaṃ ca śūdraḥ
krameṇaitānnyāyataḥ pūjayānaḥ |
tuṣṭeṣveteṣvavyatho dagdhapāpas
tyaktvā dehaṃ svargasukhāni bhuṅkte || 26||
cāturvarṇyasyaiṣa dharmastavokto
hetuṃ cātra bruvato me nibodha |
kṣātrāddharmāddhīyate pāṇḍuputras
taṃ tvaṃ rājanrājadharme niyuṅkṣva || 27||
dhṛtarāṣṭra uvāca |
evametadyathā māṃ tvamanuśāsati nityadā |
mamāpi ca matiḥ saumya bhavatyevaṃ yathāttha mām || 28||
sā tu buddiḥ kṛtāpyevaṃ pāṇḍavānrapti me sadā |
duryodhanaṃ samāsādya punarviparivartate || 29||
na diṣṭamabhyatikrāntuṃ śakyaṃ martyena kena cit |
diṣṭameva kṛtaṃ manye pauruṣaṃ tu nirarthakam || 30||
|| iti śrīmāhābhārate udyogaparvaṇi prajāgaraparvaṇi viduravākye catvāriṃśo'dhyāyaḥ || 40||
iti vidura nīti samāptā ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in