📚 Valmiki Ramayana · Sundara Kanda

5.8 सुन्दरकाण्ड - अष्टम सर्गः

Sarga 8

✍️ Author Maharishi Valmiki 🖋️ Devanagari script 🔢 7 verses
📄 Download PDF
View: Text in this script too →
🖋️ Script: कोंकणी ▾
Meaning —
श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ अष्टमस्सर्गः ।
Shloka 1
स तस्य मध्ये भवनस्य संस्थितं महद्विमानं मणिवज्रचित्रितम् ।
प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श वीरः पवनात्मजः कपिः ॥ 1 ॥
sa tasya madhye bhavanasya saṃsthitaṃ mahadvimānaṃ maṇivajracitritam |
prataptajāmbūnadajālakṛtrimaṃ dadarśa vīraḥ pavanātmajaḥ kapiḥ || 1 ||
Shloka 2
तदप्रमेयाप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा ।
दिवं गतं वायुपथप्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत् ॥ 2 ॥
tadaprameyāpratikārakṛtrimaṃ kṛtaṃ svayaṃ sādhviti viśvakarmaṇā |
divaṃ gataṃ vāyupathapratiṣṭhitaṃ vyarājatādityapathasya lakṣmavat || 2 ||
Shloka 3
न तत्र किञ्चिन्न कृतं प्रयत्नतो न तत्र किञ्चिन्न महार्हरत्नवत् ।
न ते विशेषा नियताः सुरेष्वपि न तत्र किञ्चिन्न महाविशेषवत् ॥ 3 ॥
na tatra kiñcinna kṛtaṃ prayatnato na tatra kiñcinna mahārharatnavat |
na te viśeṣā niyatāḥ sureṣvapi na tatra kiñcinna mahāviśeṣavat || 3 ||
Shloka 4
तपः समाधानपराक्रमार्जितं मनः समाधानविचारचारिणम् ।
अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम् ॥ 4 ॥
tapaḥ samādhānaparākramārjitaṃ manaḥ samādhānavicāracāriṇam |
anekasaṃsthānaviśeṣanirmitaṃ tatastatastulyaviśeṣadarśanam || 4 ||
Shloka 5
विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम् ।
मनोऽभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा ॥ 5 ॥
viśeṣamālambya viśeṣasaṃsthitaṃ vicitrakūṭaṃ bahukūṭamaṇḍitam |
mano'bhirāmaṃ śaradindunirmalaṃ vicitrakūṭaṃ śikharaṃ gireryathā || 5 ||
Shloka 6
वहन्ति यं कुण्डलशोभिताननाः महाशना व्योमचरा निशाचराः ।
विवृत्तविध्वस्तविशाललोचनाः महाजवा भूतगणाः सहस्रशः ॥ 6 ॥
vahanti yaṃ kuṇḍalaśobhitānanāḥ mahāśanā vyomacarā niśācarāḥ |
vivṛttavidhvastaviśālalocanāḥ mahājavā bhūtagaṇāḥ sahasraśaḥ || 6 ||
Shloka 7
वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि कान्तदर्शनम् ।
स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः ॥ 7 ॥
vasantapuṣpotkaracārudarśanaṃ vasantamāsādapi kāntadarśanam |
sa puṣpakaṃ tatra vimānamuttamaṃ dadarśa tadvānaravīrasattamaḥ || 7 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे अष्टमस्सर्गः ॥
Sanskrit — Devanagari (original)
श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ अष्टमस्सर्गः ।
स तस्य मध्ये भवनस्य संस्थितं महद्विमानं मणिवज्रचित्रितम् ।
प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श वीरः पवनात्मजः कपिः ॥ 1 ॥
तदप्रमेयाप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा ।
दिवं गतं वायुपथप्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत् ॥ 2 ॥
न तत्र किञ्चिन्न कृतं प्रयत्नतो न तत्र किञ्चिन्न महार्हरत्नवत् ।
न ते विशेषा नियताः सुरेष्वपि न तत्र किञ्चिन्न महाविशेषवत् ॥ 3 ॥
तपः समाधानपराक्रमार्जितं मनः समाधानविचारचारिणम् ।
अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम् ॥ 4 ॥
विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम् ।
मनोऽभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा ॥ 5 ॥
वहन्ति यं कुण्डलशोभिताननाः महाशना व्योमचरा निशाचराः ।
विवृत्तविध्वस्तविशाललोचनाः महाजवा भूतगणाः सहस्रशः ॥ 6 ॥
वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि कान्तदर्शनम् ।
स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः ॥ 7 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे अष्टमस्सर्गः ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in