5.42 सुन्दरकाण्ड - द्विचत्वारिंश सर्गः

5.42 Sundarakanda - Dvichatvarimsha Sargah

✍️ Valmiki 🖋️ Devanagari script
📄 Download PDF
श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ द्विचत्वारिंशस्सर्गः ।
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।
बभूवुस्त्राससम्भ्रान्तास्सर्वे लङ्कानिवासिनः ॥ 1 ॥
विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः ।
रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥ 2 ॥
ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।
तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥ 3 ॥
स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः ।
चकार सुमहद्रूपं राक्षसीनां भयावहम् ॥ 4 ॥
ततस्तं गिरिसङ्काशमतिकायं महाबलम् ।
राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥ 5 ॥
कोऽयं कस्य कुतो वायं किं निमित्तमिहागतः ।
कथं त्वया सहानेन संवादः कृत इत्युत ॥ 6 ॥
आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ।
संवादमसितापाङ्गे त्वया किं कृतवानयम् ॥ 7 ॥
अथाब्रवीन्महासाध्वी सीता सर्वाङ्गसुन्दरी ।
रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ॥ 8 ॥
यूयमेवाभिजानीत योऽयं यद्वा करिष्यति ।
अहिरेव ह्यहेः पादान्विजानाति न संशयः ॥ 9 ॥
अहमप्यस्य भीतास्मि नैनं जानामि को न्वयम् ।
वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ॥ 10 ॥
वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः ।
स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ॥ 11 ॥
रावणस्य समीपे तु राक्षस्यो विकृताननाः ।
विरूपं वानरं भीममाख्यातुमुपचक्रमुः ॥ 12 ॥
अशोकवनिकामध्ये राजन्भीमवपुः कपिः ।
सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः ॥ 13 ॥
न च तं जानकी सीता हरिं हरिणलोचना ।
अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति ॥ 14 ॥
वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा ।
प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया ॥ 15 ॥
तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् ।
नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ॥ 16 ॥
न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ।
यत्र सा जानकी सीता स तेन न विनाशितः ॥ 17 ॥
जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते ।
अथवा कश्श्रमस्तस्य सैव तेनाभिरक्षिता ॥ 18 ॥
चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता ।
प्रवृद्धश्शिंशुपावृक्ष स्स च तेनाभिरक्षितः ॥ 19 ॥
तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि ।
सीता सम्भाषिता येन तद्वनं च विनाशितम् ॥ 20 ॥
मनः परिगृहीतां तां तव रक्षोगणेश्वर ।
कस्सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ॥ 21 ॥
राक्षसीनां वचश्त्रुत्वा रावणो राक्षसेश्वरः ।
हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ॥ 22 ॥
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः ।
दीप्ताभ्यामिव दीपाभ्यां सार्चिष स्स्नेहबिन्दवः ॥ 23 ॥
आत्मनस्सदृशान्शूरान्किङ्करान्नाम राक्षसान् ।
व्यादिदेश महातेजा निग्रहार्थं हनूमतः ॥ 24 ॥
तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् ।
निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः ॥ 25 ॥
महोदरा महादंष्ट्रा घोररूपा महाबलाः ।
युद्धाभिमनसस्सर्वे हनुमद्ग्रहणोद्यताः ॥ 26 ॥
ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम् ।
अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ॥ 27 ॥
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।
आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ॥ 28 ॥
मुद्गरैः पट्टिशैश्शूलैः प्रासतोमरशक्तिभिः ।
परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ॥ 29 ॥
हनुमानपि तेजस्वी श्रीमान्पर्वतसन्निभः ।
क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम् ॥ 30 ॥
स भूत्वा सुमहाकायो हनुमान्मारुतात्मजः ।
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ 31 ॥
तस्यास्फोटितशब्देन महता सानुनादिना ।
पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ॥ 32 ॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 33 ॥
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमान्शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ 34 ॥
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ 35 ॥
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ 36 ॥
तस्य सन्नादशब्देन तेऽभवन्भयशङ्किताः ।
ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ॥ 37 ॥
स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम् ।
चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ 38 ॥
स तैः परिवृतश्शूरैस्सर्वतस्सुमहाबलः ।
आससादाऽयसं भीमं परिघं तोरणाश्रितम् ॥ 39 ॥
स तं परिघमादाय जघान रजनीचरान् ।
स पन्नगमिवादाय स्फुरन्तं विनतासुतः ॥ 40 ॥
विचचाराम्बरे वीरः परिगृह्य च मारुतिः ।
स हत्वा राक्षसान्वीरान्किङ्करान्मारुतात्मजः ॥ 41 ॥
युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः ।
ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः ॥ 42 ॥
निहतान्किङ्करान्सर्वान्रावणायन्यवेदयन् ।
स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः ।
समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम् ॥ 43 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे द्विचत्वारिंशस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe sundarakāṇḍam |
atha dvicatvāriṃśassargaḥ |
tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca |
babhūvustrāsasambhrāntāssarve laṅkānivāsinaḥ || 1 ||
vidrutāśca bhayatrastā vinedurmṛgapakṣiṇaḥ |
rakṣasāṃ ca nimittāni krūrāṇi pratipedire || 2 ||
tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ |
tadvanaṃ dadṛśurbhagnaṃ taṃ ca vīraṃ mahākapim || 3 ||
sa tā dṛṣṭvā mahābāhurmahāsattvo mahābalaḥ |
cakāra sumahadrūpaṃ rākṣasīnāṃ bhayāvaham || 4 ||
tatastaṃ girisaṅkāśamatikāyaṃ mahābalam |
rākṣasyo vānaraṃ dṛṣṭvā papracchurjanakātmajām || 5 ||
ko'yaṃ kasya kuto vāyaṃ kiṃ nimittamihāgataḥ |
kathaṃ tvayā sahānena saṃvādaḥ kṛta ityuta || 6 ||
ācakṣva no viśālākṣi mā bhūtte subhage bhayam |
saṃvādamasitāpāṅge tvayā kiṃ kṛtavānayam || 7 ||
athābravīnmahāsādhvī sītā sarvāṅgasundarī |
rakṣasāṃ bhīmarūpāṇāṃ vijñāne mama kā gatiḥ || 8 ||
yūyamevābhijānīta yo'yaṃ yadvā kariṣyati |
ahireva hyaheḥ pādānvijānāti na saṃśayaḥ || 9 ||
ahamapyasya bhītāsmi nainaṃ jānāmi ko nvayam |
vedmi rākṣasamevainaṃ kāmarūpiṇamāgatam || 10 ||
vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā diśaḥ |
sthitāḥ kāścidgatāḥ kāścidrāvaṇāya niveditum || 11 ||
rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ |
virūpaṃ vānaraṃ bhīmamākhyātumupacakramuḥ || 12 ||
aśokavanikāmadhye rājanbhīmavapuḥ kapiḥ |
sītayā kṛtasaṃvādastiṣṭhatyamitavikramaḥ || 13 ||
na ca taṃ jānakī sītā hariṃ hariṇalocanā |
asmābhirbahudhā pṛṣṭā nivedayitumicchati || 14 ||
vāsavasya bhaveddūto dūto vaiśravaṇasya vā |
preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā || 15 ||
tena tvadbhutarūpeṇa yattattava manoharam |
nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam || 16 ||
na tatra kaściduddeśo yastena na vināśitaḥ |
yatra sā jānakī sītā sa tena na vināśitaḥ || 17 ||
jānakīrakṣaṇārthaṃ vā śramādvā nopalabhyate |
athavā kaśśramastasya saiva tenābhirakṣitā || 18 ||
cārupallavapuṣpāḍhyaṃ yaṃ sītā svayamāsthitā |
pravṛddhaśśiṃśupāvṛkṣa ssa ca tenābhirakṣitaḥ || 19 ||
tasyograrūpasyogra tvaṃ daṇḍamājñātumarhasi |
sītā sambhāṣitā yena tadvanaṃ ca vināśitam || 20 ||
manaḥ parigṛhītāṃ tāṃ tava rakṣogaṇeśvara |
kassītāmabhibhāṣeta yo na syāttyaktajīvitaḥ || 21 ||
rākṣasīnāṃ vacaśtrutvā rāvaṇo rākṣaseśvaraḥ |
hutāgniriva jajvāla kopasaṃvartitekṣaṇaḥ || 22 ||
tasya kruddhasya netrābhyāṃ prāpatannāsrabindavaḥ |
dīptābhyāmiva dīpābhyāṃ sārciṣa ssnehabindavaḥ || 23 ||
ātmanassadṛśānśūrānkiṅkarānnāma rākṣasān |
vyādideśa mahātejā nigrahārthaṃ hanūmataḥ || 24 ||
teṣāmaśītisāhasraṃ kiṅkarāṇāṃ tarasvinām |
niryayurbhavanāttasmātkūṭamudgarapāṇayaḥ || 25 ||
mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ |
yuddhābhimanasassarve hanumadgrahaṇodyatāḥ || 26 ||
te kapīndraṃ samāsādya toraṇasthamavasthitam |
abhipeturmahāvegāḥ pataṅgā iva pāvakam || 27 ||
te gadābhirvicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ |
ājaghnurvānaraśreṣṭhaṃ śaraiścādityasannibhaiḥ || 28 ||
mudgaraiḥ paṭṭiśaiśśūlaiḥ prāsatomaraśaktibhiḥ |
parivārya hanūmantaṃ sahasā tasthuragrataḥ || 29 ||
hanumānapi tejasvī śrīmānparvatasannibhaḥ |
kṣitāvāvidhya lāṅgūlaṃ nanāda ca mahāsvanam || 30 ||
sa bhūtvā sumahākāyo hanumānmārutātmajaḥ |
dhṛṣṭamāsphoṭayāmāsa laṅkāṃ śabdena pūrayan || 31 ||
tasyāsphoṭitaśabdena mahatā sānunādinā |
peturvihaṅgā gaganāduccaiścedamaghoṣayat || 32 ||
jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvo rāghaveṇābhipālitaḥ || 33 ||
dāso'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ |
hanumānśatrusainyānāṃ nihantā mārutātmajaḥ || 34 ||
na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet |
śilābhistu praharataḥ pādapaiśca sahasraśaḥ || 35 ||
ardayitvā purīṃ laṅkāmabhivādya ca maithilīm |
samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām || 36 ||
tasya sannādaśabdena te'bhavanbhayaśaṅkitāḥ |
dadṛśuśca hanūmantaṃ sandhyāmeghamivonnatam || 37 ||
svāmisandeśaniśśaṅkāstataste rākṣasāḥ kapim |
citraiḥ praharaṇairbhīmairabhipetustatastataḥ || 38 ||
sa taiḥ parivṛtaśśūraissarvatassumahābalaḥ |
āsasādā'yasaṃ bhīmaṃ parighaṃ toraṇāśritam || 39 ||
sa taṃ parighamādāya jaghāna rajanīcarān |
sa pannagamivādāya sphurantaṃ vinatāsutaḥ || 40 ||
vicacārāmbare vīraḥ parigṛhya ca mārutiḥ |
sa hatvā rākṣasānvīrānkiṅkarānmārutātmajaḥ || 41 ||
yuddhākāṅkṣī punarvīrastoraṇaṃ samupāśritaḥ |
tatastasmādbhayānmuktāḥ katicittatra rākṣasāḥ || 42 ||
nihatānkiṅkarānsarvānrāvaṇāyanyavedayan |
sa rākṣasānāṃ nihataṃ mahadbalaṃ niśamya rājā parivṛttalocanaḥ |
samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam || 43 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye sundarakāṇḍe dvicatvāriṃśassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in