अष्टावक्र उवाच ॥
यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः ।
तस्मै सुखैकरूपाय नमः शान्ताय तेजसे ॥ 18-1॥
अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान् ।
न हि सर्वपरित्यागमन्तरेण सुखी भवेत् ॥ 18-2॥
कर्तव्यदुःखमार्तण्डज्वालादग्धान्तरात्मनः ।
कुतः प्रशमपीयूषधारासारमृते सुखम् ॥ 18-3॥
भवोऽयं भावनामात्रो न किञ्चित् परमार्थतः ।
नास्त्यभावः स्वभावानां भावाभावविभाविनाम् ॥ 18-4॥
न दूरं न च सङ्कोचाल्लब्धमेवात्मनः पदम् ।
निर्विकल्पं निरायासं निर्विकारं निरञ्जनम् ॥ 18-5॥
व्यामोहमात्रविरतौ स्वरूपादानमात्रतः ।
वीतशोका विराजन्ते निरावरणदृष्टयः ॥ 18-6॥
समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः ।
इति विज्ञाय धीरो हि किमभ्यस्यति बालवत् ॥ 18-7॥
आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ ।
निष्कामः किं विजानाति किं ब्रूते च करोति किम् ॥ 18-8॥
अयं सोऽहमयं नाहमिति क्षीणा विकल्पना ।
सर्वमात्मेति निश्चित्य तूष्णीम्भूतस्य योगिनः ॥ 18-9॥
न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता ।
न सुखं न च वा दुःखमुपशान्तस्य योगिनः ॥ 18-10॥
स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने ।
निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः ॥ 18-11॥
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता ।
इदं कृतमिदं नेति द्वन्द्वैर्मुक्तस्य योगिनः ॥ 18-12॥
कृत्यं किमपि नैवास्ति न कापि हृदि रञ्जना ।
यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः ॥ 18-13॥
क्व मोहः क्व च वा विश्वं क्व तद् ध्यानं क्व मुक्तता ।
सर्वसङ्कल्पसीमायां विश्रान्तस्य महात्मनः ॥ 18-14॥
येन विश्वमिदं दृष्टं स नास्तीति करोतु वै ।
निर्वासनः किं कुरुते पश्यन्नपि न पश्यति ॥ 18-15॥
येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत् ।
किं चिन्तयति निश्चिन्तो द्वितीयं यो न पश्यति ॥ 18-16॥
दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ ।
उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम् ॥ 18-17॥
धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत् ।
न समाधिं न विक्षेपं न लोपं स्वस्य पश्यति ॥ 18-18॥
भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः ।
नैव किञ्चित्कृतं तेन लोकदृष्ट्या विकुर्वता ॥ 18-19॥
प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः ।
यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठतः सुखम् ॥ 18-20॥
निर्वासनो निरालम्बः स्वच्छन्दो मुक्तबन्धनः ।
क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत् ॥ 18-21॥
असंसारस्य तु क्वापि न हर्षो न विषादता ।
स शीतलमना नित्यं विदेह इव राजये ॥ 18-22॥
कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित् ।
आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः ॥ 18-23॥
प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया ।
प्राकृतस्येव धीरस्य न मानो नावमानता ॥ 18-24॥
कृतं देहेन कर्मेदं न मया शुद्धरूपिणा ।
इति चिन्तानुरोधी यः कुर्वन्नपि करोति न ॥ 18-25॥
अतद्वादीव कुरुते न भवेदपि बालिशः ।
जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते ॥ 18-26॥
नानाविचारसुश्रान्तो धीरो विश्रान्तिमागतः ।
न कल्पते न जानाति न शृणोति न पश्यति ॥ 18-27॥
असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः ।
निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः ॥ 18-28॥
यस्यान्तः स्यादहङ्कारो न करोति करोति सः ।
निरहङ्कारधीरेण न किञ्चिदकृतं कृतम् ॥ 18-29॥
नोद्विग्नं न च सन्तुष्टमकर्तृ स्पन्दवर्जितम् ।
निराशं गतसन्देहं चित्तं मुक्तस्य राजते ॥ 18-30॥
निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते ।
निर्निमित्तमिदं किन्तु निर्ध्यायेति विचेष्टते ॥ 18-31॥
तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढताम् ।
अथवा याति सङ्कोचममूढः कोऽपि मूढवत् ॥ 18-32॥
एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशम् ।
धीराः कृत्यं न पश्यन्ति सुप्तवत्स्वपदे स्थिताः ॥ 18-33॥
अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिम् ।
तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः ॥ 18-34॥
शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपञ्चं निरामयम् ।
आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः ॥ 18-35॥
नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा ।
धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः ॥ 18-36॥
मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति ।
अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् ॥ 18-37॥
निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः ।
एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः ॥ 18-38॥
न शान्तिं लभते मूढो यतः शमितुमिच्छति ।
धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः ॥ 18-39॥
क्वात्मनो दर्शनं तस्य यद् दृष्टमवलम्बते ।
धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानमव्ययम् ॥ 18-40॥
क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै ।
स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः ॥ 18-41॥
भावस्य भावकः कश्चिन् न किञ्चिद् भावकोपरः ।
उभयाभावकः कश्चिद् एवमेव निराकुलः ॥ 18-42॥
शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः ।
न तु जानन्ति सम्मोहाद्यावज्जीवमनिर्वृताः ॥ 18-43॥
मुमुक्षोर्बुद्धिरालम्बमन्तरेण न विद्यते ।
निरालम्बैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा ॥ 18-44॥
विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः ।
विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये ॥ 18-45॥
निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः ।
पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः ॥ 18-46॥
न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम् ॥ 18-47॥
वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः ।
नैवाचारमनाचारमौदास्यं वा प्रपश्यति ॥ 18-48॥
यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः ।
शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत् ॥ 18-49॥
स्वातन्त्र्यात्सुखमाप्नोति स्वातन्त्र्याल्लभते परम् ।
स्वातन्त्र्यान्निर्वृतिं गच्छेत्स्वातन्त्र्यात् परमं पदम् ॥ 18-50॥
अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा ।
तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः ॥ 18-51॥
उच्छृङ्खलाप्यकृतिका स्थितिर्धीरस्य राजते ।
न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा ॥ 18-52॥
विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान् ।
निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः ॥ 18-53॥
श्रोत्रियं देवतां तीर्थमङ्गनां भूपतिं प्रियम् ।
दृष्ट्वा सम्पूज्य धीरस्य न कापि हृदि वासना ॥ 18-54॥
भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः ।
विहस्य धिक्कृतो योगी न याति विकृतिं मनाक् ॥ 18-55॥
सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते ।
तस्याश्चर्यदशां तां तां तादृशा एव जानते ॥ 18-56॥
कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः ।
शून्याकारा निराकारा निर्विकारा निरामयाः ॥ 18-57॥
अकुर्वन्नपि सङ्क्षोभाद् व्यग्रः सर्वत्र मूढधीः ।
कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः ॥ 18-58॥
सुखमास्ते सुखं शेते सुखमायाति याति च ।
सुखं वक्ति सुखं भुङ्क्ते व्यवहारेऽपि शान्तधीः ॥ 18-59॥
स्वभावाद्यस्य नैवार्तिर्लोकवद् व्यवहारिणः ।
महाह्रद इवाक्षोभ्यो गतक्लेशः सुशोभते ॥ 18-60॥
निवृत्तिरपि मूढस्य प्रवृत्ति रुपजायते ।
प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी ॥ 18-61॥
परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते ।
देहे विगलिताशस्य क्व रागः क्व विरागता ॥ 18-62॥
भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा ।
भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी ॥ 18-63॥
सर्वारम्भेषु निष्कामो यश्चरेद् बालवन् मुनिः ।
न लेपस्तस्य शुद्धस्य क्रियमाणेऽपि कर्मणि ॥ 18-64॥
स एव धन्य आत्मज्ञः सर्वभावेषु यः समः ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः ॥ 18-65॥
क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनम् ।
आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा ॥ 18-66॥
स जयत्यर्थसन्न्यासी पूर्णस्वरसविग्रहः ।
अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते ॥ 18-67॥
बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः ।
भोगमोक्षनिराकाङ्क्षी सदा सर्वत्र नीरसः ॥ 18-68॥
महदादि जगद्द्वैतं नाममात्रविजृम्भितम् ।
विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते ॥ 18-69॥
भ्रमभूतमिदं सर्वं किञ्चिन्नास्तीति निश्चयी ।
अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति ॥ 18-70॥
शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः ।
क्व विधिः क्व च वैराग्यं क्व त्यागः क्व शमोऽपि वा ॥ 18-71॥
स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः ।
क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता ॥ 18-72॥
बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते ।
निर्ममो निरहङ्कारो निष्कामः शोभते बुधः ॥ 18-73॥
अक्षयं गतसन्तापमात्मानं पश्यतो मुनेः ।
क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा ॥ 18-74॥
निरोधादीनि कर्माणि जहाति जडधीर्यदि ।
मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात् ॥ 18-75॥
मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढताम् ।
निर्विकल्पो बहिर्यत्नादन्तर्विषयलालसः ॥ 18-76॥
ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत् ।
नाप्नोत्यवसरं कर्तुं वक्तुमेव न किञ्चन ॥ 18-77॥
क्व तमः क्व प्रकाशो वा हानं क्व च न किञ्चन ।
निर्विकारस्य धीरस्य निरातङ्कस्य सर्वदा ॥ 18-78॥
क्व धैर्यं क्व विवेकित्वं क्व निरातङ्कतापि वा ।
अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः ॥ 18-79॥
न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि ।
बहुनात्र किमुक्तेन योगदृष्ट्या न किञ्चन ॥ 18-80॥
नैव प्रार्थयते लाभं नालाभेनानुशोचति ।
धीरस्य शीतलं चित्तममृतेनैव पूरितम् ॥ 18-81॥
न शान्तं स्तौति निष्कामो न दुष्टमपि निन्दति ।
समदुःखसुखस्तृप्तः किञ्चित् कृत्यं न पश्यति ॥ 18-82॥
धीरो न द्वेष्टि संसारमात्मानं न दिदृक्षति ।
हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति ॥ 18-83॥
निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च ।
निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः ॥ 18-84॥
तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः ।
स्वच्छन्दं चरतो देशान् यत्रस्तमितशायिनः ॥ 18-85॥
पततूदेतु वा देहो नास्य चिन्ता महात्मनः ।
स्वभावभूमिविश्रान्तिविस्मृताशेषसंसृतेः ॥ 18-86॥
अकिञ्चनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः ।
असक्तः सर्वभावेषु केवलो रमते बुधः ॥ 18-87॥
निर्ममः शोभते धीरः समलोष्टाश्मकाञ्चनः ।
सुभिन्नहृदयग्रन्थिर्विनिर्धूतरजस्तमः ॥ 18-88॥
सर्वत्रानवधानस्य न किञ्चिद् वासना हृदि ।
मुक्तात्मनो वितृप्तस्य तुलना केन जायते ॥ 18-89॥
जानन्नपि न जानाति पश्यन्नपि न पश्यति ।
ब्रुवन्न् अपि न च ब्रूते कोऽन्यो निर्वासनादृते ॥ 18-90॥
भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते ।
भावेषु गलिता यस्य शोभनाशोभना मतिः ॥ 18-91॥
क्व स्वाच्छन्द्यं क्व सङ्कोचः क्व वा तत्त्वविनिश्चयः ।
निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः ॥ 18-92॥
आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना ।
अन्तर्यदनुभूयेत तत् कथं कस्य कथ्यते ॥ 18-93॥
सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च ।
जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे ॥ 18-94॥
ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः ।
सुबुद्धिरपि निर्बुद्धिः साहङ्कारोऽनहङ्कृतिः ॥ 18-95॥
न सुखी न च वा दुःखी न विरक्तो न सङ्गवान् ।
न मुमुक्षुर्न वा मुक्ता न किञ्चिन्न च किञ्चन ॥ 18-96॥
विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान् ।
जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः ॥ 18-97॥
मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः ।
समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम् ॥ 18-98॥
न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति ।
नैवोद्विजति मरणे जीवने नाभिनन्दति ॥ 18-99॥
न धावति जनाकीर्णं नारण्यमुपशान्तधीः ।
यथातथा यत्रतत्र सम एवावतिष्ठते ॥ 18-100॥
Roman (IAST) Transliteration
aṣṭāvakra uvāca ||
yasya bodhodaye tāvatsvapnavad bhavati bhramaḥ |
tasmai sukhaikarūpāya namaḥ śāntāya tejase || 18-1||
arjayitvākhilān arthān bhogānāpnoti puṣkalān |
na hi sarvaparityāgamantareṇa sukhī bhavet || 18-2||
kartavyaduḥkhamārtaṇḍajvālādagdhāntarātmanaḥ |
kutaḥ praśamapīyūṣadhārāsāramṛte sukham || 18-3||
bhavo'yaṃ bhāvanāmātro na kiñcit paramārthataḥ |
nāstyabhāvaḥ svabhāvānāṃ bhāvābhāvavibhāvinām || 18-4||
na dūraṃ na ca saṅkocāllabdhamevātmanaḥ padam |
nirvikalpaṃ nirāyāsaṃ nirvikāraṃ nirañjanam || 18-5||
vyāmohamātraviratau svarūpādānamātrataḥ |
vītaśokā virājante nirāvaraṇadṛṣṭayaḥ || 18-6||
samastaṃ kalpanāmātramātmā muktaḥ sanātanaḥ |
iti vijñāya dhīro hi kimabhyasyati bālavat || 18-7||
ātmā brahmeti niścitya bhāvābhāvau ca kalpitau |
niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kim || 18-8||
ayaṃ so'hamayaṃ nāhamiti kṣīṇā vikalpanā |
sarvamātmeti niścitya tūṣṇīmbhūtasya yoginaḥ || 18-9||
na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā |
na sukhaṃ na ca vā duḥkhamupaśāntasya yoginaḥ || 18-10||
svārājye bhaikṣavṛttau ca lābhālābhe jane vane |
nirvikalpasvabhāvasya na viśeṣo'sti yoginaḥ || 18-11||
kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā |
idaṃ kṛtamidaṃ neti dvandvairmuktasya yoginaḥ || 18-12||
kṛtyaṃ kimapi naivāsti na kāpi hṛdi rañjanā |
yathā jīvanameveha jīvanmuktasya yoginaḥ || 18-13||
kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā |
sarvasaṅkalpasīmāyāṃ viśrāntasya mahātmanaḥ || 18-14||
yena viśvamidaṃ dṛṣṭaṃ sa nāstīti karotu vai |
nirvāsanaḥ kiṃ kurute paśyannapi na paśyati || 18-15||
yena dṛṣṭaṃ paraṃ brahma so'haṃ brahmeti cintayet |
kiṃ cintayati niścinto dvitīyaṃ yo na paśyati || 18-16||
dṛṣṭo yenātmavikṣepo nirodhaṃ kurute tvasau |
udārastu na vikṣiptaḥ sādhyābhāvātkaroti kim || 18-17||
dhīro lokaviparyasto vartamāno'pi lokavat |
na samādhiṃ na vikṣepaṃ na lopaṃ svasya paśyati || 18-18||
bhāvābhāvavihīno yastṛpto nirvāsano budhaḥ |
naiva kiñcitkṛtaṃ tena lokadṛṣṭyā vikurvatā || 18-19||
pravṛttau vā nivṛttau vā naiva dhīrasya durgrahaḥ |
yadā yatkartumāyāti tatkṛtvā tiṣṭhataḥ sukham || 18-20||
nirvāsano nirālambaḥ svacchando muktabandhanaḥ |
kṣiptaḥ saṃskāravātena ceṣṭate śuṣkaparṇavat || 18-21||
asaṃsārasya tu kvāpi na harṣo na viṣādatā |
sa śītalamanā nityaṃ videha iva rājaye || 18-22||
kutrāpi na jihāsāsti nāśo vāpi na kutracit |
ātmārāmasya dhīrasya śītalācchatarātmanaḥ || 18-23||
prakṛtyā śūnyacittasya kurvato'sya yadṛcchayā |
prākṛtasyeva dhīrasya na māno nāvamānatā || 18-24||
kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā |
iti cintānurodhī yaḥ kurvannapi karoti na || 18-25||
atadvādīva kurute na bhavedapi bāliśaḥ |
jīvanmuktaḥ sukhī śrīmān saṃsarannapi śobhate || 18-26||
nānāvicārasuśrānto dhīro viśrāntimāgataḥ |
na kalpate na jānāti na śṛṇoti na paśyati || 18-27||
asamādheravikṣepān na mumukṣurna cetaraḥ |
niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ || 18-28||
yasyāntaḥ syādahaṅkāro na karoti karoti saḥ |
nirahaṅkāradhīreṇa na kiñcidakṛtaṃ kṛtam || 18-29||
nodvignaṃ na ca santuṣṭamakartṛ spandavarjitam |
nirāśaṃ gatasandehaṃ cittaṃ muktasya rājate || 18-30||
nirdhyātuṃ ceṣṭituṃ vāpi yaccittaṃ na pravartate |
nirnimittamidaṃ kintu nirdhyāyeti viceṣṭate || 18-31||
tattvaṃ yathārthamākarṇya mandaḥ prāpnoti mūḍhatām |
athavā yāti saṅkocamamūḍhaḥ ko'pi mūḍhavat || 18-32||
ekāgratā nirodho vā mūḍhairabhyasyate bhṛśam |
dhīrāḥ kṛtyaṃ na paśyanti suptavatsvapade sthitāḥ || 18-33||
aprayatnāt prayatnād vā mūḍho nāpnoti nirvṛtim |
tattvaniścayamātreṇa prājño bhavati nirvṛtaḥ || 18-34||
śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapañcaṃ nirāmayam |
ātmānaṃ taṃ na jānanti tatrābhyāsaparā janāḥ || 18-35||
nāpnoti karmaṇā mokṣaṃ vimūḍho'bhyāsarūpiṇā |
dhanyo vijñānamātreṇa muktastiṣṭhatyavikriyaḥ || 18-36||
mūḍho nāpnoti tad brahma yato bhavitumicchati |
anicchannapi dhīro hi parabrahmasvarūpabhāk || 18-37||
nirādhārā grahavyagrā mūḍhāḥ saṃsārapoṣakāḥ |
etasyānarthamūlasya mūlacchedaḥ kṛto budhaiḥ || 18-38||
na śāntiṃ labhate mūḍho yataḥ śamitumicchati |
dhīrastattvaṃ viniścitya sarvadā śāntamānasaḥ || 18-39||
kvātmano darśanaṃ tasya yad dṛṣṭamavalambate |
dhīrāstaṃ taṃ na paśyanti paśyantyātmānamavyayam || 18-40||
kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai |
svārāmasyaiva dhīrasya sarvadāsāvakṛtrimaḥ || 18-41||
bhāvasya bhāvakaḥ kaścin na kiñcid bhāvakoparaḥ |
ubhayābhāvakaḥ kaścid evameva nirākulaḥ || 18-42||
śuddhamadvayamātmānaṃ bhāvayanti kubuddhayaḥ |
na tu jānanti sammohādyāvajjīvamanirvṛtāḥ || 18-43||
mumukṣorbuddhirālambamantareṇa na vidyate |
nirālambaiva niṣkāmā buddhirmuktasya sarvadā || 18-44||
viṣayadvīpino vīkṣya cakitāḥ śaraṇārthinaḥ |
viśanti jhaṭiti kroḍaṃ nirodhaikāgrasiddhaye || 18-45||
nirvāsanaṃ hariṃ dṛṣṭvā tūṣṇīṃ viṣayadantinaḥ |
palāyante na śaktāste sevante kṛtacāṭavaḥ || 18-46||
na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ |
paśyan śṛṇvan spṛśan jighrannaśnannāste yathāsukham || 18-47||
vastuśravaṇamātreṇa śuddhabuddhirnirākulaḥ |
naivācāramanācāramaudāsyaṃ vā prapaśyati || 18-48||
yadā yatkartumāyāti tadā tatkurute ṛjuḥ |
śubhaṃ vāpyaśubhaṃ vāpi tasya ceṣṭā hi bālavat || 18-49||
svātantryātsukhamāpnoti svātantryāllabhate param |
svātantryānnirvṛtiṃ gacchetsvātantryāt paramaṃ padam || 18-50||
akartṛtvamabhoktṛtvaṃ svātmano manyate yadā |
tadā kṣīṇā bhavantyeva samastāścittavṛttayaḥ || 18-51||
ucchṛṅkhalāpyakṛtikā sthitirdhīrasya rājate |
na tu saspṛhacittasya śāntirmūḍhasya kṛtrimā || 18-52||
vilasanti mahābhogairviśanti girigahvarān |
nirastakalpanā dhīrā abaddhā muktabuddhayaḥ || 18-53||
śrotriyaṃ devatāṃ tīrthamaṅganāṃ bhūpatiṃ priyam |
dṛṣṭvā sampūjya dhīrasya na kāpi hṛdi vāsanā || 18-54||
bhṛtyaiḥ putraiḥ kalatraiśca dauhitraiścāpi gotrajaiḥ |
vihasya dhikkṛto yogī na yāti vikṛtiṃ manāk || 18-55||
santuṣṭo'pi na santuṣṭaḥ khinno'pi na ca khidyate |
tasyāścaryadaśāṃ tāṃ tāṃ tādṛśā eva jānate || 18-56||
kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ |
śūnyākārā nirākārā nirvikārā nirāmayāḥ || 18-57||
akurvannapi saṅkṣobhād vyagraḥ sarvatra mūḍhadhīḥ |
kurvannapi tu kṛtyāni kuśalo hi nirākulaḥ || 18-58||
sukhamāste sukhaṃ śete sukhamāyāti yāti ca |
sukhaṃ vakti sukhaṃ bhuṅkte vyavahāre'pi śāntadhīḥ || 18-59||
svabhāvādyasya naivārtirlokavad vyavahāriṇaḥ |
mahāhrada ivākṣobhyo gatakleśaḥ suśobhate || 18-60||
nivṛttirapi mūḍhasya pravṛtti rupajāyate |
pravṛttirapi dhīrasya nivṛttiphalabhāginī || 18-61||
parigraheṣu vairāgyaṃ prāyo mūḍhasya dṛśyate |
dehe vigalitāśasya kva rāgaḥ kva virāgatā || 18-62||
bhāvanābhāvanāsaktā dṛṣṭirmūḍhasya sarvadā |
bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī || 18-63||
sarvārambheṣu niṣkāmo yaścared bālavan muniḥ |
na lepastasya śuddhasya kriyamāṇe'pi karmaṇi || 18-64||
sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ |
paśyan śṛṇvan spṛśan jighrann aśnannistarṣamānasaḥ || 18-65||
kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanam |
ākāśasyeva dhīrasya nirvikalpasya sarvadā || 18-66||
sa jayatyarthasannyāsī pūrṇasvarasavigrahaḥ |
akṛtrimo'navacchinne samādhiryasya vartate || 18-67||
bahunātra kimuktena jñātatattvo mahāśayaḥ |
bhogamokṣanirākāṅkṣī sadā sarvatra nīrasaḥ || 18-68||
mahadādi jagaddvaitaṃ nāmamātravijṛmbhitam |
vihāya śuddhabodhasya kiṃ kṛtyamavaśiṣyate || 18-69||
bhramabhūtamidaṃ sarvaṃ kiñcinnāstīti niścayī |
alakṣyasphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati || 18-70||
śuddhasphuraṇarūpasya dṛśyabhāvamapaśyataḥ |
kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo'pi vā || 18-71||
sphurato'nantarūpeṇa prakṛtiṃ ca na paśyataḥ |
kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā || 18-72||
buddhiparyantasaṃsāre māyāmātraṃ vivartate |
nirmamo nirahaṅkāro niṣkāmaḥ śobhate budhaḥ || 18-73||
akṣayaṃ gatasantāpamātmānaṃ paśyato muneḥ |
kva vidyā ca kva vā viśvaṃ kva deho'haṃ mameti vā || 18-74||
nirodhādīni karmāṇi jahāti jaḍadhīryadi |
manorathān pralāpāṃśca kartumāpnotyatatkṣaṇāt || 18-75||
mandaḥ śrutvāpi tadvastu na jahāti vimūḍhatām |
nirvikalpo bahiryatnādantarviṣayalālasaḥ || 18-76||
jñānād galitakarmā yo lokadṛṣṭyāpi karmakṛt |
nāpnotyavasaraṃ kartuṃ vaktumeva na kiñcana || 18-77||
kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiñcana |
nirvikārasya dhīrasya nirātaṅkasya sarvadā || 18-78||
kva dhairyaṃ kva vivekitvaṃ kva nirātaṅkatāpi vā |
anirvācyasvabhāvasya niḥsvabhāvasya yoginaḥ || 18-79||
na svargo naiva narako jīvanmuktirna caiva hi |
bahunātra kimuktena yogadṛṣṭyā na kiñcana || 18-80||
naiva prārthayate lābhaṃ nālābhenānuśocati |
dhīrasya śītalaṃ cittamamṛtenaiva pūritam || 18-81||
na śāntaṃ stauti niṣkāmo na duṣṭamapi nindati |
samaduḥkhasukhastṛptaḥ kiñcit kṛtyaṃ na paśyati || 18-82||
dhīro na dveṣṭi saṃsāramātmānaṃ na didṛkṣati |
harṣāmarṣavinirmukto na mṛto na ca jīvati || 18-83||
niḥsnehaḥ putradārādau niṣkāmo viṣayeṣu ca |
niścintaḥ svaśarīre'pi nirāśaḥ śobhate budhaḥ || 18-84||
tuṣṭiḥ sarvatra dhīrasya yathāpatitavartinaḥ |
svacchandaṃ carato deśān yatrastamitaśāyinaḥ || 18-85||
patatūdetu vā deho nāsya cintā mahātmanaḥ |
svabhāvabhūmiviśrāntivismṛtāśeṣasaṃsṛteḥ || 18-86||
akiñcanaḥ kāmacāro nirdvandvaśchinnasaṃśayaḥ |
asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ || 18-87||
nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāñcanaḥ |
subhinnahṛdayagranthirvinirdhūtarajastamaḥ || 18-88||
sarvatrānavadhānasya na kiñcid vāsanā hṛdi |
muktātmano vitṛptasya tulanā kena jāyate || 18-89||
jānannapi na jānāti paśyannapi na paśyati |
bruvann api na ca brūte ko'nyo nirvāsanādṛte || 18-90||
bhikṣurvā bhūpatirvāpi yo niṣkāmaḥ sa śobhate |
bhāveṣu galitā yasya śobhanāśobhanā matiḥ || 18-91||
kva svācchandyaṃ kva saṅkocaḥ kva vā tattvaviniścayaḥ |
nirvyājārjavabhūtasya caritārthasya yoginaḥ || 18-92||
ātmaviśrāntitṛptena nirāśena gatārtinā |
antaryadanubhūyeta tat kathaṃ kasya kathyate || 18-93||
supto'pi na suṣuptau ca svapne'pi śayito na ca |
jāgare'pi na jāgarti dhīrastṛptaḥ pade pade || 18-94||
jñaḥ sacinto'pi niścintaḥ sendriyo'pi nirindriyaḥ |
subuddhirapi nirbuddhiḥ sāhaṅkāro'nahaṅkṛtiḥ || 18-95||
na sukhī na ca vā duḥkhī na virakto na saṅgavān |
na mumukṣurna vā muktā na kiñcinna ca kiñcana || 18-96||
vikṣepe'pi na vikṣiptaḥ samādhau na samādhimān |
jāḍye'pi na jaḍo dhanyaḥ pāṇḍitye'pi na paṇḍitaḥ || 18-97||
mukto yathāsthitisvasthaḥ kṛtakartavyanirvṛtaḥ |
samaḥ sarvatra vaitṛṣṇyānna smaratyakṛtaṃ kṛtam || 18-98||
na prīyate vandyamāno nindyamāno na kupyati |
naivodvijati maraṇe jīvane nābhinandati || 18-99||
na dhāvati janākīrṇaṃ nāraṇyamupaśāntadhīḥ |
yathātathā yatratatra sama evāvatiṣṭhate || 18-100||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.