श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ त्रिपञ्चाशस्सर्गः ।
तस्य तद्वचनं श्रुत्वा दशग्रीवो महात्मनः ।
देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ॥ 1 ॥
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ।
अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ॥ 2 ॥
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ।
तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥ 3 ॥
ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् ।
समित्रज्ञातयस्सर्वे बान्धवाः ससुहृज्जनाः ॥ 4 ॥
आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् ।
लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥ 5 ॥
तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः ।
वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः ॥ 6 ॥
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः ।
शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ॥ 7 ॥
तैलेन परिषिच्याथ तेऽग्निं तत्राभ्यपातयन् ।
लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ॥ 8 ॥
रोषामर्षपरीतात्मा बालसूर्यसमाननः ।
लाङ्गूलं सम्प्रदीप्तं तु द्रष्टुं तस्य हनूमतः ॥ 9 ॥
सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ।
स भूयः सङ्गतैः क्रूरैर्राक्षसैर्हरिसत्तमः ॥ 10 ॥
निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम् ।
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः ॥ 11 ॥
छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान्पुनः ।
यदि भर्तुर्हितार्थाय चरन्तं भर्तृशासनात् ॥ 12 ॥
बध्नन्त्येते दुरात्मनो न तु मे निष्कृतिः कृता ।
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ॥ 13 ॥
किन्तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ।
लङ्का चारयितव्या वै पुनरेव भवेदिति ॥ 14 ॥
रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ॥ 15 ॥
कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च ।
पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसश्श्रमः ॥ 16 ॥
ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ॥ 17 ॥
शङ्खभेरीनिनादैस्तं घोषयन्तः स्वकर्मभिः ।
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ॥ 18 ॥
अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः ।
हनुमांश्चारयामास राक्षसानां महापुरीम् ॥ 19 ॥
अथापश्यद्विमानानि विचित्राणि महाकपिः ।
संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् ॥ 20 ॥
वीथीश्च गृहसम्बाधाः कपिश्शृङ्गाटकानि च ।
तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् ॥ 21 ॥
गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः ।
चत्वरेषु चतुष्केषु राजमार्गे तथैव च ॥ 22 ॥
घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ।
स्त्रीबालवृद्धाः निर्जग्मुस्तत्र तत्र कुतूहलात् ॥ 23 ॥
तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः ।
दीप्यमाने ततस्तत्र लाङ्गूलाग्रे हनूमतः ॥ 24 ॥
राक्षस्यस्ता विरूपाक्ष्य श्शंसुर्देव्यास्तदप्रियम् ।
यस्त्वया कृतसंवाद स्सीते ताम्रमुखः कपिः ॥ 25 ॥
लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ।
श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ॥ 26 ॥
वैदेही शोकसन्तप्ता हुताशनमुपागमत् ।
मङ्गलाभिमुखी तस्य सा तदाऽसीन्महाकपेः ॥ 27 ॥
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ।
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।
यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ॥ 28 ॥
यदि किञ्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः ॥ 29 ॥
यदि वा भाग्यशेषो मे शीतो भव हनूमतः ।
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् ॥ 30 ॥
स विजानाति धर्मात्मा शीतो भव हनूमतः ।
यदि मां तारयेदार्यस्सुग्रीवः सत्यसङ्गरः ॥ 31 ॥
अस्माद्धुःखाम्बुसंरोधाच्छीतो भव हनूमतः ।
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः ॥ 32 ॥
जज्वाल मृगशाबाक्ष्या श्शंसन्निव शिवं कपेः ।
हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः ॥ 33 ॥
ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ।
दह्यमाने च लाङ्गूले चिन्तयामास वानरः ॥ 34 ॥
प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः ।
दृश्यते च महाज्वालः करोति न च मे रुजम् ॥ 35 ॥
शिशिरस्येव सङ्घातो लाङ्गूलाग्रे प्रतिष्ठितः ।
अथवा तदिदं व्यक्तं यद्दृष्टं प्लवता मया ॥ 36 ॥
रामप्रभावादाश्चर्यं पर्वत स्सरितां पतौ ।
यदि तावत्समुद्रस्य मैनाकस्य च धीमतः ॥ 37 ॥
रामार्थं सम्भ्रमस्तादृक्किमग्निर्न करिष्यति ।
सीतायाश्चानृशंस्येन तेजसा राघवस्य च ॥ 38 ॥
पितुश्च मम सख्येन न मां दहति पावकः ।
भूयस्स चिन्तयामास मुहूर्तं कपिकुञ्जरः ॥ 39 ॥
उत्पपाताथ वेगेन ननाद च महाकपिः ।
पुरद्वारं ततश्श्रीमान् शैलशृङ्गमिवोन्नतम् ॥ 40 ॥
विभक्तरक्षस्सम्बाधमाससादानिलात्मजः ।
स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ॥ 41 ॥
ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ।
विमुक्तश्चाभवछ्रचीमान् पुनः पर्वतसन्निभः ॥ 42 ॥
वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ।
स तं गृह्य महाबाहुः कालायसपरिष्कृतम् ॥ 43 ॥
रक्षिणस्तान् पुनस्सर्वान्सूदयामास मारुतिः ।
स तान्निहत्त्वा रणचण्डविक्रम स्समीक्षमाणः पुनरेव लङ्काम् ।
प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ॥ 44 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे त्रिपञ्चाशस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe sundarakāṇḍam |
atha tripañcāśassargaḥ |
tasya tadvacanaṃ śrutvā daśagrīvo mahātmanaḥ |
deśakālahitaṃ vākyaṃ bhrāturuttaramabravīt || 1 ||
samyaguktaṃ hi bhavatā dūtavadhyā vigarhitā |
avaśyaṃ tu vadhādanyaḥ kriyatāmasya nigrahaḥ || 2 ||
kapīnāṃ kila lāṅgūlamiṣṭaṃ bhavati bhūṣaṇam |
tadasya dīpyatāṃ śīghraṃ tena dagdhena gacchatu || 3 ||
tataḥ paśyantvimaṃ dīnamaṅgavairūpyakarśitam |
samitrajñātayassarve bāndhavāḥ sasuhṛjjanāḥ || 4 ||
ājñāpayadrākṣasendraḥ puraṃ sarvaṃ sacatvaram |
lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām || 5 ||
tasya tadvacanaṃ śrutvā rākṣasāḥ kopakarśitāḥ |
veṣṭayanti sma lāṅgūlaṃ jīrṇaiḥ kārpāsakaiḥ paṭaiḥ || 6 ||
saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ |
śuṣkamindhanamāsādya vaneṣviva hutāśanaḥ || 7 ||
tailena pariṣicyātha te'gniṃ tatrābhyapātayan |
lāṅgūlena pradīptena rākṣasāṃstānapātayat || 8 ||
roṣāmarṣaparītātmā bālasūryasamānanaḥ |
lāṅgūlaṃ sampradīptaṃ tu draṣṭuṃ tasya hanūmataḥ || 9 ||
sahastrībālavṛddhāśca jagmuḥ prītā niśācarāḥ |
sa bhūyaḥ saṅgataiḥ krūrairrākṣasairharisattamaḥ || 10 ||
nibaddhaḥ kṛtavānvīrastatkālasadṛśīṃ matim |
kāmaṃ khalu na me śaktā nibaddhasyāpi rākṣasāḥ || 11 ||
chittvā pāśān samutpatya hanyāmahamimānpunaḥ |
yadi bharturhitārthāya carantaṃ bhartṛśāsanāt || 12 ||
badhnantyete durātmano na tu me niṣkṛtiḥ kṛtā |
sarveṣāmeva paryāpto rākṣasānāmahaṃ yudhi || 13 ||
kintu rāmasya prītyarthaṃ viṣahiṣye'hamīdṛśam |
laṅkā cārayitavyā vai punareva bhavediti || 14 ||
rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ |
avaśyameva draṣṭavyā mayā laṅkā niśākṣaye || 15 ||
kāmaṃ baddhasya me bhūyaḥ pucchasyoddīpanena ca |
pīḍāṃ kurvantu rakṣāṃsi na me'sti manasaśśramaḥ || 16 ||
tataste saṃvṛtākāraṃ sattvavantaṃ mahākapim |
parigṛhya yayurhṛṣṭā rākṣasāḥ kapikuñjaram || 17 ||
śaṅkhabherīninādaistaṃ ghoṣayantaḥ svakarmabhiḥ |
rākṣasāḥ krūrakarmāṇaścārayanti sma tāṃ purīm || 18 ||
anvīyamāno rakṣobhiryayau sukhamarindamaḥ |
hanumāṃścārayāmāsa rākṣasānāṃ mahāpurīm || 19 ||
athāpaśyadvimānāni vicitrāṇi mahākapiḥ |
saṃvṛtān bhūmibhāgāṃśca suvibhaktāṃśca catvarān || 20 ||
vīthīśca gṛhasambādhāḥ kapiśśṛṅgāṭakāni ca |
tathā rathyoparathyāśca tathaiva gṛhakāntarān || 21 ||
gṛhāṃśca meghasaṅkāśān dadarśa pavanātmajaḥ |
catvareṣu catuṣkeṣu rājamārge tathaiva ca || 22 ||
ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ |
strībālavṛddhāḥ nirjagmustatra tatra kutūhalāt || 23 ||
taṃ pradīpitalāṅgūlaṃ hanumantaṃ didṛkṣavaḥ |
dīpyamāne tatastatra lāṅgūlāgre hanūmataḥ || 24 ||
rākṣasyastā virūpākṣya śśaṃsurdevyāstadapriyam |
yastvayā kṛtasaṃvāda ssīte tāmramukhaḥ kapiḥ || 25 ||
lāṅgūlena pradīptena sa eṣa pariṇīyate |
śrutvā tadvacanaṃ krūramātmāpaharaṇopamam || 26 ||
vaidehī śokasantaptā hutāśanamupāgamat |
maṅgalābhimukhī tasya sā tadā'sīnmahākapeḥ || 27 ||
upatasthe viśālākṣī prayatā havyavāhanam |
yadyasti patiśuśrūṣā yadyasti caritaṃ tapaḥ |
yadi cāstyekapatnītvaṃ śīto bhava hanūmataḥ || 28 ||
yadi kiñcidanukrośastasya mayyasti dhīmataḥ || 29 ||
yadi vā bhāgyaśeṣo me śīto bhava hanūmataḥ |
yadi māṃ vṛttasampannāṃ tatsamāgamalālasām || 30 ||
sa vijānāti dharmātmā śīto bhava hanūmataḥ |
yadi māṃ tārayedāryassugrīvaḥ satyasaṅgaraḥ || 31 ||
asmāddhuḥkhāmbusaṃrodhācchīto bhava hanūmataḥ |
tatastīkṣṇārciravyagraḥ pradakṣiṇaśikho'nalaḥ || 32 ||
jajvāla mṛgaśābākṣyā śśaṃsanniva śivaṃ kapeḥ |
hanumajjanakaścāpi pucchānalayuto'nilaḥ || 33 ||
vavau svāsthyakaro devyāḥ prāleyānilaśītalaḥ |
dahyamāne ca lāṅgūle cintayāmāsa vānaraḥ || 34 ||
pradīpto'gnirayaṃ kasmānna māṃ dahati sarvataḥ |
dṛśyate ca mahājvālaḥ karoti na ca me rujam || 35 ||
śiśirasyeva saṅghāto lāṅgūlāgre pratiṣṭhitaḥ |
athavā tadidaṃ vyaktaṃ yaddṛṣṭaṃ plavatā mayā || 36 ||
rāmaprabhāvādāścaryaṃ parvata ssaritāṃ patau |
yadi tāvatsamudrasya mainākasya ca dhīmataḥ || 37 ||
rāmārthaṃ sambhramastādṛkkimagnirna kariṣyati |
sītāyāścānṛśaṃsyena tejasā rāghavasya ca || 38 ||
pituśca mama sakhyena na māṃ dahati pāvakaḥ |
bhūyassa cintayāmāsa muhūrtaṃ kapikuñjaraḥ || 39 ||
utpapātātha vegena nanāda ca mahākapiḥ |
puradvāraṃ tataśśrīmān śailaśṛṅgamivonnatam || 40 ||
vibhaktarakṣassambādhamāsasādānilātmajaḥ |
sa bhūtvā śailasaṅkāśaḥ kṣaṇena punarātmavān || 41 ||
hrasvatāṃ paramāṃ prāpto bandhanānyavaśātayat |
vimuktaścābhavachracīmān punaḥ parvatasannibhaḥ || 42 ||
vīkṣamāṇaśca dadṛśe parighaṃ toraṇāśritam |
sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam || 43 ||
rakṣiṇastān punassarvānsūdayāmāsa mārutiḥ |
sa tānnihattvā raṇacaṇḍavikrama ssamīkṣamāṇaḥ punareva laṅkām |
pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivārcimālī || 44 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye sundarakāṇḍe tripañcāśassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.