4.3 किष्किन्धाकाण्ड - तृतीय सर्गः

4.3 Kishkindhakanda - Tritiya Sargah

✍️ Valmiki 🖋️ Devanagari script
📄 Download PDF
श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ तृतीयस्सर्गः ।
वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः ।
पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ ॥ 1 ॥
कपिरूपं परित्यज्य हनुमान्मारुतात्मजः ।
भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ॥ 2 ॥
ततस्स हनुमान्वाचा श्लक्ष्णया सुमनोज्ञया ।
विनीतवदुपागम्य राघवौ प्रणिपत्य च ॥ 3 ॥
आबभाषे तदा वीरौ यथावत्प्रशशंस च ।
सम्पूज्य विधिवद्वीरौ हनुमान्मारुतात्मजः ।
उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ ॥ 4 ॥
राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ ।
देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ॥ 5 ॥
त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः ॥ 6 ॥
पम्पातीररुहान्वृक्षान् वीक्षमाणौ समन्ततः ।
इमां नदीं शुभजलां शोभयन्तौ तपस्विनौ ॥ 7 ॥
धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ ।
निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः ॥ 8 ॥
सिंहविप्रेक्षितौ वीरौ महाबलविक्रमौ ।
शक्रचापनिभे चापे गृहीत्वा शत्रुसूदनौ ॥ 9 ॥
श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ ।
हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ ॥ 10 ॥
प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः ।
राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ ॥ 11 ॥
पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ ।
अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ ॥ 12 ॥
यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुन्धराम् ।
विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ ॥ 13 ॥
सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ ।
आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः ।
सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः ॥ 14 ॥
उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् ।
ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ॥ 15 ॥
इमे च धनुषी चित्रे श्लष्णे चित्रानुलेपने ।
प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते ॥ 16 ॥
सम्पूर्णा निशितैर्बाणै स्तूणाश्च शुभदर्शनाः ॥ 17 ॥
जीवितान्तकरैर्घोरै श्श्वसद्भिरिव पन्नगैः ।
महाप्रमाणौ विस्तीर्णौ तप्तहाटकभूषितौ ॥ 18 ॥
खडगावेतौ विराजेते निर्मुक्ताविवपन्नगौ ।
एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः ॥ 19 ॥
सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः ।
वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः ॥ 20 ॥
प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना ।
राज्ञा वानरमुख्यानां हनुमान्नाम वानरः ॥ 21 ॥
युवाभ्यां सह धर्मात्मा सुग्रीवस्सख्यमिच्छति ।
तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ॥ 22 ॥
भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया ।
ऋष्यमूकादिह प्राप्तं कामगं कामरूपिणम् ॥ 23 ॥
एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ ।
वाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किञ्चन ॥ 24 ॥
एतच्छ्रुत्वा वचन्तस्य रामो लक्ष्मणमब्रवीत् ।
प्रहृष्टवदनश्श्रीमान्भ्रातरं पार्श्वतः स्थितम् ॥ 25 ॥
सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः ।
तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः ॥ 26 ॥
तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् ।
वाक्यज्ञं मधुरैर्वाक्यैस्स्नेहयुक्तमरिन्दम ॥ 27 ॥
नानृग्वेदविनीतस्य नायजुर्वेद्धारिणः ।
नासामवेदविदुषश्शक्यमेवं विभाषितुम् ॥ 28 ॥
नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् ।
बहु व्याहरताऽनेन न किञ्चिदपशब्दितम् ॥ 29 ॥
न मुखे नेत्रयोर्वापि ललाटे च भ्रुवोस्तथा ।
अन्येष्वपि च गात्रेषु दोषस्संविदितः क्वचित् ॥ 30 ॥
अविस्तरमसन्दिग्धमविलम्बितमद्रुतम् ।
उरस्थं कण्ठगं वाक्यं वर्तते मध्यमे स्वरे ॥ 31 ॥
संस्कारक्रमसम्पन्नामद्रुतामविलम्बिताम् ।
उच्चारयति कल्याणीं वाचं हृदयहारिणीम् ॥ 32 ॥
अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया ।
कस्य नाराध्यते चित्तमुद्यतासेररेरपि ॥ 33 ॥
एवं विधो यस्य दूतो न भवेत्पार्थिवस्य तु ।
सिद्ध्यन्ति हि कथं तस्य कार्याणां गतियोऽनघ ॥ 34 ॥
एवं गुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः ।
तस्य सिध्यन्ति सर्वाऽर्था दूतवाक्यप्रचोदिताः ॥ 35 ॥
एवमुक्तस्तु सौमित्रिस्सुग्रीवसचिवं कपिम् ।
अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम् ॥ 36 ॥
विदितौ नौ गुणा विद्वन्त्सुग्रीवस्य महात्मनः ।
तमेव चाऽवां मार्गावस्सुग्रीवं प्लवगेश्वरम् ॥ 37 ॥
यथा ब्रवीषि हनुमान्सुग्रीववचनादिह ।
तत्तथा हि करिष्यावो वचनात्तव सत्तम ॥ 38 ॥
तत्तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः ।
मनस्समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम् ॥ 39 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे तृतीयस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe kiṣkindhākāṇḍam |
atha tṛtīyassargaḥ |
vaco vijñāya hanumān sugrīvasya mahātmanaḥ |
parvatādṛśyamūkāttu pupluve yatra rāghavau || 1 ||
kapirūpaṃ parityajya hanumānmārutātmajaḥ |
bhikṣurūpaṃ tato bheje śaṭhabuddhitayā kapiḥ || 2 ||
tatassa hanumānvācā ślakṣṇayā sumanojñayā |
vinītavadupāgamya rāghavau praṇipatya ca || 3 ||
ābabhāṣe tadā vīrau yathāvatpraśaśaṃsa ca |
sampūjya vidhivadvīrau hanumānmārutātmajaḥ |
uvāca kāmato vākyaṃ mṛdu satyaparākramau || 4 ||
rājarṣidevapratimau tāpasau saṃśitavratau |
deśaṃ kathamimaṃ prāptau bhavantau varavarṇinau || 5 ||
trāsayantau mṛgagaṇānanyāṃśca vanacāriṇaḥ || 6 ||
pampātīraruhānvṛkṣān vīkṣamāṇau samantataḥ |
imāṃ nadīṃ śubhajalāṃ śobhayantau tapasvinau || 7 ||
dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau |
niḥśvasantau varabhujau pīḍayantāvimāḥ prajāḥ || 8 ||
siṃhaviprekṣitau vīrau mahābalavikramau |
śakracāpanibhe cāpe gṛhītvā śatrusūdanau || 9 ||
śrīmantau rūpasampannau vṛṣabhaśreṣṭhavikramau |
hastihastopamabhujau dyutimantau nararṣabhau || 10 ||
prabhayā parvatendro'yaṃ yuvayoravabhāsitaḥ |
rājyārhāvamaraprakhyau kathaṃ deśamihāgatau || 11 ||
padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau |
anyonyasadṛśau vīrau devalokādivāgatau || 12 ||
yadṛcchayeva samprāptau candrasūryau vasundharām |
viśālavakṣasau vīrau mānuṣau devarūpiṇau || 13 ||
siṃhaskandhau mahotsāhau samadāviva govṛṣau |
āyatāśca suvṛttāśca bāhavaḥ parighopamāḥ |
sarvabhūṣaṇabhūṣārhāḥ kimarthaṃ na vibhūṣitāḥ || 14 ||
ubhau yogyāvahaṃ manye rakṣituṃ pṛthivīmimām |
sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām || 15 ||
ime ca dhanuṣī citre ślaṣṇe citrānulepane |
prakāśete yathendrasya vajre hemavibhūṣite || 16 ||
sampūrṇā niśitairbāṇai stūṇāśca śubhadarśanāḥ || 17 ||
jīvitāntakarairghorai śśvasadbhiriva pannagaiḥ |
mahāpramāṇau vistīrṇau taptahāṭakabhūṣitau || 18 ||
khaḍagāvetau virājete nirmuktāvivapannagau |
evaṃ māṃ paribhāṣantaṃ kasmādvai nābhibhāṣathaḥ || 19 ||
sugrīvo nāma dharmātmā kaścidvānarayūthapaḥ |
vīro vinikṛto bhrātrā jagadbhramati duḥkhitaḥ || 20 ||
prāpto'haṃ preṣitastena sugrīveṇa mahātmanā |
rājñā vānaramukhyānāṃ hanumānnāma vānaraḥ || 21 ||
yuvābhyāṃ saha dharmātmā sugrīvassakhyamicchati |
tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam || 22 ||
bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā |
ṛṣyamūkādiha prāptaṃ kāmagaṃ kāmarūpiṇam || 23 ||
evamuktvā tu hanumāṃstau vīrau rāmalakṣmaṇau |
vākyajñau vākyakuśalaḥ punarnovāca kiñcana || 24 ||
etacchrutvā vacantasya rāmo lakṣmaṇamabravīt |
prahṛṣṭavadanaśśrīmānbhrātaraṃ pārśvataḥ sthitam || 25 ||
sacivo'yaṃ kapīndrasya sugrīvasya mahātmanaḥ |
tameva kāṅkṣamāṇasya mamāntikamupāgataḥ || 26 ||
tamabhyabhāṣa saumitre sugrīvasacivaṃ kapim |
vākyajñaṃ madhurairvākyaissnehayuktamarindama || 27 ||
nānṛgvedavinītasya nāyajurveddhāriṇaḥ |
nāsāmavedaviduṣaśśakyamevaṃ vibhāṣitum || 28 ||
nūnaṃ vyākaraṇaṃ kṛtsnamanena bahudhā śrutam |
bahu vyāharatā'nena na kiñcidapaśabditam || 29 ||
na mukhe netrayorvāpi lalāṭe ca bhruvostathā |
anyeṣvapi ca gātreṣu doṣassaṃviditaḥ kvacit || 30 ||
avistaramasandigdhamavilambitamadrutam |
urasthaṃ kaṇṭhagaṃ vākyaṃ vartate madhyame svare || 31 ||
saṃskārakramasampannāmadrutāmavilambitām |
uccārayati kalyāṇīṃ vācaṃ hṛdayahāriṇīm || 32 ||
anayā citrayā vācā tristhānavyañjanasthayā |
kasya nārādhyate cittamudyatāserarerapi || 33 ||
evaṃ vidho yasya dūto na bhavetpārthivasya tu |
siddhyanti hi kathaṃ tasya kāryāṇāṃ gatiyo'nagha || 34 ||
evaṃ guṇagaṇairyuktā yasya syuḥ kāryasādhakāḥ |
tasya sidhyanti sarvā'rthā dūtavākyapracoditāḥ || 35 ||
evamuktastu saumitrissugrīvasacivaṃ kapim |
abhyabhāṣata vākyajño vākyajñaṃ pavanātmajam || 36 ||
viditau nau guṇā vidvantsugrīvasya mahātmanaḥ |
tameva cā'vāṃ mārgāvassugrīvaṃ plavageśvaram || 37 ||
yathā bravīṣi hanumānsugrīvavacanādiha |
tattathā hi kariṣyāvo vacanāttava sattama || 38 ||
tattasya vākyaṃ nipuṇaṃ niśamya prahṛṣṭarūpaḥ pavanātmajaḥ kapiḥ |
manassamādhāya jayopapattau sakhyaṃ tadā kartumiyeṣa tābhyām || 39 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye kiṣkindhākāṇḍe tṛtīyassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in