श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ चतुःषष्टितमस्सर्गः ।
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ।
राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥ 1 ॥
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ ।
वानरैः सहितः शूरैर्दिवमेवोत्पपात ह ॥ 2 ॥
स यथैवाऽगतः पूर्वं तथैव त्वरितं गतः ।
निपत्य गगनाद्भूमौतद्वनं प्रविवेश ह ॥ 3 ॥
स प्रविष्टो मधुवनं ददर्श हरियूथपान् ।
विमदानुत्थितान्सर्वान् मेहमानान्मधूदकम् ॥ 4 ॥
स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् ।
उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ॥ 5 ॥
सौम्य रोषो न कर्तव्यो यदेतत्परिवारितम् ।
अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ॥ 6 ॥
युवराजस्त्वमीशश्च वनस्यास्य महाबल ।
मौर्ख्यात्पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति ॥ 7 ॥
आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ।
इहोपयातं सर्वेषामेतेषां वनचारिणाम् ॥ 8 ॥
स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः ।
प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् ॥ 9 ॥
प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ।
शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः ॥ 10 ॥
श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमङ्गदः ।
अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः ॥ 11 ॥
शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः ।
तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः ॥ 12 ॥
पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः ।
किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ॥ 13 ॥
सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः ।
तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ॥ 14 ॥
नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि ।
अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ॥ 15 ॥
ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमव्ययम् ।
प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ॥ 16 ॥
एवं वक्ष्यति को राजन् प्रभुस्सन्वानरर्षभ ।
ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ॥ 17 ॥
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् ।
सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥ 18 ॥
सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः ।
स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ॥ 19 ॥
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् ।
क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ॥ 20 ॥
एवं तु वदतां तेषामङ्गदः प्रत्युवाच ह ।
बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ॥ 21 ॥
उत्पतन्तमनूत्पेतु स्सर्वे ते हरियूथपाः ।
कृत्वाकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः ॥ 22 ॥
तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः ।
विनदन्तो महानादं घना वातेरिता यथा ॥ 23 ॥
अङ्गदे ह्यननुप्राप्ते सुग्रीवो वानराधिपः ।
उवाच शोकोपहतं रामं कमललोचनम् ॥ 24 ॥
समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः ।
नागन्तुमिह शक्यं तैरतीते समये हि नः ॥ 25 ॥
न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते ।
युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः ॥ 26 ॥
यद्यप्यकृतकृत्यानामीदृश स्स्यादुपक्रमः ।
भवेत्स दीनवदनो भ्रान्तविप्लुतमानसः ॥ 27 ॥
पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम् ।
न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः ॥ 28 ॥
कौसल्यासुप्रजा राम समाश्वसिहि सुव्रत ।
दृष्टा देवी न सन्देहो न चान्येन हनूमता ॥ 29 ॥
न ह्यन्यः कर्मणो हेतुस्साधनेऽस्य हनूमतः ।
हनूमति हि सिद्धिश्च मतिश्च मतिसत्तमः ॥ 30 ॥
व्यवसायश्च वीर्यं च सूर्ये तेज इव ध्रुवम् ।
जाम्बवान्यत्र नेता स्यादङ्गदश्च बलेश्वरः ।
हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ॥ 31 ॥
मा भूश्चिन्तासमायुक्तस्सम्प्रत्यमितविक्रमः ॥ 32 ॥
ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे ।
हनुमत्कर्मदृप्तानां नार्धतां काननौकसाम् ॥ 33 ॥
किष्किन्धामुपयातानां सिद्धिं कथयतामिव ।
ततश्श्रुत्वा निनादं तं कपीनां कपिसत्तमः ॥ 34 ॥
आयताञ्चितलाङ्गूलस्सोऽभवद्धृष्टमानसः ।
आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः ॥ 35 ॥
अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ।
तेऽङ्गदप्रमुखा वीराः प्रहृष्ठाश्च मुदान्विताः ॥ 36 ॥
निपेतुर्हरिराजस्य समीपे राघवस्य च ।
हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः ॥ 37 ॥
नियतामक्षतां देवीं राघवाय न्यवेदयत् ।
दृष्टा देवीति हनुमद्वदनादमृतोपमम् ॥ 38 ॥
आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः ।
निश्चितार्थं ततस्तस्मिन् सुग्रीवं पवनात्मजे ॥ 39 ॥
लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत ।
प्रीत्या च रममाणोऽथ राघवः परवीरहा ॥ 40 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चतुःषष्टितमस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe sundarakāṇḍam |
atha catuḥṣaṣṭitamassargaḥ |
sugrīveṇaivamuktastu hṛṣṭo dadhimukhaḥ kapiḥ |
rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat || 1 ||
sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau |
vānaraiḥ sahitaḥ śūrairdivamevotpapāta ha || 2 ||
sa yathaivā'gataḥ pūrvaṃ tathaiva tvaritaṃ gataḥ |
nipatya gaganādbhūmautadvanaṃ praviveśa ha || 3 ||
sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān |
vimadānutthitānsarvān mehamānānmadhūdakam || 4 ||
sa tānupāgamadvīro baddhvā karapuṭāñjalim |
uvāca vacanaṃ ślakṣṇamidaṃ hṛṣṭavadaṅgadam || 5 ||
saumya roṣo na kartavyo yadetatparivāritam |
ajñānādrakṣibhiḥ krodhādbhavantaḥ pratiṣedhitāḥ || 6 ||
yuvarājastvamīśaśca vanasyāsya mahābala |
maurkhyātpūrvaṃ kṛto doṣastaṃ bhavān kṣantumarhati || 7 ||
ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha |
ihopayātaṃ sarveṣāmeteṣāṃ vanacāriṇām || 8 ||
sa tvadāgamanaṃ śrutvā sahaibhirhariyūthapaiḥ |
prahṛṣṭo na tu ruṣṭo'sau vanaṃ śrutvā pradharṣitam || 9 ||
prahṛṣṭo māṃ pitṛvyaste sugrīvo vānareśvaraḥ |
śīghraṃ preṣaya sarvāṃstāniti hovāca pārthivaḥ || 10 ||
śrutvā dadhimukhasyedaṃ vacanaṃ ślakṣṇamaṅgadaḥ |
abravīttān hariśreṣṭho vākyaṃ vākyaviśāradaḥ || 11 ||
śaṅke śruto'yaṃ vṛttānto rāmeṇa hariyūthapāḥ |
tatkṣamaṃ neha naḥ sthātuṃ kṛte kārye parantapāḥ || 12 ||
pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ |
kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ || 13 ||
sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ |
tathāsmi kartā kartavye bhavadbhiḥ paravānaham || 14 ||
nājñāpayitumīśo'haṃ yuvarājo'smi yadyapi |
ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā || 15 ||
bruvataścāṅgadasyaivaṃ śrutvā vacanamavyayam |
prahṛṣṭamanaso vākyamidamūcurvanaukasaḥ || 16 ||
evaṃ vakṣyati ko rājan prabhussanvānararṣabha |
aiśvaryamadamatto hi sarvo'hamiti manyate || 17 ||
tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasyacit |
sannatirhi tavākhyāti bhaviṣyacchubhayogyatām || 18 ||
sarve vayamapi prāptāstatra gantuṃ kṛtakṣaṇāḥ |
sa yatra harivīrāṇāṃ sugrīvaḥ patiravyayaḥ || 19 ||
tvayā hyanuktairharibhirnaiva śakyaṃ padātpadam |
kvacidgantuṃ hariśreṣṭha brūmaḥ satyamidaṃ tu te || 20 ||
evaṃ tu vadatāṃ teṣāmaṅgadaḥ pratyuvāca ha |
bāḍhaṃ gacchāma ityuktvā khamutpeturmahābalāḥ || 21 ||
utpatantamanūtpetu ssarve te hariyūthapāḥ |
kṛtvākāśaṃ nirākāśaṃ yantrotkṣiptā ivācalāḥ || 22 ||
te'mbaraṃ sahasotpatya vegavantaḥ plavaṅgamāḥ |
vinadanto mahānādaṃ ghanā vāteritā yathā || 23 ||
aṅgade hyananuprāpte sugrīvo vānarādhipaḥ |
uvāca śokopahataṃ rāmaṃ kamalalocanam || 24 ||
samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ |
nāgantumiha śakyaṃ tairatīte samaye hi naḥ || 25 ||
na matsakāśamāgacchetkṛtye hi vinipātite |
yuvarājo mahābāhuḥ plavatāṃ pravaro'ṅgadaḥ || 26 ||
yadyapyakṛtakṛtyānāmīdṛśa ssyādupakramaḥ |
bhavetsa dīnavadano bhrāntaviplutamānasaḥ || 27 ||
pitṛpaitāmahaṃ caitatpūrvakairabhirakṣitam |
na me madhuvanaṃ hanyādahṛṣṭaḥ plavageśvaraḥ || 28 ||
kausalyāsuprajā rāma samāśvasihi suvrata |
dṛṣṭā devī na sandeho na cānyena hanūmatā || 29 ||
na hyanyaḥ karmaṇo hetussādhane'sya hanūmataḥ |
hanūmati hi siddhiśca matiśca matisattamaḥ || 30 ||
vyavasāyaśca vīryaṃ ca sūrye teja iva dhruvam |
jāmbavānyatra netā syādaṅgadaśca baleśvaraḥ |
hanumāṃścāpyadhiṣṭhātā na tasya gatiranyathā || 31 ||
mā bhūścintāsamāyuktassampratyamitavikramaḥ || 32 ||
tataḥ kilakilāśabdaṃ śuśrāvāsannamambare |
hanumatkarmadṛptānāṃ nārdhatāṃ kānanaukasām || 33 ||
kiṣkindhāmupayātānāṃ siddhiṃ kathayatāmiva |
tataśśrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ || 34 ||
āyatāñcitalāṅgūlasso'bhavaddhṛṣṭamānasaḥ |
ājagmuste'pi harayo rāmadarśanakāṅkṣiṇaḥ || 35 ||
aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram |
te'ṅgadapramukhā vīrāḥ prahṛṣṭhāśca mudānvitāḥ || 36 ||
nipeturharirājasya samīpe rāghavasya ca |
hanumāṃśca mahābāhuḥ praṇamya śirasā tataḥ || 37 ||
niyatāmakṣatāṃ devīṃ rāghavāya nyavedayat |
dṛṣṭā devīti hanumadvadanādamṛtopamam || 38 ||
ākarṇya vacanaṃ rāmo harṣamāpa salakṣmaṇaḥ |
niścitārthaṃ tatastasmin sugrīvaṃ pavanātmaje || 39 ||
lakṣmaṇaḥ prītimān prītaṃ bahumānādavaikṣata |
prītyā ca ramamāṇo'tha rāghavaḥ paravīrahā || 40 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye sundarakāṇḍe catuḥṣaṣṭitamassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.