3.5 अरण्यकाण्ड - पञ्चम सर्गः

3.5 Aranyakanda - Panchama Sargah

✍️ Valmiki 🖋️ Devanagari script
📄 Download PDF
श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ पञ्चमस्सर्गः ।
हत्वा तु तं भीमबलं विराधं राक्षसं वने ।
ततस्सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ॥ 1 ॥
अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम् ।
कष्टं वनमिदं दुर्गं न च स्म वनगोचराः ॥ 2 ॥
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् ।
आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह ॥ 3 ॥
तस्य देवप्रभावस्य तपसा भावितात्मनः ।
समीपे शरभङ्गस्य ददर्श महदद्भुतम् ॥ 4 ॥
विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् ।
अवरुह्यरथोत्सङ्गादाकाशे विबुधानुगम ॥ 5 ॥
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् ।
सुप्रभाभरणं देवं विरजोऽम्बरधारिणम् ॥ 6 ॥
तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः ।
हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ॥ 7 ॥
ददर्शादूरतस्तस्य तरुणादित्यसन्निभम् ।
पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसन्निभम् ॥ 8 ॥
अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् ।
चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने ॥ 9 ॥
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि ।
गन्धर्वामरसिद्धाश्च बहवः परमर्षयः ॥ 10 ॥
अन्तरिक्षगतं देवं वाग्भिरग्य्राभिरीडिरे ।
सह सम्भाषमाणे तु शरभङ्गेन वासवे ॥ 11 ॥
दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ।
रामोऽथ रथमुद्दिश्य लक्ष्मणायप्रदर्शयन् ॥ 12 ॥
अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण ।
प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम् ॥ 13 ॥
ये हयाः पुरुहूतस्य पुरा शक्रस्य नश्श्रुताः ।
अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ॥ 14 ॥
इमे च पुरुषव्याघ्रा ये तिष्ठ्न्त्यभितो रथम् ।
शतं शतं कुण्डलिनो युवानः खङ्गपाणयः ॥ 15 ॥
विस्तीर्णविपुलोरस्काः परिघायतबाहवः ।
शोणांशुवसनास्सर्वे व्याध्रा इव दुरासदाः ॥ 16 ॥
उरोदेशेषु सर्वेषां हारा ज्वलनसन्निभाः ।
रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् ॥ 17 ॥
एतद्दि किल देवानां वयो भवति नित्यदा ।
यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः ॥ 18 ॥
इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण ।
यावज्जानाम्यहं व्यक्तं क एष द्युतिमान्रथे ॥ 19 ॥
तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति ।
अभिचक्राम काकुत्स्थ श्शरभङ्गाश्रमं प्रति ॥ 20 ॥
ततस्समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः ।
शरभङ्गमनुप्राप्य विविक्त इदमब्रवीत् ॥ 21 ॥
इहोपयात्यसौ रामो यावन्मां नाभिभाषते ।
निष्ठां नयतु तावत्तु ततो मा द्रष्टुमर्हति ॥ 22 ॥
जितवन्तं कृतार्थं हि तदाहमचिरादिमम् ।
कर्म ह्यनेन कर्तव्यं महदन्यैस्सुदुष्करम् ॥ 23 ॥
इति वज्री तमामन्त्र्य मानयित्वा च तापसम् ।
रथेन हययुक्तेन ययौ दिवमरिन्दमः ॥ 24 ॥
प्रयाते तु सहस्राक्षे राघवस्सपरिच्छदः ।
अग्निहोत्रमुपासीनं शरभङ्गमुपागमत् ॥ 25 ॥
तस्य पादौ च सङ्गृह्य रामस्सीता च लक्ष्मणः ।
निषेदुस्समनुज्ञाता लब्धवासा निमन्त्रिताः ॥ 26 ॥
ततश्शक्रोपयानं तु पर्यपृच्छत्स राघवः ।
शरभङ्गश्च तत्सर्यं राघवाय न्यवेदयत् ॥ 27 ॥
मामेष वरदो राम ब्रह्मलोकं निनीषति ।
जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः ॥ 28 ॥
अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः ।
ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् ॥ 29 ॥
त्वयाऽहं पुरुषव्याघ्र धार्मिकेण महात्मना ।
समागम्य गमिष्यामि त्रिदिवं देवसेवितम् ॥ 30 ॥
अक्षया नरशार्दूल मया लोका जिताश्शुभा ।
ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान् ॥ 31 ॥
एवमुक्तो नरव्याघ्रस्सर्वशास्त्र विशारदः ।
ऋषिणा शरभङ्गेण राघवो वाक्यमब्रवीत् ॥ 32 ॥
अहमेवाहरिष्यामि सर्वांल्लोकान्महामुने ।
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ 33 ॥
राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै ।
शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः ॥ 34 ॥
इह राम महातेजास्सुतीक्ष्णो नाम धार्मिकः ।
वसत्यरण्ये धर्मात्मा स ते श्रेयो विधास्यति ॥ 35 ॥
सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् ।
रमणीये वनोद्देशे स ते वासं विधास्यति ॥ 36 ॥
इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज ।
नदीं पुष्पोडुपवहां ततस्तत्र गमिष्यसि ॥ 37 ॥
एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् ।
यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः ॥ 38 ॥
ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवित् ।
शरभङ्गो महातेजाः प्रविवेश हुताशनम् ॥ 39 ॥
तस्य रोमाणि केशांश्च तदा वह्निर्महात्मनः ।
जीर्णां त्वचं तथाऽस्थीनि यच्च मांसं सशोणितम् ॥ 40 ॥
स च पावकसङ्काशः कुमारस्समपद्यत ।
उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत ॥ 41 ॥
स लोकानाहिताग्नीनामृषीणां च महात्मनाम् ।
देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥ 42 ॥
स पुण्यकर्मा भुवने द्विजर्षभः पितामहं सानुचरं ददर्श ह ।
पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ह ॥ 43 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे पञ्चमस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe araṇyakāṇḍam |
atha pañcamassargaḥ |
hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane |
tatassītāṃ pariṣvajya samāśvāsya ca vīryavān || 1 ||
abravīllakṣmaṇaṃ rāmo bhrātaraṃ dīptatejasam |
kaṣṭaṃ vanamidaṃ durgaṃ na ca sma vanagocarāḥ || 2 ||
abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam |
āśramaṃ śarabhaṅgasya rāghavo'bhijagāma ha || 3 ||
tasya devaprabhāvasya tapasā bhāvitātmanaḥ |
samīpe śarabhaṅgasya dadarśa mahadadbhutam || 4 ||
vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam |
avaruhyarathotsaṅgādākāśe vibudhānugama || 5 ||
asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram |
suprabhābharaṇaṃ devaṃ virajo'mbaradhāriṇam || 6 ||
tadvidhaireva bahubhiḥ pūjyamānaṃ mahātmabhiḥ |
haribhirvājibhiryuktamantarikṣagataṃ ratham || 7 ||
dadarśādūratastasya taruṇādityasannibham |
pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasannibham || 8 ||
apaśyadvimalaṃ chatraṃ citramālyopaśobhitam |
cāmaravyajane cāgrye rukmadaṇḍe mahādhane || 9 ||
gṛhīte varanārībhyāṃ dhūyamāne ca mūrdhani |
gandharvāmarasiddhāśca bahavaḥ paramarṣayaḥ || 10 ||
antarikṣagataṃ devaṃ vāgbhiragyrābhirīḍire |
saha sambhāṣamāṇe tu śarabhaṅgena vāsave || 11 ||
dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇamabravīt |
rāmo'tha rathamuddiśya lakṣmaṇāyapradarśayan || 12 ||
arciṣmantaṃ śriyā juṣṭamadbhutaṃ paśya lakṣmaṇa |
pratapantamivādityamantarikṣagataṃ ratham || 13 ||
ye hayāḥ puruhūtasya purā śakrasya naśśrutāḥ |
antarikṣagatā divyāsta ime harayo dhruvam || 14 ||
ime ca puruṣavyāghrā ye tiṣṭhntyabhito ratham |
śataṃ śataṃ kuṇḍalino yuvānaḥ khaṅgapāṇayaḥ || 15 ||
vistīrṇavipuloraskāḥ parighāyatabāhavaḥ |
śoṇāṃśuvasanāssarve vyādhrā iva durāsadāḥ || 16 ||
urodeśeṣu sarveṣāṃ hārā jvalanasannibhāḥ |
rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam || 17 ||
etaddi kila devānāṃ vayo bhavati nityadā |
yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ || 18 ||
ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa |
yāvajjānāmyahaṃ vyaktaṃ ka eṣa dyutimānrathe || 19 ||
tamevamuktvā saumitrimihaiva sthīyatāmiti |
abhicakrāma kākutstha śśarabhaṅgāśramaṃ prati || 20 ||
tatassamabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ |
śarabhaṅgamanuprāpya vivikta idamabravīt || 21 ||
ihopayātyasau rāmo yāvanmāṃ nābhibhāṣate |
niṣṭhāṃ nayatu tāvattu tato mā draṣṭumarhati || 22 ||
jitavantaṃ kṛtārthaṃ hi tadāhamacirādimam |
karma hyanena kartavyaṃ mahadanyaissuduṣkaram || 23 ||
iti vajrī tamāmantrya mānayitvā ca tāpasam |
rathena hayayuktena yayau divamarindamaḥ || 24 ||
prayāte tu sahasrākṣe rāghavassaparicchadaḥ |
agnihotramupāsīnaṃ śarabhaṅgamupāgamat || 25 ||
tasya pādau ca saṅgṛhya rāmassītā ca lakṣmaṇaḥ |
niṣedussamanujñātā labdhavāsā nimantritāḥ || 26 ||
tataśśakropayānaṃ tu paryapṛcchatsa rāghavaḥ |
śarabhaṅgaśca tatsaryaṃ rāghavāya nyavedayat || 27 ||
māmeṣa varado rāma brahmalokaṃ ninīṣati |
jitamugreṇa tapasā duṣprāpamakṛtātmabhiḥ || 28 ||
ahaṃ jñātvā naravyāghra vartamānamadūrataḥ |
brahmalokaṃ na gacchāmi tvāmadṛṣṭvā priyātithim || 29 ||
tvayā'haṃ puruṣavyāghra dhārmikeṇa mahātmanā |
samāgamya gamiṣyāmi tridivaṃ devasevitam || 30 ||
akṣayā naraśārdūla mayā lokā jitāśśubhā |
brāhmyāśca nākapṛṣṭhyāśca pratigṛhṇīṣva māmakān || 31 ||
evamukto naravyāghrassarvaśāstra viśāradaḥ |
ṛṣiṇā śarabhaṅgeṇa rāghavo vākyamabravīt || 32 ||
ahamevāhariṣyāmi sarvāṃllokānmahāmune |
āvāsaṃ tvahamicchāmi pradiṣṭamiha kānane || 33 ||
rāghaveṇaivamuktastu śakratulyabalena vai |
śarabhaṅgo mahāprājñaḥ punarevābravīdvacaḥ || 34 ||
iha rāma mahātejāssutīkṣṇo nāma dhārmikaḥ |
vasatyaraṇye dharmātmā sa te śreyo vidhāsyati || 35 ||
sutīkṣṇamabhigaccha tvaṃ śucau deśe tapasvinam |
ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati || 36 ||
imāṃ mandākinīṃ rāma pratisrotāmanuvraja |
nadīṃ puṣpoḍupavahāṃ tatastatra gamiṣyasi || 37 ||
eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām |
yāvajjahāmi gātrāṇi jīrṇāṃ tvacamivoragaḥ || 38 ||
tato'gniṃ sa samādhāya hutvā cājyena mantravit |
śarabhaṅgo mahātejāḥ praviveśa hutāśanam || 39 ||
tasya romāṇi keśāṃśca tadā vahnirmahātmanaḥ |
jīrṇāṃ tvacaṃ tathā'sthīni yacca māṃsaṃ saśoṇitam || 40 ||
sa ca pāvakasaṅkāśaḥ kumārassamapadyata |
utthāyāgnicayāttasmāccharabhaṅgo vyarocata || 41 ||
sa lokānāhitāgnīnāmṛṣīṇāṃ ca mahātmanām |
devānāṃ ca vyatikramya brahmalokaṃ vyarohata || 42 ||
sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha |
pitāmahaścāpi samīkṣya taṃ dvijaṃ nananda susvāgatamityuvāca ha || 43 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye araṇyakāṇḍe pañcamassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in