श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ षोडशस्सर्गः ।
वसतस्तस्य तु सुखं राघवस्य महात्मनः ।
शरद्व्यपाये हेमन्तऋतुरिष्टः प्रवर्तत ॥ 1 ॥
स कदाचित्प्रभातायां शर्वर्यां रघुनन्दनः ।
प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम् ॥ 2 ॥
प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान् ।
पृष्ठतोऽनुव्रजन्भ्राता सौमित्रिरिदमब्रवीत् ॥ 3 ॥
अयं स कालः सम्प्राप्तः प्रियो यस्ते प्रियंवद ।
अलङ्कृत इवाभाति येन संवत्सरः शुभः ॥ 4 ॥
नीहारपरुषो लोकः पृथिवी सस्यशालिनी ।
जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ॥ 5 ॥
नवाग्रयणपूजाभिरभ्यर्च्य पितृदेवताः ।
कृताग्रयणकाः काले सन्तो विगतकल्मषाः ॥ 6 ॥
प्राज्यकामा जनपदास्सम्पन्नतरगोरसाः ।
विचरन्ति महीपाला यात्रास्था विजिगीषवः ॥ 7 ॥
सेवमाने दृढं सूर्ये दिशमन्तक सेविताम् ।
विहीनतिलकेव स्त्री नोत्तरा दिक्प्रकाशते ॥ 8 ॥
प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम् ।
यथार्थनामा सुव्यक्तं हिमवान्हिमवान्गिरिः ॥ 9 ॥
अत्यन्तसुखसञ्चारा मध्याह्ने स्पर्शतस्सुखाः ।
दिवसास्सुभगादित्याश्चायासलिलदुर्भगाः ॥ 10 ॥
मृदुसूर्यास्सनीहाराः पटुशीतास्समारुताः ।
शून्यारण्या हिमध्वस्ता दिवसा भान्तिसाम्प्रतम् ॥ 11 ॥
निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः ।
शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम् ॥ 12 ॥
रविसङ्क्रान्तसौभाग्य स्तुषारारुणमण्डलः ।
निश्श्वासान्ध इवादर्शन्छन्द्रमा न प्रकाशते ॥ 13 ॥
ज्योत्स्न तुषारमलिना पौर्णमास्यां न राजते ।
सीतेव चातपश्यामा लक्ष्यते न तु शोभते ॥ 14 ॥
प्रकृत्या शीतलस्पर्शो हिमविद्धश्च साम्प्रतम् ।
प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः ॥ 15 ॥
बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च ।
शोभन्तेऽभ्युदिते सूर्ये नद्भि क्रौञ्चसारसैः ॥ 16 ॥
खर्जूरपुष्पाकृतिभिश्शिरोभिः पूर्णतण्डुलैः ।
शोभन्ते किञ्चिदानम्राश्शालयः कनकप्रभाः ॥ 17 ॥
मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः ।
दूरमभ्युदितस्सूर्यश्शशाङ्क इव लक्ष्यते ॥ 18 ॥
अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतस्सुखः ।
संरक्तः किञ्चिदापाण्डुरातपश्शोभते क्षितौ ॥ 19 ॥
अवश्यायनिपातेन किञ्चित्प्रक्लिन्नशाद्वला ।
वनानां शोभते भूमिर्निविष्टतरुणातपा ॥ 20 ॥
स्पृशंस्तु विमलं शीतमुदकं द्विरदस्सुखम् ।
अत्यन्ततृषितो वन्यः प्रतिसंहरते करम् ॥ 21 ॥
एते हि समुपासीना विहगा जलचारिणः ।
नावगाहन्ति सलिलमप्रगल्भा इवाहवम् ॥ 22 ॥
अवश्यायतमोनद्धा नीहारतमसाऽवृताः ।
प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः ॥ 23 ॥
बाष्पसञ्छन्नसलिला रुतविज्ञेयसारसाः ।
हिमार्द्रवालुकैस्तीरैस्सरितो भान्ति साम्प्रतम् ॥ 24 ॥
तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च ।
शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम् ॥ 25 ॥
जराजर्जरितैः पद्मैशशीर्णकेसरकर्णिकैः ।
नालषेर्हिमध्वस्सैर्न भन्ति कमलाकराः ॥ 26 ॥
अस्मिंस्तु पुरुषव्याघ्रः काले दुःखसमन्वितः ।
तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे ॥ 27 ॥
त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान्बहून् ।
तपस्स्वी नियताहारश्शेते शीते महीतले ॥ 28 ॥
सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः ।
वृतः प्रकृतिभिर्नित्यं प्रयाति सरयूं नदीम् ॥ 29 ॥
अत्यन्तसुखसंवृद्धस्सुकुमारस्सुखोचितः ।
कथं न्वपररात्रेषु सरयूमवगाहते ॥ 30 ॥
पद्मपत्रेक्षणो वीरश्श्यामो निरुदरो महान् ।
धर्मज्ञ स्सत्यवादी च ह्रीनिषेधो जितेन्द्रियः ॥ 31 ॥
प्रियाभिभाषी मधुरो दीर्घबाहुररिन्दमः ।
सन्त्यज्य विविधान्भोगानार्यं सर्वात्मना श्रितः ॥ 32 ॥
जितस्स्वर्गस्तव भ्रात्रा भरतेन महात्मना ।
वनस्थमपि तापस्ये यस्त्वामनुविधीयते ॥ 33 ॥
न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति ।
ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः ॥ 34 ॥
भर्ता दशरथो यस्यास्साधुश्च भरतस्सुतः ।
कथं नु साऽम्बा कैकेयी तादृशी क्रूरशीलिनी ॥ 35 ॥
इत्येवं लक्ष्मणे वाक्यं स्नेहाद्ब्रुवति धार्मिके ।
परिवादं जनन्यास्तमसहन्राघवोऽब्रवीत् ॥ 36 ॥
स तेऽम्बा मध्यमा तात गर्हितव्या कथञ्चन ।
तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ॥ 37 ॥
निश्चिताऽपि हि मे बुद्धिर्वनवासे दृढव्रता ।
भरतस्नेहसन्तप्ता बालिशीक्रियते पुनः ॥ 38 ॥
संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च ।
हृद्यान्यमृतकल्पानि मनःप्रह्लादनानि च ॥ 39 ॥
कदान्वहं समेष्यामि भरतेन महात्मना ।
शत्रुघ्नेन च वीरेण त्वया च रघुनन्दन ॥ 40 ॥
इत्येवं विलपंस्तत्र प्राप्य गोदावरीं नदीम् ।
चक्रेऽभिषेकं काकुत्स्थस्सानुजस्सह सीतया ॥ 41 ॥
तर्पयित्वाऽथ सलिलैस्ते पितृन्दैवतानि च ।
स्तुवन्ति स्मोदितं सूर्यं देवताश्च समाहिताः ॥ 42 ॥
कृताभिषेकस्सरराज रामः सीताद्वितीयस्सह लक्ष्मणेन ।
कृताभिषेको गिरिराजपुत्र्या रुद्रस्सनन्दी भगवानिवेशः ॥ 43 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे षोडशस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe araṇyakāṇḍam |
atha ṣoḍaśassargaḥ |
vasatastasya tu sukhaṃ rāghavasya mahātmanaḥ |
śaradvyapāye hemantaṛturiṣṭaḥ pravartata || 1 ||
sa kadācitprabhātāyāṃ śarvaryāṃ raghunandanaḥ |
prayayāvabhiṣekārthaṃ ramyāṃ godāvarīṃ nadīm || 2 ||
prahvaḥ kalaśahastastaṃ sītayā saha vīryavān |
pṛṣṭhato'nuvrajanbhrātā saumitriridamabravīt || 3 ||
ayaṃ sa kālaḥ samprāptaḥ priyo yaste priyaṃvada |
alaṅkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ || 4 ||
nīhāraparuṣo lokaḥ pṛthivī sasyaśālinī |
jalānyanupabhogyāni subhago havyavāhanaḥ || 5 ||
navāgrayaṇapūjābhirabhyarcya pitṛdevatāḥ |
kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ || 6 ||
prājyakāmā janapadāssampannataragorasāḥ |
vicaranti mahīpālā yātrāsthā vijigīṣavaḥ || 7 ||
sevamāne dṛḍhaṃ sūrye diśamantaka sevitām |
vihīnatilakeva strī nottarā dikprakāśate || 8 ||
prakṛtyā himakośāḍhyo dūrasūryaśca sāmpratam |
yathārthanāmā suvyaktaṃ himavānhimavāngiriḥ || 9 ||
atyantasukhasañcārā madhyāhne sparśatassukhāḥ |
divasāssubhagādityāścāyāsaliladurbhagāḥ || 10 ||
mṛdusūryāssanīhārāḥ paṭuśītāssamārutāḥ |
śūnyāraṇyā himadhvastā divasā bhāntisāmpratam || 11 ||
nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ |
śītā vṛddhatarāyāmāstriyāmā yānti sāmpratam || 12 ||
ravisaṅkrāntasaubhāgya stuṣārāruṇamaṇḍalaḥ |
niśśvāsāndha ivādarśanchandramā na prakāśate || 13 ||
jyotsna tuṣāramalinā paurṇamāsyāṃ na rājate |
sīteva cātapaśyāmā lakṣyate na tu śobhate || 14 ||
prakṛtyā śītalasparśo himaviddhaśca sāmpratam |
pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ || 15 ||
bāṣpacchannānyaraṇyāni yavagodhūmavanti ca |
śobhante'bhyudite sūrye nadbhi krauñcasārasaiḥ || 16 ||
kharjūrapuṣpākṛtibhiśśirobhiḥ pūrṇataṇḍulaiḥ |
śobhante kiñcidānamrāśśālayaḥ kanakaprabhāḥ || 17 ||
mayūkhairupasarpadbhirhimanīhārasaṃvṛtaiḥ |
dūramabhyuditassūryaśśaśāṅka iva lakṣyate || 18 ||
agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśatassukhaḥ |
saṃraktaḥ kiñcidāpāṇḍurātapaśśobhate kṣitau || 19 ||
avaśyāyanipātena kiñcitpraklinnaśādvalā |
vanānāṃ śobhate bhūmirniviṣṭataruṇātapā || 20 ||
spṛśaṃstu vimalaṃ śītamudakaṃ dviradassukham |
atyantatṛṣito vanyaḥ pratisaṃharate karam || 21 ||
ete hi samupāsīnā vihagā jalacāriṇaḥ |
nāvagāhanti salilamapragalbhā ivāhavam || 22 ||
avaśyāyatamonaddhā nīhāratamasā'vṛtāḥ |
prasuptā iva lakṣyante vipuṣpā vanarājayaḥ || 23 ||
bāṣpasañchannasalilā rutavijñeyasārasāḥ |
himārdravālukaistīraissarito bhānti sāmpratam || 24 ||
tuṣārapatanāccaiva mṛdutvādbhāskarasya ca |
śaityādagāgrasthamapi prāyeṇa rasavajjalam || 25 ||
jarājarjaritaiḥ padmaiśaśīrṇakesarakarṇikaiḥ |
nālaṣerhimadhvassairna bhanti kamalākarāḥ || 26 ||
asmiṃstu puruṣavyāghraḥ kāle duḥkhasamanvitaḥ |
tapaścarati dharmātmā tvadbhaktyā bharataḥ pure || 27 ||
tyaktvā rājyaṃ ca mānaṃ ca bhogāṃśca vividhānbahūn |
tapassvī niyatāhāraśśete śīte mahītale || 28 ||
so'pi velāmimāṃ nūnamabhiṣekārthamudyataḥ |
vṛtaḥ prakṛtibhirnityaṃ prayāti sarayūṃ nadīm || 29 ||
atyantasukhasaṃvṛddhassukumārassukhocitaḥ |
kathaṃ nvapararātreṣu sarayūmavagāhate || 30 ||
padmapatrekṣaṇo vīraśśyāmo nirudaro mahān |
dharmajña ssatyavādī ca hrīniṣedho jitendriyaḥ || 31 ||
priyābhibhāṣī madhuro dīrghabāhurarindamaḥ |
santyajya vividhānbhogānāryaṃ sarvātmanā śritaḥ || 32 ||
jitassvargastava bhrātrā bharatena mahātmanā |
vanasthamapi tāpasye yastvāmanuvidhīyate || 33 ||
na pitryamanuvartante mātṛkaṃ dvipadā iti |
khyāto lokapravādo'yaṃ bharatenānyathā kṛtaḥ || 34 ||
bhartā daśaratho yasyāssādhuśca bharatassutaḥ |
kathaṃ nu sā'mbā kaikeyī tādṛśī krūraśīlinī || 35 ||
ityevaṃ lakṣmaṇe vākyaṃ snehādbruvati dhārmike |
parivādaṃ jananyāstamasahanrāghavo'bravīt || 36 ||
sa te'mbā madhyamā tāta garhitavyā kathañcana |
tāmevekṣvākunāthasya bharatasya kathāṃ kuru || 37 ||
niścitā'pi hi me buddhirvanavāse dṛḍhavratā |
bharatasnehasantaptā bāliśīkriyate punaḥ || 38 ||
saṃsmarāmyasya vākyāni priyāṇi madhurāṇi ca |
hṛdyānyamṛtakalpāni manaḥprahlādanāni ca || 39 ||
kadānvahaṃ sameṣyāmi bharatena mahātmanā |
śatrughnena ca vīreṇa tvayā ca raghunandana || 40 ||
ityevaṃ vilapaṃstatra prāpya godāvarīṃ nadīm |
cakre'bhiṣekaṃ kākutsthassānujassaha sītayā || 41 ||
tarpayitvā'tha salilaiste pitṛndaivatāni ca |
stuvanti smoditaṃ sūryaṃ devatāśca samāhitāḥ || 42 ||
kṛtābhiṣekassararāja rāmaḥ sītādvitīyassaha lakṣmaṇena |
kṛtābhiṣeko girirājaputryā rudrassanandī bhagavāniveśaḥ || 43 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye araṇyakāṇḍe ṣoḍaśassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.