श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ तृतीयस्सर्गः ।
स लम्बशिखरे लम्बे लम्बतोयदसन्निभे ।
सत्त्वमास्थाय मेधावी हनुमान् मारुतात्मजः ॥ 1 ॥
निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः ।
रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥ 2 ॥
शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् ।
सागरोपमनिर्घोषां सागरानिलसेविताम् ॥ 3 ॥
सुपुष्टबलसम्पुष्टां यथैव विटपावतीम् ।
चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ॥ 4 ॥
भुजगाचरितां गुप्तां शुभां भोगवतीमिव ।
तां स विद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् ॥ 5 ॥
मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम् ।
शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥ 6 ॥
किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् ।
आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥ 7 ॥
विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ।
जाम्बूनदमयैर्द्वारैर्वैडूर्यकृतवेदिकैः ॥ 8 ॥
वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः ।
तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः ॥ 9 ॥
वैढूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः ।
चारुसञ्जवनोपेतैः खमिवोत्पतितैः शुभैः ॥ 10 ॥
क्रौञ्चबर्हिणसङ्घुष्टैः राजहंस निषेवितैः ।
तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् ॥ 11 ॥
वस्वौकसाराप्रतिमां तां वीक्ष्य नगरीं ततः ।
खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः ॥ 12 ॥
तां समीक्ष्य पुरीं रम्यां राक्षसाधिपतेः शुभाम् ।
अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान् ॥ 13 ॥
नेयमन्येन नगरी शक्या धर्षयितुं बलात् ।
रक्षिता रावणबलैरुद्यतायुधधारिभिः ॥ 14 ॥
कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः ।
प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ॥ 15 ॥
विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः ।
ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥ 16 ॥
समीक्ष्य तु महाबाहू राघवस्य पराक्रमम् ।
लक्ष्मणस्य च विक्रान्तमभवत् प्रीतिमान् कपिः ॥ 17 ॥
तां रत्नवसनोपेतां कोष्ठागारावतंसकाम् ।
यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ॥ 18 ॥
तां नष्टतिमिरां दीप्तैर्भास्वरैश्च महागृहैः ।
नगरीं राक्षसेन्द्रस्य स ददर्श महाकपिः ॥ 19 ॥
थ सा हरिशार्दूलं प्रविशन्तं महाबलम् ।
नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥ 20 ॥
सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता ।
स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥ 21 ॥
पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत ।
मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥ 22 ॥
कस्त्वं केन च कार्येण इह प्राप्तो वनालय ।
कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते ॥ 23 ॥
न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया ।
रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥ 24 ॥
अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् ।
कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि ॥ 25 ॥
का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसि ।
किमर्थं चापि मां रुद्ध्वा निर्भर्त्सयसि दारुणा ॥ 26 ॥
हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ।
उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥ 27 ॥
अहं राक्षसराजस्य रावणस्य महात्मनः ।
आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥ 28 ॥
न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया ।
अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥ 29 ॥
अहं हि नगरी लङ्का स्वयमेव प्लवङ्गम ।
सर्वतः परिरक्षामि ह्येतत्ते कथितं मया ॥ 30 ॥
लङ्काया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।
यत्नवान्स हरिश्रेष्ठः स्थितश्शैल इवापरः ॥ 31 ॥
स तां स्त्रीरूपविकृतां दृष्टवा वानरपुङ्गवः ।
आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः ॥ 32 ॥
द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम् ।
निर्विशङ्कमिमंलोकं पश्यन्त्यास्तवसाम्प्रतम् ।
इत्यर्थमिह सम्प्राप्तः परं कौतूहलं हि मे ॥ 33 ॥
वनान्युपवनानीह लङ्कायाः काननानि च ।
सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ॥ 34 ॥
तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ।
भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम् ॥ 35 ॥
मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम् ।
न शक्यमद्य ते द्रष्टुं पुरीयं वानराधम ॥ 36 ॥
ततः स कपिशार्दूलस्तामुवाच निशाचरीम् ।
दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥ 37 ॥
ततः कृत्वा महानादं सा वै लङ्का भयावहम् ।
तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥ 38 ॥
ततः स कपिशार्दूलो लङ्कया ताडितो भृशम् ।
ननाद सुमहानादं वीर्यवान् पवनात्मजः ॥ 39 ॥
ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः ।
मुष्टिनाऽऽभिजघानैनां हनुमान् क्रोधमूर्छितः ॥ 40 ॥
स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः ।
सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी ॥ 41 ॥
पपात सहसा भूमौ विकृताननदर्शना ।
ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम् ॥ 42 ॥
कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम् ।
ततो वै भृशसंविग्ना लङ्का सा गद्गदाक्षरम् ॥ 43 ॥
उवाचागर्वितं वाक्यं हनूमन्तं प्लवङ्गमम् ।
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥ 44 ॥
समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ।
अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ॥ 45 ॥
निर्जिताहं त्वया वीर विक्रमेण महाबल ।
इदं तु तथ्यं शृणु वै ब्रुवन्त्या मे हरीश्वर ॥ 46 ॥
स्वयम्भुवा पुरा दत्तं वरदानं यथा मम ।
यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत् ॥ 47 ॥
तदा त्वया हि विज्ञेयं रक्षसां भयमागतम् ।
स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात् ॥ 48 ॥
स्वयम्भू विहितः सत्यो न तस्यास्ति व्यतिक्रमः ।
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः ॥ 49 ॥
रक्षसां चैव सर्वेषां विनाशः समुपागतः ।
तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ॥ 50 ॥
विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ।
प्रविश्य शापोपहतां हरीश्वर शुभां पुरीं राक्षसमुख्यपालिताम् ।
यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम् ॥ 51 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे तृतीयस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe sundarakāṇḍam |
atha tṛtīyassargaḥ |
sa lambaśikhare lambe lambatoyadasannibhe |
sattvamāsthāya medhāvī hanumān mārutātmajaḥ || 1 ||
niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ |
ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām || 2 ||
śāradāmbudharaprakhyairbhavanairupaśobhitām |
sāgaropamanirghoṣāṃ sāgarānilasevitām || 3 ||
supuṣṭabalasampuṣṭāṃ yathaiva viṭapāvatīm |
cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām || 4 ||
bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīmiva |
tāṃ sa vidyudghanākīrṇāṃ jyotirmārganiṣevitām || 5 ||
mandamārutasañcārāṃ yathendrasyāmarāvatīm |
śātakumbhena mahatā prākāreṇābhisaṃvṛtām || 6 ||
kiṅkiṇījālaghoṣābhiḥ patākābhiralaṅkṛtām |
āsādya sahasā hṛṣṭaḥ prākāramabhipedivān || 7 ||
vismayāviṣṭahṛdayaḥ purīmālokya sarvataḥ |
jāmbūnadamayairdvārairvaiḍūryakṛtavedikaiḥ || 8 ||
vajrasphaṭikamuktābhirmaṇikuṭṭimabhūṣitaiḥ |
taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ || 9 ||
vaiḍhūryakṛtasopānaiḥ sphāṭikāntarapāṃsubhiḥ |
cārusañjavanopetaiḥ khamivotpatitaiḥ śubhaiḥ || 10 ||
krauñcabarhiṇasaṅghuṣṭaiḥ rājahaṃsa niṣevitaiḥ |
tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām || 11 ||
vasvaukasārāpratimāṃ tāṃ vīkṣya nagarīṃ tataḥ |
khamivotpatituṃ kāmāṃ jaharṣa hanumān kapiḥ || 12 ||
tāṃ samīkṣya purīṃ ramyāṃ rākṣasādhipateḥ śubhām |
anuttamāmṛddhiyutāṃ cintayāmāsa vīryavān || 13 ||
neyamanyena nagarī śakyā dharṣayituṃ balāt |
rakṣitā rāvaṇabalairudyatāyudhadhāribhiḥ || 14 ||
kumudāṅgadayorvāpi suṣeṇasya mahākapeḥ |
prasiddheyaṃ bhavedbhūmirmaindadvividayorapi || 15 ||
vivasvatastanūjasya hareśca kuśaparvaṇaḥ |
ṛkṣasya ketumālasya mama caiva gatirbhavet || 16 ||
samīkṣya tu mahābāhū rāghavasya parākramam |
lakṣmaṇasya ca vikrāntamabhavat prītimān kapiḥ || 17 ||
tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām |
yantrāgārastanīmṛddhāṃ pramadāmiva bhūṣitām || 18 ||
tāṃ naṣṭatimirāṃ dīptairbhāsvaraiśca mahāgṛhaiḥ |
nagarīṃ rākṣasendrasya sa dadarśa mahākapiḥ || 19 ||
tha sā hariśārdūlaṃ praviśantaṃ mahābalam |
nagarī svena rūpeṇa dadarśa pavanātmajam || 20 ||
sā taṃ harivaraṃ dṛṣṭvā laṅkā rāvaṇapālitā |
svayamevotthitā tatra vikṛtānanadarśanā || 21 ||
purastātkapivaryasya vāyusūnoratiṣṭhata |
muñcamānā mahānādamabravītpavanātmajam || 22 ||
kastvaṃ kena ca kāryeṇa iha prāpto vanālaya |
kathayasveha yattattvaṃ yāvatprāṇā dharanti te || 23 ||
na śakyaṃ khalviyaṃ laṅkā praveṣṭuṃ vānara tvayā |
rakṣitā rāvaṇabalairabhiguptā samantataḥ || 24 ||
atha tāmabravīdvīro hanumānagrataḥ sthitām |
kathayiṣyāmi te tattvaṃ yanmāṃ tvaṃ paripṛcchasi || 25 ||
kā tvaṃ virūpanayanā puradvāre'vatiṣṭhasi |
kimarthaṃ cāpi māṃ ruddhvā nirbhartsayasi dāruṇā || 26 ||
hanumadvacanaṃ śrutvā laṅkā sā kāmarūpiṇī |
uvāca vacanaṃ kruddhā paruṣaṃ pavanātmajam || 27 ||
ahaṃ rākṣasarājasya rāvaṇasya mahātmanaḥ |
ājñāpratīkṣā durdharṣā rakṣāmi nagarīmimām || 28 ||
na śakyā māmavajñāya praveṣṭuṃ nagarī tvayā |
adya prāṇaiḥ parityaktaḥ svapsyase nihato mayā || 29 ||
ahaṃ hi nagarī laṅkā svayameva plavaṅgama |
sarvataḥ parirakṣāmi hyetatte kathitaṃ mayā || 30 ||
laṅkāyā vacanaṃ śrutvā hanumān mārutātmajaḥ |
yatnavānsa hariśreṣṭhaḥ sthitaśśaila ivāparaḥ || 31 ||
sa tāṃ strīrūpavikṛtāṃ dṛṣṭavā vānarapuṅgavaḥ |
ābabhāṣe'tha medhāvī sattvavān plavagarṣabhaḥ || 32 ||
drakṣyāmi nagarīṃ laṅkāṃ sāṭṭaprākāratoraṇām |
nirviśaṅkamimaṃlokaṃ paśyantyāstavasāmpratam |
ityarthamiha samprāptaḥ paraṃ kautūhalaṃ hi me || 33 ||
vanānyupavanānīha laṅkāyāḥ kānanāni ca |
sarvato gṛhamukhyāni draṣṭumāgamanaṃ hi me || 34 ||
tasya tadvacanaṃ śrutvā laṅkā sā kāmarūpiṇī |
bhūya eva punarvākyaṃ babhāṣe paruṣākṣaram || 35 ||
māmanirjitya durbuddhe rākṣaseśvarapālitām |
na śakyamadya te draṣṭuṃ purīyaṃ vānarādhama || 36 ||
tataḥ sa kapiśārdūlastāmuvāca niśācarīm |
dṛṣṭvā purīmimāṃ bhadre punaryāsye yathāgatam || 37 ||
tataḥ kṛtvā mahānādaṃ sā vai laṅkā bhayāvaham |
talena vānaraśreṣṭhaṃ tāḍayāmāsa vegitā || 38 ||
tataḥ sa kapiśārdūlo laṅkayā tāḍito bhṛśam |
nanāda sumahānādaṃ vīryavān pavanātmajaḥ || 39 ||
tataḥ saṃvartayāmāsa vāmahastasya so'ṅgulīḥ |
muṣṭinā''bhijaghānaināṃ hanumān krodhamūrchitaḥ || 40 ||
strī ceti manyamānena nātikrodhaḥ svayaṃ kṛtaḥ |
sā tu tena prahāreṇa vihvalāṅgī niśācarī || 41 ||
papāta sahasā bhūmau vikṛtānanadarśanā |
tatastu hanumān prājñastāṃ dṛṣṭvā vinipātitām || 42 ||
kṛpāṃ cakāra tejasvī manyamānaḥ striyaṃ tu tām |
tato vai bhṛśasaṃvignā laṅkā sā gadgadākṣaram || 43 ||
uvācāgarvitaṃ vākyaṃ hanūmantaṃ plavaṅgamam |
prasīda sumahābāho trāyasva harisattama || 44 ||
samaye saumya tiṣṭhanti sattvavanto mahābalāḥ |
ahaṃ tu nagarī laṅkā svayameva plavaṅgama || 45 ||
nirjitāhaṃ tvayā vīra vikrameṇa mahābala |
idaṃ tu tathyaṃ śṛṇu vai bruvantyā me harīśvara || 46 ||
svayambhuvā purā dattaṃ varadānaṃ yathā mama |
yadā tvāṃ vānaraḥ kaścidvikramādvaśamānayet || 47 ||
tadā tvayā hi vijñeyaṃ rakṣasāṃ bhayamāgatam |
sa hi me samayaḥ saumya prāpto'dya tava darśanāt || 48 ||
svayambhū vihitaḥ satyo na tasyāsti vyatikramaḥ |
sītānimittaṃ rājñastu rāvaṇasya durātmanaḥ || 49 ||
rakṣasāṃ caiva sarveṣāṃ vināśaḥ samupāgataḥ |
tatpraviśya hariśreṣṭha purīṃ rāvaṇapālitām || 50 ||
vidhatsva sarvakāryāṇi yāni yānīha vāñchasi |
praviśya śāpopahatāṃ harīśvara śubhāṃ purīṃ rākṣasamukhyapālitām |
yadṛcchayā tvaṃ janakātmajāṃ satīṃ vimārga sarvatra gato yathāsukham || 51 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye sundarakāṇḍe tṛtīyassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.