श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ पञ्चपञ्चाशस्सर्गः ।
सन्दिश्य राक्षसान्घोरान् रावणोऽष्टौ महाबलान् ।
आत्मानं बुद्धिवैक्लब्यात्कृतकृत्यममन्यत ॥ 1 ॥
स चिन्तयानो वैदेहीं कामबाणसमर्पितः ।
प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ॥ 2 ॥
स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः ।
अपश्यद्राक्षसीमध्ये सीतां शोकपरायणाम् ॥ 3 ॥
अश्रुपूर्णमुखीं दीनां शोकभाराभिपीडिताम् ।
वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे ॥ 4 ॥
मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम् ।
अधोमुखमुखीं सीतामभ्येत्य च निशाचरः ॥ 5 ॥
तां तु शोकपरां दीनामवशां राक्षसाधिपः ।
स बलाद्दर्शयामास गृहं देवगृहोपमम् ॥ 6 ॥
हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम् ।
नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम् ॥ 7 ॥
दान्तकैस्तापनीयैश्च स्फाटिकै राजतैरपि ।
वज्रवैडूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोहरैः ॥ 8 ॥
दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम् ।
सोपानं काञ्चनं चित्रमारुरोह तया सह ॥ 9 ॥
दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः ।
हेमजालावताश्चासन्स्तत्र प्रासादपङ्क्तयः ॥ 10 ॥
सुधामणिविचित्राणि भूमिभागानि सर्वशः ।
दशग्रीवस्स्वभवने प्रादर्शयत मैथिलीम् ॥ 11 ॥
दीर्घिकाः पुष्करिण्यश्च नानावृक्षसमन्विताः ।
रावणो दर्शयामास सीतां शोकपरायणाम् ॥ 12 ॥
दर्शयित्वा तु वैदेह्याः कृत्स्नं तद्भवनोत्तमम् ।
उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया ॥ 13 ॥
दश राक्षसकोट्यश्च द्वाविंशतिरथापराः ।
तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् ॥ 14 ॥
वर्जयित्वा जरावृद्धान्बालांश्च रजनीचरान् ।
सहस्रमेकमेकस्य मम कार्यपुरस्सरम् ॥ 15 ॥
यदिदं राजतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् ।
जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी ॥ 16 ॥
बहूनांस्त्रीसहस्राणां मम योऽसौ परिग्रहः ।
तासां त्वमीश्वरा सीते मम भार्या भव प्रिये ॥ 17 ॥
साधु किं तेऽन्यया बुद्ध्या रोचयस्व वचो मम ।
भजस्वमाभितप्तस्य प्रसादं कर्तुमर्हसि ॥ 18 ॥
परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना ।
नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ 19 ॥
न देवेषु न यक्षेषु न गन्धर्वेषु पक्षिषु ।
अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ॥ 20 ॥
राज्यभ्रष्टेन दीनेन तापसेन गतायुषा ।
किं करिष्यसि रामेण मानुषेणाल्पतेजसा ॥ 21 ॥
भजस्व सीते मामेव भर्ताहं सदृशस्तव ।
यौवनं ह्यध्रुवं भीरु रमस्वेह मया सह ॥ 22 ॥
दर्शने माकृथा बुद्धिं राघवस्य वरानने ।
कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥ 23 ॥
न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः ।
दीप्यमानस्य वाप्यग्नेर्गृहीतुं विमलां शिखाम् ॥ 24 ॥
त्रयाणामपि लोकानां न तं पश्यामि शोभने ।
विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम् ॥ 25 ॥
लङ्कायां सुमहद्राज्यमिदं त्वमनुपालय ।
त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचराः ॥ 26 ॥
अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम् ।
दुष्कृतं यत्परा कर्म वनवासेन तद्गतम् ॥ 27 ॥
यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि ।
इह माल्यानि सर्वाणि दिव्यगन्धानि मैथिलि ॥ 28 ॥
भूषणानि च मुख्यानि सेवस्व च मया सह ।
पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे ॥ 29 ॥
विमानं सूर्यसङ्काशं तरसा निर्जितं मया ।
विशालं रमणीयं च तद्विमानमनुत्तम् ॥ 30 ॥
तत्र सीते मया सार्धं विहरस्व यथासुखम् ।
वदनं पद्मसङ्काशममलं चारुदर्शनम् ।
शोकार्तन्तु वरारोहे न भ्राजति वरानने ॥ 31 ॥
एवं वदति तस्मित्सा वस्त्रान्तेन वराङ्गना ।
पिधायेन्दुनिभं सीता मुखमश्रूण्यवर्तयत् ॥ 32 ॥
ध्यायन्तीं तामिवास्वस्थां दीनां चिन्ताहतप्रभाम् ।
उवाच वचनं पापो रावणो राक्षसेश्वरः ॥ 33 ॥
अलं व्रीडेन वैदेहि धर्मलोपकृतेन च ॥ 34 ॥
आर्षोऽयं दैवनिष्यन्दो यस्त्वामभिगमिष्यति ।
एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ॥ 35 ॥
प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मिते ।
इमाश्शून्य मया वाचश्शुष्यमाणेन भाषिताः ॥ 36 ॥
न चापि रावणः काञ्चिन्मूर्ध्ना स्त्रीं प्रणमेत ह ।
एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् ॥ 37 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे पञ्चपञ्चाशस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe araṇyakāṇḍam |
atha pañcapañcāśassargaḥ |
sandiśya rākṣasānghorān rāvaṇo'ṣṭau mahābalān |
ātmānaṃ buddhivaiklabyātkṛtakṛtyamamanyata || 1 ||
sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ |
praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭumabhitvaran || 2 ||
sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ |
apaśyadrākṣasīmadhye sītāṃ śokaparāyaṇām || 3 ||
aśrupūrṇamukhīṃ dīnāṃ śokabhārābhipīḍitām |
vāyuvegairivākrāntāṃ majjantīṃ nāvamarṇave || 4 ||
mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhirivāvṛtām |
adhomukhamukhīṃ sītāmabhyetya ca niśācaraḥ || 5 ||
tāṃ tu śokaparāṃ dīnāmavaśāṃ rākṣasādhipaḥ |
sa balāddarśayāmāsa gṛhaṃ devagṛhopamam || 6 ||
harmyaprāsādasambādhaṃ strīsahasraniṣevitam |
nānāpakṣigaṇairjuṣṭaṃ nānāratnasamanvitam || 7 ||
dāntakaistāpanīyaiśca sphāṭikai rājatairapi |
vajravaiḍūryacitraiśca stambhairdṛṣṭimanoharaiḥ || 8 ||
divyadundubhinirhrādaṃ taptakāñcanatoraṇam |
sopānaṃ kāñcanaṃ citramāruroha tayā saha || 9 ||
dāntakā rājatāścaiva gavākṣāḥ priyadarśanāḥ |
hemajālāvatāścāsanstatra prāsādapaṅktayaḥ || 10 ||
sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ |
daśagrīvassvabhavane prādarśayata maithilīm || 11 ||
dīrghikāḥ puṣkariṇyaśca nānāvṛkṣasamanvitāḥ |
rāvaṇo darśayāmāsa sītāṃ śokaparāyaṇām || 12 ||
darśayitvā tu vaidehyāḥ kṛtsnaṃ tadbhavanottamam |
uvāca vākyaṃ pāpātmā sītāṃ lobhitumicchayā || 13 ||
daśa rākṣasakoṭyaśca dvāviṃśatirathāparāḥ |
teṣāṃ prabhurahaṃ sīte sarveṣāṃ bhīmakarmaṇām || 14 ||
varjayitvā jarāvṛddhānbālāṃśca rajanīcarān |
sahasramekamekasya mama kāryapurassaram || 15 ||
yadidaṃ rājatantraṃ me tvayi sarvaṃ pratiṣṭhitam |
jīvitaṃ ca viśālākṣi tvaṃ me prāṇairgarīyasī || 16 ||
bahūnāṃstrīsahasrāṇāṃ mama yo'sau parigrahaḥ |
tāsāṃ tvamīśvarā sīte mama bhāryā bhava priye || 17 ||
sādhu kiṃ te'nyayā buddhyā rocayasva vaco mama |
bhajasvamābhitaptasya prasādaṃ kartumarhasi || 18 ||
parikṣiptā samudreṇa laṅkeyaṃ śatayojanā |
neyaṃ dharṣayituṃ śakyā sendrairapi surāsuraiḥ || 19 ||
na deveṣu na yakṣeṣu na gandharveṣu pakṣiṣu |
ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet || 20 ||
rājyabhraṣṭena dīnena tāpasena gatāyuṣā |
kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā || 21 ||
bhajasva sīte māmeva bhartāhaṃ sadṛśastava |
yauvanaṃ hyadhruvaṃ bhīru ramasveha mayā saha || 22 ||
darśane mākṛthā buddhiṃ rāghavasya varānane |
kāsya śaktirihāgantumapi sīte manorathaiḥ || 23 ||
na śakyo vāyurākāśe pāśairbaddhuṃ mahājavaḥ |
dīpyamānasya vāpyagnergṛhītuṃ vimalāṃ śikhām || 24 ||
trayāṇāmapi lokānāṃ na taṃ paśyāmi śobhane |
vikrameṇa nayedyastvāṃ madbāhuparipālitām || 25 ||
laṅkāyāṃ sumahadrājyamidaṃ tvamanupālaya |
tvatpreṣyā madvidhāścaiva devāścāpi carācarāḥ || 26 ||
abhiṣekodakaklinnā tuṣṭā ca ramayasva mām |
duṣkṛtaṃ yatparā karma vanavāsena tadgatam || 27 ||
yaśca te sukṛto dharmastasyeha phalamāpnuhi |
iha mālyāni sarvāṇi divyagandhāni maithili || 28 ||
bhūṣaṇāni ca mukhyāni sevasva ca mayā saha |
puṣpakaṃ nāma suśroṇi bhrāturvaiśravaṇasya me || 29 ||
vimānaṃ sūryasaṅkāśaṃ tarasā nirjitaṃ mayā |
viśālaṃ ramaṇīyaṃ ca tadvimānamanuttam || 30 ||
tatra sīte mayā sārdhaṃ viharasva yathāsukham |
vadanaṃ padmasaṅkāśamamalaṃ cārudarśanam |
śokārtantu varārohe na bhrājati varānane || 31 ||
evaṃ vadati tasmitsā vastrāntena varāṅganā |
pidhāyendunibhaṃ sītā mukhamaśrūṇyavartayat || 32 ||
dhyāyantīṃ tāmivāsvasthāṃ dīnāṃ cintāhataprabhām |
uvāca vacanaṃ pāpo rāvaṇo rākṣaseśvaraḥ || 33 ||
alaṃ vrīḍena vaidehi dharmalopakṛtena ca || 34 ||
ārṣo'yaṃ daivaniṣyando yastvāmabhigamiṣyati |
etau pādau mayā snigdhau śirobhiḥ paripīḍitau || 35 ||
prasādaṃ kuru me kṣipraṃ vaśyo dāso'hamasmite |
imāśśūnya mayā vācaśśuṣyamāṇena bhāṣitāḥ || 36 ||
na cāpi rāvaṇaḥ kāñcinmūrdhnā strīṃ praṇameta ha |
evamuktvā daśagrīvo maithilīṃ janakātmajām || 37 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye araṇyakāṇḍe pañcapañcāśassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.