Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
शिष्य उवाच
Verse 1
अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।
स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते ॥ 1 ॥

akhaṇḍe saccidānande nirvikalpaikarūpiṇi |
sthite'dvitīyabhāve'pi kathaṃ pūjā vidhīyate || 1 ||

Verse 2
पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।
स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ 2 ॥

pūrṇasyāvāhanaṃ kutra sarvādhārasya cāsanam |
svacchasya pādyamarghyaṃ ca śuddhasyācamanaṃ kutaḥ || 2 ||

Verse 3
निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च ।
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ 3 ॥

nirmalasya kutaḥ snānaṃ vāso viśvodarasya ca |
agotrasya tvavarṇasya kutastasyopavītakam || 3 ||

Verse 4
निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च ।
निर्विशेषस्य का भूषा कोऽलङ्कारो निराकृतेः ॥ 4 ॥

nirlepasya kuto gandhaḥ puṣpaṃ nirvāsanasya ca |
nirviśeṣasya kā bhūṣā ko'laṅkāro nirākṛteḥ || 4 ||

Verse 5
निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः ।
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ 5 ॥

nirañjanasya kiṃ dhūpairdīpairvā sarvasākṣiṇaḥ |
nijānandaikatṛptasya naivedyaṃ kiṃ bhavediha || 5 ||

Verse 6
विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्पते ।
स्वयम्प्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥ 6 ॥

viśvānandayitustasya kiṃ tāmbūlaṃ prakalpate |
svayamprakāśacidrūpo yo'sāvarkādibhāsakaḥ || 6 ||

Verse 7
गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः ।
प्रदक्षिणमनन्तस्य प्रणामोऽद्वयवस्तुनः ॥ 7 ॥

gīyate śrutibhistasya nīrājanavidhiḥ kutaḥ |
pradakṣiṇamanantasya praṇāmo'dvayavastunaḥ || 7 ||

Verse 8
वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते ।
अन्तर्बहिः संस्थितस्य उद्वासनविधिः कुतः ॥ 8 ॥

vedavācāmavedyasya kiṃ vā stotraṃ vidhīyate |
antarbahiḥ saṃsthitasya udvāsanavidhiḥ kutaḥ || 8 ||

श्री गुरुरुवाच
Verse 9
आराधयामि मणिसन्निभमात्मलिङ्गम्
मायापुरीहृदयपङ्कजसन्निविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषेकै-
र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ 9 ॥
मायापुरीहृदयपङ्कजसन्निविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषेकै-
र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ 9 ॥
ārādhayāmi maṇisannibhamātmaliṅgam
māyāpurīhṛdayapaṅkajasanniviṣṭam |
śraddhānadīvimalacittajalābhiṣekai-
rnityaṃ samādhikusumairnapunarbhavāya || 9 ||

Verse 10
अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम् ।
आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥ 10 ॥

ayameko'vaśiṣṭo'smītyevamāvāhayecchivam |
āsanaṃ kalpayetpaścātsvapratiṣṭhātmacintanam || 10 ||

Verse 11
पुण्यपापरजःसङ्गो मम नास्तीति वेदनम् ।
पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम् ॥ 11 ॥

puṇyapāparajaḥsaṅgo mama nāstīti vedanam |
pādyaṃ samarpayedvidvansarvakalmaṣanāśanam || 11 ||

Verse 12
अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् ।
विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम् ॥ 12 ॥

anādikalpavidhṛtamūlājñānajalāñjalim |
visṛjedātmaliṅgasya tadevārghyasamarpaṇam || 12 ||

Verse 13
ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् ।
पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥ 13 ॥

brahmānandābdhikallolakaṇakoṭyaṃśaleśakam |
pibantīndrādaya iti dhyānamācamanaṃ matam || 13 ||

Verse 14
ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः ।
अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः ॥ 14 ॥

brahmānandajalenaiva lokāḥ sarve pariplutāḥ |
acchedyo'yamiti dhyānamabhiṣecanamātmanaḥ || 14 ||

Verse 15
निरावरणचैतन्यं प्रकाशोऽस्मीति चिन्तनम् ।
आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ 15 ॥

nirāvaraṇacaitanyaṃ prakāśo'smīti cintanam |
ātmaliṅgasya sadvastramityevaṃ cintayenmuniḥ || 15 ||

त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् ।
triguṇātmāśeṣalokamālikāsūtramasmyaham |
इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ 16 ॥
Verse 17
अनेकवासनामिश्रप्रपञ्चोऽयं धृतो मया ।
नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत् ॥ 17 ॥

anekavāsanāmiśraprapañco'yaṃ dhṛto mayā |
nānyenetyanusandhānamātmanaścandanaṃ bhavet || 17 ||

Verse 18
रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः ।
आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ 18 ॥

rajaḥsattvatamovṛttityāgarūpaistilākṣataiḥ |
ātmaliṅgaṃ yajennityaṃ jīvanmuktiprasiddhaye || 18 ||

Verse 19
ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः ।
बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥ 19 ॥

īśvaro gururātmeti bhedatrayavivarjitaiḥ |
bilvapatrairadvitīyairātmaliṅgaṃ yajecchivam || 19 ||

Verse 20
समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् ।
ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥ 20 ॥

samastavāsanātyāgaṃ dhūpaṃ tasya vicintayet |
jyotirmayātmavijñānaṃ dīpaṃ sandarśayedbudhaḥ || 20 ||

Verse 21
नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् ।
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥ 21 ॥

naivedyamātmaliṅgasya brahmāṇḍākhyaṃ mahodanam |
pibānandarasaṃ svādu mṛtyurasyopasecanam || 21 ||

Verse 22
अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा ।
विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत् ॥ 22 ॥

ajñānocchiṣṭakarasya kṣālanaṃ jñānavāriṇā |
viśuddhasyātmaliṅgasya hastaprakṣālanaṃ smaret || 22 ||

Verse 23
रागादिगुणशून्यस्य शिवस्य परमात्मनः ।
सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम् ॥ 23 ॥

rāgādiguṇaśūnyasya śivasya paramātmanaḥ |
sarāgaviṣayābhyāsatyāgastāmbūlacarvaṇam || 23 ||

Verse 24
अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम् ।
आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ 24 ॥

ajñānadhvāntavidhvaṃsapracaṇḍamatibhāskaram |
ātmano brahmatājñānaṃ nīrājanamihātmanaḥ || 24 ||

Verse 25
विविधब्रह्मसन्दृष्टिर्मालिकाभिरलङ्कृतम् ।
पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥ 25 ॥

vividhabrahmasandṛṣṭirmālikābhiralaṅkṛtam |
pūrṇānandātmatādṛṣṭiṃ puṣpāñjalimanusmaret || 25 ||

Verse 26
परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे ।
कूटस्थाचलरूपोऽहमिति ध्यानं प्रदक्षिणम् ॥ 26 ॥

paribhramanti brahmāṇḍasahasrāṇi mayīśvare |
kūṭasthācalarūpo'hamiti dhyānaṃ pradakṣiṇam || 26 ||

Verse 27
विश्ववन्द्योऽहमेवास्मि नास्ति वन्द्यो मदन्यतः ।
इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥ 27 ॥

viśvavandyo'hamevāsmi nāsti vandyo madanyataḥ |
ityālocanamevātra svātmaliṅgasya vandanam || 27 ||

Verse 28
आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना ।
नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम् ॥ 28 ॥

ātmanaḥ satkriyā proktā kartavyābhāvabhāvanā |
nāmarūpavyatītātmacintanaṃ nāmakīrtanam || 28 ||

Verse 29
श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम् ।
मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् ॥ 29 ॥

śravaṇaṃ tasya devasya śrotavyābhāvacintanam |
mananaṃ tvātmaliṅgasya mantavyābhāvacintanam || 29 ||

Verse 30
ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः ।
समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥ 30 ॥

dhyātavyābhāvavijñānaṃ nididhyāsanamātmanaḥ |
samastabhrāntivikṣeparāhityenātmaniṣṭhatā || 30 ||

Verse 31
समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः ।
तत्रैव बह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ 31 ॥

samādhirātmano nāma nānyaccittasya vibhramaḥ |
tatraiva bahmaṇi sadā cittaviśrāntiriṣyate || 31 ||

Verse 32
एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् ।
कुर्वन्ना मरणं वापि क्षणं वा सुसमाहितः ॥ 32 ॥

evaṃ vedāntakalpoktasvātmaliṅgaprapūjanam |
kurvannā maraṇaṃ vāpi kṣaṇaṃ vā susamāhitaḥ || 32 ||

Verse 33
सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् ।
विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥ 33 ॥

sarvadurvāsanājālaṃ padapāṃsumiva tyajet |
vidhūyājñānaduḥkhaughaṃ mokṣānandaṃ samaśnute || 33 ||

Sanskrit — Devanagari (original)
शिष्य उवाच
अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।
स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते ॥ 1 ॥
पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।
स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ 2 ॥
निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च ।
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ 3 ॥
निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च ।
निर्विशेषस्य का भूषा कोऽलङ्कारो निराकृतेः ॥ 4 ॥
निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः ।
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ 5 ॥
विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्पते ।
स्वयम्प्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥ 6 ॥
गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः ।
प्रदक्षिणमनन्तस्य प्रणामोऽद्वयवस्तुनः ॥ 7 ॥
वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते ।
अन्तर्बहिः संस्थितस्य उद्वासनविधिः कुतः ॥ 8 ॥
श्री गुरुरुवाच
आराधयामि मणिसन्निभमात्मलिङ्गम्
मायापुरीहृदयपङ्कजसन्निविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषेकै-
र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ 9 ॥
अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम् ।
आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥ 10 ॥
पुण्यपापरजःसङ्गो मम नास्तीति वेदनम् ।
पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम् ॥ 11 ॥
अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् ।
विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम् ॥ 12 ॥
ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् ।
पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥ 13 ॥
ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः ।
अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः ॥ 14 ॥
निरावरणचैतन्यं प्रकाशोऽस्मीति चिन्तनम् ।
आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ 15 ॥
त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् ।
इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ 16 ॥
अनेकवासनामिश्रप्रपञ्चोऽयं धृतो मया ।
नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत् ॥ 17 ॥
रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः ।
आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ 18 ॥
ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः ।
बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥ 19 ॥
समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् ।
ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥ 20 ॥
नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् ।
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥ 21 ॥
अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा ।
विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत् ॥ 22 ॥
रागादिगुणशून्यस्य शिवस्य परमात्मनः ।
सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम् ॥ 23 ॥
अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम् ।
आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ 24 ॥
विविधब्रह्मसन्दृष्टिर्मालिकाभिरलङ्कृतम् ।
पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥ 25 ॥
परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे ।
कूटस्थाचलरूपोऽहमिति ध्यानं प्रदक्षिणम् ॥ 26 ॥
विश्ववन्द्योऽहमेवास्मि नास्ति वन्द्यो मदन्यतः ।
इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥ 27 ॥
आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना ।
नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम् ॥ 28 ॥
श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम् ।
मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् ॥ 29 ॥
ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः ।
समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥ 30 ॥
समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः ।
तत्रैव बह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ 31 ॥
एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् ।
कुर्वन्ना मरणं वापि क्षणं वा सुसमाहितः ॥ 32 ॥
सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् ।
विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥ 33 ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.