Shiva

तत्त्वबोध (आदि शङ्कराचार्य)

Tattvabodha (adi Shankaracharya)

✍️ Adi Shankaracharya 🖋️ Devanagari script
📄 Download PDF
ध्यानं
वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् ।
मुमुक्षूणां हितार्थाय तत्त्वबोधोभिधीयते ॥
साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं
तत्त्वविवेकप्रकारं वक्ष्यामः ।
साधनचतुष्टयम्
साधनचतुष्टयं किम् ?
नित्यानित्यवस्तुविवेकः ।
इहामुत्रार्थफलभोगविरागः ।
शमादिषट्कसम्पत्तिः ।
मुमुक्षुत्वं चेति ।
नित्यानित्यवस्तुविवेकः
नित्यानित्यवस्तुविवेकः कः ?
नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् ।
अयमेव नित्यानित्यवस्तुविवेकः ।
विरागः
विरागः कः ?
इहस्वर्गभोगेषु इच्छाराहित्यम् ।
शमादिसाधनसम्पत्तिः
शमादिसाधनसम्पत्तिः का ?
शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति ।शमः कः ?
मनोनिग्रहः ।
दमः कः ?
चक्षुरादिबाह्येन्द्रियनिग्रहः ।
उपरमः कः ?
स्वधर्मानुष्ठानमेव ।
तितिक्षा का ?
शीतोष्णसुखदुःखादिसहिष्णुत्वम् ।
श्रद्धा कीदृशी ?
गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा ।
समाधानं किम् ?
चित्तैकाग्रता ।
मुमुक्षुत्वं
मुमुक्षुत्वं किम् ?
मोक्षो मे भूयाद् इति इच्छा ।
एतत् साधनचतुष्टयम् ।
ततस्तत्त्वविवेकस्याधिकारिणो भवन्ति ।
तत्त्वविवेकः
तत्त्वविवेकः कः ?
आत्मा सत्यं तदन्यत् सर्वं मिथ्येति ।आत्मा कः ?
स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पञ्चकोशातीतः सन्
अवस्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन्
यस्तिष्ठति स आत्मा ।
शरीरत्रयं (स्थूलशरीरम्)
स्थूलशरीरं किम् ?
पञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगायतनं शरीरम्
अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति
षड्विकारवदेतत्स्थूलशरीरम् ।
शरीरत्रयं (सूक्ष्मशरीरम्)
सूक्ष्मशरीरं किम् ?
अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगसाधनं
पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः
मनश्चैकं बुद्धिश्चैका
एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् ।
ज्ञानेन्द्रियाणि
श्रोत्रं त्वक् चक्षुः रसना घ्राणं इति पञ्च ज्ञानेन्द्रियाणि ।
श्रोत्रस्य दिग्देवता ।
त्वचो वायुः ।
चक्षुषः सूर्यः ।
रसनाया वरुणः ।
घ्राणस्य अश्विनौ ।
इति ज्ञानेन्द्रियदेवताः ।
श्रोत्रस्य विषयः शब्दग्रहणम् ।
त्वचो विषयः स्पर्शग्रहणम् ।
चक्षुषो विषयः रूपग्रहणम् ।
रसनाया विषयः रसग्रहणम् ।
घ्राणस्य विषयः गन्धग्रहणं इति ।
पञ्चकर्मेन्द्रियाणि
वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि ।
वाचो देवता वह्निः ।
हस्तयोरिन्द्रः ।
पादयोर्विष्णुः ।
पायोर्मृत्युः ।
उपस्थस्य प्रजापतिः ।
इति कर्मेन्द्रियदेवताः ।
वाचो विषयः भाषणम् ।
पाण्योर्विषयः वस्तुग्रहणम् ।
पादयोर्विषयः गमनम् ।
पायोर्विषयः मलत्यागः ।
उपस्थस्य विषयः आनन्द इति ।
कारणशरीरम्
कारणशरीरं किम् ?
अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं
सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् ।
अवस्थात्रयम्
अवस्थात्रयं किम् ?
जाग्रत्स्वप्नसुषुप्त्यवस्थाः ।
जाग्रदवस्था
जाग्रदवस्था का ?
श्रोत्रादिज्ञानेन्द्रियैः शब्दादिविषयैश्च ज्ञायते इति यत्
सा जाग्रदावस्था ।
स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते ।
स्वप्नावस्था
स्वप्नावस्था केति चेत् ?
जाग्रदवस्थायां यद्दृष्टं यद् श्रुतम्
तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते सा
स्वप्नावस्था ।
सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते ।
सुषुप्त्यवस्था
अतः सुषुप्त्यवस्था का ?
अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति
सुषुप्त्यवस्था ।
कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते ।
पञ्च कोशाः
पञ्च कोशाः के ?
अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति ।
अन्नमयकोशः
अन्नमयः कः ?
अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां
यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् ।
प्राणमयकोशः
प्राणमयः कः ?
प्राणाद्याः पञ्चवायवः वागादीन्द्रियपञ्चकं प्राणमयः कोशः ।
मनोमयकोशः
मनोमयः कोशः कः ?
मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स मनोमयः कोशः ।
विज्ञानमयकोशः
विज्ञानमयः कः ?
बुद्धिज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स विज्ञानमयः कोशः
आनन्दमयकोशः
आनन्दमयः कः ?
एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं
प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः ।
एतत्कोशपञ्चकम् ।
पञ्चकोशातीत
मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च
मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते
तद्यथा मदीयत्वेन ज्ञातं कटककुण्डल गृहादिकं
स्वस्माद्भिन्नं तथा पञ्चकोशादिकं स्वस्माद्भिन्नम्
मदीयत्वेन ज्ञातमात्मा न भवति ॥
आत्मन्
आत्मा तर्हि कः ?
सच्चिदानन्दस्वरूपः ।
सत्किम् ?
कालत्रयेऽपि तिष्ठतीति सत् ।
चित्किम् ?
ज्ञानस्वरूपः ।
आनन्दः कः ?
सुखस्वरूपः ।
एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् ।
जगत्
अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः ।
माया
ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति ।
पञ्चभूताः
ततः आकाशः सम्भूतः ।
आकाशाद् वायुः ।
वायोस्तेजः ।
तेजस आपः ।
अभ्धयः पृथिवी ।
सत्त्वगुणः
एतेषां पञ्चतत्त्वानां मध्ये
आकाशस्य सात्विकांशात् श्रोत्रेन्द्रियं सम्भूतम् ।
वायोः सात्विकांशात् त्वगिन्द्रियं सम्भूतम् ।
अग्नेः सात्विकांशात् चक्षुरिन्द्रियं सम्भूतम् ।
जलस्य सात्विकांशात् रसनेन्द्रियं सम्भूतम् ।
पृथिव्याः सात्विकांशात् घ्राणेन्द्रियं सम्भूतम् ।
अन्तःकरण
एतेषां पञ्चतत्त्वानां समष्टिसात्विकांशात्
मनोबुद्ध्यहङ्कार चित्तान्तःकरणानि सम्भूतानि ।
सङ्कल्पविकल्पात्मकं मनः ।
निश्चयात्मिका बुद्धिः ।
अहङ्कर्ता अहङ्कारः ।
चिन्तनकर्तृ चित्तम् ।
मनसो देवता चन्द्रमाः ।
बुद्धे ब्रह्मा ।
अहङ्कारस्य रुद्रः ।
चित्तस्य वासुदेवः ।
रजोगुणः
एतेषां पञ्चतत्त्वानां मध्ये
आकाशस्य राजसांशात् वागिन्द्रियं सम्भूतम् ।
वायोः राजसांशात् पाणीन्द्रियं सम्भूतम् ।
वन्हेः राजसांशात् पादेन्द्रियं सम्भूतम् ।
जलस्य राजसांशात् उपस्थेन्द्रियं सम्भूतम् ।
पृथिव्या राजसांशात् गुदेन्द्रियं सम्भूतम् ।
एतेषां समष्टिराजसांशात् पञ्चप्राणाः सम्भूताः ।
तमोगुणः
एतेषां पञ्चतत्त्वानां तामसांशात्
पञ्चीकृतपञ्चतत्त्वानि भवन्ति ।
पञ्चीकरणं कथं इति चेत् ।
एतेषां पञ्चमहाभूतानां तामसांशस्वरूपम्
एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक्
तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धां विभज्य
स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं कार्यम् ।
तदा पञ्चीकरणं भवति ।
एतेभ्यः पञ्चीकृतपञ्चमहाभूतेभ्यः स्थूलशरीरं भवति ।
एवं पिण्डब्रह्माण्डयोरैक्यं सम्भूतम् ।
जीवः, ईश्वरः च
स्थूलशरीराभिमानि जीवनामकं ब्रह्मप्रतिबिम्बं भवति ।
स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति ।
अविद्योपाधिः सन् आत्मा जीव इत्युच्यते ।
मायोपाधिः सन् ईश्वर इत्युच्यते ।
एवं उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत्पर्यन्तं तिष्ठति
तावत्पर्यन्तं जन्ममरणादिरूपसंसारो न निवर्तते ।
तस्मात्कारणान्न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या ।
तत् त्वं असि
ननु साहङ्कारस्य किञ्चिज्ज्ञस्य जीवस्य निरहङ्कारस्य सर्वज्ञस्य
ईश्वरस्य तत्त्वमसीति महावाक्यात् कथमभेदबुद्धिः स्यादुभयोः
विरुद्धधर्माक्रान्तत्वात् ।
इति चेन्न । स्थूलसूक्ष्मशरीराभिमानी त्वम्पदवाच्यार्थः ।
उपाधिविनिर्मुक्तं समाधिदशासम्पन्नं शुद्धं चैतन्यं
त्वम्पदलक्ष्यार्थः ।
एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः ।
उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः ।
एवं च जीवेश्वरयो चैतन्यरूपेणाऽभेदे बाधकाभावः ।
जीवन्मुक्तः
एवं च वेदान्तवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि
भूतेषु येषां
ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थः ।ननु जीवन्मुक्तः कः ?
यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति
दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः
किन्तु असङ्गः सच्चिदानन्द स्वरूपः प्रकाशरूपः सर्वान्तर्यामी
चिदाकाशरूपोऽस्मीति दृढनिश्चय
रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः
स्यात् ।
कर्माणि
कर्माणि कतिविधानि सन्तीति चेत्
आगामिसञ्चितप्रारब्धभेदेन त्रिविधानि सन्ति ।
आगामि कर्म
ज्ञानोत्पत्त्यनन्तरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म
यदस्ति तदागामीत्यभिधीयते ।
सञ्चित कर्म
सञ्चितं कर्म किम् ?
अनन्तकोटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं
तिष्ठति तत् सञ्चितं ज्ञेयम् ।
प्रारब्ध कर्म
प्रारब्धं कर्म किमिति चेत् ।
इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म
तत्प्रारब्धं
भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति ।
कर्म मुक्तः
सञ्चितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति ।आगामि कर्म अपि ज्ञानेन नश्यति किञ्च आगामि कर्मणां
नलिनीदलगतजलवत् ज्ञानिनां सम्बन्धो नास्ति ।
ज्ञानिः
किञ्च ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान्प्रति
ज्ञानिकृतं आगामि पुण्यं गच्छति ।
ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान्प्रति
ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म
पापात्मकं तद्गच्छति ।
सुहृदः पुण्यकृतं दुर्हृदः पापकृत्यं गृह्णन्ति ।
ब्रह्मानन्दम्
तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानन्दमिहैव प्राप्नोति ।
तरति शोकमात्मवित् इति श्रुतेः ।
तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथ वा ।
ज्ञानसम्प्राप्तिसमये मुक्ताऽसौ विगताशयः । इति स्मृतेश्च ।इति श्रीशङ्करभगवत्पादाचार्यप्रणीतः तत्त्वबोधप्रकरणं समाप्तम् ।
Roman (IAST) Transliteration
dhyānaṃ
vāsudevendrayogīndraṃ natvā jñānapradaṃ gurum |
mumukṣūṇāṃ hitārthāya tattvabodhobhidhīyate ||
sādhanacatuṣṭayasampannādhikāriṇāṃ mokṣasādhanabhūtaṃ
tattvavivekaprakāraṃ vakṣyāmaḥ |
sādhanacatuṣṭayam
sādhanacatuṣṭayaṃ kim ?
nityānityavastuvivekaḥ |
ihāmutrārthaphalabhogavirāgaḥ |
śamādiṣaṭkasampattiḥ |
mumukṣutvaṃ ceti |
nityānityavastuvivekaḥ
nityānityavastuvivekaḥ kaḥ ?
nityavastvekaṃ brahma tadvyatiriktaṃ sarvamanityam |
ayameva nityānityavastuvivekaḥ |
virāgaḥ
virāgaḥ kaḥ ?
ihasvargabhogeṣu icchārāhityam |
śamādisādhanasampattiḥ
śamādisādhanasampattiḥ kā ?
śamo dama uparamastitikṣā śraddhā samādhānaṃ ca iti |śamaḥ kaḥ ?
manonigrahaḥ |
damaḥ kaḥ ?
cakṣurādibāhyendriyanigrahaḥ |
uparamaḥ kaḥ ?
svadharmānuṣṭhānameva |
titikṣā kā ?
śītoṣṇasukhaduḥkhādisahiṣṇutvam |
śraddhā kīdṛśī ?
guruvedāntavākyādiṣu viśvāsaḥ śraddhā |
samādhānaṃ kim ?
cittaikāgratā |
mumukṣutvaṃ
mumukṣutvaṃ kim ?
mokṣo me bhūyād iti icchā |
etat sādhanacatuṣṭayam |
tatastattvavivekasyādhikāriṇo bhavanti |
tattvavivekaḥ
tattvavivekaḥ kaḥ ?
ātmā satyaṃ tadanyat sarvaṃ mithyeti |ātmā kaḥ ?
sthūlasūkṣmakāraṇaśarīrādvyatiriktaḥ pañcakośātītaḥ san
avasthātrayasākṣī saccidānandasvarūpaḥ san
yastiṣṭhati sa ātmā |
śarīratrayaṃ (sthūlaśarīram)
sthūlaśarīraṃ kim ?
pañcīkṛtapañcamahābhūtaiḥ kṛtaṃ satkarmajanyaṃ
sukhaduḥkhādibhogāyatanaṃ śarīram
asti jāyate vardhate vipariṇamate apakṣīyate vinaśyatīti
ṣaḍvikāravadetatsthūlaśarīram |
śarīratrayaṃ (sūkṣmaśarīram)
sūkṣmaśarīraṃ kim ?
apañcīkṛtapañcamahābhūtaiḥ kṛtaṃ satkarmajanyaṃ
sukhaduḥkhādibhogasādhanaṃ
pañcajñānendriyāṇi pañcakarmendriyāṇi pañcaprāṇādayaḥ
manaścaikaṃ buddhiścaikā
evaṃ saptadaśākalābhiḥ saha yattiṣṭhati tatsūkṣmaśarīram |
jñānendriyāṇi
śrotraṃ tvak cakṣuḥ rasanā ghrāṇaṃ iti pañca jñānendriyāṇi |
śrotrasya digdevatā |
tvaco vāyuḥ |
cakṣuṣaḥ sūryaḥ |
rasanāyā varuṇaḥ |
ghrāṇasya aśvinau |
iti jñānendriyadevatāḥ |
śrotrasya viṣayaḥ śabdagrahaṇam |
tvaco viṣayaḥ sparśagrahaṇam |
cakṣuṣo viṣayaḥ rūpagrahaṇam |
rasanāyā viṣayaḥ rasagrahaṇam |
ghrāṇasya viṣayaḥ gandhagrahaṇaṃ iti |
pañcakarmendriyāṇi
vākpāṇipādapāyūpasthānīti pañcakarmendriyāṇi |
vāco devatā vahniḥ |
hastayorindraḥ |
pādayorviṣṇuḥ |
pāyormṛtyuḥ |
upasthasya prajāpatiḥ |
iti karmendriyadevatāḥ |
vāco viṣayaḥ bhāṣaṇam |
pāṇyorviṣayaḥ vastugrahaṇam |
pādayorviṣayaḥ gamanam |
pāyorviṣayaḥ malatyāgaḥ |
upasthasya viṣayaḥ ānanda iti |
kāraṇaśarīram
kāraṇaśarīraṃ kim ?
anirvācyānādyavidyārūpaṃ śarīradvayasya kāraṇamātraṃ
satsvarūpā'jñānaṃ nirvikalpakarūpaṃ yadasti tatkāraṇaśarīram |
avasthātrayam
avasthātrayaṃ kim ?
jāgratsvapnasuṣuptyavasthāḥ |
jāgradavasthā
jāgradavasthā kā ?
śrotrādijñānendriyaiḥ śabdādiviṣayaiśca jñāyate iti yat
sā jāgradāvasthā |
sthūla śarīrābhimānī ātmā viśva ityucyate |
svapnāvasthā
svapnāvasthā keti cet ?
jāgradavasthāyāṃ yaddṛṣṭaṃ yad śrutam
tajjanitavāsanayā nidrāsamaye yaḥ prapañcaḥ pratīyate sā
svapnāvasthā |
sūkṣmaśarīrābhimānī ātmā taijasa ityucyate |
suṣuptyavasthā
ataḥ suṣuptyavasthā kā ?
ahaṃ kimapi na jānāmi sukhena mayā nidrā'nubhūyata iti
suṣuptyavasthā |
kāraṇaśarīrābhimānī ātmā prājña ityucyate |
pañca kośāḥ
pañca kośāḥ ke ?
annamayaḥ prāṇamayaḥ manomayaḥ vijñānamayaḥ ānandamayaśceti |
annamayakośaḥ
annamayaḥ kaḥ ?
annarasenaiva bhūtvā annarasenaiva vṛddhiṃ prāpya annarūpapṛthivyāṃ
yadvilīyate tadannamayaḥ kośaḥ sthūlaśarīram |
prāṇamayakośaḥ
prāṇamayaḥ kaḥ ?
prāṇādyāḥ pañcavāyavaḥ vāgādīndriyapañcakaṃ prāṇamayaḥ kośaḥ |
manomayakośaḥ
manomayaḥ kośaḥ kaḥ ?
manaśca jñānendriyapañcakaṃ militvā yo bhavati sa manomayaḥ kośaḥ |
vijñānamayakośaḥ
vijñānamayaḥ kaḥ ?
buddhijñānendriyapañcakaṃ militvā yo bhavati sa vijñānamayaḥ kośaḥ
ānandamayakośaḥ
ānandamayaḥ kaḥ ?
evameva kāraṇaśarīrabhūtāvidyāsthamalinasattvaṃ
priyādivṛttisahitaṃ sat ānandamayaḥ kośaḥ |
etatkośapañcakam |
pañcakośātīta
madīyaṃ śarīraṃ madīyāḥ prāṇāḥ madīyaṃ manaśca
madīyā buddhirmadīyaṃ ajñānamiti svenaiva jñāyate
tadyathā madīyatvena jñātaṃ kaṭakakuṇḍala gṛhādikaṃ
svasmādbhinnaṃ tathā pañcakośādikaṃ svasmādbhinnam
madīyatvena jñātamātmā na bhavati ||
ātman
ātmā tarhi kaḥ ?
saccidānandasvarūpaḥ |
satkim ?
kālatraye'pi tiṣṭhatīti sat |
citkim ?
jñānasvarūpaḥ |
ānandaḥ kaḥ ?
sukhasvarūpaḥ |
evaṃ saccidānandasvarūpaṃ svātmānaṃ vijānīyāt |
jagat
atha caturviṃśatitattvotpattiprakāraṃ vakṣyāmaḥ |
māyā
brahmāśrayā sattvarajastamoguṇātmikā māyā asti |
pañcabhūtāḥ
tataḥ ākāśaḥ sambhūtaḥ |
ākāśād vāyuḥ |
vāyostejaḥ |
tejasa āpaḥ |
abhdhayaḥ pṛthivī |
sattvaguṇaḥ
eteṣāṃ pañcatattvānāṃ madhye
ākāśasya sātvikāṃśāt śrotrendriyaṃ sambhūtam |
vāyoḥ sātvikāṃśāt tvagindriyaṃ sambhūtam |
agneḥ sātvikāṃśāt cakṣurindriyaṃ sambhūtam |
jalasya sātvikāṃśāt rasanendriyaṃ sambhūtam |
pṛthivyāḥ sātvikāṃśāt ghrāṇendriyaṃ sambhūtam |
antaḥkaraṇa
eteṣāṃ pañcatattvānāṃ samaṣṭisātvikāṃśāt
manobuddhyahaṅkāra cittāntaḥkaraṇāni sambhūtāni |
saṅkalpavikalpātmakaṃ manaḥ |
niścayātmikā buddhiḥ |
ahaṅkartā ahaṅkāraḥ |
cintanakartṛ cittam |
manaso devatā candramāḥ |
buddhe brahmā |
ahaṅkārasya rudraḥ |
cittasya vāsudevaḥ |
rajoguṇaḥ
eteṣāṃ pañcatattvānāṃ madhye
ākāśasya rājasāṃśāt vāgindriyaṃ sambhūtam |
vāyoḥ rājasāṃśāt pāṇīndriyaṃ sambhūtam |
vanheḥ rājasāṃśāt pādendriyaṃ sambhūtam |
jalasya rājasāṃśāt upasthendriyaṃ sambhūtam |
pṛthivyā rājasāṃśāt gudendriyaṃ sambhūtam |
eteṣāṃ samaṣṭirājasāṃśāt pañcaprāṇāḥ sambhūtāḥ |
tamoguṇaḥ
eteṣāṃ pañcatattvānāṃ tāmasāṃśāt
pañcīkṛtapañcatattvāni bhavanti |
pañcīkaraṇaṃ kathaṃ iti cet |
eteṣāṃ pañcamahābhūtānāṃ tāmasāṃśasvarūpam
ekamekaṃ bhūtaṃ dvidhā vibhajya ekamekamardhaṃ pṛthak
tūṣṇīṃ vyavasthāpya aparamaparamardhaṃ caturdhāṃ vibhajya
svārdhamanyeṣu ardheṣu svabhāgacatuṣṭayasaṃyojanaṃ kāryam |
tadā pañcīkaraṇaṃ bhavati |
etebhyaḥ pañcīkṛtapañcamahābhūtebhyaḥ sthūlaśarīraṃ bhavati |
evaṃ piṇḍabrahmāṇḍayoraikyaṃ sambhūtam |
jīvaḥ, īśvaraḥ ca
sthūlaśarīrābhimāni jīvanāmakaṃ brahmapratibimbaṃ bhavati |
sa eva jīvaḥ prakṛtyā svasmāt īśvaraṃ bhinnatvena jānāti |
avidyopādhiḥ san ātmā jīva ityucyate |
māyopādhiḥ san īśvara ityucyate |
evaṃ upādhibhedāt jīveśvarabhedadṛṣṭiḥ yāvatparyantaṃ tiṣṭhati
tāvatparyantaṃ janmamaraṇādirūpasaṃsāro na nivartate |
tasmātkāraṇānna jīveśvarayorbhedabuddhiḥ svīkāryā |
tat tvaṃ asi
nanu sāhaṅkārasya kiñcijjñasya jīvasya nirahaṅkārasya sarvajñasya
īśvarasya tattvamasīti mahāvākyāt kathamabhedabuddhiḥ syādubhayoḥ
viruddhadharmākrāntatvāt |
iti cenna | sthūlasūkṣmaśarīrābhimānī tvampadavācyārthaḥ |
upādhivinirmuktaṃ samādhidaśāsampannaṃ śuddhaṃ caitanyaṃ
tvampadalakṣyārthaḥ |
evaṃ sarvajñatvādiviśiṣṭa īśvaraḥ tatpadavācyārthaḥ |
upādhiśūnyaṃ śuddhacaitanyaṃ tatpadalakṣyārthaḥ |
evaṃ ca jīveśvarayo caitanyarūpeṇā'bhede bādhakābhāvaḥ |
jīvanmuktaḥ
evaṃ ca vedāntavākyaiḥ sadgurūpadeśena ca sarveṣvapi
bhūteṣu yeṣāṃ
brahmabuddhirutpannā te jīvanmuktāḥ ityarthaḥ |nanu jīvanmuktaḥ kaḥ ?
yathā deho'haṃ puruṣo'haṃ brāhmaṇo'haṃ śūdro'hamasmīti
dṛḍhaniścayastathā nāhaṃ brāhmaṇaḥ na śūdraḥ na puruṣaḥ
kintu asaṅgaḥ saccidānanda svarūpaḥ prakāśarūpaḥ sarvāntaryāmī
cidākāśarūpo'smīti dṛḍhaniścaya
rūpo'parokṣajñānavān jīvanmuktaḥ ||brahmaivāhamasmītyaparokṣajñānena nikhilakarmabandhavinirmuktaḥ
syāt |
karmāṇi
karmāṇi katividhāni santīti cet
āgāmisañcitaprārabdhabhedena trividhāni santi |
āgāmi karma
jñānotpattyanantaraṃ jñānidehakṛtaṃ puṇyapāparūpaṃ karma
yadasti tadāgāmītyabhidhīyate |
sañcita karma
sañcitaṃ karma kim ?
anantakoṭijanmanāṃ bījabhūtaṃ sat yatkarmajātaṃ pūrvārjitaṃ
tiṣṭhati tat sañcitaṃ jñeyam |
prārabdha karma
prārabdhaṃ karma kimiti cet |
idaṃ śarīramutpādya iha loke evaṃ sukhaduḥkhādipradaṃ yatkarma
tatprārabdhaṃ
bhogena naṣṭaṃ bhavati prārabdhakarmaṇāṃ bhogādeva kṣaya iti |
karma muktaḥ
sañcitaṃ karma brahmaivāhamiti niścayātmakajñānena naśyati |āgāmi karma api jñānena naśyati kiñca āgāmi karmaṇāṃ
nalinīdalagatajalavat jñānināṃ sambandho nāsti |
jñāniḥ
kiñca ye jñāninaṃ stuvanti bhajanti arcayanti tānprati
jñānikṛtaṃ āgāmi puṇyaṃ gacchati |
ye jñāninaṃ nindanti dviṣanti duḥkhapradānaṃ kurvanti tānprati
jñānikṛtaṃ sarvamāgāmi kriyamāṇaṃ yadavācyaṃ karma
pāpātmakaṃ tadgacchati |
suhṛdaḥ puṇyakṛtaṃ durhṛdaḥ pāpakṛtyaṃ gṛhṇanti |
brahmānandam
tathā cātmavitsaṃsāraṃ tīrtvā brahmānandamihaiva prāpnoti |
tarati śokamātmavit iti śruteḥ |
tanuṃ tyajatu vā kāśyāṃ śvapacasya gṛhe'tha vā |
jñānasamprāptisamaye muktā'sau vigatāśayaḥ | iti smṛteśca |iti śrīśaṅkarabhagavatpādācāryapraṇītaḥ tattvabodhaprakaraṇaṃ samāptam |
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in