Krishna

6.6 - सुवर्गाय वा एतानि लोकाय - कृष्ण यजुर्वेद तैत्तिरीय संहिता पाठः

6.6 - Suvargaya Va Etani Lokaya - Krishna Yajurveda Taittiriya Samhita Pathah

✍️ Vedic 🖋️ Devanagari script
📄 Download PDF
कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां षष्ठकाण्डे षष्ठः प्रश्नः - सोममन्त्रब्राह्मणनिरूपणं
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ य-द्दा᳚क्षि॒णानि॒ द्वाभ्या॒-ङ्गार्​ह॑पत्ये जुहोति द्वि॒पा-द्यज॑मानः॒ प्रति॑ष्ठित्या॒ आग्नी᳚द्ध्रे जुहोत्य॒न्तरि॑क्ष ए॒वा-ऽऽक्र॑मते॒ सदो॒-ऽभ्यैति॑ सुव॒र्गमे॒वैनं॑-लोँ॒क-ङ्ग॑मयति सौ॒रीभ्या॑मृ॒ग्भ्या-ङ्गार्​ह॑पत्ये जुहोत्य॒मुमे॒वैनं॑-लोँ॒कग्ं स॒मारो॑हयति॒ नय॑वत्य॒र्चा-ऽऽग्नी᳚द्ध्रे जुहोति सुव॒र्गस्य॑ लो॒कस्या॒भिनी᳚त्यै॒ दिव॑-ङ्गच्छ॒ सुवः॑ प॒तेति॒ हिर॑ण्यग्ं [हिर॑ण्यम्, हु॒त्वो-द्गृ॑ह्णाति] 1
हु॒त्वो-द्गृ॑ह्णाति सुव॒र्गमे॒वैनं॑-लोँ॒क-ङ्ग॑मयति रू॒पेण॑ वो रू॒पम॒भ्यैमीत्या॑ह रू॒पेण॒ ह्या॑साग्ं रू॒पम॒भ्यैति॒ यद्धिर॑ण्येन तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑ज॒त्वित्या॑ह तु॒थो ह॑ स्म॒ वै वि॒श्ववे॑दा दे॒वाना॒-न्दक्षि॑णा॒ वि भ॑जति॒ तेनै॒वैना॒ वि भ॑जत्ये॒ त-त्ते॑ अग्ने॒ राध॒ [अग्ने॒ राधः॑, ऐति॒ सोम॑च्युत॒-] 2
ऐति॒ सोम॑च्युत॒-मित्या॑ह॒ सोम॑च्युत॒ग्ग्॒ ह्य॑स्य॒ राध॒ ऐति॒ तन्मि॒त्रस्य॑ प॒था न॒येत्या॑ह॒ शान्त्या॑ ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्र द॑क्षिणा॒ इत्या॑ह स॒त्यं-वाँ ऋ॒तग्ं स॒त्येनै॒वैना॑ ऋ॒तेन॒ वि भ॑जति य॒ज्ञस्य॑ प॒था सु॑वि॒ता नय॑न्ती॒रित्या॑ह य॒ज्ञस्य॒ ह्ये॑ताः प॒था यन्ति॒ य-द्दक्षि॑णा ब्राह्म॒णम॒द्य रा᳚द्ध्यास॒- [रा᳚द्ध्यासम्, ऋषि॑मार्​षे॒य-] 3
-मृषि॑मार्​षे॒य-मित्या॑है॒ष वै ब्रा᳚ह्म॒ण ऋषि॑रार्​षे॒यो य-श्शु॑श्रु॒वा-न्तस्मा॑दे॒वमा॑ह॒ वि सुवः॒ पश्य॒ व्य॑न्तरि॑क्ष॒मित्या॑ह सुव॒र्गमे॒वैनं॑-लोँ॒क-ङ्ग॑मयति॒ यत॑स्व सद॒स्यै॑रित्या॑ह मित्र॒त्वाया॒स्मद्दा᳚त्रा देव॒त्रा ग॑च्छत॒ मधु॑मतीः प्रदा॒तार॒मा वि॑श॒तेत्या॑ह व॒यमि॒ह प्र॑दा॒तार॒-स्स्मो᳚-ऽस्मान॒मुत्र॒ मधु॑मती॒रा वि॑श॒तेति॒ [वि॑श॒तेति॑, वावैतदा॑ह॒] 4
वावैतदा॑ह॒ हिर॑ण्य-न्ददाति॒ ज्योति॒र्वै हिर॑ण्य॒-ञ्ज्योति॑रे॒व पु॒रस्ता᳚द्धत्ते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्नीधे॑ ददात्य॒ग्निमु॑खाने॒वर्तू-न्प्री॑णाति ब्र॒ह्मणे॑ ददाति॒ प्रसू᳚त्यै॒ होत्रे॑ ददात्या॒त्मा वा ए॒ष य॒ज्ञस्य॒ यद्धोता॒-ऽऽत्मान॑मे॒व य॒ज्ञस्य॒ दक्षि॑णाभि॒-स्सम॑र्धयति ॥ 5 ॥
(हिर॑ण्य॒ग्ं॒ - राधो॑ - राध्यास - म॒मुत्र॒ मधु॑मती॒रा वि॑श॒तेत्य॒ - ष्टात्रिग्ं॑शच्च) (अ. 1)
स॒मि॒ष्ट॒ य॒जूग्ंषि॑ जुहोति य॒ज्ञस्य॒ समि॑ष्ट्यै॒ यद्वै य॒ज्ञस्य॑ क्रू॒रं-यँ-द्विलि॑ष्टं॒-यँद॒त्येति॒ यन्नात्येति॒ यद॑तिक॒रोति॒ यन्नापि॑ क॒रोति॒ तदे॒व तैः प्री॑णाति॒ नव॑ जुहोति॒ नव॒ वै पुरु॑षे प्रा॒णाः पुरु॑षेण य॒ज्ञ-स्सम्मि॑तो॒ यावा॑ने॒व य॒ज्ञस्त-म्प्री॑णाति॒ ष-डृग्मि॑याणि जुहोति॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति॒ त्रीणि॒ यजूग्ं॑षि॒ [यजूग्ं॑षि, त्रय॑ इ॒मे लो॒का] 6
त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒का-न्प्री॑णाति॒ यज्ञ॑ य॒ज्ञ-ङ्ग॑च्छ य॒ज्ञप॑ति-ङ्ग॒च्छेत्या॑ह य॒ज्ञप॑तिमे॒वैन॑-ङ्गमयति॒ स्वां-योँनि॑-ङ्ग॒च्छेत्या॑ह॒ स्वामे॒वैनं॒-योँनि॑-ङ्गमयत्ये॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू᳚क्तवाक-स्सु॒वीर॒ इत्या॑ह॒ यज॑मान ए॒व वी॒र्य॑-न्दधाति वासि॒ष्ठो ह॑ सात्यह॒व्यो दे॑वभा॒ग-म्प॑प्रच्छ॒ य-थ्सृञ्ज॑या-न्बहुया॒जिनो-ऽयी॑यजो य॒ज्ञे [ ] 7
य॒ज्ञ-म्प्रत्य॑तिष्ठि॒पा(3) य॒ज्ञप॒ता(3)विति॒ स हो॑वाच य॒ज्ञप॑ता॒विति॑ स॒त्याद्वै सृञ्ज॑याः॒ परा॑ बभूवु॒रिति॑ होवाच य॒ज्ञे वाव य॒ज्ञः प्र॑ति॒ष्ठाप्य॑ आसी॒-द्यज॑मान॒स्या-ऽप॑राभावा॒येति॒ देवा॑ गातुविदो गा॒तुं-विँ॒त्त्वा गा॒तु -मि॒तेत्या॑ह य॒ज्ञ ए॒व य॒ज्ञ-म्प्रति॑ ष्ठापयति॒ यज॑मान॒स्या-ऽप॑राभावाय ॥ 8 ॥
(यजूग्ं॑षि - य॒ज्ञ - एक॑चत्वारिग्ंशच्च) (अ. 2)
अ॒व॒भृ॒थ॒-य॒जूग्ंषि॑ जुहोति॒ यदे॒वार्वा॒चीन॒-मेक॑हायना॒देनः॑ क॒रोति॒ तदे॒व तैरव॑ यजते॒ ऽपो॑-ऽवभृ॒थ-मवै᳚त्य॒फ्सु वै वरु॑ण-स्सा॒क्षादे॒व वरु॑ण॒मव॑ यजते॒ वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञग्ं रक्षाग्ं॑सि जिघाग्ंसन्ति॒ साम्ना᳚ प्रस्तो॒ता-ऽन्ववै॑ति॒ साम॒ वै र॑क्षो॒हा रक्ष॑सा॒मप॑हत्यै॒ त्रिर्नि॒धन॒मुपै॑ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒व लो॒केभ्यो॒ रक्षा॒ग्॒- [लो॒केभ्यो॒ रक्षाग्ं॑सि, अप॑ हन्ति॒] 9
-स्यप॑ हन्ति॒ पुरु॑षःपुरुषो नि॒धन॒मुपै॑ति॒ पुरु॑षःपुरुषो॒ हि र॑क्ष॒स्वी रक्ष॑सा॒मप॑हत्या उ॒रुग्ं हि राजा॒ वरु॑णश्च॒कारेत्या॑ह॒ प्रति॑ष्ठित्यै श॒त-न्ते॑ राज-न्भि॒षजः॑ स॒हस्र॒मित्या॑ह भेष॒जमे॒वास्मै॑ करोत्य॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह वरुणपा॒शमे॒वाभि ति॑ष्ठति ब॒र्॒हिर॒भि जु॑हो॒त्याहु॑तीना॒-म्प्रति॑ष्ठित्या॒ अथो॑ अग्नि॒वत्ये॒व जु॑हो॒त्यप॑ बर्​हिषः प्रया॒जान् [प्रया॒जान्, य॒ज॒ति॒ प्र॒जा वै] 10
य॑जति प्र॒जा वै ब॒र्॒हिः प्र॒जा ए॒व व॑रुणपा॒शा-न्मु॑ञ्च॒त्याज्य॑भागौ यजति य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति॒ वरु॑णं-यँजति वरुणपा॒शादे॒वैन॑-म्मुञ्चत्य॒ग्नीवरु॑णौ यजति सा॒क्षादे॒वैनं॑-वँरुणपा॒शा-न्मु॑ञ्च॒त्य-प॑बर्​हिषावनूया॒जौ य॑जति प्र॒जा वै ब॒र्॒हिः प्र॒जा ए॒व व॑रुणपा॒शा-न्मु॑ञ्चति च॒तुरः॑ प्रया॒जान्. य॑जति॒ द्वाव॑नूया॒जौ षट्-थ्सम्प॑द्यन्ते॒ षड्वा ऋ॒तव॑ [षड्वा ऋ॒तवः॑, ऋ॒तुष्वे॒व प्रति॑] 11
ऋ॒तुष्वे॒व प्रति॑ तिष्ठ॒-त्यव॑भृथ-निचङ्कु॒णेत्या॑ह यथोदि॒तमे॒व वरु॑ण॒मव॑ यजते समु॒द्रे ते॒ हृद॑य-म॒फ्स्व॑न्तरित्या॑ह समु॒द्रे ह्य॑न्तर्वरु॑ण॒-स्स-न्त्वा॑ विश॒-न्त्वोष॑धी-रु॒ता-ऽऽप॒ इत्या॑हा॒द्भि-रे॒वैन॒मोष॑धीभि-स्स॒म्यञ्च॑-न्दधाति॒ देवी॑राप ए॒ष वो॒ गर्भ॒ इत्या॑ह यथाय॒जुरे॒वैत-त्प॒शवो॒ वै [ ] 12
सोमो॒ य-द्भि॑न्दू॒ना-म्भ॒क्षये᳚-त्पशु॒मान्-थ्स्या॒-द्वरु॑ण॒-स्त्वे॑न-ङ्गृह्णीया॒द्यन्न भ॒क्षये॑दप॒शु-स्स्या॒न्नैनं॒-वँरु॑णो गृह्णीया-दुप॒स्पृश्य॑मे॒व प॑शु॒मा-न्भ॑वति॒ नैनं॒-वँरु॑णो गृह्णाति॒ प्रति॑युतो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह वरुणपा॒शादे॒व निर्मु॑च्य॒ते ऽप्र॑तीक्ष॒मा य॑न्ति॒ वरु॑णस्या॒न्तर्​हि॑त्या॒ एधो᳚-ऽस्येधिषी॒मही-त्या॑ह स॒मिधै॒वाग्नि-न्न॑म॒स्यन्त॑ उ॒पाय॑न्ति॒ तेजो॑-ऽसि॒ तेजो॒ मयि॑ धे॒हीत्या॑ह॒ तेज॑ ए॒वा-ऽऽत्म-न्ध॑त्ते ॥ 13 ॥
(रक्षाग्ं॑सि - प्रया॒जा - नृ॒तवो॒ - वै - न॑म॒स्यन्तो॒ - द्वाद॑श च) (अ. 3)
स्फ्येन॒ वेदि॒मुद्ध॑न्ति रथा॒क्षेण॒ वि मि॑मीते॒ यूप॑-म्मिनोति त्रि॒वृत॑मे॒व वज्रग्ं॑ स॒भृन्त्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्यै॒ यद॑न्तर्वे॒दि मि॑नु॒या-द्दे॑वलो॒कम॒भि ज॑ये॒-द्य-द्ब॑हिर्वे॒दि म॑नुष्य लो॒कं ँवे᳚द्य॒न्तस्य॑ स॒न्धौ मि॑नोत्यु॒भयो᳚-र्लो॒कयो॑-र॒भिजि॑त्या॒ उप॑रसम्मिता-म्मिनुया-त्पितृलो॒कका॑मस्य रश॒नस॑मिन्ता-म्मनुष्यलो॒कका॑मस्य च॒षाल॑-सम्मितामिन्द्रि॒य का॑मस्य॒ सर्वा᳚न्-थ्स॒मा-न्प्र॑ति॒ष्ठाका॑मस्य॒ ये त्रयो॑ मद्ध्य॒मास्तान्-थ्स॒मा-न्प॒शुका॑मस्यै॒तान्. वा [वै, अनु॑] 14
अनु॑ प॒शव॒ उप॑ तिष्ठन्ते पशु॒माने॒व भ॑वति॒ व्यति॑षजे॒दित॑रा-न्प्र॒जयै॒वैन॑-म्प॒शुभि॒र्व्यति॑षजति॒ य-ङ्का॒मये॑त प्र॒मायु॑क-स्स्या॒दिति॑ गर्त॒मित॒-न्तस्य॑ मिनुयादुत्तरा॒र्ध्यं॑-वँर्​षि॑ष्ठ॒मथ॒ ह्रसी॑याग्ंसमे॒षा वै ग॑र्त॒मिद्यस्यै॒व-म्मि॒नोति॑ ता॒ज-क्प्र मी॑यते दक्षिणा॒र्ध्यं॑-वँर्​षि॑ष्ठ-म्मिनुया-थ्सुव॒र्गका॑म॒स्याथ॒ ह्रसी॑याग्ंस-मा॒क्रम॑णमे॒व त-थ्सेतुं॒-यँज॑मानः कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ [सम॑ष्ट्यै, यदेक॑स्मि॒न्॒.] 15
यदेक॑स्मि॒न्॒. यूपे॒ द्वे र॑श॒ने प॑रि॒व्यय॑ति॒ तस्मा॒देको॒ द्वे जा॒ये वि॑न्दते॒ यन्नैकाग्ं॑ रश॒ना-न्द्वयो॒र्यूप॑योः परि॒व्यय॑ति॒ तस्मा॒न्नैका॒ द्वौ पती॑ विन्दते॒ य-ङ्का॒मये॑त॒ स्त्र्य॑स्य जाये॒तेत्यु॑पा॒न्ते तस्य॒ व्यति॑षजे॒-थ्स्त्र्ये॑वास्य॑ जायते॒ य-ङ्का॒मये॑त॒ पुमा॑नस्य जाये॒तेत्या॒न्त-न्तस्य॒ प्र वे᳚ष्टये॒-त्पुमा॑ने॒वास्य॑ [वे᳚ष्टये॒-त्पुमा॑ने॒वास्य॑, जा॒य॒ते ऽसु॑रा॒] 16
जाय॒ते ऽसु॑रा॒ वै दे॒वा-न्द॑क्षिण॒त उपा॑नय॒-न्ता-न्दे॒वा उ॑पश॒येनै॒वापा॑-नुदन्त॒ त-दु॑पश॒यस्यो॑-पशय॒त्वं-यँ-द्द॑क्षिण॒त उ॑पश॒य उ॑प॒शये॒ भ्रातृ॑व्यापनुत्त्यै॒ सर्वे॒ वा अ॒न्ये यूपाः᳚ पशु॒मन्तो-ऽथो॑पश॒य ए॒वाप॒शुस्तस्य॒ यज॑मानः प॒शुर्यन्न नि॑र्दि॒शेदार्ति॒-मार्च्छे॒-द्यज॑मानो॒-ऽसौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्य-न्द्वि॒ष्या-द्यमे॒व [ ] 17
द्वेष्टि॒ तम॑स्मै प॒शु-न्निर्दि॑शति॒ यदि॒ न द्वि॒ष्यादा॒खुस्ते॑ प॒शुरिति॑ ब्रूया॒न्न ग्रा॒म्या-न्प॒शून्. हि॒नस्ति॒ ना-ऽऽर॒ण्या-न्प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ सो᳚-ऽन्नाद्ये॑न॒ व्या᳚र्ध्यत॒ स ए॒तामे॑काद॒शिनी॑-मपश्य॒-त्तया॒ वै सो᳚-ऽन्नाद्य॒मवा॑रुन्ध॒ यद्दश॒ यूपा॒ भव॑न्ति॒ दशा᳚क्षरा वि॒राडन्नं॑-विँ॒रा-ड्वि॒राजै॒वा-न्नाद्य॒मव॑ रुन्धे॒ [रुन्धे, य] 18
य ए॑काद॒श-स्स्तन॑ ए॒वास्यै॒ स दु॒ह ए॒वैना॒-न्तेन॒ वज्रो॒ वा ए॒षा स-म्मी॑यते॒ यदे॑काद॒शिनी॒ सेश्व॒रा पु॒रस्ता᳚-त्प्र॒त्यञ्चं॑-यँ॒ज्ञग्ं सम्म॑र्दितो॒र्य-त्पा᳚त्नीव॒त-म्मि॒नोति॑ य॒ज्ञस्य॒ प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ॥ 19 ॥
(वै - सम॑ष्ट्यै॒ - पुमा॑ने॒वास्य॒ - यमे॒व - रु॑न्धे - त्रि॒ग्ं॒शच्च॑) (अ. 4)
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ स रि॑रिचा॒नो॑-ऽमन्यत॒ स ए॒तामे॑काद॒शिनी॑-मपश्य॒-त्तया॒ वै स आयु॑रिन्द्रि॒यं-वीँ॒र्य॑मा॒त्मन्न॑धत्त प्र॒जा इ॑व॒ खलु॒ वा ए॒ष सृ॑जते॒ यो यज॑ते॒ स ए॒तर्​हि॑ रिरिचा॒न इ॑व॒ यदे॒षैका॑द॒शिनी॒ भव॒त्यायु॑रे॒व तये᳚न्द्रि॒यं-वीँ॒र्यं॑-यँज॑मान आ॒त्म-न्ध॑त्ते॒ प्रैवा-ऽऽग्ने॒येन॑ वापयति मिथु॒नग्ं सा॑रस्व॒त्या क॑रोति॒ रेत॑- [रेतः॑, सौ॒म्येन॑ दधाति॒] 20
-स्सौ॒म्येन॑ दधाति॒ प्र ज॑नयति पौ॒ष्णेन॑ बार्​हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै᳚ प्र॒जाः प्रज॑नयति वैश्वदे॒वो भ॑वति वैश्वदे॒व्यो॑ वै प्र॒जाः प्र॒जा ए॒वास्मै॒ प्रज॑नयती-न्द्रि॒यमे॒वैन्द्रेणाव॑ रुन्धे॒ विश॑-म्मारु॒तेनौजो॒ बल॑मैन्द्रा॒ग्नेन॑ प्रस॒वाय॑ सावि॒त्रो नि॑र्वरुण॒त्वाय॑ वारु॒णो म॑द्ध्य॒त ऐ॒न्द्रमा ल॑भते मद्ध्य॒त ए॒वेन्द्रि॒यं-यँज॑माने दधाति [ ] 21
पु॒रस्ता॑दै॒न्द्रस्य॑ वैश्वदे॒वमा ल॑भते वैश्वदे॒वं-वाँ अन्न॒मन्न॑मे॒व पु॒रस्ता᳚द्धत्ते॒ तस्मा᳚-त्पु॒रस्ता॒दन्न॑मद्यत ऐ॒न्द्रमा॒लभ्य॑ मारु॒तमा ल॑भते॒ वि-ड्वै म॒रुतो॒ विश॑मे॒वास्मा॒ अनु॑ बद्ध्नाति॒ यदि॑ का॒मये॑त॒ यो-ऽव॑गत॒-स्सो-ऽप॑ रुद्ध्यतां॒-योँ-ऽप॑रुद्ध॒-स्सो-ऽव॑ गच्छ॒त्वित्यै॒न्द्रस्य॑ लो॒के वा॑रु॒णमा ल॑भेत वारु॒णस्य॑ लो॒क ऐ॒न्द्रं- [लो॒क ऐ॒न्द्रम्, य ए॒वाव॑गत॒-स्सो-ऽप॑] 22
-ँय ए॒वाव॑गत॒-स्सो-ऽप॑ रुद्ध्यते॒ यो-ऽप॑रुद्ध॒-स्सो-ऽव॑ गच्छति॒ यदि॑ का॒मये॑त प्र॒जा मु॑ह्येयु॒रिति॑ प॒शून् व्यति॑षजे-त्प्र॒जा ए॒व मो॑हयति॒ यद॑भिवाह॒तो॑-ऽपां-वाँ॑रु॒णमा॒लभे॑त प्र॒जा वरु॑णो गृह्णीया-द्दक्षिण॒त उद॑ञ्च॒मा ल॑भते-ऽपवाह॒तो॑-ऽपा-म्प्र॒जाना॒-मव॑रुण ग्राहाय ॥ 23 ॥
(रेतो॒ - यज॑माने दधाति - लो॒क ऐ॒न्द्रग्ं - स॒प्तत्रिग्ं॑शच्च) (अ. 5)
इन्द्रः॒ पत्नि॑या॒ मनु॑मयाजय॒-त्ता-म्पर्य॑ग्निकृता॒-मुद॑सृज॒-त्तया॒ मनु॑रार्ध्नो॒द्य-त्पर्य॑ग्निकृत-म्पात्नीव॒तमु॑-थ्सृ॒जति॒ यामे॒व मनु॒र्॒. ऋद्धि॒मार्ध्नो॒-त्तामे॒व यज॑मान ऋध्नोति य॒ज्ञस्य॒ वा अप्र॑तिष्ठिता-द्य॒ज्ञः परा॑ भवति य॒ज्ञ-म्प॑रा॒भव॑न्तं॒-यँज॑मा॒नो-ऽनु॒ परा॑ भवति॒ यदाज्ये॑न पात्नीव॒तग्ं सग्ग्॑स्था॒पय॑ति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै य॒ज्ञ-म्प्र॑ति॒तिष्ठ॑न्तं॒-यँज॑मा॒नो-ऽनु॒ प्रति॑ तिष्ठती॒ष्टं-वँ॒पया॒ [-ँव॒पया᳚, भव॒त्यनि॑ष्टं-वँ॒शया-ऽथ॑] 24
भव॒त्यनि॑ष्टं-वँ॒शया-ऽथ॑ पात्नीव॒तेन॒ प्र च॑रति ती॒र्थ ए॒व प्र च॑र॒त्यथो॑ ए॒तर्​ह्ये॒वास्य॒ याम॑स्त्वा॒ष्ट्रो भ॑वति॒ त्वष्टा॒ वै रेत॑स-स्सि॒क्तस्य॑ रू॒पाणि॒ वि क॑रोति॒ तमे॒व वृषा॑ण॒-म्पत्नी॒ष्वपि॑ सृजति॒ सो᳚-ऽस्मै रू॒पाणि॒ वि क॑रोति ॥ 25 ॥
(व॒पया॒ - षट्त्रिग्ं॑शच्च) (अ. 6)
घ्नन्ति॒ वा ए॒त-थ्सोमं॒-यँद॑भिषु॒ण्वन्ति॒ य-थ्सौ॒म्यो भव॑ति॒ यथा॑ मृ॒ताया॑नु॒स्तर॑णी॒-ङ्घ्नन्ति॑ ता॒दृगे॒व त-द्यदु॑त्तरा॒र्धे वा॒ मद्ध्ये॑ वा जुहु॒या-द्दे॒वता᳚भ्य-स्स॒मद॑-न्दद्ध्या-द्दक्षिणा॒र्धे जु॑होत्ये॒षा वै पि॑तृ॒णा-न्दि-ख्स्वाया॑मे॒व दि॒शि पि॒तॄ-न्नि॒रव॑दयत उद्गा॒तृभ्यो॑ हरन्ति सामदेव॒त्यो॑ वै सौ॒म्यो यदे॒व साम्नः॑ छम्बट्कु॒र्वन्ति॒ तस्यै॒व स शान्ति॒रवे᳚- [शान्ति॒रव॑, ई॒क्ष॒न्ते॒ प॒वित्रं॒-वैँ] 26
-क्षन्ते प॒वित्रं॒-वैँ सौ॒म्य आ॒त्मान॑मे॒व प॑वयन्ते॒ य आ॒त्मान॒-न्न प॑रि॒पश्ये॑दि॒तासुः॑ स्यादभिद॒दि-ङ्कृ॒त्वा-ऽवे᳚क्षेत॒ तस्मि॒न्॒. ह्या᳚त्मान॑-म्परि॒पश्य॒त्यथो॑ आ॒त्मान॑मे॒व प॑वयते॒ यो ग॒तम॑ना॒-स्स्या-थ्सो-ऽवे᳚क्षेत॒ यन्मे॒ मनः॒ परा॑गतं॒-यँद्वा॑ मे॒ अप॑रागतम् । राज्ञा॒ सोमे॑न॒ तद्व॒यम॒स्मासु॑ धारयाम॒सीति॒ मन॑ ए॒वात्म-न्दा॑धार॒- [ए॒वात्म-न्दा॑धार, न ग॒तम॑ना] 27
न ग॒तम॑ना भव॒त्यप॒ वै तृ॑तीयसव॒ने य॒ज्ञः क्रा॑मतीजा॒ना-दनी॑जानम॒भ्या᳚-ग्नावैष्ण॒व्यर्चा घृ॒तस्य॑ यजत्य॒ग्नि-स्सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता᳚श्चै॒व य॒ज्ञ-ञ्च॑ दाधारोपा॒ग्ं॒शु य॑जति मिथुन॒त्वाय॑ ब्रह्मवा॒दिनो॑ वदन्ति मि॒त्रो य॒ज्ञस्य॒ स्वि॑ष्टं-युँवते॒ वरु॑णो॒ दुरि॑ष्ट॒-ङ्क्व॑ तर्​हि॑ य॒ज्ञः क्व॑ यज॑मानो भव॒तीति॒ यन्मै᳚त्रावरु॒णीं-वँ॒शामा॒लभ॑ते मि॒त्रेणै॒व [ ] 28
य॒ज्ञस्य॒ स्वि॑ष्टग्ं शमयति॒ वरु॑णेन॒ दुरि॑ष्ट॒-न्ना-ऽऽर्ति॒मार्च्छ॑ति॒ यज॑मानो॒ यथा॒ वै लाङ्ग॑लेनो॒र्वरा᳚-म्प्रभि॒न्दन्-त्ये॒वमृ॑ख्सा॒मे य॒ज्ञ-म्प्र भि॑न्तो॒ यन्मै᳚त्रावरु॒णीं-वँ॒शामा॒लभ॑ते य॒ज्ञायै॒व प्रभि॑न्नाय म॒त्य॑म॒न्ववा᳚स्यति॒ शान्त्यै॑ या॒तया॑मानि॒ वा ए॒तस्य॒ छन्दाग्ं॑सि॒ य ई॑जा॒न-श्छन्द॑सामे॒ष रसो॒ य-द्व॒शा यन्मै᳚त्रावरु॒णीं-वँ॒शामा॒लभ॑ते॒ छन्दाग्॑स्ये॒व पुन॒रा प्री॑णा॒त्य या॑तयामत्वा॒याथो॒ छन्द॑स्स्वे॒व रस॑-न्दधाति ॥ 29 ॥
(अव॑ - दाधार - मि॒त्रेणै॒व - प्री॑णाति॒ - षट्च॑) (अ. 7)
दे॒वा वा इ॑न्द्रि॒यं-वीँ॒र्यां᳚(1॒) ँव्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ तद॑तिग्रा॒ह्या॑ अभव॒-न्तद॑तिग्रा॒ह्या॑णा-मतिग्राह्य॒त्वं-यँद॑तिग्रा॒ह्या॑ गृ॒ह्यन्त॑ इन्द्रि॒यमे॒व त-द्वी॒र्यं॑-यँज॑मान आ॒त्म-न्ध॑त्ते॒ तेज॑ आग्ने॒येने᳚न्द्रि॒य-मै॒न्द्रेण॑ ब्रह्मवर्च॒सग्ं सौ॒र्येणो॑प॒स्तम्भ॑नं॒-वाँ ए॒त-द्य॒ज्ञस्य॒ यद॑तिग्रा॒ह्या᳚श्च॒क्रे पृ॒ष्ठानि॒ य-त्पृष्ठ्ये॒ न गृ॑ह्णी॒या-त्प्राञ्चं॑-यँ॒ज्ञ-म्पृ॒ष्ठानि॒ सग्ं शृ॑णीयु॒र्य-दु॒क्थ्ये॑ [-दु॒क्थ्ये᳚, गृ॒ह्णी॒या-त्प्र॒त्यञ्चं॑-] 30
गृह्णी॒या-त्प्र॒त्यञ्चं॑-यँ॒ज्ञम॑तिग्रा॒ह्या᳚-स्सग्ं शृ॑णीयुर्विश्व॒जिति॒ सर्व॑पृष्ठे ग्रहीत॒व्या॑ य॒ज्ञस्य॑ सवीर्य॒त्वाय॑ प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒-थ्स प्रि॒यास्त॒नूरप॒ न्य॑धत्त॒ तद॑तिग्रा॒ह्या॑ अभव॒न् वित॑नु॒स्तस्य॑ य॒ज्ञ इत्या॑हु॒र्य-स्या॑तिग्रा॒ह्या॑ न गृ॒ह्यन्त॒ इत्यप्य॑ग्निष्टो॒मे ग्र॑हीत॒व्या॑ य॒ज्ञस्य॑ सतनु॒त्वाय॑ दे॒वता॒ वै सर्वा᳚-स्स॒दृशी॑रास॒-न्ता न व्या॒वृत॑-मगच्छ॒-न्ते दे॒वा [दे॒वाः, ए॒त ए॒ता-न्ग्रहा॑-] 31
ए॒त ए॒ता-न्ग्रहा॑-नपश्य॒-न्तान॑गृह्णता-ऽऽग्ने॒ यम॒ग्निरै॒न्द्रमिन्द्रः॑ सौ॒र्यग्ं सूर्य॒स्ततो॒ वै ते᳚-ऽन्याभि॑-र्दे॒वता॑भि-र्व्या॒वृत॑मगच्छ॒न्॒. यस्यै॒वं-विँ॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते᳚ व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छती॒मे लो॒का ज्योति॑ष्मन्त-स्स॒माव॑-द्वीर्याः का॒र्या॑ इत्या॑हुराग्ने॒येना॒स्मिन् ँलो॒के ज्योति॑र्धत्त ऐ॒न्द्रेणा॒न्तरि॑क्ष इन्द्रवा॒यू हि स॒युजौ॑ सौ॒र्येणा॒मुष्मि॑न् ँलो॒के [ ] 32
ज्योति॑र्धत्ते॒ ज्योति॑ष्मन्तो-ऽस्मा इ॒मे लो॒का भ॑वन्ति स॒माव॑-द्वीर्यानेनान् कुरुत ए॒तान्. वै ग्रहा᳚-न्ब॒बां-वि॒श्वव॑यसा-ववित्ता॒-न्ताभ्या॑मि॒मे लो॒काः परा᳚ञ्चश्चा॒र्वाञ्च॑श्च॒ प्राभु॒र्यस्यै॒वं-विँ॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते॒ प्रास्मा॑ इ॒मे लो॒काः परा᳚ञ्चश्चा॒र्वाञ्च॑श्च भान्ति ॥ 33 ॥
(उ॒क्थ्ये॑ - दे॒वा - अ॒मुष्मि॑न् ँलो॒क - एका॒न्नच॑त्वारि॒ग्ं॒शच्च॑) (अ. 8)
दे॒वा वै य-द्य॒ज्ञे-ऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा अदा᳚भ्ये॒ छन्दाग्ं॑सि॒ सव॑नानि॒ सम॑स्थापय॒-न्ततो॑ दे॒वा अभ॑व॒-न्परा-ऽसु॑रा॒ यस्यै॒वं-विँ॒दुषो-ऽदा᳚भ्यो गृ॒ह्यते॒ भव॑त्या॒त्मना॒ परा᳚-ऽस्य॒ भ्रातृ॑व्यो भवति॒ यद्वै दे॒वा असु॑रा॒-नदा᳚भ्ये॒-नाद॑भ्नुव॒-न्तददा᳚भ्यस्या-दाभ्य॒ त्वं-यँ ए॒वं-वेँद॑ द॒भ्नोत्ये॒व भ्रातृ॑व्य॒-न्नैन॒-म्भ्रातृ॑व्यो दभ्नो- [दभ्नोति, ए॒षा वै] 34
-त्ये॒षा वै प्र॒जाप॑ते-रतिमो॒क्षिणी॒ नाम॑ त॒नूर्यददा᳚भ्य॒ उप॑नद्धस्य गृह्णा॒त्यति॑मुक्त्या॒ अति॑ पा॒प्मान॒-म्भ्रातृ॑व्य-म्मुच्यते॒ य ए॒वं-वेँद॒ घ्नन्ति॒ वा ए॒त-थ्सोमं॒-यँद॑भिषु॒ण्वन्ति॒ सोमे॑ ह॒न्यमा॑ने य॒ज्ञो ह॑न्यते य॒ज्ञे यज॑मानो ब्रह्मवा॒दिनो॑ वदन्ति॒ कि-न्त-द्य॒ज्ञे यज॑मानः कुरुते॒ येन॒ जीवन्᳚-थ्सुव॒र्गं-लोँ॒कमेतीति॑ जीवग्र॒हो वा ए॒ष यददा॒भ्यो ऽन॑भिषुतस्य गृह्णाति॒ जीव॑न्तमे॒वैनग्ं॑ सुव॒र्गं ँलो॒क-ङ्ग॑मयति॒ वि वा ए॒त-द्य॒ज्ञ-ञ्छि॑न्दन्ति॒ यददा᳚भ्ये सग्ग्​-स्था॒पय॑-न्त्य॒ग्ं॒शूनपि॑ सृजति य॒ज्ञस्य॒ सन्त॑त्यै ॥ 35 ॥
(द॒भ्नो॒त्य - न॑भिषुतस्य गृह्णा॒त्ये - का॒न्नविग्ं॑श॒तिश्च॑) (अ. 9)
दे॒वा वै प्र॒बाहु॒ग्ग्रहा॑-नगृह्णत॒ स ए॒त-म्प्र॒जाप॑ति-र॒ग्ं॒शु-म॑पश्य॒-त्तम॑गृह्णीत॒ तेन॒ वै स आ᳚र्ध्नो॒-द्यस्यै॒वं-विँ॒दुषो॒-ऽग्ं॒शु-र्गृ॒ह्यत॑ ऋ॒द्ध्नोत्ये॒व स॒कृद॑भिषुतस्य गृह्णाति स॒कृद्धि स तेना-ऽऽर्ध्नो॒न्मन॑सा गृह्णाति॒ मन॑ इव॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ औदु॑म्बरेण गृह्णा॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वाव॑ रुन्धे॒ चतुः॑स्रक्ति भवति दि॒- [भवति दि॒क्षु, ए॒व प्रति॑ तिष्ठति॒] 36
-क्ष्वे॑व प्रति॑ तिष्ठति॒ यो वा अ॒ग्ं॒शोरा॒यत॑नं॒-वेँदा॒-ऽऽयत॑नवा-न्भवति वामदे॒व्यमिति॒ साम॒ तद्वा अ॑स्या॒-ऽऽयत॑न॒-म्मन॑सा॒ गाय॑मानो गृह्णात्या॒यत॑नवाने॒व भ॑वति॒ यद॑द्ध्व॒र्युर॒ग्ं॒शु-ङ्गृ॒ह्ण-न्नार्धये॑दु॒भाभ्या॒-न्नर्ध्ये॑ताद्ध्व॒र्यवे॑ च॒ यज॑मानाय च॒ यद॒र्धये॑-दु॒भाभ्या॑-मृद्ध्ये॒तान॑वान-ङ्गृह्णाति॒ सैवास्यर्धि॒र्॒. हिर॑ण्यम॒भि व्य॑नित्य॒मृतं॒-वैँ हिर॑ण्य॒मायुः॑ प्रा॒ण आयु॑षै॒वामृत॑म॒भि धि॑नोति श॒तमा॑न-म्भवति श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ॥ 37 ॥
(दि॒क्ष्व॑ - निति - विग्ंश॒तिश्च॑) (अ. 10)
प्र॒जाप॑ति-र्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒-थ्स रि॑रिचा॒नो॑-ऽमन्यत॒ स य॒ज्ञानाग्ं॑ षोडश॒धेन्द्रि॒यं-वीँ॒र्य॑मा॒त्मान॑म॒भि सम॑क्खिद॒-त्त-थ्षो॑ड॒श्य॑भव॒न्न वै षो॑ड॒शी नाम॑ य॒ज्ञो᳚-ऽस्ति॒ यद्वाव षो॑ड॒शग्ग्​ स्तो॒त्रग्ं षो॑ड॒शग्ं श॒स्त्र-न्तेन॑ षोड॒शी त-थ्षो॑ड॒शिनः॑ षोडशि॒त्वं-यँ-थ्षो॑ड॒शी गृ॒ह्यत॑ इन्द्रि॒यमे॒व त-द्वी॒र्यं॑-यँज॑मान आ॒त्म-न्ध॑त्ते दे॒वेभ्यो॒ वै सु॑व॒र्गो लो॒को [लो॒कः, न प्राभ॑व॒-त्त] 38
न प्राभ॑व॒-त्त ए॒तग्ं षो॑ड॒शिन॑मपश्य॒-न्तम॑गृह्णत॒ ततो॒ वै तेभ्यः॑ सुव॒र्गो लो॒कः प्राभ॑व॒द्य-थ्षो॑ड॒शी गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ इन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सी॒-थ्स प्र॒जाप॑ति॒मुपा॑धाव॒-त्तस्मा॑ ए॒तग्ं षो॑ड॒शिन॒-म्प्राय॑च्छ॒-त्तम॑गृह्णीत॒ ततो॒ वै सो-ऽग्र॑-न्दे॒वता॑ना॒-म्पर्यै॒-द्यस्यै॒वं-विँ॒दुषः॑ षोड॒शी गृ॒ह्यते- [गृ॒ह्यते᳚, अग्र॑मे॒व] 39
-ऽग्र॑मे॒व स॑मा॒नाना॒-म्पर्ये॑ति प्रातस्सव॒ने गृ॑ह्णाति॒ वज्रो॒ वै षो॑ड॒शी वज्रः॑ प्रातस्सव॒नग्ग्​ स्वादे॒वैनं॒-योँने॒र्निगृ॑ह्णाति॒ सव॑नेसवने॒-ऽभि गृ॑ह्णाति॒ सव॑नाथ्सवनादे॒वैन॒-म्प्र ज॑नयति तृतीयसव॒ने प॒शुका॑मस्य गृह्णीया॒-द्वज्रो॒ वै षो॑ड॒शी प॒शव॑स्तृतीयसव॒नं-वँज्रे॑णै॒वास्मै॑ तृतीयसव॒ना-त्प॒शूनव॑ रुन्धे॒ नोक्थ्ये॑ गृह्णीया-त्प्र॒जा वै प॒शव॑ उ॒क्थानि॒ यदु॒क्थ्ये॑- [यदु॒क्थ्ये᳚, गृ॒ह्णी॒या-त्प्र॒जा-] 40
गृह्णी॒या-त्प्र॒जा-म्प॒शून॑स्य॒ निर्द॑हेदतिरा॒त्रे प॒शुका॑मस्य गृह्णीया॒-द्वज्रो॒ वै षो॑ड॒शी वज्रे॑णै॒वास्मै॑ प॒शून॑व॒रुद्ध्य॒ रात्रि॑-यो॒परि॑ष्टा-च्छमय॒त्यप्य॑ग्निष्टो॒मे रा॑ज॒न्य॑स्य गृह्णीया-द्व्या॒वृत्का॑मो॒ हि रा॑ज॒न्यो॑ यज॑ते सा॒ह्न ए॒वास्मै॒ वज्र॑-ङ्गृह्णाति॒ स ए॑नं॒-वँज्रो॒ भूत्या॑ इन्धे॒ निर्वा॑ दह-त्येकवि॒ग्ं॒शग्ग्​ स्तो॒त्र-म्भ॑वति॒ प्रति॑ष्ठित्यै॒ हरि॑वच्छस्यत॒ इन्द्र॑स्य प्रि॒य-न्धामो- [प्रि॒य-न्धाम॑, उपा᳚-ऽऽप्नोति॒] 41
-पा᳚-ऽऽप्नोति॒ कनी॑याग्ंसि॒ वै दे॒वेषु॒ छन्दा॒ग्॒स्यास॒न्-ज्याया॒ग्॒-स्यसु॑रेषु॒ ते दे॒वाः कनी॑यसा॒ छन्द॑सा॒ ज्याय॒-श्छन्दो॒-ऽभि व्य॑शग्ंस॒-न्ततो॒ वै ते-ऽसु॑राणां-लोँ॒कम॑वृञ्जत॒ य-त्कनी॑यसा॒ छन्द॑सा॒ ज्याय॒-श्छन्दो॒-ऽभिवि॒शग्ंस॑ति॒ भ्रातृ॑व्यस्यै॒व तल्लो॒कं-वृँ॑ङ्क्ते॒ षड॒क्षरा॒ण्यति॑ रेचयन्ति॒ ष-ड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति च॒त्वारि॒ पूर्वा॒ण्यव॑ कल्पयन्ति॒ [कल्पयन्ति, चतु॑ष्पद ए॒व] 42
चतु॑ष्पद ए॒व प॒शूनव॑ रुन्धे॒ द्वे उत्त॑रे द्वि॒पद॑ ए॒वाव॑ रुन्धे ऽनु॒ष्टुभ॑म॒भि स-म्पा॑दयन्ति॒ वाग्वा अ॑नु॒ष्टु-प्तस्मा᳚-त्प्रा॒णानां॒-वाँगु॑त्त॒मा स॑मयाविषि॒ते सूर्ये॑ षोड॒शिनः॑ स्तो॒त्र-मु॒पाक॑रोत्ये॒तस्मि॒न् वै लो॒क इन्द्रो॑ वृ॒त्रम॑हन्-थ्सा॒क्षादे॒व वज्र॒-म्भ्रातृ॑व्याय॒ प्र ह॑र-त्यरुणपिश॒ङ्गो-ऽश्वो॒ दक्षि॑णै॒तद्वै वज्र॑स्य रू॒पग्ं समृ॑द्ध्यै ॥ 43 ॥
(लो॒को - वि॒दुषः॑ षोड॒शी गृ॒ह्यते॒ - यदु॒क्थ्ये॑ - धाम॑ - कल्पयन्ति - स॒प्तच॑त्वारिग्ंशच्च) (अ. 11)
(सु॒व॒र्गाय॒ य-द्दा᳚क्षि॒णानि॑ - समिष्ट य॒जूग्​ - ष्य॑वभृथ य॒जूग्ंषि॒ - स्फ्येन॑ - प्र॒जाप॑तिरेकाद॒शिनी॒ - मिन्द्रः॒ पत्नि॑या॒ - घ्नन्ति॑ - दे॒वा वा इ॑न्द्रि॒यं-वीँ॒र्यं॑ - दे॒वा वा अदा᳚भ्ये - दे॒वा वै प्र॒बाहु॑क् - प्र॒जाप॑तिर्दे॒वेभ्य॒-स्स रि॑रिचा॒नः - षो॑डश॒धैका॑दश) (11)
(सु॒व॒र्गाय॑ - यजति प्र॒जाः - सौ॒म्येन॑ - गृह्णी॒या-त्प्र॒त्यञ्चं॑ - गृह्णी॒या-त्प्र॒जा-म्प॒शून् - त्रिच॑त्वारिग्ंशत्) (43)
(सु॒व॒र्गाय॒, वज्र॑स्य रू॒पग्ं समृ॑द्ध्यै)
(प्रा॒चीन॑वग्ंशं॒ - य - च्चा॒त्वाला᳚ - द्य॒ज्ञेने - न्द्रः॑ - सु॒वर्गाय॒ - षट् ) (6)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां षष्ठकाण्डे षष्ठः प्रश्न-स्समाप्तः ॥
Roman (IAST) Transliteration
kṛṣṇa yajurvedīya taittirīya saṃhitāyāṃ ṣaṣṭhakāṇḍe ṣaṣṭhaḥ praśnaḥ - somamantrabrāhmaṇanirūpaṇaṃ
o-nnamaḥ paramātmane, śrī mahāgaṇapataye namaḥ,
śrī gurubhyo namaḥ | ha॒riḥ॒ om ||
su॒va॒rgāya॒ vā e॒tāni̭ lo॒kāya̭ hūyante॒ ya-ddā᳚kṣi॒ṇāni॒ dvābhyā॒-ṅgār​ha̭patye juhoti dvi॒pā-dyaja̭mānaḥ॒ prati̭ṣṭhityā॒ āgnī᳚ddhre juhotya॒ntari̭kṣa e॒vā-''kra̭mate॒ sado॒-'bhyaiti̭ suva॒rgame॒vainaṃ̭-lo~॒ka-ṅga̭mayati sau॒rībhyā̭mṛ॒gbhyā-ṅgār​ha̭patye juhotya॒mume॒vainaṃ̭-lo~॒kagṃ sa॒māro̭hayati॒ naya̭vatya॒rcā-''gnī᳚ddhre juhoti suva॒rgasya̭ lo॒kasyā॒bhinī᳚tyai॒ diva̭-ṅgaccha॒ suvaḥ̭ pa॒teti॒ hira̭ṇyagṃ [hira̭ṇyam, hu॒tvo-dgṛ̭hṇāti] 1
hu॒tvo-dgṛ̭hṇāti suva॒rgame॒vainaṃ̭-lo~॒ka-ṅga̭mayati rū॒peṇa̭ vo rū॒pama॒bhyaimītyā̭ha rū॒peṇa॒ hyā̭sāgṃ rū॒pama॒bhyaiti॒ yaddhira̭ṇyena tu॒tho vo̭ vi॒śvavḙdā॒ vi bha̭ja॒tvityā̭ha tu॒tho ha̭ sma॒ vai vi॒śvavḙdā de॒vānā॒-ndakṣi̭ṇā॒ vi bha̭jati॒ tenai॒vainā॒ vi bha̭jatye॒ ta-ttḙ agne॒ rādha॒ [agne॒ rādhaḥ̭, aiti॒ soma̭cyuta॒-] 2
aiti॒ soma̭cyuta॒-mityā̭ha॒ soma̭cyuta॒gg॒ hya̭sya॒ rādha॒ aiti॒ tanmi॒trasya̭ pa॒thā na॒yetyā̭ha॒ śāntyā̭ ṛ॒tasya̭ pa॒thā preta̭ ca॒ndra da̭kṣiṇā॒ ityā̭ha sa॒tyaṃ-vā~ ṛ॒tagṃ sa॒tyenai॒vainā̭ ṛ॒tena॒ vi bha̭jati ya॒jñasya̭ pa॒thā sṷvi॒tā naya̭ntī॒rityā̭ha ya॒jñasya॒ hyḙtāḥ pa॒thā yanti॒ ya-ddakṣi̭ṇā brāhma॒ṇama॒dya rā᳚ddhyāsa॒- [rā᳚ddhyāsam, ṛṣi̭mār​ṣe॒ya-] 3
-mṛṣi̭mār​ṣe॒ya-mityā̭hai॒ṣa vai brā᳚hma॒ṇa ṛṣi̭rār​ṣe॒yo ya-śśṷśru॒vā-ntasmā̭de॒vamā̭ha॒ vi suvaḥ॒ paśya॒ vya̭ntari̭kṣa॒mityā̭ha suva॒rgame॒vainaṃ̭-lo~॒ka-ṅga̭mayati॒ yata̭sva sada॒syai̭rityā̭ha mitra॒tvāyā॒smaddā᳚trā deva॒trā ga̭cchata॒ madhṷmatīḥ pradā॒tāra॒mā vi̭śa॒tetyā̭ha va॒yami॒ha pra̭dā॒tāra॒-ssmo᳚-'smāna॒mutra॒ madhṷmatī॒rā vi̭śa॒teti॒ [vi̭śa॒teti̭, vāvaitadā̭ha॒] 4
vāvaitadā̭ha॒ hira̭ṇya-ndadāti॒ jyoti॒rvai hira̭ṇya॒-ñjyoti̭re॒va pu॒rastā᳚ddhatte suva॒rgasya̭ lo॒kasyānṷkhyātyā a॒gnīdhḙ dadātya॒gnimṷkhāne॒vartū-nprī̭ṇāti bra॒hmaṇḙ dadāti॒ prasū᳚tyai॒ hotrḙ dadātyā॒tmā vā e॒ṣa ya॒jñasya॒ yaddhotā॒-''tmāna̭me॒va ya॒jñasya॒ dakṣi̭ṇābhi॒-ssama̭rdhayati || 5 ||
(hira̭ṇya॒gṃ॒ - rādho̭ - rādhyāsa - ma॒mutra॒ madhṷmatī॒rā vi̭śa॒tetya॒ - ṣṭātrigṃ̭śacca) (a. 1)
sa॒mi॒ṣṭa॒ ya॒jūgṃṣi̭ juhoti ya॒jñasya॒ sami̭ṣṭyai॒ yadvai ya॒jñasya̭ krū॒raṃ-ya~-dvili̭ṣṭaṃ॒-ya~da॒tyeti॒ yannātyeti॒ yada̭tika॒roti॒ yannāpi̭ ka॒roti॒ tade॒va taiḥ prī̭ṇāti॒ nava̭ juhoti॒ nava॒ vai purṷṣe prā॒ṇāḥ purṷṣeṇa ya॒jña-ssammi̭to॒ yāvā̭ne॒va ya॒jñasta-mprī̭ṇāti॒ ṣa-ḍṛgmi̭yāṇi juhoti॒ ṣaḍvā ṛ॒tava̭ ṛ॒tūne॒va prī̭ṇāti॒ trīṇi॒ yajūgṃ̭ṣi॒ [yajūgṃ̭ṣi, traya̭ i॒me lo॒kā] 6
traya̭ i॒me lo॒kā i॒māne॒va lo॒kā-nprī̭ṇāti॒ yajña̭ ya॒jña-ṅga̭ccha ya॒jñapa̭ti-ṅga॒cchetyā̭ha ya॒jñapa̭time॒vaina̭-ṅgamayati॒ svāṃ-yo~ni̭-ṅga॒cchetyā̭ha॒ svāme॒vainaṃ॒-yo~ni̭-ṅgamayatye॒ṣa tḙ ya॒jño ya̭jñapate sa॒hasū᳚ktavāka-ssu॒vīra॒ ityā̭ha॒ yaja̭māna e॒va vī॒rya̭-ndadhāti vāsi॒ṣṭho ha̭ sātyaha॒vyo dḙvabhā॒ga-mpa̭praccha॒ ya-thsṛñja̭yā-nbahuyā॒jino-'yī̭yajo ya॒jñe [ ] 7
ya॒jña-mpratya̭tiṣṭhi॒pā(3) ya॒jñapa॒tā(3)viti॒ sa ho̭vāca ya॒jñapa̭tā॒viti̭ sa॒tyādvai sṛñja̭yāḥ॒ parā̭ babhūvu॒riti̭ hovāca ya॒jñe vāva ya॒jñaḥ pra̭ti॒ṣṭhāpya̭ āsī॒-dyaja̭māna॒syā-'pa̭rābhāvā॒yeti॒ devā̭ gātuvido gā॒tuṃ-vi~॒ttvā gā॒tu -mi॒tetyā̭ha ya॒jña e॒va ya॒jña-mprati̭ ṣṭhāpayati॒ yaja̭māna॒syā-'pa̭rābhāvāya || 8 ||
(yajūgṃ̭ṣi - ya॒jña - eka̭catvārigṃśacca) (a. 2)
a॒va॒bhṛ॒tha॒-ya॒jūgṃṣi̭ juhoti॒ yade॒vārvā॒cīna॒-meka̭hāyanā॒denaḥ̭ ka॒roti॒ tade॒va tairava̭ yajate॒ 'po̭-'vabhṛ॒tha-mavai᳚tya॒phsu vai varṷṇa-ssā॒kṣāde॒va varṷṇa॒mava̭ yajate॒ vartma̭nā॒ vā a॒nvitya̭ ya॒jñagṃ rakṣāgṃ̭si jighāgṃsanti॒ sāmnā᳚ prasto॒tā-'nvavai̭ti॒ sāma॒ vai ra̭kṣo॒hā rakṣa̭sā॒mapa̭hatyai॒ trirni॒dhana॒mupai̭ti॒ traya̭ i॒me lo॒kā e॒bhya e॒va lo॒kebhyo॒ rakṣā॒g॒- [lo॒kebhyo॒ rakṣāgṃ̭si, apa̭ hanti॒] 9
-syapa̭ hanti॒ purṷṣaḥpuruṣo ni॒dhana॒mupai̭ti॒ purṷṣaḥpuruṣo॒ hi ra̭kṣa॒svī rakṣa̭sā॒mapa̭hatyā u॒rugṃ hi rājā॒ varṷṇaśca॒kāretyā̭ha॒ prati̭ṣṭhityai śa॒ta-ntḙ rāja-nbhi॒ṣajaḥ̭ sa॒hasra॒mityā̭ha bheṣa॒jame॒vāsmai̭ karotya॒bhiṣṭhi̭to॒ varṷṇasya॒ pāśa॒ ityā̭ha varuṇapā॒śame॒vābhi ti̭ṣṭhati ba॒r॒hira॒bhi jṷho॒tyāhṷtīnā॒-mprati̭ṣṭhityā॒ atho̭ agni॒vatye॒va jṷho॒tyapa̭ bar​hiṣaḥ prayā॒jān [prayā॒jān, ya॒ja॒ti॒ pra॒jā vai] 10
ya̭jati pra॒jā vai ba॒r॒hiḥ pra॒jā e॒va va̭ruṇapā॒śā-nmṷñca॒tyājya̭bhāgau yajati ya॒jñasyai॒va cakṣṷṣī॒ nāntarḙti॒ varṷṇaṃ-ya~jati varuṇapā॒śāde॒vaina̭-mmuñcatya॒gnīvarṷṇau yajati sā॒kṣāde॒vainaṃ̭-va~ruṇapā॒śā-nmṷñca॒tya-pa̭bar​hiṣāvanūyā॒jau ya̭jati pra॒jā vai ba॒r॒hiḥ pra॒jā e॒va va̭ruṇapā॒śā-nmṷñcati ca॒turaḥ̭ prayā॒jān. ya̭jati॒ dvāva̭nūyā॒jau ṣaṭ-thsampa̭dyante॒ ṣaḍvā ṛ॒tava̭ [ṣaḍvā ṛ॒tavaḥ̭, ṛ॒tuṣve॒va prati̭] 11
ṛ॒tuṣve॒va prati̭ tiṣṭha॒-tyava̭bhṛtha-nicaṅku॒ṇetyā̭ha yathodi॒tame॒va varṷṇa॒mava̭ yajate samu॒dre te॒ hṛda̭ya-ma॒phsva̭ntarityā̭ha samu॒dre hya̭ntarvarṷṇa॒-ssa-ntvā̭ viśa॒-ntvoṣa̭dhī-ru॒tā-''pa॒ ityā̭hā॒dbhi-re॒vaina॒moṣa̭dhībhi-ssa॒myañca̭-ndadhāti॒ devī̭rāpa e॒ṣa vo॒ garbha॒ ityā̭ha yathāya॒jure॒vaita-tpa॒śavo॒ vai [ ] 12
somo॒ ya-dbhi̭ndū॒nā-mbha॒kṣaye᳚-tpaśu॒mān-thsyā॒-dvarṷṇa॒-stvḙna-ṅgṛhṇīyā॒dyanna bha॒kṣayḙdapa॒śu-ssyā॒nnainaṃ॒-va~rṷṇo gṛhṇīyā-dupa॒spṛśya̭me॒va pa̭śu॒mā-nbha̭vati॒ nainaṃ॒-va~rṷṇo gṛhṇāti॒ prati̭yuto॒ varṷṇasya॒ pāśa॒ ityā̭ha varuṇapā॒śāde॒va nirmṷcya॒te 'pra̭tīkṣa॒mā ya̭nti॒ varṷṇasyā॒ntar​hi̭tyā॒ edho᳚-'syedhiṣī॒mahī-tyā̭ha sa॒midhai॒vāgni-nna̭ma॒syanta̭ u॒pāya̭nti॒ tejo̭-'si॒ tejo॒ mayi̭ dhe॒hītyā̭ha॒ teja̭ e॒vā-''tma-ndha̭tte || 13 ||
(rakṣāgṃ̭si - prayā॒jā - nṛ॒tavo॒ - vai - na̭ma॒syanto॒ - dvāda̭śa ca) (a. 3)
sphyena॒ vedi॒muddha̭nti rathā॒kṣeṇa॒ vi mi̭mīte॒ yūpa̭-mminoti tri॒vṛta̭me॒va vajragṃ̭ sa॒bhṛntya॒ bhrātṛ̭vyāya॒ pra ha̭rati॒ stṛtyai॒ yada̭ntarve॒di mi̭nu॒yā-ddḙvalo॒kama॒bhi ja̭ye॒-dya-dba̭hirve॒di ma̭nuṣya lo॒kaṃ ~ve᳚dya॒ntasya̭ sa॒ndhau mi̭notyu॒bhayo᳚-rlo॒kayo̭-ra॒bhiji̭tyā॒ upa̭rasammitā-mminuyā-tpitṛlo॒kakā̭masya raśa॒nasa̭mintā-mmanuṣyalo॒kakā̭masya ca॒ṣāla̭-sammitāmindri॒ya kā̭masya॒ sarvā᳚n-thsa॒mā-npra̭ti॒ṣṭhākā̭masya॒ ye trayo̭ maddhya॒māstān-thsa॒mā-npa॒śukā̭masyai॒tān. vā [vai, anṷ] 14
anṷ pa॒śava॒ upa̭ tiṣṭhante paśu॒māne॒va bha̭vati॒ vyati̭ṣaje॒dita̭rā-npra॒jayai॒vaina̭-mpa॒śubhi॒rvyati̭ṣajati॒ ya-ṅkā॒mayḙta pra॒māyṷka-ssyā॒diti̭ garta॒mita॒-ntasya̭ minuyāduttarā॒rdhyaṃ̭-va~r​ṣi̭ṣṭha॒matha॒ hrasī̭yāgṃsame॒ṣā vai ga̭rta॒midyasyai॒va-mmi॒noti̭ tā॒ja-kpra mī̭yate dakṣiṇā॒rdhyaṃ̭-va~r​ṣi̭ṣṭha-mminuyā-thsuva॒rgakā̭ma॒syātha॒ hrasī̭yāgṃsa-mā॒krama̭ṇame॒va ta-thsetuṃ॒-ya~ja̭mānaḥ kurute suva॒rgasya̭ lo॒kasya॒ sama̭ṣṭyai॒ [sama̭ṣṭyai, yadeka̭smi॒n॒.] 15
yadeka̭smi॒n॒. yūpe॒ dve ra̭śa॒ne pa̭ri॒vyaya̭ti॒ tasmā॒deko॒ dve jā॒ye vi̭ndate॒ yannaikāgṃ̭ raśa॒nā-ndvayo॒ryūpa̭yoḥ pari॒vyaya̭ti॒ tasmā॒nnaikā॒ dvau patī̭ vindate॒ ya-ṅkā॒mayḙta॒ strya̭sya jāye॒tetyṷpā॒nte tasya॒ vyati̭ṣaje॒-thstryḙvāsya̭ jāyate॒ ya-ṅkā॒mayḙta॒ pumā̭nasya jāye॒tetyā॒nta-ntasya॒ pra ve᳚ṣṭaye॒-tpumā̭ne॒vāsya̭ [ve᳚ṣṭaye॒-tpumā̭ne॒vāsya̭, jā॒ya॒te 'sṷrā॒] 16
jāya॒te 'sṷrā॒ vai de॒vā-nda̭kṣiṇa॒ta upā̭naya॒-ntā-nde॒vā ṷpaśa॒yenai॒vāpā̭-nudanta॒ ta-dṷpaśa॒yasyo̭-paśaya॒tvaṃ-ya~-dda̭kṣiṇa॒ta ṷpaśa॒ya ṷpa॒śaye॒ bhrātṛ̭vyāpanuttyai॒ sarve॒ vā a॒nye yūpāḥ᳚ paśu॒manto-'tho̭paśa॒ya e॒vāpa॒śustasya॒ yaja̭mānaḥ pa॒śuryanna ni̭rdi॒śedārti॒-mārcche॒-dyaja̭māno॒-'sau tḙ pa॒śuriti॒ nirdi̭śe॒dya-ndvi॒ṣyā-dyame॒va [ ] 17
dveṣṭi॒ tama̭smai pa॒śu-nnirdi̭śati॒ yadi॒ na dvi॒ṣyādā॒khustḙ pa॒śuriti̭ brūyā॒nna grā॒myā-npa॒śūn. hi॒nasti॒ nā-''ra॒ṇyā-npra॒jāpa̭tiḥ pra॒jā a̭sṛjata॒ so᳚-'nnādyḙna॒ vyā᳚rdhyata॒ sa e॒tāmḙkāda॒śinī̭-mapaśya॒-ttayā॒ vai so᳚-'nnādya॒mavā̭rundha॒ yaddaśa॒ yūpā॒ bhava̭nti॒ daśā᳚kṣarā vi॒rāḍannaṃ̭-vi~॒rā-ḍvi॒rājai॒vā-nnādya॒mava̭ rundhe॒ [rundhe, ya] 18
ya ḙkāda॒śa-sstana̭ e॒vāsyai॒ sa du॒ha e॒vainā॒-ntena॒ vajro॒ vā e॒ṣā sa-mmī̭yate॒ yadḙkāda॒śinī॒ seśva॒rā pu॒rastā᳚-tpra॒tyañcaṃ̭-ya~॒jñagṃ samma̭rdito॒rya-tpā᳚tnīva॒ta-mmi॒noti̭ ya॒jñasya॒ pratyutta̭bdhyai saya॒tvāya̭ || 19 ||
(vai - sama̭ṣṭyai॒ - pumā̭ne॒vāsya॒ - yame॒va - rṷndhe - tri॒gṃ॒śacca̭) (a. 4)
pra॒jāpa̭tiḥ pra॒jā a̭sṛjata॒ sa ri̭ricā॒no̭-'manyata॒ sa e॒tāmḙkāda॒śinī̭-mapaśya॒-ttayā॒ vai sa āyṷrindri॒yaṃ-vī~॒rya̭mā॒tmanna̭dhatta pra॒jā i̭va॒ khalu॒ vā e॒ṣa sṛ̭jate॒ yo yaja̭te॒ sa e॒tar​hi̭ riricā॒na i̭va॒ yade॒ṣaikā̭da॒śinī॒ bhava॒tyāyṷre॒va taye᳚ndri॒yaṃ-vī~॒ryaṃ̭-ya~ja̭māna ā॒tma-ndha̭tte॒ praivā-''gne॒yena̭ vāpayati mithu॒nagṃ sā̭rasva॒tyā ka̭roti॒ reta̭- [retaḥ̭, sau॒myena̭ dadhāti॒] 20
-ssau॒myena̭ dadhāti॒ pra ja̭nayati pau॒ṣṇena̭ bār​haspa॒tyo bha̭vati॒ brahma॒ vai de॒vānā॒-mbṛha॒spati॒rbrahma̭ṇai॒vāsmai᳚ pra॒jāḥ praja̭nayati vaiśvade॒vo bha̭vati vaiśvade॒vyo̭ vai pra॒jāḥ pra॒jā e॒vāsmai॒ praja̭nayatī-ndri॒yame॒vaindreṇāva̭ rundhe॒ viśa̭-mmāru॒tenaujo॒ bala̭maindrā॒gnena̭ prasa॒vāya̭ sāvi॒tro ni̭rvaruṇa॒tvāya̭ vāru॒ṇo ma̭ddhya॒ta ai॒ndramā la̭bhate maddhya॒ta e॒vendri॒yaṃ-ya~ja̭māne dadhāti [ ] 21
pu॒rastā̭dai॒ndrasya̭ vaiśvade॒vamā la̭bhate vaiśvade॒vaṃ-vā~ anna॒manna̭me॒va pu॒rastā᳚ddhatte॒ tasmā᳚-tpu॒rastā॒danna̭madyata ai॒ndramā॒labhya̭ māru॒tamā la̭bhate॒ vi-ḍvai ma॒ruto॒ viśa̭me॒vāsmā॒ anṷ baddhnāti॒ yadi̭ kā॒mayḙta॒ yo-'va̭gata॒-sso-'pa̭ ruddhyatāṃ॒-yo~-'pa̭ruddha॒-sso-'va̭ gaccha॒tvityai॒ndrasya̭ lo॒ke vā̭ru॒ṇamā la̭bheta vāru॒ṇasya̭ lo॒ka ai॒ndraṃ- [lo॒ka ai॒ndram, ya e॒vāva̭gata॒-sso-'pa̭] 22
-~ya e॒vāva̭gata॒-sso-'pa̭ ruddhyate॒ yo-'pa̭ruddha॒-sso-'va̭ gacchati॒ yadi̭ kā॒mayḙta pra॒jā mṷhyeyu॒riti̭ pa॒śūn vyati̭ṣaje-tpra॒jā e॒va mo̭hayati॒ yada̭bhivāha॒to̭-'pāṃ-vā~̭ru॒ṇamā॒labhḙta pra॒jā varṷṇo gṛhṇīyā-ddakṣiṇa॒ta uda̭ñca॒mā la̭bhate-'pavāha॒to̭-'pā-mpra॒jānā॒-mava̭ruṇa grāhāya || 23 ||
(reto॒ - yaja̭māne dadhāti - lo॒ka ai॒ndragṃ - sa॒ptatrigṃ̭śacca) (a. 5)
indraḥ॒ patni̭yā॒ manṷmayājaya॒-ttā-mparya̭gnikṛtā॒-muda̭sṛja॒-ttayā॒ manṷrārdhno॒dya-tparya̭gnikṛta-mpātnīva॒tamṷ-thsṛ॒jati॒ yāme॒va manu॒r॒. ṛddhi॒mārdhno॒-ttāme॒va yaja̭māna ṛdhnoti ya॒jñasya॒ vā apra̭tiṣṭhitā-dya॒jñaḥ parā̭ bhavati ya॒jña-mpa̭rā॒bhava̭ntaṃ॒-ya~ja̭mā॒no-'nu॒ parā̭ bhavati॒ yadājyḙna pātnīva॒tagṃ sagg̭sthā॒paya̭ti ya॒jñasya॒ prati̭ṣṭhityai ya॒jña-mpra̭ti॒tiṣṭha̭ntaṃ॒-ya~ja̭mā॒no-'nu॒ prati̭ tiṣṭhatī॒ṣṭaṃ-va~॒payā॒ [-~va॒payā᳚, bhava॒tyani̭ṣṭaṃ-va~॒śayā-'tha̭] 24
bhava॒tyani̭ṣṭaṃ-va~॒śayā-'tha̭ pātnīva॒tena॒ pra ca̭rati tī॒rtha e॒va pra ca̭ra॒tyatho̭ e॒tar​hye॒vāsya॒ yāma̭stvā॒ṣṭro bha̭vati॒ tvaṣṭā॒ vai reta̭sa-ssi॒ktasya̭ rū॒pāṇi॒ vi ka̭roti॒ tame॒va vṛṣā̭ṇa॒-mpatnī॒ṣvapi̭ sṛjati॒ so᳚-'smai rū॒pāṇi॒ vi ka̭roti || 25 ||
(va॒payā॒ - ṣaṭtrigṃ̭śacca) (a. 6)
ghnanti॒ vā e॒ta-thsomaṃ॒-ya~da̭bhiṣu॒ṇvanti॒ ya-thsau॒myo bhava̭ti॒ yathā̭ mṛ॒tāyā̭nu॒stara̭ṇī॒-ṅghnanti̭ tā॒dṛge॒va ta-dyadṷttarā॒rdhe vā॒ maddhyḙ vā juhu॒yā-dde॒vatā᳚bhya-ssa॒mada̭-ndaddhyā-ddakṣiṇā॒rdhe jṷhotye॒ṣā vai pi̭tṛ॒ṇā-ndi-khsvāyā̭me॒va di॒śi pi॒tṝ-nni॒rava̭dayata udgā॒tṛbhyo̭ haranti sāmadeva॒tyo̭ vai sau॒myo yade॒va sāmnaḥ̭ chambaṭku॒rvanti॒ tasyai॒va sa śānti॒rave᳚- [śānti॒rava̭, ī॒kṣa॒nte॒ pa॒vitraṃ॒-vai~] 26
-kṣante pa॒vitraṃ॒-vai~ sau॒mya ā॒tmāna̭me॒va pa̭vayante॒ ya ā॒tmāna॒-nna pa̭ri॒paśyḙdi॒tāsuḥ̭ syādabhida॒di-ṅkṛ॒tvā-'ve᳚kṣeta॒ tasmi॒n॒. hyā᳚tmāna̭-mpari॒paśya॒tyatho̭ ā॒tmāna̭me॒va pa̭vayate॒ yo ga॒tama̭nā॒-ssyā-thso-'ve᳚kṣeta॒ yanme॒ manaḥ॒ parā̭gataṃ॒-ya~dvā̭ me॒ apa̭rāgatam | rājñā॒ somḙna॒ tadva॒yama॒smāsṷ dhārayāma॒sīti॒ mana̭ e॒vātma-ndā̭dhāra॒- [e॒vātma-ndā̭dhāra, na ga॒tama̭nā] 27
na ga॒tama̭nā bhava॒tyapa॒ vai tṛ̭tīyasava॒ne ya॒jñaḥ krā̭matījā॒nā-danī̭jānama॒bhyā᳚-gnāvaiṣṇa॒vyarcā ghṛ॒tasya̭ yajatya॒gni-ssarvā̭ de॒vatā॒ viṣṇṷrya॒jño de॒vatā᳚ścai॒va ya॒jña-ñca̭ dādhāropā॒gṃ॒śu ya̭jati mithuna॒tvāya̭ brahmavā॒dino̭ vadanti mi॒tro ya॒jñasya॒ svi̭ṣṭaṃ-yu~vate॒ varṷṇo॒ duri̭ṣṭa॒-ṅkva̭ tar​hi̭ ya॒jñaḥ kva̭ yaja̭māno bhava॒tīti॒ yanmai᳚trāvaru॒ṇīṃ-va~॒śāmā॒labha̭te mi॒treṇai॒va [ ] 28
ya॒jñasya॒ svi̭ṣṭagṃ śamayati॒ varṷṇena॒ duri̭ṣṭa॒-nnā-''rti॒mārccha̭ti॒ yaja̭māno॒ yathā॒ vai lāṅga̭leno॒rvarā᳚-mprabhi॒ndan-tye॒vamṛ̭khsā॒me ya॒jña-mpra bhi̭nto॒ yanmai᳚trāvaru॒ṇīṃ-va~॒śāmā॒labha̭te ya॒jñāyai॒va prabhi̭nnāya ma॒tya̭ma॒nvavā᳚syati॒ śāntyai̭ yā॒tayā̭māni॒ vā e॒tasya॒ chandāgṃ̭si॒ ya ī̭jā॒na-śchanda̭sāme॒ṣa raso॒ ya-dva॒śā yanmai᳚trāvaru॒ṇīṃ-va~॒śāmā॒labha̭te॒ chandāg̭sye॒va puna॒rā prī̭ṇā॒tya yā̭tayāmatvā॒yātho॒ chanda̭ssve॒va rasa̭-ndadhāti || 29 ||
(ava̭ - dādhāra - mi॒treṇai॒va - prī̭ṇāti॒ - ṣaṭca̭) (a. 7)
de॒vā vā i̭ndri॒yaṃ-vī~॒ryāṃ᳚(1॒) ~vya̭bhajanta॒ tato॒ yada॒tyaśi̭ṣyata॒ tada̭tigrā॒hyā̭ abhava॒-ntada̭tigrā॒hyā̭ṇā-matigrāhya॒tvaṃ-ya~da̭tigrā॒hyā̭ gṛ॒hyanta̭ indri॒yame॒va ta-dvī॒ryaṃ̭-ya~ja̭māna ā॒tma-ndha̭tte॒ teja̭ āgne॒yene᳚ndri॒ya-mai॒ndreṇa̭ brahmavarca॒sagṃ sau॒ryeṇo̭pa॒stambha̭naṃ॒-vā~ e॒ta-dya॒jñasya॒ yada̭tigrā॒hyā᳚śca॒kre pṛ॒ṣṭhāni॒ ya-tpṛṣṭhye॒ na gṛ̭hṇī॒yā-tprāñcaṃ̭-ya~॒jña-mpṛ॒ṣṭhāni॒ sagṃ śṛ̭ṇīyu॒rya-du॒kthyḙ [-du॒kthye᳚, gṛ॒hṇī॒yā-tpra॒tyañcaṃ̭-] 30
gṛhṇī॒yā-tpra॒tyañcaṃ̭-ya~॒jñama̭tigrā॒hyā᳚-ssagṃ śṛ̭ṇīyurviśva॒jiti॒ sarva̭pṛṣṭhe grahīta॒vyā̭ ya॒jñasya̭ savīrya॒tvāya̭ pra॒jāpa̭tirde॒vebhyo̭ ya॒jñān vyādi̭śa॒-thsa pri॒yāsta॒nūrapa॒ nya̭dhatta॒ tada̭tigrā॒hyā̭ abhava॒n vita̭nu॒stasya̭ ya॒jña ityā̭hu॒rya-syā̭tigrā॒hyā̭ na gṛ॒hyanta॒ ityapya̭gniṣṭo॒me gra̭hīta॒vyā̭ ya॒jñasya̭ satanu॒tvāya̭ de॒vatā॒ vai sarvā᳚-ssa॒dṛśī̭rāsa॒-ntā na vyā॒vṛta̭-magaccha॒-nte de॒vā [de॒vāḥ, e॒ta e॒tā-ngrahā̭-] 31
e॒ta e॒tā-ngrahā̭-napaśya॒-ntāna̭gṛhṇatā-''gne॒ yama॒gnirai॒ndramindraḥ̭ sau॒ryagṃ sūrya॒stato॒ vai te᳚-'nyābhi̭-rde॒vatā̭bhi-rvyā॒vṛta̭magaccha॒n॒. yasyai॒vaṃ-vi~॒duṣa̭ e॒te grahā̭ gṛ॒hyante᳚ vyā॒vṛta̭me॒va pā॒pmanā॒ bhrātṛ̭vyeṇa gacchatī॒me lo॒kā jyoti̭ṣmanta-ssa॒māva̭-dvīryāḥ kā॒ryā̭ ityā̭hurāgne॒yenā॒smin ~lo॒ke jyoti̭rdhatta ai॒ndreṇā॒ntari̭kṣa indravā॒yū hi sa॒yujaṷ sau॒ryeṇā॒muṣmi̭n ~lo॒ke [ ] 32
jyoti̭rdhatte॒ jyoti̭ṣmanto-'smā i॒me lo॒kā bha̭vanti sa॒māva̭-dvīryānenān kuruta e॒tān. vai grahā᳚-nba॒bāṃ-vi॒śvava̭yasā-vavittā॒-ntābhyā̭mi॒me lo॒kāḥ parā᳚ñcaścā॒rvāñca̭śca॒ prābhu॒ryasyai॒vaṃ-vi~॒duṣa̭ e॒te grahā̭ gṛ॒hyante॒ prāsmā̭ i॒me lo॒kāḥ parā᳚ñcaścā॒rvāñca̭śca bhānti || 33 ||
(u॒kthyḙ - de॒vā - a॒muṣmi̭n ~lo॒ka - ekā॒nnaca̭tvāri॒gṃ॒śacca̭) (a. 8)
de॒vā vai ya-dya॒jñe-'kṷrvata॒ tadasṷrā akurvata॒ te de॒vā adā᳚bhye॒ chandāgṃ̭si॒ sava̭nāni॒ sama̭sthāpaya॒-ntato̭ de॒vā abha̭va॒-nparā-'sṷrā॒ yasyai॒vaṃ-vi~॒duṣo-'dā᳚bhyo gṛ॒hyate॒ bhava̭tyā॒tmanā॒ parā᳚-'sya॒ bhrātṛ̭vyo bhavati॒ yadvai de॒vā asṷrā॒-nadā᳚bhye॒-nāda̭bhnuva॒-ntadadā᳚bhyasyā-dābhya॒ tvaṃ-ya~ e॒vaṃ-ve~da̭ da॒bhnotye॒va bhrātṛ̭vya॒-nnaina॒-mbhrātṛ̭vyo dabhno- [dabhnoti, e॒ṣā vai] 34
-tye॒ṣā vai pra॒jāpa̭te-ratimo॒kṣiṇī॒ nāma̭ ta॒nūryadadā᳚bhya॒ upa̭naddhasya gṛhṇā॒tyati̭muktyā॒ ati̭ pā॒pmāna॒-mbhrātṛ̭vya-mmucyate॒ ya e॒vaṃ-ve~da॒ ghnanti॒ vā e॒ta-thsomaṃ॒-ya~da̭bhiṣu॒ṇvanti॒ somḙ ha॒nyamā̭ne ya॒jño ha̭nyate ya॒jñe yaja̭māno brahmavā॒dino̭ vadanti॒ ki-nta-dya॒jñe yaja̭mānaḥ kurute॒ yena॒ jīvan᳚-thsuva॒rgaṃ-lo~॒kametīti̭ jīvagra॒ho vā e॒ṣa yadadā॒bhyo 'na̭bhiṣutasya gṛhṇāti॒ jīva̭ntame॒vainagṃ̭ suva॒rgaṃ ~lo॒ka-ṅga̭mayati॒ vi vā e॒ta-dya॒jña-ñchi̭ndanti॒ yadadā᳚bhye sagg​-sthā॒paya̭-ntya॒gṃ॒śūnapi̭ sṛjati ya॒jñasya॒ santa̭tyai || 35 ||
(da॒bhno॒tya - na̭bhiṣutasya gṛhṇā॒tye - kā॒nnavigṃ̭śa॒tiśca̭) (a. 9)
de॒vā vai pra॒bāhu॒ggrahā̭-nagṛhṇata॒ sa e॒ta-mpra॒jāpa̭ti-ra॒gṃ॒śu-ma̭paśya॒-ttama̭gṛhṇīta॒ tena॒ vai sa ā᳚rdhno॒-dyasyai॒vaṃ-vi~॒duṣo॒-'gṃ॒śu-rgṛ॒hyata̭ ṛ॒ddhnotye॒va sa॒kṛda̭bhiṣutasya gṛhṇāti sa॒kṛddhi sa tenā-''rdhno॒nmana̭sā gṛhṇāti॒ mana̭ iva॒ hi pra॒jāpa̭tiḥ pra॒jāpa̭te॒rāptyā॒ audṷmbareṇa gṛhṇā॒tyūrgvā ṷdu॒mbara॒ ūrja̭me॒vāva̭ rundhe॒ catuḥ̭srakti bhavati di॒- [bhavati di॒kṣu, e॒va prati̭ tiṣṭhati॒] 36
-kṣvḙva prati̭ tiṣṭhati॒ yo vā a॒gṃ॒śorā॒yata̭naṃ॒-ve~dā॒-''yata̭navā-nbhavati vāmade॒vyamiti॒ sāma॒ tadvā a̭syā॒-''yata̭na॒-mmana̭sā॒ gāya̭māno gṛhṇātyā॒yata̭navāne॒va bha̭vati॒ yada̭ddhva॒ryura॒gṃ॒śu-ṅgṛ॒hṇa-nnārdhayḙdu॒bhābhyā॒-nnardhyḙtāddhva॒ryavḙ ca॒ yaja̭mānāya ca॒ yada॒rdhayḙ-du॒bhābhyā̭-mṛddhye॒tāna̭vāna-ṅgṛhṇāti॒ saivāsyardhi॒r॒. hira̭ṇyama॒bhi vya̭nitya॒mṛtaṃ॒-vai~ hira̭ṇya॒māyuḥ̭ prā॒ṇa āyṷṣai॒vāmṛta̭ma॒bhi dhi̭noti śa॒tamā̭na-mbhavati śa॒tāyuḥ॒ purṷṣa-śśa॒tendri̭ya॒ āyṷṣye॒vendri॒ye prati̭ tiṣṭhati || 37 ||
(di॒kṣva̭ - niti - vigṃśa॒tiśca̭) (a. 10)
pra॒jāpa̭ti-rde॒vebhyo̭ ya॒jñān vyādi̭śa॒-thsa ri̭ricā॒no̭-'manyata॒ sa ya॒jñānāgṃ̭ ṣoḍaśa॒dhendri॒yaṃ-vī~॒rya̭mā॒tmāna̭ma॒bhi sama̭kkhida॒-tta-thṣo̭ḍa॒śya̭bhava॒nna vai ṣo̭ḍa॒śī nāma̭ ya॒jño᳚-'sti॒ yadvāva ṣo̭ḍa॒śagg​ sto॒tragṃ ṣo̭ḍa॒śagṃ śa॒stra-ntena̭ ṣoḍa॒śī ta-thṣo̭ḍa॒śinaḥ̭ ṣoḍaśi॒tvaṃ-ya~-thṣo̭ḍa॒śī gṛ॒hyata̭ indri॒yame॒va ta-dvī॒ryaṃ̭-ya~ja̭māna ā॒tma-ndha̭tte de॒vebhyo॒ vai sṷva॒rgo lo॒ko [lo॒kaḥ, na prābha̭va॒-tta] 38
na prābha̭va॒-tta e॒tagṃ ṣo̭ḍa॒śina̭mapaśya॒-ntama̭gṛhṇata॒ tato॒ vai tebhyaḥ̭ suva॒rgo lo॒kaḥ prābha̭va॒dya-thṣo̭ḍa॒śī gṛ॒hyatḙ suva॒rgasya̭ lo॒kasyā॒bhiji̭tyā॒ indro॒ vai de॒vānā̭mānujāva॒ra ā̭sī॒-thsa pra॒jāpa̭ti॒mupā̭dhāva॒-ttasmā̭ e॒tagṃ ṣo̭ḍa॒śina॒-mprāya̭ccha॒-ttama̭gṛhṇīta॒ tato॒ vai so-'gra̭-nde॒vatā̭nā॒-mparyai॒-dyasyai॒vaṃ-vi~॒duṣaḥ̭ ṣoḍa॒śī gṛ॒hyate- [gṛ॒hyate᳚, agra̭me॒va] 39
-'gra̭me॒va sa̭mā॒nānā॒-mparyḙti prātassava॒ne gṛ̭hṇāti॒ vajro॒ vai ṣo̭ḍa॒śī vajraḥ̭ prātassava॒nagg​ svāde॒vainaṃ॒-yo~ne॒rnigṛ̭hṇāti॒ sava̭nesavane॒-'bhi gṛ̭hṇāti॒ sava̭nāthsavanāde॒vaina॒-mpra ja̭nayati tṛtīyasava॒ne pa॒śukā̭masya gṛhṇīyā॒-dvajro॒ vai ṣo̭ḍa॒śī pa॒śava̭stṛtīyasava॒naṃ-va~jrḙṇai॒vāsmai̭ tṛtīyasava॒nā-tpa॒śūnava̭ rundhe॒ nokthyḙ gṛhṇīyā-tpra॒jā vai pa॒śava̭ u॒kthāni॒ yadu॒kthyḙ- [yadu॒kthye᳚, gṛ॒hṇī॒yā-tpra॒jā-] 40
gṛhṇī॒yā-tpra॒jā-mpa॒śūna̭sya॒ nirda̭hedatirā॒tre pa॒śukā̭masya gṛhṇīyā॒-dvajro॒ vai ṣo̭ḍa॒śī vajrḙṇai॒vāsmai̭ pa॒śūna̭va॒ruddhya॒ rātri̭-yo॒pari̭ṣṭā-cchamaya॒tyapya̭gniṣṭo॒me rā̭ja॒nya̭sya gṛhṇīyā-dvyā॒vṛtkā̭mo॒ hi rā̭ja॒nyo̭ yaja̭te sā॒hna e॒vāsmai॒ vajra̭-ṅgṛhṇāti॒ sa ḙnaṃ॒-va~jro॒ bhūtyā̭ indhe॒ nirvā̭ daha-tyekavi॒gṃ॒śagg​ sto॒tra-mbha̭vati॒ prati̭ṣṭhityai॒ hari̭vacchasyata॒ indra̭sya pri॒ya-ndhāmo- [pri॒ya-ndhāma̭, upā᳚-''pnoti॒] 41
-pā᳚-''pnoti॒ kanī̭yāgṃsi॒ vai de॒veṣu॒ chandā॒g॒syāsa॒n-jyāyā॒g॒-syasṷreṣu॒ te de॒vāḥ kanī̭yasā॒ chanda̭sā॒ jyāya॒-śchando॒-'bhi vya̭śagṃsa॒-ntato॒ vai te-'sṷrāṇāṃ-lo~॒kama̭vṛñjata॒ ya-tkanī̭yasā॒ chanda̭sā॒ jyāya॒-śchando॒-'bhivi॒śagṃsa̭ti॒ bhrātṛ̭vyasyai॒va tallo॒kaṃ-vṛ~̭ṅkte॒ ṣaḍa॒kṣarā॒ṇyati̭ recayanti॒ ṣa-ḍvā ṛ॒tava̭ ṛ॒tūne॒va prī̭ṇāti ca॒tvāri॒ pūrvā॒ṇyava̭ kalpayanti॒ [kalpayanti, catṷṣpada e॒va] 42
catṷṣpada e॒va pa॒śūnava̭ rundhe॒ dve utta̭re dvi॒pada̭ e॒vāva̭ rundhe 'nu॒ṣṭubha̭ma॒bhi sa-mpā̭dayanti॒ vāgvā a̭nu॒ṣṭu-ptasmā᳚-tprā॒ṇānāṃ॒-vā~gṷtta॒mā sa̭mayāviṣi॒te sūryḙ ṣoḍa॒śinaḥ̭ sto॒tra-mu॒pāka̭rotye॒tasmi॒n vai lo॒ka indro̭ vṛ॒trama̭han-thsā॒kṣāde॒va vajra॒-mbhrātṛ̭vyāya॒ pra ha̭ra-tyaruṇapiśa॒ṅgo-'śvo॒ dakṣi̭ṇai॒tadvai vajra̭sya rū॒pagṃ samṛ̭ddhyai || 43 ||
(lo॒ko - vi॒duṣaḥ̭ ṣoḍa॒śī gṛ॒hyate॒ - yadu॒kthyḙ - dhāma̭ - kalpayanti - sa॒ptaca̭tvārigṃśacca) (a. 11)
(su॒va॒rgāya॒ ya-ddā᳚kṣi॒ṇāni̭ - samiṣṭa ya॒jūg​ - ṣya̭vabhṛtha ya॒jūgṃṣi॒ - sphyena̭ - pra॒jāpa̭tirekāda॒śinī॒ - mindraḥ॒ patni̭yā॒ - ghnanti̭ - de॒vā vā i̭ndri॒yaṃ-vī~॒ryaṃ̭ - de॒vā vā adā᳚bhye - de॒vā vai pra॒bāhṷk - pra॒jāpa̭tirde॒vebhya॒-ssa ri̭ricā॒naḥ - ṣo̭ḍaśa॒dhaikā̭daśa) (11)
(su॒va॒rgāya̭ - yajati pra॒jāḥ - sau॒myena̭ - gṛhṇī॒yā-tpra॒tyañcaṃ̭ - gṛhṇī॒yā-tpra॒jā-mpa॒śūn - trica̭tvārigṃśat) (43)
(su॒va॒rgāya॒, vajra̭sya rū॒pagṃ samṛ̭ddhyai)
(prā॒cīna̭vagṃśaṃ॒ - ya - ccā॒tvālā᳚ - dya॒jñene - ndraḥ̭ - su॒vargāya॒ - ṣaṭ ) (6)
|| hariḥ̭ om ||
|| kṛṣṇa yajurvedīya taittirīya saṃhitāyāṃ ṣaṣṭhakāṇḍe ṣaṣṭhaḥ praśna-ssamāptaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in