कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे सप्तमः प्रश्नः - याजमान ब्राह्मणं
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
पा॒क॒य॒ज्ञं-वाँ अन्वाहि॑ताग्नेः प॒शव॒ उप॑ तिष्ठन्त॒ इडा॒ खलु॒ वै पा॑कय॒ज्ञ-स्सैषा-ऽन्त॒रा प्र॑याजानूया॒जान्. यज॑मानस्य लो॒के-ऽव॑हिता॒ तामा᳚ह्रि॒यमा॑णाम॒भि म॑न्त्रयेत॒ सुरू॑पवर्षवर्ण॒ एहीति॑ प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते य॒ज्ञं-वैँ दे॒वा अदु॑ह्रन्. य॒ज्ञो-ऽसु॑राग्ं अदुह॒-त्ते-ऽसु॑रा ॒ज्ञदु॑ग्धाः॒ परा॑-ऽभव॒न्॒. यो वै य॒ज्ञस्य॒ दोहं॑-विँ॒द्वान् [ ] 1
यज॒ते-ऽप्य॒न्यं-यँज॑मान-न्दुहे॒ सा मे॑ स॒त्या-ऽऽशीर॒स्य य॒ज्ञस्य॑ भूया॒दित्या॑है॒ष वै य॒ज्ञस्य॒ दोह॒स्तेनै॒वैन॑-न्दुहे॒ प्रत्ता॒ वै गौर्दु॑हे॒ प्रत्तेडा॒ यज॑मानाय दुह ए॒ते वा इडा॑यै॒ स्तना॒ इडोप॑हू॒तेति॑ वा॒युर्व॒थ्सो यर्हि॒ होतेडा॑मुप॒ह्वये॑त॒ तर्हि॒ यज॑मानो॒ होता॑र॒मीक्ष॑माणो वा॒यु-म्मन॑सा ध्याये- [ध्यायेत्, मा॒त्रे] 2
-न्मा॒त्रे व॒थ्स-मु॒पाव॑सृजति॒ सर्वे॑ण॒ वै य॒ज्ञेन॑ दे॒वा-स्सु॑व॒र्गं-लोँ॒कमा॑य-न्पाकय॒ज्ञेन॒ मनु॑रश्राम्य॒थ्सेडा॒ मनु॑मु॒पाव॑र्तत॒ ता-न्दे॑वासु॒रा व्य॑ह्वयन्त प्र॒तीची᳚-न्दे॒वाः परा॑ची॒मसु॑रा॒-स्सा दे॒वानु॒पाव॑र्तत प॒शवो॒ वै त-द्दे॒वान॑वृणत प॒शवो-ऽसु॑रानजहु॒र्य-ङ्का॒मये॑ताप॒शु-स्स्या॒दिति॒ परा॑ची॒-न्तस्येडा॒मुप॑ ह्वयेताप॒शुरे॒व भ॑वति॒ यं- [भ॑वति॒ यम्, का॒मये॑त] 3
-का॒मये॑त पशु॒मान्-थ्स्या॒दिति॑ प्र॒तीची॒-न्तस्येडा॒-मुप॑ ह्वयेत पशु॒माने॒व भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वा इडा॒मुप॑ ह्वयेत॒ य इडा॑- मुप॒हूया॒त्मान॒-मिडा॑या-मुप॒ह्वये॒तेति॒ सा नः॑ प्रि॒या सु॒प्रतू᳚र्ति-र्म॒घोनीत्या॒हेडा॑-मे॒वोप॒हूया॒-ऽऽत्मान॒ -मिडा॑या॒मुप॑ ह्वयते॒ व्य॑स्तमिव॒ वा ए॒त-द्य॒ज्ञस्य॒ यदिडा॑ सा॒मि प्रा॒श्ञन्ति॑ [ ] 4
सा॒मि मा᳚र्जयन्त ए॒त-त्प्रति॒ वा असु॑राणां-यँ॒ज्ञो व्य॑च्छिद्यत॒ ब्रह्म॑णा दे॒वा-स्सम॑दधु॒-र्बृह॒स्पति॑ -स्तनुतामि॒म-न्न॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पति॒-र्ब्रह्म॑णै॒व य॒ज्ञग्ं स-न्द॑धाति॒ विच्छि॑न्नं-यँ॒ज्ञग्ं समि॒म-न्द॑धा॒त्वित्या॑ह॒ सन्त॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह स॒न्तत्यै॒व य॒ज्ञ-न्दे॒वेभ्यो-ऽनु॑ दिशति॒ यां-वैँ [ ] 5
य॒ज्ञे दक्षि॑णा॒-न्ददा॑ति॒ ताम॑स्य प॒शवो-ऽनु॒ स-ङ्क्रा॑मन्ति॒ स ए॒ष ई॑जा॒नो॑-ऽप॒शु-र्भावु॑को॒ यज॑मानेन॒ खलु॒ वै तत्का॒र्य॑-मित्या॑हु॒-र्यथा॑ देव॒त्रा द॒त्त-ङ्कु॑र्वी॒तात्म-न्प॒शू-न्र॒मये॒तेति॒ ब्रद्ध्न॒ पिन्व॒स्वेत्या॑ह य॒ज्ञो वै ब्र॒द्ध्नो य॒ज्ञमे॒व तन्म॑हय॒त्यथो॑ देव॒त्रैव द॒त्त-ङ्कु॑रुत आ॒त्म-न्प॒शू-न्र॑मयते॒ दद॑तो मे॒ मा क्षा॒यीत्या॒हाक्षि॑ति-मे॒वोपै॑ति कुर्व॒तो मे॒ मोप॑ दस॒दित्या॑ह भू॒मान॑मे॒वोपै॑ति ॥ 6 ॥
(वि॒द्वान्-ध्या॑ये-द्भवति॒ यं-प्रा॒श्ञन्ति॒-यां-वैँ-म॒-एका॒न्नविग्ं॑श॒तिश्च॑ ) (अ. 1)
सग्ग्श्र॑वा ह सौवर्चन॒सः तुमि॑ञ्ज॒मौपो॑दिति-मुवाच॒ यथ्स॒त्रिणा॒ग्ं॒ होता-ऽभूः॒ कामिडा॒मुपा᳚ह्वथा॒ इति॒ तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्रा॒णेन॑ दे॒वा-न्दा॒धार॑ व्या॒नेन॑ मनु॒ष्या॑नपा॒नेन॑ पि॒तृनिति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती(3) इति॑ छि॒नत्तीति॑ होवाच॒ शरी॑रं॒-वाँ अ॑स्यै॒ तदुपा᳚ह्वथा॒ इति॑ होवाच॒ गौर्वा [गौर्वै, अ॒स्यै॒ शरी॑रं॒] 7
अ॑स्यै॒ शरी॑र॒-ङ्गां-वाँव तौ त-त्पर्य॑वदतां॒-याँ य॒ज्ञे दी॒यते॒ सा प्रा॒णेन॑ दे॒वा-न्दा॑धार॒ यया॑ मनु॒ष्या॑ जीव॑न्ति॒ सा व्या॒नेन॑ मनु॒ष्यान्॑ या-म्पि॒तृभ्यो॒ घ्नन्ति॒ सा-ऽपा॒नेन॑ पि॒तॄन्. य ए॒वं ँवेद॑ पशु॒मा-न्भ॑व॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या॒भव॒तीत्यन्नं॒ ँवा अ॑स्यै॒ त- [अ॑स्यै॒ तत्, उपा᳚ह्वथा॒ इति॑] 8
-दुपा᳚ह्वथा॒ इति॑ होवा॒चौष॑धयो॒ वा अ॑स्या॒ अन्न॒मोष॑धयो॒ वै प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या भ॑वन्ति॒ य ए॒वं-वेँदा᳚न्ना॒दो भ॑व॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्र॒जाः प॑रा॒भव॑न्ती-रनुगृ॒ह्णाति॒ प्रत्या॒भव॑न्ती-र्गृ॒ह्णातीति॑ प्रति॒ष्ठां-वाँ अ॑स्यै॒ तदुपा᳚ह्वथा॒ इति॑ होवाचे॒यं-वाँ अ॑स्यै प्रति॒ष्ठे [प्रति॒ष्ठा, इ॒यं-वैँ] 9
यं-वैँ प्र॒जाः प॑रा॒भव॑न्ती॒रनु॑ गृह्णाति॒ प्रत्या॒भव॑न्ती-र्गृह्णाति॒ य ए॒वं-वेँद॒ प्रत्ये॒व ति॑ष्ठ॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ यस्यै॑ नि॒क्रम॑णे घृ॒त-म्प्र॒जा-स्स॒ञ्जीव॑न्तीः॒ पिब॒न्तीति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती (3) इति॒ न छि॑न॒त्तीति॑ होवाच॒ प्र तु ज॑नय॒तीत्ये॒ष वा इडा॒मुपा᳚ह्वथा॒ इति॑ होवाच॒ वृष्टि॒र्॒वा इडा॒ वृष्ट्यै॒ वै नि॒क्रम॑णे घृ॒त-म्प्र॒जा-स्स॒ञ्जीव॑न्तीः पिबन्ति॒ य ए॒वं-वेँद॒ प्रैव जा॑यते-ऽन्ना॒दो भ॑वति ॥ 10 ॥
(गौर्वा-अ॑स्यै॒ तत्-प्र॑ति॒ष्ठा-ऽह्व॑था॒ इति॑-विग्ंश॒तिश्च॑) (अ. 2)
प॒रोक्षं॒-वाँ अ॒न्ये दे॒वा इ॒ज्यन्ते᳚ प्र॒त्यक्ष॑म॒न्ये य-द्यज॑ते॒ य ए॒व दे॒वाः प॒रोक्ष॑मि॒ज्यन्ते॒ ताने॒व त-द्य॑जति॒ यद॑न्वाहा॒र्य॑-मा॒हर॑त्ये॒ते वै दे॒वाः प्र॒त्यक्षं॒-यँ-द्ब्रा᳚ह्म॒णास्ताने॒व तेन॑ प्रीणा॒त्यथो॒ दक्षि॑णै॒वास्यै॒षा-ऽथो॑ य॒ज्ञस्यै॒व छि॒द्रमपि॑ दधाति॒ यद्वै य॒ज्ञस्य॑ क्रू॒रं-यँद्विलि॑ष्ट॒-न्तद॑न्वाहा॒र्ये॑णा॒- [तद॑न्वाहा॒र्ये॑ण, अ॒न्वाह॑रति॒] 11
-ऽन्वाह॑रति॒ तद॑न्वाहा॒र्य॑स्या-न्वाहार्य॒त्व-न्दे॑वदू॒ता वा ए॒ते यद्-ऋ॒त्विजो॒ यद॑न्वाहा॒र्य॑-मा॒हर॑ति देवदू॒ताने॒व प्री॑णाति प्र॒जाप॑ति-र्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒-थ्स रि॑रिचा॒नो॑-ऽमन्यत॒ स ए॒तम॑न्वाहा॒र्य॑-मभ॑क्त-मपश्य॒-त्तमा॒त्मन्न॑धत्त॒स वा ए॒ष प्रा॑जाप॒त्यो यद॑न्वाहा॒र्यो॑ यस्यै॒वं-विँ॒दुषो᳚-ऽन्वाहा॒र्य॑ आह्रि॒यते॑ सा॒क्षादे॒व प्र॒जाप॑ति-मृद्ध्नो॒त्यप॑रिमितोनि॒रुप्यो-ऽप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑ते॒- [प्र॒जाप॑तेः, आप्त्यै॑] 12
-राप्त्यै॑ दे॒वा वै य-द्य॒ज्ञे-ऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒त-म्प्रा॑जाप॒त्य-म॑न्वाहा॒र्य॑-मपश्य॒-न्तम॒न्वाह॑रन्त॒ ततो॑ दे॒वा अभ॑व॒-न्परासु॑रा॒ यस्यै॒वं-विँ॒दुषो᳚-ऽन्वाहा॒र्य॑ आह्रि॒यते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति य॒ज्ञेन॒ वा इ॒ष्टी प॒क्वेन॑ पू॒र्ती यस्यै॒वं-विँ॒दुषो᳚-ऽन्वाहा॒र्य॑ आह्रि॒यते॒ स त्वे॑वेष्टा॑पू॒र्ती प्र॒जाप॑तेर्भा॒गो॑-ऽसी- [प्र॒जाप॑तेर्भा॒गो॑-ऽसी, इत्या॑ह] 13
-त्या॑ह प्र॒जाप॑तिमे॒व भा॑ग॒धेये॑न॒ सम॑र्धय॒त्यूर्ज॑स्वा॒-न्पय॑स्वा॒नित्या॒होर्ज॑-मे॒वास्मि॒-न्पयो॑ दधाति प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पा॒हीत्या॑हा॒-ऽऽशिष॑मे॒वैतामा शा॒स्ते ऽक्षि॑तो॒ ऽस्यक्षि॑त्यै त्वा॒ मा मे᳚ क्षेष्ठा अ॒मुत्रा॒मुष्मि॑न् ँलो॒क इत्या॑ह॒ क्षीय॑ते॒ वा अ॒मुष्मि॑न् ँलो॒के-ऽन्न॑-मि॒तःप्र॑दान॒ग्ग्॒ ह्य॑मुष्मिन् ँलो॒के प्र॒जा उ॑प॒जीव॑न्ति॒ यदे॒व-म॑भिमृ॒शत्यक्षि॑ति-मे॒वैन॑-द्गमयति॒ नास्या॒मुष्मि॑न् ँलो॒के-ऽन्न॑-ङ्क्षीयते ॥ 14 ॥
(अ॒न्वा॒हा॒र्ये॑ण-प्र॒जाप॑ते-रसि॒-ह्य॑मुष्मि॑न् ँलो॒के-पञ्च॑दश च ) (अ. 3)
ब॒र्॒हिषो॒-ऽह-न्दे॑वय॒ज्यया᳚ प्र॒जावा᳚-न्भूयास॒मित्या॑ह ब॒र्॒हिषा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ तेनै॒व प्र॒जा-स्सृ॑जते॒ नरा॒शग्ंस॑स्या॒ह-न्दे॑वय॒ज्यया॑ पशु॒मा-न्भू॑यास॒मित्या॑ह॒ नरा॒शग्ंसे॑न॒ वै प्र॒जाप॑तिः प॒शून॑सृजत॒ तेनै॒व प॒शून्-थ्सृ॑जते॒-ऽग्ने-स्स्वि॑ष्ट॒कृतो॒-ऽह-न्दे॑वय॒ज्यया-ऽऽयु॑ष्मान्. य॒ज्ञेन॑ प्रति॒ष्ठा-ङ्ग॑मेय॒मित्या॒हा-ऽऽयु॑रे॒वात्म-न्ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति दर्शपूर्णमा॒सयो॒- [दर्शपूर्णमा॒सयोः᳚, वै दे॒वा] 15
-र्वै दे॒वा उज्जि॑ति॒-मनूद॑जय-न्दर्शपूर्णमा॒साभ्या॒- मसु॑रा॒नपा॑-नुदन्ता॒ग्ने-र॒हमुज्जि॑ति॒-मनूज्जे॑ष॒-मित्या॑ह दर्शपूर्णमा॒सयो॑रे॒व दे॒वता॑नां॒-यँज॑मान॒ उज्जि॑ति॒मनूज्ज॑यति दर्शपूर्णमा॒साभ्या॒-म्भ्रातृ॑व्या॒नप॑ नुदते॒ वाज॑वतीभ्यां॒-व्यूँ॑ह॒त्यन्नं॒-वैँ वाजो-ऽन्न॑मे॒वाव॑ रुन्धे॒ द्वाभ्या॒-म्प्रति॑ष्ठित्यै॒ यो वै य॒ज्ञस्य॒ द्वौ दोहौ॑ वि॒द्वान् यज॑त उभ॒यत॑ [उभ॒यतः॑, ए॒व य॒ज्ञं] 16
ए॒व य॒ज्ञ-न्दु॑हे पु॒रस्ता᳚च्चो॒परि॑ष्टाच्चै॒ष वा अ॒न्यो य॒ज्ञस्य॒ दोह॒ इडा॑याम॒न्यो यर्हि॒ होता॒ यज॑मानस्य॒ नाम॑ गृह्णी॒या-त्तर्हि॑ ब्रूया॒देमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इति॒ सग्ग्स्तु॑ता ए॒व दे॒वता॑ दु॒हे-ऽथो॑ उभ॒यत॑ ए॒व य॒ज्ञ-न्दु॑हे पु॒रस्ता᳚च्चो॒परि॑ष्टाच्च॒ रोहि॑तेन त्वा॒-ऽग्निर्दे॒वता᳚-ङ्गमय॒त्वित्या॑है॒ते वै दे॑वा॒श्वा [वै दे॑वा॒श्वाः, यज॑मानः प्रस्त॒रो] 17
यज॑मानः प्रस्त॒रो यदे॒तैः प्र॑स्त॒र-म्प्र॒हर॑ति देवा॒श्वैरे॒व यज॑मानग्ं सुव॒र्गं-लोँ॒क-ङ्ग॑मयति॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीनित्या॑है॒ष वा अ॒ग्नेर्वि॑मो॒कस्ते-नै॒वैनं॒-विँमु॑ञ्चति ॒विष्णो᳚-श्शं॒योँर॒ह-न्दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठा-ङ्ग॑मेय॒मित्या॑ह य॒ज्ञो वै विष्णु॑-र्य॒ज्ञ ए॒वान्त॒तः प्रति॑ तिष्ठति॒ सोम॑स्या॒ह-न्दे॑वय॒ज्यया॑ सु॒रेता॒ [सु॒रेताः᳚, रेतो॑] 18
रेतो॑ धिषी॒येत्या॑ह॒ सोमो॒ वै रे॑तो॒धास्तेनै॒व रेत॑ आ॒त्म-न्ध॑त्ते॒ त्वष्टु॑र॒ह-न्दे॑वय॒ज्यया॑ पशू॒नाग्ं रू॒प-म्पु॑षेय॒मित्या॑ह॒ त्वष्टा॒ वै प॑शू॒ना-म्मि॑थु॒नानाग्ं॑ रूप॒कृत्तेनै॒व प॑शू॒नाग्ं रू॒पमा॒त्म-न्ध॑त्ते दे॒वाना॒-म्पत्नी॑र॒ग्नि-र्गृ॒हप॑ति-र्य॒ज्ञस्य॑ मिथु॒न-न्तयो॑र॒ह-न्दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्रभू॑यास॒-मित्या॑है॒तस्मा॒-द्वै मि॑थु॒ना-त्प्र॒जाप॑ति-र्मिथु॒नेन॒ [र्मिथु॒नेन॑, प्रा-ऽजा॑यत॒] 19
प्रा-ऽजा॑यत॒ तस्मा॑दे॒व यज॑मानो मिथु॒नेन॒ प्रजा॑यते वे॒दो॑-ऽसि॒ वित्ति॑रसि वि॒देयेत्या॑ह वे॒देन॒ वै दे॒वा असु॑राणां-विँ॒त्तं-वेँद्य॑मविन्दन्त॒ त-द्वे॒दस्य॑ वेद॒त्वं-यँद्य॒-द्भ्रातृ॑व्यस्याभि॒द्ध्याये॒-त्तस्य॒ नाम॑ गृह्णीया॒-त्तदे॒वास्य॒ सर्वं॑-वृँङ्क्ते घृ॒तव॑न्त-ङ्कुला॒यिनग्ं॑ रा॒यस्पोषग्ं॑ सह॒स्रिणं॑-वेँ॒दो द॑दातु वा॒जिन॒मित्या॑ह॒ प्रस॒हस्र॑-म्प॒शूना᳚प्नो॒त्या स्य॑ प्र॒जायां᳚-वाँ॒जी जा॑यते॒ य ए॒वं-वेँद॑ ॥ 20 ॥
(द॒र्॒श॒पू॒र्ण॒मासयो॑-रुभ॒यतो॑-देवा॒श्वाः-सु॒रेताः᳚-प्र॒जाप॑ति-र्मिथु॒नेना᳚-प्नोत्य॒-ष्टौ च॑) (अ. 4)
ध्रु॒वां-वैँ रिच्य॑मानां-यँ॒ज्ञो-ऽनु॑ रिच्यते य॒ज्ञं-यँज॑मानो॒ यज॑मान-म्प्र॒जा ध्रु॒वामा॒प्याय॑मानां-यँ॒ज्ञो-ऽन्वा प्या॑यते य॒ज्ञं-यँज॑मानो॒ यज॑मान-म्प्र॒जा आ प्या॑यता-न्ध्रु॒वा घृ॒तेनेत्या॑ह ध्रु॒वामे॒वा ऽऽ प्या॑ययति॒ तामा॒प्याय॑मानां-यँ॒ज्ञो-ऽन्वा प्या॑यते य॒ज्ञं-यँज॑मानो॒ यज॑मान-म्प्र॒जाः प्र॒जाप॑ते-र्वि॒भान्नाम॑ लो॒कस्तस्मिग्ग्॑स्त्वा दधामि स॒ह यज॑माने॒ने- [यज॑माने॒नेति, आ॒हा॒-ऽयं-वैँ] 21
-त्या॑हा॒-ऽयं-वैँ प्र॒जाप॑ते-र्वि॒भान्नाम॑ लो॒कस्तस्मि॑-न्ने॒वैन॑-न्दधाति स॒ह यज॑मानेन॒ रिच्य॑त इव॒ वा ए॒त-द्य-द्यज॑ते॒ य-द्य॑जमानभा॒ग-म्प्रा॒श्ञात्या॒त्मान॑मे॒व प्री॑णात्ये॒तावा॒न्॒. वै य॒ज्ञो यावान्॑. यजमानभा॒गो य॒ज्ञो यज॑मानो॒ य-द्य॑जमानभा॒ग-म्प्रा॒श्ञाति॑ य॒ज्ञ ए॒व य॒ज्ञ-म्प्रति॑ ष्ठापयत्ये॒तद्वै सू॒यव॑स॒ग्ं॒ सोद॑कं॒-यँद्ब॒र्॒हिश्चा-ऽऽप॑श्चै॒त- [-ऽऽप॑श्चै॒तत्, यज॑मानस्या॒-] 22
-द्यज॑मानस्या॒-ऽऽयत॑नं॒-यँद्वेदि॒र्य-त्पू᳚र्णपा॒त्र-म॑न्तर्वे॒दि नि॒नय॑ति॒ स्व ए॒वा-ऽऽय॑तने सू॒यव॑स॒ग्ं॒ सोद॑क-ङ्कुरुते॒ सद॑सि॒ सन्मे॑ भूया॒ इत्या॒हा-ऽऽपो॒ वै य॒ज्ञ आपो॒-ऽमृतं॑-यँ॒ज्ञमे॒वामृत॑-मा॒त्म-न्ध॑त्ते॒ सर्वा॑णि॒ वै भू॒तानि॑ व्र॒त-मु॑प॒यन्त॒ -मनूप॑ यन्ति॒ प्राच्या᳚-न्दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्ता॒-मित्या॑है॒ष वै द॑र्शपूर्णमा॒सयो॑-रवभृ॒थो [-रवभृ॒थः, यान्ये॒वैन॑-म्भू॒तानि॑] 23
यान्ये॒वैन॑-म्भू॒तानि॑ व्र॒तमु॑प॒यन्त॑-मनूप॒यन्ति॒ तैरे॒व स॒हाव॑भृ॒थमवै॑ति॒ विष्णु॑मुखा॒ वै दे॒वा श्छन्दो॑भिरि॒मान् ँलो॒का-न॑नपज॒य्यम॒भ्य॑जय॒न्॒. य-द्वि॑ष्णुक्र॒मान् क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒मान् ँलो॒का-न॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒ क्रमो᳚-ऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम॒न्तरि॑क्ष॒-ञ्जाग॑ती॒ द्यौरानु॑ष्टुभी॒-र्दिश॒ श्छन्दो॑भिरे॒वेमान् ँलो॒कान्. य॑थापू॒र्वम॒भि ज॑यति ॥ 24 ॥
(यज॑माने॒नेति॑-चै॒ तद॑-वभृ॒थो-दिशः॑-स॒प्त च॑) (अ. 5)
अग॑न्म॒ सुव॒-स्सुव॑रग॒न्मेत्या॑ह सुव॒र्गमे॒व लो॒कमे॑ति स॒न्दृश॑स्ते॒ मा छि॑थ्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ मा ऽऽ वृ॒क्षीत्या॑ह यथाय॒जु-रे॒वैत-थ्सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्धा अ॒स्यायु॑र्मे धे॒हीत्या॑हा॒-ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ प्र वा ए॒षो᳚-ऽस्मान् ँलो॒काच्च्य॑वते॒ यो [यः, वि॒ष्णु॒क्र॒मान् क्रम॑ते] 25
वि॑ष्णुक्र॒मान् क्रम॑ते सुव॒र्गाय॒ हि लो॒काय॑ विष्णुक्र॒माः क्र॒म्यन्ते᳚ ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै वि॑ष्णुक्र॒मान् क्र॑मेत॒ य इ॒मान् ँलो॒का-न्भ्रातृ॑व्यस्य सं॒विँद्य॒ पुन॑रि॒मं-लोँ॒क-म्प्र॑त्यव॒रोहे॒दित्ये॒ष वा अ॒स्य लो॒कस्य॑ प्रत्यवरो॒हो यदाहे॒दम॒हम॒मु-म्भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो᳚-ऽस्यै दि॒व इती॒माने॒व लो॒का-न्भ्रातृ॑व्यस्य सं॒विँद्य॒ पुन॑रि॒मं-लोँ॒क-म्प्र॒त्यव॑रोहति॒ सं- [सम्, ज्योति॑षा-ऽभूव॒मित्या॑हा॒स्मिन्ने॒व] 26
-ज्योति॑षा-ऽभूव॒मित्या॑हा॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्यै॒न्द्री-मा॒वृत॑-म॒न्वाव॑र्त॒ इत्या॑हा॒सौ वा आ॑दि॒त्य इन्द्र॒स्तस्यै॒वा-ऽऽवृत॒मनु॑ प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒-द्दक्षि॒णो-ऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रो-ऽथो॑ आदि॒त्यस्यै॒वा-ऽऽवृत॒मनु॑ प॒र्याव॑र्तते॒ सम॒ह-म्प्र॒जया॒ स-म्मया᳚ प्र॒जेत्या॑हा॒-ऽऽशिष॑- [प्र॒जेत्या॑हा॒-ऽऽशिष᳚म्, ए॒वैतामा] 27
-मे॒वैतामा शा᳚स्ते॒ समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यास॒मित्या॑ह यथाय॒जु-रे॒वैतद्वसु॑मान्. य॒ज्ञो वसी॑या-न्भूयास॒-मित्या॑हा॒-ऽऽशिष॑मे॒वेतामा शा᳚स्ते ब॒हु वै गार्ह॑पत्य॒स्यान्ते॑ मि॒श्रमि॑व चर्यत आग्निपावमा॒नीभ्या॒-ङ्गार्ह॑पत्य॒मुप॑ तिष्ठते पु॒नात्ये॒वाग्नि-म्पु॑नी॒त आ॒त्मान॒-न्द्वाभ्या॒-म्प्रति॑ष्ठित्या॒ अग्ने॑ गृहपत॒ इत्या॑ह [इत्या॑ह, य॒था॒य॒जुरे॒वैतच्छ॒तग्ं] 28
यथाय॒जुरे॒वैतच्छ॒तग्ं हिमा॒ इत्या॑ह श॒त-न्त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैन॑-ङ्करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒-द्यस्य॑ पु॒त्रो-ऽजा॑त॒-स्स्या-त्ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒-ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒-द्यस्य॑ पु॒त्रो [पु॒त्रः, जा॒त-स्स्यात्तेज॑] 29
जा॒त-स्स्यात्तेज॑ ए॒वास्मि॑-न्ब्रह्मवर्च॒स-न्द॑धाति॒ यो वै य॒ज्ञ-म्प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वति॒ कस्त्वा॑ युनक्ति॒ स त्वा॒ वि मु॑ञ्च॒त्वित्या॑ह प्र॒जाप॑ति॒-र्वै कः प्र॒जाप॑तिनै॒वैनं॑-युँ॒नक्ति॑ प्र॒जाप॑तिना॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्या ईश्व॒रं-वैँ व्र॒तमवि॑सृष्ट-म्प्र॒दहो-ऽग्ने᳚ व्रतपते व्र॒तम॑चारिष॒मित्या॑ह व्र॒तमे॒व [ ] 30
वि सृ॑जते॒ शान्त्या॒ अप्र॑दाहाय॒ परां॒अ॒. वाव य॒ज्ञ ए॑ति॒ न नि व॑र्तते॒ पुन॒र्यो वै य॒ज्ञस्य॑ पुनराल॒म्भं-विँ॒द्वान्. यज॑ते॒ तम॒भि नि व॑र्तते य॒ज्ञो ब॑भूव॒ स आ ब॑भू॒वेत्या॑है॒ष वै य॒ज्ञस्य॑ पुनराल॒म्भ-स्तेनै॒वैन॒-म्पुन॒रा ल॑भ॒ते-ऽन॑वरुद्धा॒ वा ए॒तस्य॑ वि॒राड् य आहि॑ताग्नि॒-स्सन्न॑स॒भः प॒शवः॒ खलु॒ वै ब्रा᳚ह्म॒णस्य॑ स॒भेष्ट्वा प्रांउ॒त्क्रम्य॑ ब्रूया॒-द्गोमाग्ं॑ अ॒ग्ने-ऽवि॑माग्ं अ॒श्वी य॒ज्ञ इत्यव॑ स॒भाग्ं रु॒न्धे प्र स॒हस्र॑-म्प॒शूना᳚प्नो॒त्या-ऽस्य॑ प्र॒जायां᳚-वाँ॒जी जा॑यते ॥ 31 ॥
(यः-स-मा॒सिषं॑-गृहपत॒-इत्या॑हा॒-मुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒-द्यस्य॑पु॒त्रो-व्र॒तमे॒व-खलु॒ वै- चतु॑र्विग्ंशतिश्च) (अ. 6)
देव॑ सवितः॒ प्र सु॑व य॒ज्ञ-म्प्र सु॑व य॒ज्ञप॑ति॒-म्भगा॑य दि॒व्यो ग॑न्ध॒र्वः । के॒त॒पूः केत॑-न्नः पुनातु वा॒चस्पति॒-र्वाच॑म॒द्य स्व॑दाति नः ॥ इन्द्र॑स्य॒ वज्रो॑-ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒-ऽयं-वृँ॒त्रं-वँ॑द्ध्यात् ॥ वाज॑स्य॒ नु प्र॑स॒वे मा॒तर॑-म्म॒हीमदि॑ति॒-न्नाम॒ वच॑सा करामहे । यस्या॑मि॒दं-विँश्व॒-म्भुव॑न-मावि॒वेश॒ तस्या᳚-न्नो दे॒व-स्स॑वि॒ता धर्म॑ साविषत् ॥ अ॒- [अ॒फ्सु, अ॒न्तर॒मृत॑म॒फ्सु] 32
फ्स्व॑न्तर॒मृत॑म॒फ्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॑ भवथ वाजिनः ॥ वा॒यु-र्वा᳚ त्वा॒ मनु॑-र्वा त्वा गन्ध॒र्वा-स्स॒प्तविग्ं॑शतिः । ते अग्रे॒ अश्व॑मायुञ्ज॒न्ते अ॑स्मिञ्ज॒वमा-ऽद॑धुः ॥ अपा᳚-न्नपादाशुहेम॒न्॒. य ऊ॒र्मिः क॒कुद्मा॒-न्प्रतू᳚र्ति-र्वाज॒सात॑म॒स्तेना॒यं-वाँजग्ं॑ सेत् ॥ विष्णोः॒ क्रमो॑-ऽसि॒ विष्णोः᳚ क्रा॒न्तम॑सि॒ विष्णो॒-र्विक्रा᳚न्तमस्य॒ङ्कौ न्य॒ङ्का व॒भितो॒ रथं॒-यौँ ध्वा॒न्तं-वाँ॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ दू॒रेहे॑ति-रिन्द्रि॒यावा᳚-न्पत॒त्री ते नो॒-ऽग्नयः॒ पप्र॑यः पारयन्तु ॥ 33 ॥
(अ॒फ्सु-न्य॒ङ्कौ-पञ्च॑दश च) (अ. 7)
दे॒वस्या॒हग्ं स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाज॑-ञ्जेष-न्दे॒वस्या॒हग्ं स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर्षि॑ष्ठ॒-न्नाकग्ं॑ रुहेय॒मिन्द्रा॑य॒ वाचं॑-वँद॒तेन्द्रं॒-वाँज॑-ञ्जापय॒तेन्द्रो॒ वाज॑मजयित् ॥ अश्वा॑जनि वाजिनि॒ वाजे॑षु वाजिनीव॒त्यश्वा᳚न्-थ्स॒मथ्सु॑ वाजय ॥ अर्वा॑-ऽसि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वाजि॑नो॒ वाज॑-न्धावत म॒रुता᳚-म्प्रस॒वे ज॑यत॒ वि योज॑ना मिमीद्ध्व॒मद्ध्व॑न-स्स्कभ्नीत॒ [स्कभ्नीत, काष्ठा᳚-ङ्गच्छत॒] 34
काष्ठा᳚-ङ्गच्छत॒ वाजे॑वाजे-ऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ॥ अ॒स्य मद्ध्वः॑ पिबत मा॒दय॑द्ध्व-न्तृ॒प्ता या॑त प॒थिभि॑-र्देव॒यानैः᳚ ॥ ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒-विँश्वे॑ शृण्वन्तु वा॒जिनः॑ ॥ मि॒तद्र॑व-स्सहस्र॒सा मे॒धसा॑ता सनि॒ष्यवः॑ । म॒हो ये रत्नग्ं॑ समि॒थेषु॑ जभ्रि॒रे शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु ॥दे॒वता॑ता मि॒तद्र॑व-स्स्व॒र्काः । ज॒म्भय॒न्तो-ऽहिं॒-वृँक॒ग्ं॒ रक्षाग्ं॑सि॒ सने᳚म्य॒स्मद्यु॑यव॒- [सने᳚म्य॒स्मद्यु॑यवन्न्, अमी॑वाः ।] 35
-न्नमी॑वाः ॥ ए॒ष स्य वा॒जी क्षि॑प॒णि-न्तु॑रण्यति ग्री॒वाया᳚-म्ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ । क्रतु॑-न्दधि॒क्रा अनु॑ स॒न्तवी᳚त्व-त्प॒थामङ्का॒ग्॒स्यन्वा॒पनी॑फणत् ॥उ॒त स्मा᳚स्य॒ द्रव॑त-स्तुरण्य॒तः प॒र्ण-न्न वे-रनु॑ वाति प्रग॒र्धिनः॑ । श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒स-म्परि॑ दधि॒क्राव्.ण्णः॑ स॒होर्जा तरि॑त्रतः ॥ आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दा द्यावा॑पृथि॒वी वि॒श्वश॑म्भू । आ मा॑ गन्ता-म्पि॒तरा॑ [गन्ता-म्पि॒तरा᳚, मा॒तरा॒] 36
मा॒तरा॒ चा-ऽऽ मा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात् ॥ वाजि॑नो वाजजितो॒ वाजग्ं॑ सरि॒ष्यन्तो॒ वाज॑-ञ्जे॒ष्यन्तो॒ बृह॒स्पते᳚-र्भा॒गमव॑ जिघ्रत॒ वाजि॑नो वाजजितो॒ वाजग्ं॑ ससृ॒वाग्ंसो॒ वाज॑-ञ्जिगि॒वाग्ंसो॒ बृह॒स्पते᳚-र्भा॒गे नि मृ॑ढ्वमि॒यं-वँ॒-स्सा स॒त्या स॒न्धा-ऽभू॒द्यामिन्द्रे॑ण स॒मध॑द्ध्व॒-मजी॑जिपत वनस्पतय॒ इन्द्रं॒-वाँजं॒-विँ मु॑च्यद्ध्वम् ॥ 37 ॥
(स्क॒भ्नी॒त॒-यु॒य॒व॒न्-पि॒तरा॒-द्विच॑त्वारिग्ंशच्च) (अ. 8)
क्ष॒त्रस्योलग्ग्॑मसि क्ष॒त्रस्य॒ योनि॑रसि॒ जाय॒ एहि॒ सुवो॒ रोहा॑व॒ रोहा॑व॒ हि सुव॑र॒ह-न्ना॑वु॒भयो॒-स्सुवो॑ रोक्ष्यामि॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्न्नि॑यश्चा-ऽऽन्त्याय॒न श्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च । आयु॑-र्य॒ज्ञेन॑ कल्पता-म्प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नो [कल्पतामपा॒नः, य॒ज्ञेन॑ कल्पतां] 38
य॒ज्ञेन॑ कल्पतां-व्याँ॒नो य॒ज्ञेन॑ कल्पता॒-ञ्चक्षु॑-र्य॒ज्ञेन॑ कल्पता॒ग्॒ श्रोत्रं॑-यँ॒ज्ञेन॑ कल्पता॒-म्मनो॑ य॒ज्ञेन॑ कल्पतां॒-वाँग् य॒ज्ञेन॑ कल्पता-मा॒त्मा य॒ज्ञेन॑ कल्पतां-यँ॒ज्ञो य॒ज्ञेन॑ कल्पता॒ग्ं॒ सुव॑-र्दे॒वाग्ं अ॑गन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ सम॒ह-म्प्र॒जया॒ स-म्मया᳚ प्र॒जा सम॒हग्ं रा॒यस्पोषे॑ण॒ स-म्मया॑ रा॒यस्पोषो-ऽन्ना॑य त्वा॒-ऽन्नाद्या॑य त्वा॒ वाजा॑य त्वा वाजजि॒त्यायै᳚ त्वा॒ ऽमृत॑मसि॒ पुष्टि॑रसि प्र॒जन॑नमसि ॥ 39 ॥
(अ॒पा॒नो-वाजा॑य॒-नव॑ च) (अ. 9)
वाज॑स्ये॒म-म्प्र॑स॒व-स्सु॑षुवे॒ अग्रे॒ सोम॒ग्ं॒ राजा॑न॒मोष॑धीष्व॒फ्सु । ता अ॒स्मभ्य॒-म्मधु॑मती-र्भवन्तु व॒यग्ं रा॒ष्ट्रे जा᳚ग्रियाम पु॒रोहि॑ताः । वाज॑स्ये॒द-म्प्र॑स॒व आ ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ । स वि॒राज॒-म्पर्ये॑ति प्रजा॒न-न्प्र॒जा-म्पुष्टिं॑-वँ॒र्धय॑मानो अ॒स्मे । वाज॑स्ये॒मा-म्प्र॑स॒व-श्शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् । अदि॑थ्सन्त-न्दापयतु प्रजा॒न-न्र॒यिं- [प्रजा॒न-न्र॒यिम्, च॒ न॒-स्सर्व॑वीरां॒] 40
-च॑ न॒-स्सर्व॑वीरा॒-न्नि य॑च्छतु ॥ अग्ने॒ अच्छा॑ वदे॒ह नः॒ प्रति॑ न-स्सु॒मना॑ भव । प्र णो॑ यच्छ भुवस्पते धन॒दा अ॑सि न॒स्त्वम् ॥ प्र णो॑ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ । प्र दे॒वाः प्रोत सू॒नृता॒ प्र वाग् दे॒वी द॑दातु नः ॥ अ॒र्य॒मण॒-म्बृह॒स्पति॒मिन्द्र॒-न्दाना॑य चोदय । वाचं॒-विँष्णु॒ग्ं॒ सर॑स्वतीग्ं सवि॒तारं॑- [सर॑स्वतीग्ं सवि॒तार᳚म्, च वा॒जिन᳚म् ।] 41
-च वा॒जिन᳚म् ॥ सोम॒ग्ं॒ राजा॑नं॒-वँरु॑णम॒ग्नि-म॒न्वार॑भामहे । आ॒दि॒त्यान् विष्णु॒ग्ं॒ सूर्य॑-म्ब्र॒ह्माण॑-ञ्च॒ बृह॒स्पति᳚म् ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚-ऽश्विनो᳚-र्बा॒हुभ्या᳚-म्पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ सर॑स्वत्यै वा॒चो य॒न्तु-र्य॒न्त्रेणा॒ग्नेस्त्वा॒ आम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥ 42 ॥
(र॒यिग्ं-स॑वि॒तार॒ग्ं॒-षट्त्रिग्ं॑शच्च) (अ. 10)
अ॒ग्निरेका᳚क्षरेण॒ वाच॒मुद॑जयद॒श्विनौ॒ द्व्य॑क्षरेण प्राणापा॒नावुद॑जयतां॒-विँष्णु॒स्त्य्र॑क्षरेण॒ त्रीन् ँलो॒कानुद॑जय॒-थ्सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जय-त्पू॒षा पञ्चा᳚क्षरेण प॒ङ्क्तिमुद॑जय-द्धा॒ता षड॑क्षरेण॒ षड्-ऋ॒तूनुद॑जय-न्म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्तप॑दा॒ग्ं॒ शक्व॑री॒मुद॑जय॒-न्बृह॒स्पति॑-र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जय-न्मि॒त्रो नवा᳚क्षरेण त्रि॒वृत॒ग्ग्॒ स्तोम॒मुद॑जय॒- [स्तोम॒मुद॑जयत्, वरु॑णो॒ दशा᳚क्षरेण] 43
-द्वरु॑णो॒ दशा᳚क्षरेण वि॒राज॒-मुद॑जय॒दिन्द्र॒ एका॑दशाक्षरेण त्रि॒ष्टुभ॒-मुद॑जय॒-द्विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जय॒न् वस॑व॒स्त्रयो॑ दशाक्षरेण त्रयोद॒शग्ग् स्तोम॒मुद॑जय-न्रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शग्ग् स्तोम॒मुद॑जयन्नादि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒शग्ग् स्तोम॒मुद॑जय॒न्नदि॑ति॒-ष्षोड॑शाक्षरेण षोड॒शग्ग् स्तोम॒मुद॑जय-त्प्र॒जाप॑ति-स्स॒प्तद॑शाक्षरेण सप्तद॒शग्ग् स्तोम॒मुद॑जयत् ॥ 44 ॥
(त्रि॒वृत॒ग्ग्॒ स्तोम॒मुद॑जय॒-थ्षट्च॑त्वारिग्ंशच्च) (अ. 11)
उ॒प॒या॒मगृ॑हीतो-ऽसि नृ॒षद॑-न्त्वा द्रु॒षद॑-म्भुवन॒सद॒मिन्द्रा॑य॒ जुष्ट॑-ङ्गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वोपया॒मगृ॑हीतो-ऽस्यफ्सु॒षद॑-न्त्वा घृत॒सदं॑-व्योँम॒सद॒मिन्द्रा॑य॒ जुष्ट॑-ङ्गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वोपया॒मगृ॑हीतो-ऽसि पृथिवि॒षद॑-न्त्वा-ऽन्तरिक्ष॒सद॑-न्नाक॒सद॒मिन्द्रा॑य॒ जुष्ट॑-ङ्गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ॥ ये ग्रहाः᳚ पञ्चज॒नीना॒ येषा᳚-न्ति॒स्रः प॑रम॒जाः । दैव्यः॒ कोश॒- [दैव्यः॒ कोशः॑, समु॑ब्जितः ।] 45
-स्समु॑ब्जितः । तेषां॒-विँशि॑प्रियाणा॒-मिष॒मूर्ज॒ग्ं॒ सम॑ग्रभी-मे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ॥ अ॒पाग्ं रस॒मुद्व॑यस॒ग्ं॒ सूर्य॑रश्मिग्ं स॒माभृ॑तम् । अ॒पाग्ं रस॑स्य॒ यो रस॒स्तं-वोँ॑ गृह्णाम्युत्त॒ममे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ॥ अ॒या वि॒ष्ठा ज॒नय॒न् कर्व॑राणि॒ स हि घृणि॑रु॒रु-र्वरा॑य गा॒तुः । स प्रत्युदै᳚-द्ध॒रुणो मद्ध्वो॒ अग्र॒ग्ग्॒ स्वायां॒-यँ-त्त॒नुवा᳚-न्त॒नूमैर॑यत । उ॒प॒या॒मगृ॑हीतो-ऽसि प्र॒जाप॑तये त्वा॒ जुष्ट॑-ङ्गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा ॥ 46 ॥
(कोश॑-स्त॒नुवा॒न्-त्रयो॑दश च) (अ. 12)
अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः । अन्विन्द्र॒ग्ं॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानम् ॥ अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ । अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ॥ इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒पत्नी॑-म॒हम॑श्रवम् । न ह्य॑स्या अप॒र-ञ्च॒न ज॒रसा॒ [ज॒रसा᳚, मर॑ते॒ पतिः॑ ।] 47
मर॑ते॒ पतिः॑ ॥ नाहमि॑न्द्राणि रारण॒ सख्यु॑-र्वृ॒षाक॑पेर्-ऋ॒ते । यस्ये॒दमप्यग्ं॑ ह॒विः प्रि॒य-न्दे॒वेषु॒ गच्छ॑ति ॥यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वा-न्दे॒वो दे॒वान् क्रतु॑ना प॒र्यभू॑षत् । यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेता-न्नृं॒णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥ आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ य-थ्स॒मर॑न्त॒ सेनाः᳚ । पता॑ति दि॒द्युन्नर्य॑स्य बाहु॒वो-र्मा ते॒ [बाहु॒वो-र्मा ते᳚, मनो॑] 48
मनो॑ विष्व॒द्रिय॒ग् वि चा॑रीत् ॥ मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ य-त्ते᳚ । नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मि-न्त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि॑न्द्र स्तु॒वन्तः॑ ॥ आ तू भ॑र॒ माकि॑रे॒त-त्परि॑ ष्ठा-द्वि॒द्मा हि त्वा॒ वसु॑पतिं॒-वँसू॑नाम् । इन्द्र॒ य-त्ते॒ माहि॑न॒-न्दत्र॒-मस्त्य॒स्मभ्य॒-न्तद्ध॑र्यश्व॒ [तद्ध॑र्यश्व, प्र य॑न्धि ।] 49
प्र य॑न्धि ॥ प्र॒दा॒तारग्ं॑ हवामह॒ इन्द्र॒मा ह॒विषा॑ व॒यम् । उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वा ऽऽ प्र य॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात् ॥ प्र॒दा॒ता व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा᳚ । अ॒स्मिन्. य॒ज्ञे ब॒र्॒हिष्या नि॒षद्याथा॑ भव॒ यज॑मानाय॒ शं-योः ँ॥ इन्द्रः॑ सु॒त्रामा॒ स्ववा॒ग्ं॒ अवो॑भि-स्सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑ता॒-न्द्वेषो॒ अभ॑य-ङ्कृणोतु सु॒वीर्य॑स्य॒ [सु॒वीर्य॑स्य, पत॑य-स्स्याम ।] 50
पत॑य-स्स्याम ॥ तस्य॑ व॒यग्ं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववा॒ग्ं॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒-द्द्वेषः॑ सनु॒त-र्यु॑योतु ॥ रे॒वती᳚-र्न-स्सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒-र्मदे॑म ॥ प्रोष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत । अ॒भीके॑ चिदु लोक॒कृ-थ्स॒ङ्गे स॒मथ्सु॑ वृत्र॒हा । अ॒स्माक॑-म्बोधि चोदि॒ता नभ॑न्ता-मन्य॒केषा᳚म् । ज्या॒का अधि॒ धन्व॑सु ॥ 51 ॥
(ज॒रसा॒-मा ते॑-हर्यश्व-सु॒वीर्य॒स्या-द्ध्ये-क॑-ञ्च ) (अ. 13)
(पा॒क॒य॒ज्ञग्ं-सग्ग्श्र॑वाः-प॒रोक्षं॑-ब॒र्॒हिषो॒-ऽहं -ध्रु॒वा-मग॒न्मेत्या॑ह॒ -देव॑ सवित-र्दे॒वस्या॒हं-क्ष॒त्रस्योलग्ग्ं॒वाँज॑स्ये॒म-म॒ग्निरेका᳚क्षरेणो -पया॒मगृ॑हीतो॒-ऽ-स्यन्वह॒ मासा॒-स्त्रयो॑दश ।)
(पा॒क॒य॒ज्ञं-प॒रोक्षं॑-ध्रु॒वांविँ सृ॑जते-च न॒-स्सर्व॑वीरां॒ - पत॑य-स्स्यो॒-मैक॑पञ्चा॒शत् । )
(पा॒क॒य॒ज्ञम्, धन्व॑सु)
॥ हरि॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे सप्तमः प्रश्न-स्समाप्तः ॥
Roman (IAST) Transliteration
kṛṣṇa yajurvedīya taittirīya saṃhitāyā-mprathamakāṇḍe saptamaḥ praśnaḥ - yājamāna brāhmaṇaṃ
o-nnamaḥ paramātmane, śrī mahāgaṇapataye namaḥ,
śrī gurubhyo namaḥ | ha॒riḥ॒ om ||
pā॒ka॒ya॒jñaṃ-vā~ anvāhi̭tāgneḥ pa॒śava॒ upa̭ tiṣṭhanta॒ iḍā॒ khalu॒ vai pā̭kaya॒jña-ssaiṣā-'nta॒rā pra̭yājānūyā॒jān. yaja̭mānasya lo॒ke-'va̭hitā॒ tāmā᳚hri॒yamā̭ṇāma॒bhi ma̭ntrayeta॒ surṷ̄pavarṣavarṇa॒ ehīti̭ pa॒śavo॒ vā iḍā̭ pa॒śūne॒vopa̭ hvayate ya॒jñaṃ-vai~ de॒vā adṷhran. ya॒jño-'sṷrāgṃ aduha॒-tte-'sṷrā ॒jñadṷgdhāḥ॒ parā̭-'bhava॒n॒. yo vai ya॒jñasya॒ dohaṃ̭-vi~॒dvān [ ] 1
yaja॒te-'pya॒nyaṃ-ya~ja̭māna-nduhe॒ sā mḙ sa॒tyā-''śīra॒sya ya॒jñasya̭ bhūyā॒dityā̭hai॒ṣa vai ya॒jñasya॒ doha॒stenai॒vaina̭-nduhe॒ prattā॒ vai gaurdṷhe॒ pratteḍā॒ yaja̭mānāya duha e॒te vā iḍā̭yai॒ stanā॒ iḍopa̭hū॒teti̭ vā॒yurva॒thso yarhi॒ hoteḍā̭mupa॒hvayḙta॒ tarhi॒ yaja̭māno॒ hotā̭ra॒mīkṣa̭māṇo vā॒yu-mmana̭sā dhyāye- [dhyāyet, mā॒tre] 2
-nmā॒tre va॒thsa-mu॒pāva̭sṛjati॒ sarvḙṇa॒ vai ya॒jñena̭ de॒vā-ssṷva॒rgaṃ-lo~॒kamā̭ya-npākaya॒jñena॒ manṷraśrāmya॒thseḍā॒ manṷmu॒pāva̭rtata॒ tā-ndḙvāsu॒rā vya̭hvayanta pra॒tīcī᳚-nde॒vāḥ parā̭cī॒masṷrā॒-ssā de॒vānu॒pāva̭rtata pa॒śavo॒ vai ta-dde॒vāna̭vṛṇata pa॒śavo-'sṷrānajahu॒rya-ṅkā॒mayḙtāpa॒śu-ssyā॒diti॒ parā̭cī॒-ntasyeḍā॒mupa̭ hvayetāpa॒śure॒va bha̭vati॒ yaṃ- [bha̭vati॒ yam, kā॒mayḙta] 3
-kā॒mayḙta paśu॒mān-thsyā॒diti̭ pra॒tīcī॒-ntasyeḍā॒-mupa̭ hvayeta paśu॒māne॒va bha̭vati brahmavā॒dino̭ vadanti॒ sa tvā iḍā॒mupa̭ hvayeta॒ ya iḍā̭- mupa॒hūyā॒tmāna॒-miḍā̭yā-mupa॒hvaye॒teti॒ sā naḥ̭ pri॒yā su॒pratū᳚rti-rma॒ghonītyā॒heḍā̭-me॒vopa॒hūyā॒-''tmāna॒ -miḍā̭yā॒mupa̭ hvayate॒ vya̭stamiva॒ vā e॒ta-dya॒jñasya॒ yadiḍā̭ sā॒mi prā॒śñanti̭ [ ] 4
sā॒mi mā᳚rjayanta e॒ta-tprati॒ vā asṷrāṇāṃ-ya~॒jño vya̭cchidyata॒ brahma̭ṇā de॒vā-ssama̭dadhu॒-rbṛha॒spati̭ -stanutāmi॒ma-nna॒ ityā̭ha॒ brahma॒ vai de॒vānā॒-mbṛha॒spati॒-rbrahma̭ṇai॒va ya॒jñagṃ sa-nda̭dhāti॒ vicchi̭nnaṃ-ya~॒jñagṃ sami॒ma-nda̭dhā॒tvityā̭ha॒ santa̭tyai॒ viśvḙ de॒vā i॒ha mā̭dayantā॒mityā̭ha sa॒ntatyai॒va ya॒jña-nde॒vebhyo-'nṷ diśati॒ yāṃ-vai~ [ ] 5
ya॒jñe dakṣi̭ṇā॒-ndadā̭ti॒ tāma̭sya pa॒śavo-'nu॒ sa-ṅkrā̭manti॒ sa e॒ṣa ī̭jā॒no̭-'pa॒śu-rbhāvṷko॒ yaja̭mānena॒ khalu॒ vai tatkā॒rya̭-mityā̭hu॒-ryathā̭ deva॒trā da॒tta-ṅkṷrvī॒tātma-npa॒śū-nra॒maye॒teti॒ braddhna॒ pinva॒svetyā̭ha ya॒jño vai bra॒ddhno ya॒jñame॒va tanma̭haya॒tyatho̭ deva॒traiva da॒tta-ṅkṷruta ā॒tma-npa॒śū-nra̭mayate॒ dada̭to me॒ mā kṣā॒yītyā॒hākṣi̭ti-me॒vopai̭ti kurva॒to me॒ mopa̭ dasa॒dityā̭ha bhū॒māna̭me॒vopai̭ti || 6 ||
(vi॒dvān-dhyā̭ye-dbhavati॒ yaṃ-prā॒śñanti॒-yāṃ-vai~-ma॒-ekā॒nnavigṃ̭śa॒tiśca̭ ) (a. 1)
saggśra̭vā ha sauvarcana॒saḥ tumi̭ñja॒maupo̭diti-muvāca॒ yathsa॒triṇā॒gṃ॒ hotā-'bhūḥ॒ kāmiḍā॒mupā᳚hvathā॒ iti॒ tāmupā᳚hva॒ iti̭ hovāca॒ yā prā॒ṇena̭ de॒vā-ndā॒dhāra̭ vyā॒nena̭ manu॒ṣyā̭napā॒nena̭ pi॒tṛniti̭ chi॒natti॒ sā na chi̭na॒ttī(3) iti̭ chi॒nattīti̭ hovāca॒ śarī̭raṃ॒-vā~ a̭syai॒ tadupā᳚hvathā॒ iti̭ hovāca॒ gaurvā [gaurvai, a॒syai॒ śarī̭raṃ॒] 7
a̭syai॒ śarī̭ra॒-ṅgāṃ-vā~va tau ta-tparya̭vadatāṃ॒-yā~ ya॒jñe dī॒yate॒ sā prā॒ṇena̭ de॒vā-ndā̭dhāra॒ yayā̭ manu॒ṣyā̭ jīva̭nti॒ sā vyā॒nena̭ manu॒ṣyāṋ yā-mpi॒tṛbhyo॒ ghnanti॒ sā-'pā॒nena̭ pi॒tṝn. ya e॒vaṃ ~veda̭ paśu॒mā-nbha̭va॒tyatha॒ vai tāmupā᳚hva॒ iti̭ hovāca॒ yā pra॒jāḥ pra॒bhava̭ntīḥ॒ pratyā॒bhava॒tītyannaṃ॒ ~vā a̭syai॒ ta- [a̭syai॒ tat, upā᳚hvathā॒ iti̭] 8
-dupā᳚hvathā॒ iti̭ hovā॒cauṣa̭dhayo॒ vā a̭syā॒ anna॒moṣa̭dhayo॒ vai pra॒jāḥ pra॒bhava̭ntīḥ॒ pratyā bha̭vanti॒ ya e॒vaṃ-ve~dā᳚nnā॒do bha̭va॒tyatha॒ vai tāmupā᳚hva॒ iti̭ hovāca॒ yā pra॒jāḥ pa̭rā॒bhava̭ntī-ranugṛ॒hṇāti॒ pratyā॒bhava̭ntī-rgṛ॒hṇātīti̭ prati॒ṣṭhāṃ-vā~ a̭syai॒ tadupā᳚hvathā॒ iti̭ hovāce॒yaṃ-vā~ a̭syai prati॒ṣṭhe [prati॒ṣṭhā, i॒yaṃ-vai~] 9
yaṃ-vai~ pra॒jāḥ pa̭rā॒bhava̭ntī॒ranṷ gṛhṇāti॒ pratyā॒bhava̭ntī-rgṛhṇāti॒ ya e॒vaṃ-ve~da॒ pratye॒va ti̭ṣṭha॒tyatha॒ vai tāmupā᳚hva॒ iti̭ hovāca॒ yasyai̭ ni॒krama̭ṇe ghṛ॒ta-mpra॒jā-ssa॒ñjīva̭ntīḥ॒ piba॒ntīti̭ chi॒natti॒ sā na chi̭na॒ttī (3) iti॒ na chi̭na॒ttīti̭ hovāca॒ pra tu ja̭naya॒tītye॒ṣa vā iḍā॒mupā᳚hvathā॒ iti̭ hovāca॒ vṛṣṭi॒r॒vā iḍā॒ vṛṣṭyai॒ vai ni॒krama̭ṇe ghṛ॒ta-mpra॒jā-ssa॒ñjīva̭ntīḥ pibanti॒ ya e॒vaṃ-ve~da॒ praiva jā̭yate-'nnā॒do bha̭vati || 10 ||
(gaurvā-a̭syai॒ tat-pra̭ti॒ṣṭhā-'hva̭thā॒ iti̭-vigṃśa॒tiśca̭) (a. 2)
pa॒rokṣaṃ॒-vā~ a॒nye de॒vā i॒jyante᳚ pra॒tyakṣa̭ma॒nye ya-dyaja̭te॒ ya e॒va de॒vāḥ pa॒rokṣa̭mi॒jyante॒ tāne॒va ta-dya̭jati॒ yada̭nvāhā॒rya̭-mā॒hara̭tye॒te vai de॒vāḥ pra॒tyakṣaṃ॒-ya~-dbrā᳚hma॒ṇāstāne॒va tena̭ prīṇā॒tyatho॒ dakṣi̭ṇai॒vāsyai॒ṣā-'tho̭ ya॒jñasyai॒va chi॒dramapi̭ dadhāti॒ yadvai ya॒jñasya̭ krū॒raṃ-ya~dvili̭ṣṭa॒-ntada̭nvāhā॒ryḙṇā॒- [tada̭nvāhā॒ryḙṇa, a॒nvāha̭rati॒] 11
-'nvāha̭rati॒ tada̭nvāhā॒rya̭syā-nvāhārya॒tva-ndḙvadū॒tā vā e॒te yad-ṛ॒tvijo॒ yada̭nvāhā॒rya̭-mā॒hara̭ti devadū॒tāne॒va prī̭ṇāti pra॒jāpa̭ti-rde॒vebhyo̭ ya॒jñān vyādi̭śa॒-thsa ri̭ricā॒no̭-'manyata॒ sa e॒tama̭nvāhā॒rya̭-mabha̭kta-mapaśya॒-ttamā॒tmanna̭dhatta॒sa vā e॒ṣa prā̭jāpa॒tyo yada̭nvāhā॒ryo̭ yasyai॒vaṃ-vi~॒duṣo᳚-'nvāhā॒rya̭ āhri॒yatḙ sā॒kṣāde॒va pra॒jāpa̭ti-mṛddhno॒tyapa̭rimitoni॒rupyo-'pa̭rimitaḥ pra॒jāpa̭tiḥ pra॒jāpa̭te॒- [pra॒jāpa̭teḥ, āptyai̭] 12
-rāptyai̭ de॒vā vai ya-dya॒jñe-'kṷrvata॒ tadasṷrā akurvata॒ te de॒vā e॒ta-mprā̭jāpa॒tya-ma̭nvāhā॒rya̭-mapaśya॒-ntama॒nvāha̭ranta॒ tato̭ de॒vā abha̭va॒-nparāsṷrā॒ yasyai॒vaṃ-vi~॒duṣo᳚-'nvāhā॒rya̭ āhri॒yate॒ bhava̭tyā॒tmanā॒ parā᳚sya॒ bhrātṛ̭vyo bhavati ya॒jñena॒ vā i॒ṣṭī pa॒kvena̭ pū॒rtī yasyai॒vaṃ-vi~॒duṣo᳚-'nvāhā॒rya̭ āhri॒yate॒ sa tvḙveṣṭā̭pū॒rtī pra॒jāpa̭terbhā॒go̭-'sī- [pra॒jāpa̭terbhā॒go̭-'sī, ityā̭ha] 13
-tyā̭ha pra॒jāpa̭time॒va bhā̭ga॒dheyḙna॒ sama̭rdhaya॒tyūrja̭svā॒-npaya̭svā॒nityā॒horja̭-me॒vāsmi॒-npayo̭ dadhāti prāṇāpā॒nau mḙ pāhi samānavyā॒nau mḙ pā॒hītyā̭hā॒-''śiṣa̭me॒vaitāmā śā॒ste 'kṣi̭to॒ 'syakṣi̭tyai tvā॒ mā me᳚ kṣeṣṭhā a॒mutrā॒muṣmi̭n ~lo॒ka ityā̭ha॒ kṣīya̭te॒ vā a॒muṣmi̭n ~lo॒ke-'nna̭-mi॒taḥpra̭dāna॒gg॒ hya̭muṣmin ~lo॒ke pra॒jā ṷpa॒jīva̭nti॒ yade॒va-ma̭bhimṛ॒śatyakṣi̭ti-me॒vaina̭-dgamayati॒ nāsyā॒muṣmi̭n ~lo॒ke-'nna̭-ṅkṣīyate || 14 ||
(a॒nvā॒hā॒ryḙṇa-pra॒jāpa̭te-rasi॒-hya̭muṣmi̭n ~lo॒ke-pañca̭daśa ca ) (a. 3)
ba॒r॒hiṣo॒-'ha-ndḙvaya॒jyayā᳚ pra॒jāvā᳚-nbhūyāsa॒mityā̭ha ba॒r॒hiṣā॒ vai pra॒jāpa̭tiḥ pra॒jā a̭sṛjata॒ tenai॒va pra॒jā-ssṛ̭jate॒ narā॒śagṃsa̭syā॒ha-ndḙvaya॒jyayā̭ paśu॒mā-nbhṷ̄yāsa॒mityā̭ha॒ narā॒śagṃsḙna॒ vai pra॒jāpa̭tiḥ pa॒śūna̭sṛjata॒ tenai॒va pa॒śūn-thsṛ̭jate॒-'gne-ssvi̭ṣṭa॒kṛto॒-'ha-ndḙvaya॒jyayā-''yṷṣmān. ya॒jñena̭ prati॒ṣṭhā-ṅga̭meya॒mityā॒hā-''yṷre॒vātma-ndha̭tte॒ prati̭ ya॒jñena̭ tiṣṭhati darśapūrṇamā॒sayo॒- [darśapūrṇamā॒sayoḥ᳚, vai de॒vā] 15
-rvai de॒vā ujji̭ti॒-manūda̭jaya-ndarśapūrṇamā॒sābhyā॒- masṷrā॒napā̭-nudantā॒gne-ra॒hamujji̭ti॒-manūjjḙṣa॒-mityā̭ha darśapūrṇamā॒sayo̭re॒va de॒vatā̭nāṃ॒-ya~ja̭māna॒ ujji̭ti॒manūjja̭yati darśapūrṇamā॒sābhyā॒-mbhrātṛ̭vyā॒napa̭ nudate॒ vāja̭vatībhyāṃ॒-vyū~̭ha॒tyannaṃ॒-vai~ vājo-'nna̭me॒vāva̭ rundhe॒ dvābhyā॒-mprati̭ṣṭhityai॒ yo vai ya॒jñasya॒ dvau dohaṷ vi॒dvān yaja̭ta ubha॒yata̭ [ubha॒yataḥ̭, e॒va ya॒jñaṃ] 16
e॒va ya॒jña-ndṷhe pu॒rastā᳚cco॒pari̭ṣṭāccai॒ṣa vā a॒nyo ya॒jñasya॒ doha॒ iḍā̭yāma॒nyo yarhi॒ hotā॒ yaja̭mānasya॒ nāma̭ gṛhṇī॒yā-ttarhi̭ brūyā॒demā a̭gmannā॒śiṣo॒ doha̭kāmā॒ iti॒ saggstṷtā e॒va de॒vatā̭ du॒he-'tho̭ ubha॒yata̭ e॒va ya॒jña-ndṷhe pu॒rastā᳚cco॒pari̭ṣṭācca॒ rohi̭tena tvā॒-'gnirde॒vatā᳚-ṅgamaya॒tvityā̭hai॒te vai dḙvā॒śvā [vai dḙvā॒śvāḥ, yaja̭mānaḥ prasta॒ro] 17
yaja̭mānaḥ prasta॒ro yade॒taiḥ pra̭sta॒ra-mpra॒hara̭ti devā॒śvaire॒va yaja̭mānagṃ suva॒rgaṃ-lo~॒ka-ṅga̭mayati॒ vi tḙ muñcāmi raśa॒nā vi ra॒śmīnityā̭hai॒ṣa vā a॒gnervi̭mo॒kaste-nai॒vainaṃ॒-vi~mṷñcati ॒viṣṇo᳚-śśaṃ॒yo~ra॒ha-ndḙvaya॒jyayā̭ ya॒jñena̭ prati॒ṣṭhā-ṅga̭meya॒mityā̭ha ya॒jño vai viṣṇṷ-rya॒jña e॒vānta॒taḥ prati̭ tiṣṭhati॒ soma̭syā॒ha-ndḙvaya॒jyayā̭ su॒retā॒ [su॒retāḥ᳚, reto̭] 18
reto̭ dhiṣī॒yetyā̭ha॒ somo॒ vai rḙto॒dhāstenai॒va reta̭ ā॒tma-ndha̭tte॒ tvaṣṭṷra॒ha-ndḙvaya॒jyayā̭ paśū॒nāgṃ rū॒pa-mpṷṣeya॒mityā̭ha॒ tvaṣṭā॒ vai pa̭śū॒nā-mmi̭thu॒nānāgṃ̭ rūpa॒kṛttenai॒va pa̭śū॒nāgṃ rū॒pamā॒tma-ndha̭tte de॒vānā॒-mpatnī̭ra॒gni-rgṛ॒hapa̭ti-rya॒jñasya̭ mithu॒na-ntayo̭ra॒ha-ndḙvaya॒jyayā̭ mithu॒nena॒ prabhṷ̄yāsa॒-mityā̭hai॒tasmā॒-dvai mi̭thu॒nā-tpra॒jāpa̭ti-rmithu॒nena॒ [rmithu॒nena̭, prā-'jā̭yata॒] 19
prā-'jā̭yata॒ tasmā̭de॒va yaja̭māno mithu॒nena॒ prajā̭yate ve॒do̭-'si॒ vitti̭rasi vi॒deyetyā̭ha ve॒dena॒ vai de॒vā asṷrāṇāṃ-vi~॒ttaṃ-ve~dya̭mavindanta॒ ta-dve॒dasya̭ veda॒tvaṃ-ya~dya॒-dbhrātṛ̭vyasyābhi॒ddhyāye॒-ttasya॒ nāma̭ gṛhṇīyā॒-ttade॒vāsya॒ sarvaṃ̭-vṛ~ṅkte ghṛ॒tava̭nta-ṅkulā॒yinagṃ̭ rā॒yaspoṣagṃ̭ saha॒sriṇaṃ̭-ve~॒do da̭dātu vā॒jina॒mityā̭ha॒ prasa॒hasra̭-mpa॒śūnā᳚pno॒tyā sya̭ pra॒jāyāṃ᳚-vā~॒jī jā̭yate॒ ya e॒vaṃ-ve~da̭ || 20 ||
(da॒r॒śa॒pū॒rṇa॒māsayo̭-rubha॒yato̭-devā॒śvāḥ-su॒retāḥ᳚-pra॒jāpa̭ti-rmithu॒nenā᳚-pnotya॒-ṣṭau ca̭) (a. 4)
dhru॒vāṃ-vai~ ricya̭mānāṃ-ya~॒jño-'nṷ ricyate ya॒jñaṃ-ya~ja̭māno॒ yaja̭māna-mpra॒jā dhru॒vāmā॒pyāya̭mānāṃ-ya~॒jño-'nvā pyā̭yate ya॒jñaṃ-ya~ja̭māno॒ yaja̭māna-mpra॒jā ā pyā̭yatā-ndhru॒vā ghṛ॒tenetyā̭ha dhru॒vāme॒vā '' pyā̭yayati॒ tāmā॒pyāya̭mānāṃ-ya~॒jño-'nvā pyā̭yate ya॒jñaṃ-ya~ja̭māno॒ yaja̭māna-mpra॒jāḥ pra॒jāpa̭te-rvi॒bhānnāma̭ lo॒kastasmigg̭stvā dadhāmi sa॒ha yaja̭māne॒ne- [yaja̭māne॒neti, ā॒hā॒-'yaṃ-vai~] 21
-tyā̭hā॒-'yaṃ-vai~ pra॒jāpa̭te-rvi॒bhānnāma̭ lo॒kastasmi̭-nne॒vaina̭-ndadhāti sa॒ha yaja̭mānena॒ ricya̭ta iva॒ vā e॒ta-dya-dyaja̭te॒ ya-dya̭jamānabhā॒ga-mprā॒śñātyā॒tmāna̭me॒va prī̭ṇātye॒tāvā॒n॒. vai ya॒jño yāvāṋ. yajamānabhā॒go ya॒jño yaja̭māno॒ ya-dya̭jamānabhā॒ga-mprā॒śñāti̭ ya॒jña e॒va ya॒jña-mprati̭ ṣṭhāpayatye॒tadvai sū॒yava̭sa॒gṃ॒ soda̭kaṃ॒-ya~dba॒r॒hiścā-''pa̭ścai॒ta- [-''pa̭ścai॒tat, yaja̭mānasyā॒-] 22
-dyaja̭mānasyā॒-''yata̭naṃ॒-ya~dvedi॒rya-tpū᳚rṇapā॒tra-ma̭ntarve॒di ni॒naya̭ti॒ sva e॒vā-''ya̭tane sū॒yava̭sa॒gṃ॒ soda̭ka-ṅkurute॒ sada̭si॒ sanmḙ bhūyā॒ ityā॒hā-''po॒ vai ya॒jña āpo॒-'mṛtaṃ̭-ya~॒jñame॒vāmṛta̭-mā॒tma-ndha̭tte॒ sarvā̭ṇi॒ vai bhū॒tāni̭ vra॒ta-mṷpa॒yanta॒ -manūpa̭ yanti॒ prācyā᳚-ndi॒śi de॒vā ṛ॒tvijo̭ mārjayantā॒-mityā̭hai॒ṣa vai da̭rśapūrṇamā॒sayo̭-ravabhṛ॒tho [-ravabhṛ॒thaḥ, yānye॒vaina̭-mbhū॒tāni̭] 23
yānye॒vaina̭-mbhū॒tāni̭ vra॒tamṷpa॒yanta̭-manūpa॒yanti॒ taire॒va sa॒hāva̭bhṛ॒thamavai̭ti॒ viṣṇṷmukhā॒ vai de॒vā śchando̭bhiri॒mān ~lo॒kā-na̭napaja॒yyama॒bhya̭jaya॒n॒. ya-dvi̭ṣṇukra॒mān krama̭te॒ viṣṇṷre॒va bhū॒tvā yaja̭māna॒śchando̭bhiri॒mān ~lo॒kā-na̭napaja॒yyama॒bhi ja̭yati॒ viṣṇoḥ॒ kramo᳚-'syabhimāti॒hetyā̭ha gāya॒trī vai pṛ̭thi॒vī traiṣṭṷbhama॒ntari̭kṣa॒-ñjāga̭tī॒ dyaurānṷṣṭubhī॒-rdiśa॒ śchando̭bhire॒vemān ~lo॒kān. ya̭thāpū॒rvama॒bhi ja̭yati || 24 ||
(yaja̭māne॒neti̭-cai॒ tada̭-vabhṛ॒tho-diśaḥ̭-sa॒pta ca̭) (a. 5)
aga̭nma॒ suva॒-ssuva̭raga॒nmetyā̭ha suva॒rgame॒va lo॒kamḙti sa॒ndṛśa̭ste॒ mā chi̭thsi॒ yatte॒ tapa॒stasmai̭ te॒ mā '' vṛ॒kṣītyā̭ha yathāya॒ju-re॒vaita-thsu॒bhūra̭si॒ śreṣṭho̭ raśmī॒nāmā̭yu॒rdhā a॒syāyṷrme dhe॒hītyā̭hā॒-''śiṣa̭me॒vaitāmā śā᳚ste॒ pra vā e॒ṣo᳚-'smān ~lo॒kāccya̭vate॒ yo [yaḥ, vi॒ṣṇu॒kra॒mān krama̭te] 25
vi̭ṣṇukra॒mān krama̭te suva॒rgāya॒ hi lo॒kāya̭ viṣṇukra॒māḥ kra॒myante᳚ brahmavā॒dino̭ vadanti॒ sa tvai vi̭ṣṇukra॒mān kra̭meta॒ ya i॒mān ~lo॒kā-nbhrātṛ̭vyasya saṃ॒vi~dya॒ puna̭ri॒maṃ-lo~॒ka-mpra̭tyava॒rohe॒ditye॒ṣa vā a॒sya lo॒kasya̭ pratyavaro॒ho yadāhe॒dama॒hama॒mu-mbhrātṛ̭vyamā॒bhyo di॒gbhyo᳚-'syai di॒va itī॒māne॒va lo॒kā-nbhrātṛ̭vyasya saṃ॒vi~dya॒ puna̭ri॒maṃ-lo~॒ka-mpra॒tyava̭rohati॒ saṃ- [sam, jyoti̭ṣā-'bhūva॒mityā̭hā॒sminne॒va] 26
-jyoti̭ṣā-'bhūva॒mityā̭hā॒sminne॒va lo॒ke prati̭ tiṣṭhatyai॒ndrī-mā॒vṛta̭-ma॒nvāva̭rta॒ ityā̭hā॒sau vā ā̭di॒tya indra॒stasyai॒vā-''vṛta॒manṷ pa॒ryāva̭rtate dakṣi॒ṇā pa॒ryāva̭rtate॒ svame॒va vī॒rya̭manṷ pa॒ryāva̭rtate॒ tasmā॒-ddakṣi॒ṇo-'rdha̭ ā॒tmano̭ vī॒ryā̭vatta॒ro-'tho̭ ādi॒tyasyai॒vā-''vṛta॒manṷ pa॒ryāva̭rtate॒ sama॒ha-mpra॒jayā॒ sa-mmayā᳚ pra॒jetyā̭hā॒-''śiṣa̭- [pra॒jetyā̭hā॒-''śiṣa᳚m, e॒vaitāmā] 27
-me॒vaitāmā śā᳚ste॒ sami̭ddho agne me dīdihi same॒ddhā tḙ agne dīdyāsa॒mityā̭ha yathāya॒ju-re॒vaitadvasṷmān. ya॒jño vasī̭yā-nbhūyāsa॒-mityā̭hā॒-''śiṣa̭me॒vetāmā śā᳚ste ba॒hu vai gārha̭patya॒syāntḙ mi॒śrami̭va caryata āgnipāvamā॒nībhyā॒-ṅgārha̭patya॒mupa̭ tiṣṭhate pu॒nātye॒vāgni-mpṷnī॒ta ā॒tmāna॒-ndvābhyā॒-mprati̭ṣṭhityā॒ agnḙ gṛhapata॒ ityā̭ha [ityā̭ha, ya॒thā॒ya॒jure॒vaitaccha॒tagṃ] 28
yathāya॒jure॒vaitaccha॒tagṃ himā॒ ityā̭ha śa॒ta-ntvā̭ hema॒ntāni̭ndhiṣī॒yeti॒ vāvaitadā̭ha pu॒trasya॒ nāma̭ gṛhṇātyannā॒dame॒vaina̭-ṅkaroti॒ tāmā॒śiṣa॒mā śā̭se॒ tanta̭ve॒ jyoti̭ṣmatī॒miti̭ brūyā॒-dyasya̭ pu॒tro-'jā̭ta॒-ssyā-ttḙja॒svyḙvāsya̭ brahmavarca॒sī pu॒tro jā̭yate॒ tāmā॒śiṣa॒mā śā̭se॒-'muṣmai॒ jyoti̭ṣmatī॒miti̭ brūyā॒-dyasya̭ pu॒tro [pu॒traḥ, jā॒ta-ssyātteja̭] 29
jā॒ta-ssyātteja̭ e॒vāsmi̭-nbrahmavarca॒sa-nda̭dhāti॒ yo vai ya॒jña-mpra॒yujya॒ na vi̭mu॒ñcatya̭pratiṣṭhā॒no vai sa bha̭vati॒ kastvā̭ yunakti॒ sa tvā॒ vi mṷñca॒tvityā̭ha pra॒jāpa̭ti॒-rvai kaḥ pra॒jāpa̭tinai॒vainaṃ̭-yu~॒nakti̭ pra॒jāpa̭tinā॒ vi mṷñcati॒ prati̭ṣṭhityā īśva॒raṃ-vai~ vra॒tamavi̭sṛṣṭa-mpra॒daho-'gne᳚ vratapate vra॒tama̭cāriṣa॒mityā̭ha vra॒tame॒va [ ] 30
vi sṛ̭jate॒ śāntyā॒ apra̭dāhāya॒ parāṃ॒a॒. vāva ya॒jña ḙti॒ na ni va̭rtate॒ puna॒ryo vai ya॒jñasya̭ punarāla॒mbhaṃ-vi~॒dvān. yaja̭te॒ tama॒bhi ni va̭rtate ya॒jño ba̭bhūva॒ sa ā ba̭bhū॒vetyā̭hai॒ṣa vai ya॒jñasya̭ punarāla॒mbha-stenai॒vaina॒-mpuna॒rā la̭bha॒te-'na̭varuddhā॒ vā e॒tasya̭ vi॒rāḍ ya āhi̭tāgni॒-ssanna̭sa॒bhaḥ pa॒śavaḥ॒ khalu॒ vai brā᳚hma॒ṇasya̭ sa॒bheṣṭvā prāṃu॒tkramya̭ brūyā॒-dgomāgṃ̭ a॒gne-'vi̭māgṃ a॒śvī ya॒jña ityava̭ sa॒bhāgṃ ru॒ndhe pra sa॒hasra̭-mpa॒śūnā᳚pno॒tyā-'sya̭ pra॒jāyāṃ᳚-vā~॒jī jā̭yate || 31 ||
(yaḥ-sa-mā॒siṣaṃ̭-gṛhapata॒-ityā̭hā॒-muṣmai॒ jyoti̭ṣmatī॒miti̭ brūyā॒-dyasya̭pu॒tro-vra॒tame॒va-khalu॒ vai- catṷrvigṃśatiśca) (a. 6)
deva̭ savitaḥ॒ pra sṷva ya॒jña-mpra sṷva ya॒jñapa̭ti॒-mbhagā̭ya di॒vyo ga̭ndha॒rvaḥ | ke॒ta॒pūḥ keta̭-nnaḥ punātu vā॒caspati॒-rvāca̭ma॒dya sva̭dāti naḥ || indra̭sya॒ vajro̭-'si॒ vārtra̭ghna॒stvayā॒-'yaṃ-vṛ~॒traṃ-va~̭ddhyāt || vāja̭sya॒ nu pra̭sa॒ve mā॒tara̭-mma॒hīmadi̭ti॒-nnāma॒ vaca̭sā karāmahe | yasyā̭mi॒daṃ-vi~śva॒-mbhuva̭na-māvi॒veśa॒ tasyā᳚-nno de॒va-ssa̭vi॒tā dharma̭ sāviṣat || a॒- [a॒phsu, a॒ntara॒mṛta̭ma॒phsu] 32
phsva̭ntara॒mṛta̭ma॒phsu bhḙṣa॒jama॒pāmu॒ta praśa̭sti॒ṣvaśvā̭ bhavatha vājinaḥ || vā॒yu-rvā᳚ tvā॒ manṷ-rvā tvā gandha॒rvā-ssa॒ptavigṃ̭śatiḥ | te agre॒ aśva̭māyuñja॒nte a̭smiñja॒vamā-'da̭dhuḥ || apā᳚-nnapādāśuhema॒n॒. ya ū॒rmiḥ ka॒kudmā॒-npratū᳚rti-rvāja॒sāta̭ma॒stenā॒yaṃ-vā~jagṃ̭ set || viṣṇoḥ॒ kramo̭-'si॒ viṣṇoḥ᳚ krā॒ntama̭si॒ viṣṇo॒-rvikrā᳚ntamasya॒ṅkau nya॒ṅkā va॒bhito॒ rathaṃ॒-yau~ dhvā॒ntaṃ-vā~̭tā॒gramanṷ sa॒ñcara̭ntau dū॒rehḙti-rindri॒yāvā᳚-npata॒trī te no॒-'gnayaḥ॒ papra̭yaḥ pārayantu || 33 ||
(a॒phsu-nya॒ṅkau-pañca̭daśa ca) (a. 7)
de॒vasyā॒hagṃ sa̭vi॒tuḥ pra̭sa॒ve bṛha॒spati̭nā vāja॒jitā॒ vāja̭-ñjeṣa-nde॒vasyā॒hagṃ sa̭vi॒tuḥ pra̭sa॒ve bṛha॒spati̭nā vāja॒jitā॒ varṣi̭ṣṭha॒-nnākagṃ̭ ruheya॒mindrā̭ya॒ vācaṃ̭-va~da॒tendraṃ॒-vā~ja̭-ñjāpaya॒tendro॒ vāja̭majayit || aśvā̭jani vājini॒ vājḙṣu vājinīva॒tyaśvā᳚n-thsa॒mathsṷ vājaya || arvā̭-'si॒ sapti̭rasi vā॒jya̭si॒ vāji̭no॒ vāja̭-ndhāvata ma॒rutā᳚-mprasa॒ve ja̭yata॒ vi yoja̭nā mimīddhva॒maddhva̭na-sskabhnīta॒ [skabhnīta, kāṣṭhā᳚-ṅgacchata॒] 34
kāṣṭhā᳚-ṅgacchata॒ vājḙvāje-'vata vājino no॒ dhanḙṣu viprā amṛtā ṛtajñāḥ || a॒sya maddhvaḥ̭ pibata mā॒daya̭ddhva-ntṛ॒ptā yā̭ta pa॒thibhi̭-rdeva॒yānaiḥ᳚ || te no॒ arva̭nto havana॒śruto॒ havaṃ॒-vi~śvḙ śṛṇvantu vā॒jinaḥ̭ || mi॒tadra̭va-ssahasra॒sā me॒dhasā̭tā sani॒ṣyavaḥ̭ | ma॒ho ye ratnagṃ̭ sami॒theṣṷ jabhri॒re śanno̭ bhavantu vā॒jino॒ havḙṣu ||de॒vatā̭tā mi॒tadra̭va-ssva॒rkāḥ | ja॒mbhaya॒nto-'hiṃ॒-vṛ~ka॒gṃ॒ rakṣāgṃ̭si॒ sane᳚mya॒smadyṷyava॒- [sane᳚mya॒smadyṷyavann, amī̭vāḥ |] 35
-nnamī̭vāḥ || e॒ṣa sya vā॒jī kṣi̭pa॒ṇi-ntṷraṇyati grī॒vāyā᳚-mba॒ddho a̭pika॒kṣa ā॒sani̭ | kratṷ-ndadhi॒krā anṷ sa॒ntavī᳚tva-tpa॒thāmaṅkā॒g॒syanvā॒panī̭phaṇat ||u॒ta smā᳚sya॒ drava̭ta-sturaṇya॒taḥ pa॒rṇa-nna ve-ranṷ vāti praga॒rdhinaḥ̭ | śye॒nasyḙva॒ dhraja̭to aṅka॒sa-mpari̭ dadhi॒krāv.ṇṇaḥ̭ sa॒horjā tari̭trataḥ || ā mā॒ vāja̭sya prasa॒vo ja̭gamyā॒dā dyāvā̭pṛthi॒vī vi॒śvaśa̭mbhū | ā mā̭ gantā-mpi॒tarā̭ [gantā-mpi॒tarā᳚, mā॒tarā॒] 36
mā॒tarā॒ cā-'' mā॒ somo̭ amṛta॒tvāya̭ gamyāt || vāji̭no vājajito॒ vājagṃ̭ sari॒ṣyanto॒ vāja̭-ñje॒ṣyanto॒ bṛha॒spate᳚-rbhā॒gamava̭ jighrata॒ vāji̭no vājajito॒ vājagṃ̭ sasṛ॒vāgṃso॒ vāja̭-ñjigi॒vāgṃso॒ bṛha॒spate᳚-rbhā॒ge ni mṛ̭ḍhvami॒yaṃ-va~॒-ssā sa॒tyā sa॒ndhā-'bhū॒dyāmindrḙṇa sa॒madha̭ddhva॒-majī̭jipata vanaspataya॒ indraṃ॒-vā~jaṃ॒-vi~ mṷcyaddhvam || 37 ||
(ska॒bhnī॒ta॒-yu॒ya॒va॒n-pi॒tarā॒-dvica̭tvārigṃśacca) (a. 8)
kṣa॒trasyolagg̭masi kṣa॒trasya॒ yoni̭rasi॒ jāya॒ ehi॒ suvo॒ rohā̭va॒ rohā̭va॒ hi suva̭ra॒ha-nnā̭vu॒bhayo॒-ssuvo̭ rokṣyāmi॒ vāja̭śca prasa॒vaścā̭pi॒jaśca॒ kratṷśca॒ suva̭śca mū॒rdhā ca॒ vyaśnni̭yaścā-''ntyāya॒na ścāntya̭śca bhauva॒naśca॒ bhuva̭na॒ścādhi̭patiśca | āyṷ-rya॒jñena̭ kalpatā-mprā॒ṇo ya॒jñena̭ kalpatāmapā॒no [kalpatāmapā॒naḥ, ya॒jñena̭ kalpatāṃ] 38
ya॒jñena̭ kalpatāṃ-vyā~॒no ya॒jñena̭ kalpatā॒-ñcakṣṷ-rya॒jñena̭ kalpatā॒g॒ śrotraṃ̭-ya~॒jñena̭ kalpatā॒-mmano̭ ya॒jñena̭ kalpatāṃ॒-vā~g ya॒jñena̭ kalpatā-mā॒tmā ya॒jñena̭ kalpatāṃ-ya~॒jño ya॒jñena̭ kalpatā॒gṃ॒ suva̭-rde॒vāgṃ a̭ganmā॒mṛtā̭ abhūma pra॒jāpa̭teḥ pra॒jā a̭bhūma॒ sama॒ha-mpra॒jayā॒ sa-mmayā᳚ pra॒jā sama॒hagṃ rā॒yaspoṣḙṇa॒ sa-mmayā̭ rā॒yaspoṣo-'nnā̭ya tvā॒-'nnādyā̭ya tvā॒ vājā̭ya tvā vājaji॒tyāyai᳚ tvā॒ 'mṛta̭masi॒ puṣṭi̭rasi pra॒jana̭namasi || 39 ||
(a॒pā॒no-vājā̭ya॒-nava̭ ca) (a. 9)
vāja̭sye॒ma-mpra̭sa॒va-ssṷṣuve॒ agre॒ soma॒gṃ॒ rājā̭na॒moṣa̭dhīṣva॒phsu | tā a॒smabhya॒-mmadhṷmatī-rbhavantu va॒yagṃ rā॒ṣṭre jā᳚griyāma pu॒rohi̭tāḥ | vāja̭sye॒da-mpra̭sa॒va ā ba̭bhūve॒mā ca॒ viśvā॒ bhuva̭nāni sa॒rvataḥ̭ | sa vi॒rāja॒-mparyḙti prajā॒na-npra॒jā-mpuṣṭiṃ̭-va~॒rdhaya̭māno a॒sme | vāja̭sye॒mā-mpra̭sa॒va-śśi̭śriye॒ diva̭mi॒mā ca॒ viśvā॒ bhuva̭nāni sa॒mrāṭ | adi̭thsanta-ndāpayatu prajā॒na-nra॒yiṃ- [prajā॒na-nra॒yim, ca॒ na॒-ssarva̭vīrāṃ॒] 40
-ca̭ na॒-ssarva̭vīrā॒-nni ya̭cchatu || agne॒ acchā̭ vade॒ha naḥ॒ prati̭ na-ssu॒manā̭ bhava | pra ṇo̭ yaccha bhuvaspate dhana॒dā a̭si na॒stvam || pra ṇo̭ yacchatvarya॒mā pra bhagaḥ॒ pra bṛha॒spatiḥ̭ | pra de॒vāḥ prota sū॒nṛtā॒ pra vāg de॒vī da̭dātu naḥ || a॒rya॒maṇa॒-mbṛha॒spati॒mindra॒-ndānā̭ya codaya | vācaṃ॒-vi~ṣṇu॒gṃ॒ sara̭svatīgṃ savi॒tāraṃ̭- [sara̭svatīgṃ savi॒tāra᳚m, ca vā॒jina᳚m |] 41
-ca vā॒jina᳚m || soma॒gṃ॒ rājā̭naṃ॒-va~rṷṇama॒gni-ma॒nvāra̭bhāmahe | ā॒di॒tyān viṣṇu॒gṃ॒ sūrya̭-mbra॒hmāṇa̭-ñca॒ bṛha॒spati᳚m || de॒vasya̭ tvā savi॒tuḥ pra̭sa॒ve᳚-'śvino᳚-rbā॒hubhyā᳚-mpū॒ṣṇo hastā᳚bhyā॒gṃ॒ sara̭svatyai vā॒co ya॒ntu-rya॒ntreṇā॒gnestvā॒ āmrā᳚jyenā॒bhiṣi̭ñcā॒mīndra̭sya॒ bṛha॒spate᳚stvā॒ sāmrā᳚jyenā॒bhiṣi̭ñcāmi || 42 ||
(ra॒yigṃ-sa̭vi॒tāra॒gṃ॒-ṣaṭtrigṃ̭śacca) (a. 10)
a॒gnirekā᳚kṣareṇa॒ vāca॒muda̭jayada॒śvinau॒ dvya̭kṣareṇa prāṇāpā॒nāvuda̭jayatāṃ॒-vi~ṣṇu॒styra̭kṣareṇa॒ trīn ~lo॒kānuda̭jaya॒-thsoma॒ścatṷrakṣareṇa॒ catṷṣpadaḥ pa॒śūnuda̭jaya-tpū॒ṣā pañcā᳚kṣareṇa pa॒ṅktimuda̭jaya-ddhā॒tā ṣaḍa̭kṣareṇa॒ ṣaḍ-ṛ॒tūnuda̭jaya-nma॒rutaḥ̭ sa॒ptākṣa̭reṇa sa॒ptapa̭dā॒gṃ॒ śakva̭rī॒muda̭jaya॒-nbṛha॒spati̭-ra॒ṣṭākṣa̭reṇa gāya॒trīmuda̭jaya-nmi॒tro navā᳚kṣareṇa tri॒vṛta॒gg॒ stoma॒muda̭jaya॒- [stoma॒muda̭jayat, varṷṇo॒ daśā᳚kṣareṇa] 43
-dvarṷṇo॒ daśā᳚kṣareṇa vi॒rāja॒-muda̭jaya॒dindra॒ ekā̭daśākṣareṇa tri॒ṣṭubha॒-muda̭jaya॒-dviśvḙ de॒vā dvāda̭śākṣareṇa॒ jaga̭tī॒muda̭jaya॒n vasa̭va॒strayo̭ daśākṣareṇa trayoda॒śagg stoma॒muda̭jaya-nru॒drāścatṷrdaśākṣareṇa caturda॒śagg stoma॒muda̭jayannādi॒tyāḥ pañca̭daśākṣareṇa pañcada॒śagg stoma॒muda̭jaya॒nnadi̭ti॒-ṣṣoḍa̭śākṣareṇa ṣoḍa॒śagg stoma॒muda̭jaya-tpra॒jāpa̭ti-ssa॒ptada̭śākṣareṇa saptada॒śagg stoma॒muda̭jayat || 44 ||
(tri॒vṛta॒gg॒ stoma॒muda̭jaya॒-thṣaṭca̭tvārigṃśacca) (a. 11)
u॒pa॒yā॒magṛ̭hīto-'si nṛ॒ṣada̭-ntvā dru॒ṣada̭-mbhuvana॒sada॒mindrā̭ya॒ juṣṭa̭-ṅgṛhṇāmye॒ṣa te॒ yoni॒rindrā̭ya tvopayā॒magṛ̭hīto-'syaphsu॒ṣada̭-ntvā ghṛta॒sadaṃ̭-vyo~ma॒sada॒mindrā̭ya॒ juṣṭa̭-ṅgṛhṇāmye॒ṣa te॒ yoni॒rindrā̭ya tvopayā॒magṛ̭hīto-'si pṛthivi॒ṣada̭-ntvā-'ntarikṣa॒sada̭-nnāka॒sada॒mindrā̭ya॒ juṣṭa̭-ṅgṛhṇāmye॒ṣa te॒ yoni॒rindrā̭ya tvā || ye grahāḥ᳚ pañcaja॒nīnā॒ yeṣā᳚-nti॒sraḥ pa̭rama॒jāḥ | daivyaḥ॒ kośa॒- [daivyaḥ॒ kośaḥ̭, samṷbjitaḥ |] 45
-ssamṷbjitaḥ | teṣāṃ॒-vi~śi̭priyāṇā॒-miṣa॒mūrja॒gṃ॒ sama̭grabhī-me॒ṣa te॒ yoni॒rindrā̭ya tvā || a॒pāgṃ rasa॒mudva̭yasa॒gṃ॒ sūrya̭raśmigṃ sa॒mābhṛ̭tam | a॒pāgṃ rasa̭sya॒ yo rasa॒staṃ-vo~̭ gṛhṇāmyutta॒mame॒ṣa te॒ yoni॒rindrā̭ya tvā || a॒yā vi॒ṣṭhā ja॒naya॒n karva̭rāṇi॒ sa hi ghṛṇi̭ru॒ru-rvarā̭ya gā॒tuḥ | sa pratyudai᳚-ddha॒ruṇo maddhvo॒ agra॒gg॒ svāyāṃ॒-ya~-tta॒nuvā᳚-nta॒nūmaira̭yata | u॒pa॒yā॒magṛ̭hīto-'si pra॒jāpa̭taye tvā॒ juṣṭa̭-ṅgṛhṇāmye॒ṣa te॒ yoniḥ̭ pra॒jāpa̭taye tvā || 46 ||
(kośa̭-sta॒nuvā॒n-trayo̭daśa ca) (a. 12)
anvaha॒ māsā॒ anvidvanā॒nyanvoṣa̭dhī॒ranu॒ parva̭tāsaḥ | anvindra॒gṃ॒ roda̭sī vāvaśā॒ne anvāpo̭ ajihata॒ jāya̭mānam || anṷ te dāyi ma॒ha i̭ndri॒yāya̭ sa॒trā te॒ viśva॒manṷ vṛtra॒hatye᳚ | anṷ kṣa॒tramanu॒ saho̭ yaja॒trendra̭ de॒vebhi॒ranṷ te nṛ॒ṣahye᳚ || i॒ndrā॒ṇīmā॒su nāri̭ṣu su॒patnī̭-ma॒hama̭śravam | na hya̭syā apa॒ra-ñca॒na ja॒rasā॒ [ja॒rasā᳚, mara̭te॒ patiḥ̭ |] 47
mara̭te॒ patiḥ̭ || nāhami̭ndrāṇi rāraṇa॒ sakhyṷ-rvṛ॒ṣāka̭per-ṛ॒te | yasye॒damapyagṃ̭ ha॒viḥ pri॒ya-nde॒veṣu॒ gaccha̭ti ||yo jā॒ta e॒va pra̭tha॒mo mana̭svā-nde॒vo de॒vān kratṷnā pa॒ryabhṷ̄ṣat | yasya॒ śuṣmā॒droda̭sī॒ abhya̭setā-nnṛṃ॒ṇasya̭ ma॒hnā sa ja̭nāsa॒ indraḥ̭ || ā tḙ ma॒ha i̭ndro॒tyṷgra॒ sama̭nyavo॒ ya-thsa॒mara̭nta॒ senāḥ᳚ | patā̭ti di॒dyunnarya̭sya bāhu॒vo-rmā te॒ [bāhu॒vo-rmā te᳚, mano̭] 48
mano̭ viṣva॒driya॒g vi cā̭rīt || mā no̭ mardhī॒rā bha̭rā da॒ddhi tannaḥ॒ pra dā॒śuṣe॒ dāta̭ve॒ bhūri॒ ya-tte᳚ | navyḙ de॒ṣṇe śa॒ste a॒smi-nta̭ u॒kthe pra bra̭vāma va॒yami̭ndra stu॒vantaḥ̭ || ā tū bha̭ra॒ māki̭re॒ta-tpari̭ ṣṭhā-dvi॒dmā hi tvā॒ vasṷpatiṃ॒-va~sṷ̄nām | indra॒ ya-tte॒ māhi̭na॒-ndatra॒-mastya॒smabhya॒-ntaddha̭ryaśva॒ [taddha̭ryaśva, pra ya̭ndhi |] 49
pra ya̭ndhi || pra॒dā॒tāragṃ̭ havāmaha॒ indra॒mā ha॒viṣā̭ va॒yam | u॒bhā hi hastā॒ vasṷnā pṛ॒ṇasvā '' pra ya̭ccha॒ dakṣi̭ṇā॒dota sa॒vyāt || pra॒dā॒tā va॒jrī vṛ̭ṣa॒bhastṷrā॒ṣāṭchu॒ṣmī rājā̭ vṛtra॒hā so̭ma॒pāvā᳚ | a॒smin. ya॒jñe ba॒r॒hiṣyā ni॒ṣadyāthā̭ bhava॒ yaja̭mānāya॒ śaṃ-yoḥ ~|| indraḥ̭ su॒trāmā॒ svavā॒gṃ॒ avo̭bhi-ssumṛḍī॒ko bha̭vatu vi॒śvavḙdāḥ | bādha̭tā॒-ndveṣo॒ abha̭ya-ṅkṛṇotu su॒vīrya̭sya॒ [su॒vīrya̭sya, pata̭ya-ssyāma |] 50
pata̭ya-ssyāma || tasya̭ va॒yagṃ sṷma॒tau ya॒jñiya॒syāpi̭ bha॒dre saṷmana॒se syā̭ma | sa su॒trāmā॒ svavā॒gṃ॒ indro̭ a॒sme ā॒rācci॒-ddveṣaḥ̭ sanu॒ta-ryṷyotu || re॒vatī᳚-rna-ssadha॒māda॒ indrḙ santu tu॒vivā̭jāḥ | kṣu॒manto॒ yābhi॒-rmadḙma || proṣva̭smai purora॒thamindrā̭ya śū॒ṣama̭rcata | a॒bhīkḙ cidu loka॒kṛ-thsa॒ṅge sa॒mathsṷ vṛtra॒hā | a॒smāka̭-mbodhi codi॒tā nabha̭ntā-manya॒keṣā᳚m | jyā॒kā adhi॒ dhanva̭su || 51 ||
(ja॒rasā॒-mā tḙ-haryaśva-su॒vīrya॒syā-ddhye-ka̭-ñca ) (a. 13)
(pā॒ka॒ya॒jñagṃ-saggśra̭vāḥ-pa॒rokṣaṃ̭-ba॒r॒hiṣo॒-'haṃ -dhru॒vā-maga॒nmetyā̭ha॒ -deva̭ savita-rde॒vasyā॒haṃ-kṣa॒trasyolaggṃ॒vā~ja̭sye॒ma-ma॒gnirekā᳚kṣareṇo -payā॒magṛ̭hīto॒-'-syanvaha॒ māsā॒-strayo̭daśa |)
(pā॒ka॒ya॒jñaṃ-pa॒rokṣaṃ̭-dhru॒vāṃvi~ sṛ̭jate-ca na॒-ssarva̭vīrāṃ॒ - pata̭ya-ssyo॒-maika̭pañcā॒śat | )
(pā॒ka॒ya॒jñam, dhanva̭su)
|| hari̭ om ||
|| kṛṣṇa yajurvedīya taittirīya saṃhitāyā-mprathamakāṇḍe saptamaḥ praśna-ssamāptaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.