कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां सप्तमकाण्डे पञ्चमः प्रश्नः - सत्रविशेषाभिधानं
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
गावो॒ वा ए॒त-थ्स॒त्र-मा॑सताशृ॒ङ्गा-स्स॒ती-श्शृङ्गा॑णि नो जायन्ता॒ इति॒ कामे॑न॒ तासा॒-न्दश॒मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गा᳚ण्यजायन्त॒ ता उद॑तिष्ठ॒न्नरा॒थ्स्मेत्यथ॒ यासा॒-न्नाजा॑यन्त॒ ता-स्सं॑वँथ्स॒र-मा॒प्त्वोद॑तिष्ठ॒ -न्नरा॒थ्स्मेति॒ यासा॒-ञ्चाजा॑यन्त॒ यासा᳚-ञ्च॒ न ता उ॒भयी॒रु-द॑तिष्ठ॒-न्नरा॒थ्स्मेति॑ गोस॒त्रं-वैँ [गोस॒त्रं-वैँ, सं॒वँ॒थ्स॒रो य] 1
सं॑वँथ्स॒रो य ए॒वं-विँ॒द्वाग्ंसः॑ संवँथ्स॒र-मु॑प॒यन्त्यृ॑द्ध्नु॒वन्त्ये॒व तस्मा᳚-त्तूप॒रा वार्षि॑कौ॒ मासौ॒ पर्त्वा॑ चरति स॒त्राभि॑जित॒ग्ग्॒ह्य॑स्यै॒ तस्मा᳚-थ्संवँथ्सर॒सदो॒ य-त्कि-ञ्च॑ गृ॒हे क्रि॒यते॒ तदा॒प्त-मव॑रुद्ध-म॒भिजि॑त-ङ्क्रियते समु॒द्रं-वाँ ए॒ते प्र प्ल॑वन्ते॒ ये सं॑वँथ्स॒रमु॑प॒यन्ति॒ यो वै स॑मु॒द्रस्य॑ पा॒र-न्न पश्य॑ति॒ न वै स तत॒ उदे॑ति संवँथ्स॒रो [उदे॑ति संवँथ्स॒रः, वै स॑मु॒द्र-] 2
वै स॑मु॒द्र-स्तस्यै॒त-त्पा॒रं-यँद॑तिरा॒त्रौ य ए॒वं-विँ॒द्वाग्ंसः॑ संवँथ्स॒र-मु॑प॒यन्त्यना᳚र्ता ए॒वोदृच॑-ङ्गच्छन्ती॒यं-वैँ पूर्वो॑-ऽतिरा॒त्रो॑ ऽसावुत्त॑रो॒ मनः॒ पूर्वो॒ वागुत्त॑रः प्रा॒णः पूर्वो॑-ऽपा॒न उत्त॑रः प्र॒रोध॑न॒-म्पूर्व॑ उ॒दय॑न॒मुत्त॑रो॒ ज्योति॑ष्टोमो वैश्वान॒रो॑ ऽतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚द्दधते सुव॒र्गस्य॑ लो॒कस्या-नु॑ख्यात्यै चतुर्वि॒ग्ं॒शः प्रा॑य॒णीयो॑ भवति॒ चतु॑र्विग्ंशति-रर्धमा॒सा- [चतु॑र्विग्ंशति-रर्धमा॒साः, सं॒वँ॒थ्स॒रः] 3
-स्सं॑वँथ्स॒रः प्र॒यन्त॑ ए॒व सं॑वँथ्स॒रे प्रति॑ तिष्ठन्ति॒ तस्य॒ त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्च॑ स्तो॒त्रीया॒स्ताव॑ती-स्संवँथ्स॒रस्य॒ रात्र॑य उ॒भे ए॒व सं॑वँथ्स॒रस्य॑ रू॒पे आ᳚प्नुवन्ति॒ ते सग्ग्स्थि॑त्या॒ अरि॑ष्ट्या॒ उत्त॑रै॒रहो॑भिश्चरन्ति षड॒हा भ॑वन्ति॒ ष-ड्वा ऋ॒तवः॑ संवँथ्स॒र ऋ॒तुष्वे॒व सं॑वँथ्स॒रे प्रति॑ तिष्ठन्ति॒ गौश्चा-ऽऽयु॑श्च मद्ध्य॒त-स्स्तोमौ॑ भवत-स्संवँथ्स॒रस्यै॒व तन्मि॑थु॒न-म्म॑द्ध्य॒तो [तन्मि॑थु॒न-म्म॑द्ध्य॒तः, द॒ध॒ति॒ प्र॒जन॑नाय॒] 4
द॑धति प्र॒जन॑नाय॒ ज्योति॑र॒भितो॑ भवति वि॒मोच॑नमे॒व तच्छन्दाग्॑स्ये॒व त-द्वि॒मोकं॑-यँ॒न्त्यथो॑ उभ॒यतो᳚ज्योतिषै॒व ष॑ड॒हेन॑ सुव॒र्गं-लोँ॒कं-यँ॑न्ति ब्रह्मवा॒दिनो॑ वद॒न्त्यास॑ते॒ केन॑ य॒न्तीति॑ देव॒याने॑न प॒थेति॑ ब्रूया॒च्छन्दाग्ं॑सि॒ वै दे॑व॒यानः॒ पन्था॑ गाय॒त्री त्रि॒ष्टुब्-जग॑ती॒ज्योति॒र्वै गा॑य॒त्री गौस्त्रि॒ष्टुगायु॒र्जग॑ती॒ यदे॒ते स्तोमा॒ भव॑न्ति देव॒याने॑नै॒व [ ] 5
त-त्प॒था य॑न्ति समा॒नग्ं साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒व नय॑न्त्य॒न्याअ॑न्या॒ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒वान्यम॑न्य-न्देवलो॒कम॑भ्या॒रोह॑न्तो यन्त्यभिव॒र्तो ब्र॑ह्मसा॒म-म्भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्या अभि॒जि-द्भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै विश्व॒जि-द्भ॑वति॒ विश्व॑स्य॒ जित्यै॑ मा॒सिमा॑सि पृ॒ष्ठान्युप॑ यन्ति मा॒सिमा᳚स्यतिग्रा॒ह्या॑ गृह्यन्ते मा॒सिमा᳚स्ये॒व वी॒र्य॑-न्दधति मा॒सा-म्प्रति॑ष्ठित्या उ॒परि॑ष्टान्मा॒सा-म्पृ॒ष्ठान्युप॑ यन्ति॒ तस्मा॑दु॒परि॑ष्टा॒दोष॑धयः॒ फल॑-ङ्गृह्णन्ति ॥ 6 ॥
(गो॒स॒त्रं-वाँ - ए॑ति संवँथ्स॒रो᳚ - ऽर्धमा॒सा - मि॑थु॒न-म्म॑द्ध्य॒तो - दे॑व॒याने॑नै॒व - वी॒र्यं॑ - त्रयो॑दश च) (अ. 1)
गावो॒ वा ए॒त-थ्स॒त्रमा॑सताशृ॒ङ्गा-स्स॒ती-श्शृङ्गा॑णि॒ सिषा॑सन्ती॒स्तासा॒-न्दश॒ मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गा᳚ण्यजायन्त॒ ता अ॑ब्रुव॒न्नरा॒थ्स्मो-त्ति॑ष्ठा॒माव॒ त-ङ्काम॑मरुथ्स्महि॒ येन॒ कामे॑न॒ न्यष॑दा॒मेति॒ तासा॑मु॒ त्वा अ॑ब्रुवन्न॒र्धावा॒ याव॑ती॒र्वा-ऽऽसा॑महा ए॒वेमौद्वा॑द॒शौ मासौ॑ संवँथ्स॒रग्ं स॒पान्द्यो-त्ति॑ष्ठा॒मेति॒ तासा᳚- [तासा᳚म्, द्वा॒द॒शे मा॒सि] 7
-न्द्वाद॒शे मा॒सि शृङ्गा॑णि॒ प्राव॑र्तन्त श्र॒द्धया॒ वा-ऽश्र॑द्धया वा॒ ता इ॒मा यास्तू॑प॒रा उ॒भय्यो॒ वाव ता आ᳚र्ध्नुव॒न्॒. याश्च॒ शृङ्गा॒ण्यस॑न्व॒न्॒. याश्चोर्ज॑म॒वारु॑न्धत॒र्ध्नोति॑ द॒शसु॑ मा॒सू᳚त्तिष्ठ॑न्नृ॒द्ध्नोति॑ द्वाद॒शसु॒ य ए॒वं-वेँद॑ प॒देन॒ खलु॒ वा ए॒ते य॑न्ति वि॒न्दति॒ खलु॒ वै प॒देन॒ य-न्तद्वा ए॒तदृ॒द्धमय॑न॒-न्तस्मा॑ दे॒त-द्गो॒सनि॑ ॥ 8 ॥
(ति॒ष्ठा॒मेति॒ तासां॒ - तस्मा॒-द्- द्वे च॑) (अ. 2)
प्र॒थ॒मे मा॒सि पृ॒ष्ठान्युप॑ यन्ति मद्ध्य॒म उप॑ यन्त्युत्त॒म उप॑ यन्ति॒ तदा॑हु॒र्यां-वैँ त्रिरेक॒स्याह्न॑ उप॒सीद॑न्ति द॒ह्रं-वैँ सा-ऽप॑राभ्या॒-न्दोहा᳚भ्या-न्दु॒हे-ऽथ॒ कुत॒-स्सा धो᳚क्ष्यते॒ या-न्द्वाद॑श॒ कृत्व॑ उप॒सीद॒न्तीति॑ संवँथ्स॒रग्ं स॒पान्द्यो᳚त्त॒मे मा॒सि स॒कृ-त्पृ॒ष्ठान्युपे॑यु॒स्त-द्यज॑माना य॒ज्ञ-म्प॒शूनव॑ रुन्धते समु॒द्रं-वाँ [समु॒द्रं-वैँ, ए॒ते॑-ऽनवा॒रम॑पा॒र-म्प्र] 9
ए॒ते॑-ऽनवा॒रम॑पा॒र-म्प्र प्ल॑वन्ते॒ ये सं॑वँथ्स॒रमु॑प॒यन्ति॒ य-द्बृ॑ह-द्रथन्त॒रे अ॒न्वर्जे॑यु॒र्यथा॒ मद्ध्ये॑ समु॒द्रस्य॑ प्ल॒वम॒न्वर्जे॑युस्ता॒दृ-क्तदनु॑थ्सर्ग-म्बृह-द्रथन्त॒राभ्या॑मि॒त्वा प्र॑ति॒ष्ठा-ङ्ग॑च्छन्ति॒ सर्वे᳚भ्यो॒ वै कामे᳚भ्य-स्स॒न्धिर्दु॑हे॒ त-द्यज॑माना॒-स्सर्वा॒न् कामा॒नव॑ रुन्धते ॥ 10 ॥
(स॒मु॒द्रं-वैँ - चतु॑स्त्रिग्ंशच्च) (अ. 3)
स॒मा॒न्य॑ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒व न य॑न्त्य॒न्यद॑न्य॒-थ्साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒वान्यम॑न्य-म्मनुष्यलो॒क-म्प्र॑त्यव॒रोह॑न्तो यन्ति॒ जग॑ती॒मग्र॒ उप॑ यन्ति॒ जग॑तीं॒-वैँ छन्दाग्ं॑सि प्र॒त्यव॑रोहन्त्या-ग्रय॒ण-ङ्ग्रहा॑ बृ॒ह-त्पृ॒ष्ठानि॑ त्रयस्त्रि॒ग्ं॒शग्ग्स्तोमा॒-स्तस्मा॒-ज्ज्यायाग्ं॑स॒-ङ्कनी॑या-न्प्र॒त्यव॑रोहति वैश्वकर्म॒णो गृ॑ह्यते॒विश्वा᳚न्ये॒व तेन॒ कर्मा॑णि॒ यज॑माना॒ अव॑ रुन्धत आदि॒त्यो [आदि॒त्यः, गृ॒ह्य॒त॒ इ॒यं-वाँ] 11
गृ॑ह्यत इ॒यं-वाँ अदि॑तिर॒स्यामे॒व प्रति॑ तिष्ठन्त्य॒न्यो᳚-ऽन्यो गृह्येते मिथुन॒त्वाय॒ प्रजा᳚त्या अवान्त॒रं-वैँ द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ य-द्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व त-द्यज॑माना-स्सृजन्त ए॒ताग्ं ह॒ वा उ॑द॒ङ्क-श्शौ᳚ल्बाय॒न-स्स॒त्रस्यर्धि॑मुवाच॒ य-द्द॑शरा॒त्रोय-द्द॑शरा॒त्रो भव॑ति स॒त्रस्यर्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वै ( )-षा शान्तिः॑ ॥ 12 ॥
(आ॒दि॒त्य - स्तस्यै॒व - द्वे च॑) (अ. 4)
यदि॒ सोमौ॒ सग्ंसु॑तौ॒ स्याता᳚-म्मह॒ति रात्रि॑यै प्रातरनुवा॒क-मु॒पाकु॑र्या॒-त्पूर्वो॒ वाच॒-म्पूर्वो॑ दे॒वताः॒ पूर्व॒-श्छन्दाग्ं॑सि वृङ्क्ते॒ वृष॑ण्वती-म्प्रति॒पद॑-ङ्कुर्या-त्प्रातस्सव॒नादे॒वैषा॒मिन्द्रं॑-वृँ॒ङ्क्ते ऽथो॒ खल्वा॑हुस्सवनमु॒खे-स॑वनमुखे का॒र्येति॑ सवनमु॒खा-थ्स॑वनमुखा-दे॒वैषा॒मिन्द्रं॑-वृँङ्क्ते संवेँ॒शायो॑पवे॒शाय॑ गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अनु॒ष्टुभः॑ प॒ङ्क्त्या अ॒भिभू᳚त्यै॒ स्वाहा॒ छन्दाग्ं॑सि॒ वै सं॑वेँ॒श उ॑पवे॒श-श्छन्दो॑भि-रे॒वैषा॒- [उ॑पवे॒श-श्छन्दो॑भि-रे॒वैषा᳚म्, छन्दाग्ं॑सि] 13
-ञ्छन्दाग्ं॑सि वृङ्क्ते सज॒नीय॒ग्ं॒ शस्यं॑-विँह॒व्यग्ं॑ शस्य॑म॒गस्त्य॑स्य कयाशु॒भीय॒ग्ं॒ शस्य॑मे॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒त-द्याव॑दे॒वास्ति॒ तदे॑षां-वृँङ्क्ते॒ यदि॑ प्रातस्सव॒ने क॒लशो॒ दीर्ये॑त वैष्ण॒वीषु॑ शिपिवि॒ष्टव॑तीषु स्तुवीर॒न्॒.यद्वै य॒ज्ञस्या॑-ति॒रिच्य॑ते॒ विष्णु॒-न्तच्छि॑पिवि॒ष्टम॒भ्यति॑ रिच्यते॒ तद्विष्णुः॑ शिपिवि॒ष्टो-ऽति॑रिक्त ए॒वाति॑रिक्त-न्दधा॒त्यथो॒ अति॑रिक्तेनै॒वा-ति॑रिक्तमा॒प्त्वा-ऽव॑ रुन्धते॒ यदि॑ म॒द्ध्यन्दि॑ने॒ दीर्ये॑त वषट्का॒रनि॑धन॒ग्ं॒ साम॑ कुर्युर्वषट्का॒रो वै य॒ज्ञस्य॑ प्रति॒ष्ठा प्र॑ति॒ष्ठामे॒वैन॑-द्गमयन्ति॒ यदि॑ तृतीयसव॒न ए॒तदे॒व ॥ 14 ॥
(छन्दो॑भिरे॒वैषा॒ - मवै - का॒न्नविग्ं॑श॒तिश्च॑) (अ. 5)
ष॒ड॒है-र्मासा᳚न्-थ्स॒म्पाद्या-ऽह॒रु-थ्सृ॑जन्ति षड॒हैर्हि मासा᳚न्-थ्स॒म्पश्य॑न्त्य-र्धमा॒सैर्मासा᳚न्-थ्स॒म्पाद्याह॒रु-थ्सृ॑जन्त्य-र्धमा॒सैर्हि मासा᳚न्-थ्स॒म्पश्य॑न्त्यमावा॒स्य॑या॒ मासा᳚न्-थ्स॒म्पाद्याह॒रु-थ्सृ॑जन्त्यमावा॒स्य॑या॒ हि मासा᳚न्-थ्स॒म्पश्य॑न्ति पौर्णमा॒स्या मासा᳚न्-थ्स॒म्पाद्या-ऽहरु-थ्सृ॑जन्ति पौर्णमा॒स्या हि मासा᳚न्-थ्स॒म्पश्य॑न्ति॒ यो वै पू॒र्ण आ॑सि॒ञ्चति॒ परा॒ स सि॑ञ्चति॒ यः पू॒र्णादु॒दच॑ति [ ] 15
प्रा॒णम॑स्मि॒न्थ्स द॑धाति॒ य-त्पौ᳚र्णमा॒स्या मासा᳚न्-थ्स॒पान्द्याह॑रु-थ्सृ॒जन्ति॑ संवँथ्स॒रायै॒व त-त्प्रा॒ण-न्द॑धति॒ तदनु॑ स॒त्रिणः॒ प्राण॑न्ति॒ यदह॒र्नो-थ्सृ॒जेयु॒र्यथा॒ दृति॒रुप॑नद्धो वि॒पत॑त्ये॒वग्ं सं॑वँथ्स॒रो वि प॑ते॒दार्ति॒-मार्च्छे॑यु॒र्य-त्पौ᳚र्णमा॒स्या मासा᳚न्-थ्स॒पान्द्याह॑रु-थ्सृ॒जन्ति॑ संवँथ्स॒रायै॒व तदु॑दा॒न-न्द॑धति॒ तदनु॑ स॒त्रिण॒ उ- [स॒त्रिण॒ उत्, अ॒न॒न्ति॒ ना-ऽऽर्ति॒-मार्च्छ॑न्ति] 16
-द॑नन्ति॒ ना-ऽऽर्ति॒-मार्च्छ॑न्ति पू॒र्णमा॑से॒ वै दे॒वानाग्ं॑ सु॒तो य-त्पौ᳚र्णमा॒स्या मासा᳚न्-थ्स॒पान्द्याह॑रु-थ्सृ॒जन्ति॑ दे॒वाना॑मे॒व त-द्य॒ज्ञेन॑ य॒ज्ञ-म्प्र॒त्यव॑रोहन्ति॒ वि वा ए॒त-द्य॒ज्ञ-ञ्छि॑न्दन्ति॒ य-थ्ष॑ड॒हस॑तन्त॒ग्ं॒ सन्त॒मथाह॑रु-थ्सृ॒जन्ति॑ प्राजाप॒त्य-म्प॒शुमा ल॑भन्ते प्र॒जाप॑ति॒-स्सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञग्ं स-न्त॑न्वन्ति॒ यन्ति॒ वा ए॒ते सव॑ना॒द्ये-ऽह॑- [सव॑ना॒द्ये-ऽहः॑, उ॒-थ्सृ॒जन्ति॑] 17
-रु-थ्सृ॒जन्ति॑ तु॒रीय॒-ङ्खलु॒ वा ए॒त-थ्सव॑नं॒-यँ-थ्सा᳚नां॒य्यं-यँ-थ्सा᳚नां॒य्य-म्भव॑ति॒ तेनै॒व सव॑ना॒न्न य॑न्ति समुप॒हूय॑ भक्षयन्त्ये॒तथ्- सो॑मपीथा॒ ह्ये॑तर्हि॑ यथायत॒नं-वाँ ए॒तेषाग्ं॑ सवन॒भाजो॑ दे॒वता॑ गच्छन्ति॒ ये-ऽह॑रु-थ्सृ॒जन्त्य॑नुसव॒न-म्पु॑रो॒डाशा॒-न्निर्व॑पन्ति यथायत॒नादे॒व स॑वन॒भाजो॑ दे॒वता॒ अव॑ रुन्धते॒ ऽष्टाक॑पाला-न्प्रातस्सव॒न एका॑दशकपाला॒-न्माद्ध्य॑न्दिने॒ सव॑ने॒ द्वाद॑शकपालाग्-स्तृतीयसव॒ने छन्दाग्॑स्ये॒वा-ऽऽप्त्वा -ऽव॑ रुन्धते वैश्वदे॒व-ञ्च॒रु-न्तृ॑तीयसव॒ने निर्व॑पन्ति वैश्वदे॒वं-वैँ तृ॑तीयसव॒न-न्तेनै॒व तृ॑तीयसव॒नान्न य॑न्ति ॥ 18 ॥
(उ॒दच॒ - त्यु - द्ये-ऽह॑ - रा॒प्त्वा - पञ्च॑दश च) (अ. 6)
उ॒थ्सृज्यां(3)नोथ्सृज्या(3)मिति॑ मीमाग्ंसन्ते ब्रह्मवा॒दिन॒-स्तद्वा॑हुरु॒-थ्सृज्य॑मे॒वेत्य॑-मावा॒स्या॑या-ञ्च पौर्णमा॒स्या-ञ्चो॒-थ्सृज्य॒मित्या॑हुरे॒ते हि य॒ज्ञं-वँह॑त॒ इति॒ ते त्वाव नोथ्सृज्ये॒ इत्या॑हु॒र्ये अ॑वान्त॒रं-यँ॒ज्ञ-म्भे॒जाते॒ इति॒ या प्र॑थ॒मा व्य॑ष्टका॒ तस्या॑मु॒-थ्सृज्य॒मित्या॑हुरे॒ष वै मा॒सो वि॑श॒र इति॒ ना-ऽऽदि॑ष्ट॒- [ना-ऽऽदि॑ष्टम्, उथ्सृ॑जेयु॒-] 19
-मुथ्सृ॑जेयु॒-र्यदादि॑ष्ट-मुथ्सृ॒जेयु॑र्या॒दृशे॒ पुनः॑ पर्याप्ला॒वे मद्ध्ये॑ षड॒हस्य॑ स॒पन्द्ये॑त षड॒हैर्मासा᳚न्-थ्स॒पान्द्य॒ य-थ्स॑प्त॒म- मह॒स्तस्मि॒न्नु-थ्सृ॑जेयु॒-स्तद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पाल॒-न्निर्व॑पेयुरै॒न्द्र-न्दधीन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं-वैँश्वदे॒व-न्द्वाद॑शकपालम॒ग्नेर्वै वसु॑मतः प्रातस्सव॒नं-यँद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पाल-न्नि॒र्वप॑न्ति दे॒वता॑मे॒व त-द्भा॒गिनी᳚-ङ्कु॒र्वन्ति॒ [-ङ्कु॒र्वन्ति॑, सव॑न] 20
सव॑न-मष्टा॒भिरुप॑ यन्ति॒ यदै॒न्द्र-न्दधि॒ भव॒तीन्द्र॑मे॒व त-द्भा॑ग॒धेया॒न्न च्या॑वय॒न्तीन्द्र॑स्य॒ वै म॒रुत्व॑तो॒ माद्ध्य॑न्दिन॒ग्ं॒ सव॑नं॒-यँदिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपाल-न्नि॒र्वप॑न्ति दे॒वता॑मे॒व त-द्भा॒गिनी᳚-ङ्कु॒र्वन्ति॒ सव॑नमेकाद॒शभि॒रुप॑ यन्ति॒ विश्वे॑षां॒-वैँ दे॒वाना॑मृभु॒मता᳚-न्तृतीयसव॒नंयँ-द्वै᳚श्वदे॒व-न्द्वाद॑शकपाल-न्नि॒र्वप॑न्ति दे॒वता॑ ए॒व त-द्भा॒गिनीः᳚ कु॒र्वन्ति॒ सव॑न-न्द्वाद॒शभि॒- [सव॑न-न्द्वाद॒शभिः॑, उप॑ यन्ति] 21
-रुप॑ यन्ति प्राजाप॒त्य-म्प॒शुमा ल॑भन्ते य॒ज्ञो वै प्र॒जाप॑ति-र्य॒ज्ञस्या-न॑नुसर्गायाभिव॒र्त इ॒त-ष्षण्मा॒सो ब्र॑ह्मसा॒म-म्भ॑वति॒ ब्रह्म॒ वा अ॑भिव॒र्तो ब्रह्म॑णै॒व त-थ्सु॑व॒र्गं-लोँ॒क-म॑भिव॒र्तय॑न्तो यन्ति प्रतिकू॒लमि॑व॒ हीत-स्सु॑व॒र्गो लो॒क इन्द्र॒ क्रतु॑-न्न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा᳚ । शिक्षा॑ नो अ॒स्मि-न्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑-रशीम॒हीत्य॒-मुत॑ आय॒ताग्ं षण्मा॒सो ब्र॑ह्मसा॒म-म्भ॑वत्य॒यं-वैँ लो॒को ज्योतिः॑ प्र॒जा ज्योति॑रि॒ममे॒व तल्लो॒क-म्पश्य॑न्तो-ऽभि॒वद॑न्त॒ आ य॑न्ति ॥ 22 ॥
(ना-ऽऽदि॑ष्टं - कु॒र्वन्ति॑ - द्वाद॒शभि॒ - रिति॑- विग्ंश॒तिश्च॑) (अ. 7)
दे॒वानां॒-वाँ अन्त॑-ञ्ज॒ग्मुषा॑मिन्द्रि॒यं-वीँ॒र्य॑-मपा᳚क्राम॒-त्त-त्क्रो॒शेनावा॑रुन्धत॒ त-त्क्रो॒शस्य॑ क्रोश॒त्वं-यँ-त्क्रो॒शेन॒ चात्वा॑ल॒स्यान्ते᳚ स्तु॒वन्ति॑ य॒ज्ञस्यै॒वान्त॑-ङ्ग॒त्वेन्द्रि॒यं-वीँ॒र्य॑मव॑ रुन्धते स॒त्रस्यर्ध्या॑ ऽऽहव॒नीय॒स्यान्ते᳚ स्तुवन्त्य॒ग्नि-मे॒वोप॑-द्र॒ष्टार॑-ङ्कृ॒त्वर्धि॒मुप॑ यन्ति प्र॒जाप॑ते॒र्॒हृद॑येन हवि॒र्धाने॒-ऽन्त-स्स्तु॑वन्ति प्रे॒माण॑मे॒वास्य॑ गच्छन्ति श्लो॒केन॑ पु॒रस्ता॒-थ्सद॑स- [पु॒रस्ता॒-थ्सद॑सः, स्तु॒व॒न्त्यनु॑श्लोकेन] 23
-स्स्तुव॒न्त्यनु॑श्लोकेन प॒श्चा-द्य॒ज्ञस्यै॒वान्त॑-ङ्ग॒त्वा श्लो॑क॒भाजो॑ भवन्ति न॒वभि॑-रद्ध्व॒र्युरु-द्गा॑यति॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधाति॒ सर्वा॑ ऐ॒न्द्रियो॑ भवन्ति प्रा॒णेष्वे॒वेन्द्रि॒य-न्द॑ध॒-त्यप्र॑तिहृताभि॒रु-द्गा॑यति॒ तस्मा॒-त्पुरु॑ष॒-स्सर्वा᳚ण्य॒न्यानि॑ शी॒र्ष्णो-ऽङ्गा॑नि॒ प्रत्य॑चति॒ शिर॑ ए॒व न प॑ञ्चद॒शग्ंर॑थन्त॒र-म्भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धते सप्तद॒श- [सप्तद॒शम्, बृ॒ह-द॒न्नाद्य॒स्या] 24
-म्बृ॒ह-द॒न्नाद्य॒स्या-ऽव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒ग्ं॒श-म्भ॒द्र-न्द्वि॒पदा॑सु॒ प्रति॑ष्ठित्यै॒ पत्न॑य॒ उप॑ गायन्ति मिथुन॒त्वाय॒ प्रजा᳚त्यै प्र॒जा॑पतिः प्र॒जा अ॑सृजत॒ सो॑-ऽकामयता॒-ऽऽसाम॒हग्ं रा॒ज्य-म्परी॑या॒मिति॒ तासाग्ं॑ राज॒नेनै॒व रा॒ज्य-म्पर्यै॒-त्त-द्रा॑ज॒नस्य॑ राजन॒त्वं-यँ-द्रा॑ज॒न-म्भव॑ति प्र॒जाना॑मे॒व त-द्यज॑माना रा॒ज्य-म्परि॑ यन्ति पञ्चवि॒ग्ं॒श-म्भ॑वति प्र॒जाप॑ते॒- [प्र॒जाप॑तेः, आप्त्यै॑ प॒ञ्चभि॒-स्तिष्ठ॑न्त-स्स्तुवन्ति] 25
-राप्त्यै॑ प॒ञ्चभि॒-स्तिष्ठ॑न्त-स्स्तुवन्ति देवलो॒कमे॒वाभि ज॑यन्ति प॒ञ्चभि॒रासी॑ना मनुष्यलो॒कमे॒वाभि ज॑यन्ति॒ दश॒ सम्प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑-विँ॒रा-ड्वि॒राजै॒वा-न्नाद्य॒मव॑ रुन्धते पञ्च॒धा वि॑नि॒षद्य॑ स्तुवन्ति॒ पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑तिष्ठ॒न्त्येकै॑क॒या-ऽस्तु॑तया स॒माय॑न्ति दि॒ग्भ्य ए॒वान्नाद्य॒ग्ं॒ स-म्भ॑रन्ति॒ ताभि॑-रुद्गा॒तो-द्गा॑यति दि॒ग्भ्य ए॒वा-ऽन्नाद्यग्ं॑ [ए॒वा-ऽन्नाद्य᳚म्, स॒म्भृत्य॒ तेज॑] 26
स॒म्भृत्य॒ तेज॑ आ॒त्म-न्द॑धते॒ तस्मा॒देकः॑ प्रा॒ण-स्सर्वा॒ण्यङ्गा᳚न्यव॒त्यथो॒ यथा॑ सुप॒र्ण उ॑त्पति॒ष्यञ्छिर॑ उत्त॒म-ङ्कु॑रु॒त ए॒वमे॒व त-द्यज॑मानाः प्र॒जाना॑मुत्त॒मा भ॑वन्त्यास॒न्दी-मु॑द्गा॒ता ऽऽरो॑हति॒ साम्रा᳚ज्यमे॒व ग॑च्छन्ति प्ले॒ङ्खग्ं होता॒ नाक॑स्यै॒व पृ॒ष्ठग्ं रो॑हन्ति कू॒र्चाव॑द्ध्व॒र्यु-र्ब्र॒द्ध्नस्यै॒व वि॒ष्टप॑-ङ्गच्छन्त्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्व-म्प्रति॑ तिष्ठ॒न्त्यथो॑ आ॒क्रम॑णमे॒व त-थ्सेतुं॒-यँज॑मानाः कुर्वते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 27 ॥
(सद॑सः-सप्तद॒शं-प्र॒जाप॑ते-र्गायति दि॒ग्भ्य ए॒वान्नाद्यं॒-प्रत्ये-का॑दश च) (अ. 8)
अ॒र्क्ये॑ण॒ वै स॑हस्र॒शः प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताभ्य॒ इला᳚दे॒न्नेरां॒-लूँता॒मवा॑रुन्ध॒ यद॒र्क्य॑-म्भव॑ति प्र॒जा ए॒व त-द्यज॑माना-स्सृजन्त॒ इला᳚द-म्भवति प्र॒जाभ्य॑ ए॒व सृ॒ष्टाभ्य॒ इरां॒-लूँता॒मव॑ रुन्धते॒ तस्मा॒द्याग्ं समाग्ं॑ स॒त्रग्ं समृ॑द्ध॒-ङ्क्षोधु॑का॒स्ताग्ं समा᳚-म्प्र॒जा इष॒ग्ग्॒ ह्या॑सा॒मूर्ज॑मा॒दद॑ते॒ याग्ं समां॒-व्यृँ॑द्ध॒-मक्षो॑धुका॒स्ताग्ं समा᳚-म्प्र॒जा [समा᳚-म्प्र॒जाः, न ह्या॑सा॒मिष॒] 28
न ह्या॑सा॒मिष॒-मूर्ज॑-मा॒दद॑त उत्क्रो॒द-ङ्कु॑र्वते॒ यथा॑ ब॒न्धा-न्मु॑मुचा॒ना उ॑त्क्रो॒द-ङ्कु॒र्वत॑ ए॒वमे॒व त-द्यज॑माना देवब॒न्धा-न्मु॑मुचा॒ना उ॑त्क्रो॒द-ङ्कु॑र्वत॒ इष॒मूर्ज॑मा॒त्म-न्दधा॑ना वा॒ण-श्श॒तत॑न्तुर्भवति श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्या॒जि-न्धा॑व॒न्त्यन॑भिजितस्या॒-भिजि॑त्यै दुन्दु॒भीन्-थ्स॒माघ्न॑न्ति पर॒मा वा ए॒षा वाग्या दु॑न्दु॒भौ प॑र॒मामे॒व [ ] 29
वाच॒मव॑ रुन्धते भूमिदुन्दु॒भिमा घ्न॑न्ति॒ यैवेमां-वाँ-क्प्रवि॑ष्टा॒ तामे॒वाव॑ रुन्ध॒ते ऽथो॑ इ॒मामे॒व ज॑यन्ति॒ सर्वा॒ वाचो॑ वदन्ति॒ सर्वा॑सां-वाँ॒चामव॑रुद्ध्या आ॒र्द्रेचर्म॒न् व्याय॑च्छेते इन्द्रि॒यस्या व॑रुद्ध्या॒ आ-ऽन्यः क्रोश॑ति॒ प्रान्य-श्शग्ं॑सति॒ य आ॒क्रोश॑ति पु॒नात्ये॒वैना॒न्थ्स यः प्र॒शग्ंस॑ति पू॒तेष्वे॒वा-ऽन्नाद्य॑-न्दधा॒त्यृषि॑कृत-ञ्च॒ [-न्दधा॒त्यृषि॑कृत-ञ्च॒, वा ए॒ते] 30
वा ए॒ते दे॒वकृ॑त-ञ्च॒ पूर्वै॒र्मासै॒रव॑ रुन्धते॒ य-द्भू॑ते॒च्छदा॒ग्ं॒ सामा॑नि॒ भव॑न्त्यु॒भय॒स्याव॑रुद्ध्यै॒ यन्ति॒ वा ए॒ते मि॑थु॒नाद्ये सं॑वँथ्स॒र-मु॑प॒यन्त्य॑न्तर्वे॒दि मि॑थु॒नौ स-म्भ॑वत॒स्तेनै॒व मि॑थु॒नान्न य॑न्ति ॥ 31 ॥
(व्यृ॑द्ध॒मक्षो॑धुका॒स्ताग्ं समा᳚-म्प्र॒जाः - प॑र॒मामे॒व - च॑ - त्रि॒ग्ं॒शच्च॑) (अ. 9)
चर्माव॑ भिन्दन्ति पा॒प्मान॑मे॒वैषा॒मव॑ भिन्दन्ति॒ मा-ऽप॑ राथ्सी॒र्मा-ऽति॑ व्याथ्सी॒रित्या॑ह सम्प्र॒त्ये॑वैषा᳚-म्पा॒प्मान॒मव॑ भिन्दन्त्युदकु॒म्भान॑धिनि॒धाय॑ दा॒स्यो॑ मार्जा॒लीय॒-म्परि॑ नृत्यन्ति प॒दो नि॑घ्न॒तीरि॒दम्म॑धु॒-ङ्गाय॑न्त्यो॒ मधु॒ वै दे॒वाना᳚-म्पर॒म-म॒न्नाद्य॑-म्पर॒ममे॒वा-न्नाद्य॒मव॑ रुन्धते प॒दो नि घ्न॑न्ति मही॒यामे॒वैषु॑ दधति ॥ 32 ॥
(चर्मै - का॒न्नप॑ञ्चा॒शत्) (अ. 10)
पृ॒थि॒व्यै स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॑ सम्प्लोष्य॒ते स्वाहा॑ स॒प्लंवँ॑मानाय॒ स्वाहा॒ सम्प्लु॑ताय॒ स्वाहा॑ मेघायिष्य॒ते स्वाहा॑ मेघाय॒ते स्वाहा॑ मेघि॒ताय॒ स्वाहा॑ मे॒घाय॒ स्वाहा॑ नीहा॒राय॒ स्वाहा॑ नि॒हाका॑यै॒ स्वाहा᳚ प्रास॒चाय॒ स्वाहा᳚ प्रच॒लाका॑यै॒ स्वाहा॑ विद्योतिष्य॒ते स्वाहा॑ वि॒द्योत॑मानाय॒ स्वाहा॑ संविँ॒द्योत॑मानाय॒ स्वाहा᳚ स्तनयिष्य॒ते स्वाहा᳚ स्त॒नय॑ते॒ स्वाहो॒ -ग्रग्ग् स्त॒नय॑ते॒ स्वाहा॑ वर्षिष्य॒ते स्वाहा॒ वर्ष॑ते॒ स्वाहा॑ ऽभि॒वर्ष॑ते॒ स्वाहा॑ परि॒वर्ष॑ते॒ स्वाहा॑ सं॒वँर्ष॑ते॒ [सं॒वँर्ष॑ते, स्वाहा॑ ऽनु॒वर्ष॑ते॒ स्वाहा॑] 33
स्वाहा॑ ऽनु॒वर्ष॑ते॒ स्वाहा॑ शीकायिष्य॒ते स्वाहा॑ शीकाय॒ते स्वाहा॑ शीकि॒ताय॒ स्वाहा᳚प्रोषिष्य॒ते स्वाहा᳚ प्रुष्ण॒ते स्वाहा॑ परिप्रुष्ण॒ते स्वाहो᳚-द्ग्रहीष्य॒ते स्वाहो᳚ द्गृह्ण॒ते स्वाहो-द्गृ॑हीताय॒ स्वाहा॑ विप्लोष्य॒ते स्वाहा॑ वि॒प्लव॑मानाय॒ स्वाहा॒ विप्लु॑ताय॒ स्वाहा॑ ऽऽतफ्स्य॒ते स्वाहा॒ ऽऽतप॑ते ॒स्वाहो॒-ग्रमा॒तप॑ते॒ स्वाह॒ -र्ग्भ्य-स्स्वाहा॒ यजु॑र्भ्य॒-स्स्वाहा॒ साम॑भ्य॒-स्स्वाहा ऽङ्गि॑रोभ्य॒-स्स्वाहा॒ वेदे᳚भ्य॒-स्स्वाहा॒ गाथा᳚भ्य॒-स्स्वाहा॑ नाराश॒ग्ं॒सीभ्य॒-स्स्वाहा॒ रैभी᳚भ्य॒-स्स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ 34 ॥
(सं॒वँर्ष॑ते॒ - रैभी᳚भ्य॒-स्स्वाहा॒ - द्वे च॑) (अ. 11)
द॒त्वते॒ स्वाहा॑ ऽद॒न्तका॑य॒ स्वाहा᳚ प्रा॒णिने॒ स्वाहा᳚ ऽप्रा॒णाय॒ स्वाहा॒ मुख॑वते॒ स्वाहा॑-ऽमु॒खाय॒ स्वाहा॒ नासि॑कवते॒ स्वाहा॑ ऽनासि॒काय॒ स्वाहा᳚ ऽक्ष॒ण्वते॒ स्वाहा॑-ऽन॒क्षिका॑य॒ स्वाहा॑ क॒र्णिने॒ स्वाहा॑ ऽक॒र्णका॑य॒ स्वाहा॑ शीर्ष॒ण्वते॒ स्वाहा॑-ऽशी॒र्॒षका॑य॒ स्वाहा॑ प॒द्वते॒ स्वाहा॑ ऽपा॒दका॑य॒ स्वाहा᳚ प्राण॒ते स्वाहा ऽप्रा॑णते॒ स्वाहा॒ वद॑ते॒ स्वाहा ऽव॑दते॒ स्वाहा॒ पश्य॑ते॒ स्वाहा ऽप॑श्यते॒ स्वाहा॑ शृण्व॒ते स्वाहा ऽशृ॑ण्वते॒ स्वाहा॑ मन॒स्विने॒ स्वाहा॑- [मन॒स्विने॒ स्वाहा᳚, अ॒म॒नसे॒ स्वाहा॑] 35
-ऽम॒नसे॒ स्वाहा॑ रेत॒स्विने॒ स्वाहा॑ ऽरे॒तस्का॑य॒ स्वाहा᳚ प्र॒जाभ्य॒-स्स्वाहा᳚ प्र॒जन॑नाय॒ स्वाहा॒ लोम॑वते॒ स्वाहा॑ ऽलो॒मका॑य॒ स्वाहा᳚ त्व॒चे स्वाहा॒ ऽत्वक्का॑य॒ स्वाहा॒ चर्म॑ण्वते॒ स्वाहा॑ ऽच॒र्मका॑य॒ स्वाहा॒ लोहि॑तवते॒ स्वाहा॑-ऽलोहि॒ताय॒ स्वाहा॑ माग्ंस॒न्वते॒ स्वाहा॑ ऽमा॒ग्ं॒सका॑य॒ स्वाहा॒ स्नाव॑भ्य॒-स्स्वाहा᳚ ऽस्ना॒वका॑य॒ स्वाहा᳚ स्थ॒न्वते॒ स्वाहा॑-ऽन॒स्थिका॑य॒ स्वाहा॑ मज्ज॒न्वते॒ स्वाहा॑ ऽम॒ज्जका॑य॒ स्वाहा॒ ऽङ्गिने॒ स्वाहा॑-ऽन॒ङ्गाय॒ स्वाहा॒ ऽऽत्मने॒ स्वाहा ऽना᳚त्मने॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ 36 ॥
(म॒न॒स्विने॒ स्वाहा - ऽना᳚त्मने॒ स्वाहा॒ - द्वे च॑) (अ. 12)
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ विष्णु॑स्त्वा युनक्त्व॒स्य य॒ज्ञस्यर्ध्यै॒ मह्य॒ग्ं॒ सन्न॑त्या अ॒मुष्मै॒ कामा॒या-ऽऽयु॑षे त्वा प्रा॒णाय॑ त्वा ऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा॒ व्यु॑ष्ट्यै त्वा र॒य्यै त्वा॒ राध॑से त्वा॒ घोषा॑य त्वा॒ पोषा॑य त्वा ऽऽराद्घो॒षाय॑ त्वा॒ प्रच्यु॑त्यै त्वा ॥ 37 ॥
(कस्त्वा॒ - ऽष्टात्रिग्ं॑शत्) (अ. 13)
अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथ॑न्तराय वास॒न्ताया॒-ष्टाक॑पाल॒ इन्द्रा॑य॒ त्रैष्टु॑भाय पञ्चद॒शाय॒ बार्ह॑ताय॒ ग्रैष्मा॒यैका॑दशकपालो॒ विश्वे᳚भ्यो दे॒वेभ्यो॒ जाग॑तेभ्य-स्सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ वार्षि॑केभ्यो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒-मानु॑ष्टुभाभ्या-मेकवि॒ग्ं॒शाभ्यां᳚-वैँरा॒जाभ्याग्ं॑ शार॒दाभ्या᳚-म्पय॒स्या॑ बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॒ हैम॑न्तिकाय च॒रु-स्स॑वि॒त्र आ॑तिच्छन्द॒साय॑ त्रयस्त्रि॒ग्ं॒शाय॑ रैव॒ताय॑ शैशि॒राय॒ द्वाद॑शकपा॒लो ऽदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लो ऽनु॑मत्यै च॒रुः का॒य एक॑कपालः ॥ 38 ॥
(अ॒ग्नये-ऽदि॑त्या॒ अनु॑मत्यै - स॒प्तच॑त्वारिग्ंशत्) (अ. 14)
यो वा अ॒ग्नाव॒ग्निः प्र॑ह्रि॒यते॒ यश्च॒ सोमो॒ राजा॒ तयो॑रे॒ष आ॑ति॒थ्यं-यँद॑ग्नीषो॒मीयो-ऽथै॒ष रु॒द्रो यश्ची॒यते॒ य-थ्सञ्चि॑ते॒-ऽग्नावे॒तानि॑ ह॒वीग्ंषि॒ न नि॒र्वपे॑दे॒ष ए॒व रु॒द्रो-ऽशा᳚न्त उपो॒त्थाय॑ प्र॒जा-म्प॒शून् यज॑मानस्या॒भि म॑न्येत॒ य-थ्सञ्चि॑ते॒-ऽग्नावे॒तानि॑ ह॒वीग्ंषि॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैनग्ं॑ शमयति॒ नास्य॑ रु॒द्रो-ऽशा᳚न्त [रु॒द्रो-ऽशा᳚न्तः, उ॒पो॒त्थाय॑] 39
उपो॒त्थाय॑ प्र॒जा-म्प॒शून॒भि म॑न्यते॒ दश॑ ह॒वीग्ंषि॑ भवन्ति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व यज॑माने दधा॒त्यथो॒ दशा᳚क्षरा वि॒राडन्नं॑-विँ॒रा-ड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठत्यृ॒तुभि॒र्वा ए॒ष छन्दो॑भि॒-स्स्तोमैः᳚ पृ॒ष्ठैश्चे॑त॒व्य॑ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीग्ंषि॑ नि॒र्वप॑त्यृ॒तुभि॑रे॒वैन॒-ञ्छन्दो॑भि॒-स्स्तोमैः᳚ पृ॒ष्ठैश्चि॑नुते॒ दिशः॑ सुषुवा॒णेना॑ - [ ] 40
-भि॒जित्या॒ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीग्ंषि॑ नि॒र्वप॑ति दि॒शाम॒भिजि॑त्या ए॒तया॒ वा इन्द्र॑-न्दे॒वा अ॑याजय॒-न्तस्मा॑दिन्द्रस॒व ए॒तया॒ मनु॑-म्मनु॒ष्या᳚स्तस्मा᳚-न्मनुस॒वो यथेन्द्रो॑ दे॒वानां॒-यँथा॒ मनु॑र्मनु॒ष्या॑णामे॒व-म्भ॑वति॒ य ए॒वं-विँ॒द्वाने॒तयेष्ट्या॒ यज॑ते॒ दिग्व॑तीः पुरो-ऽनुवा॒क्या॑ भवन्ति॒ सर्वा॑सा-न्दि॒शाम॒भिजि॑त्यै ॥ 41 ॥
(अशा᳚न्तः - सुषुवा॒णेनै - क॑चत्वारिग्ंशच्च) (अ. 15)
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि प्र॒जाप॑तये त्वा॒ जुष्ट॑-ङ्गृह्णामि॒ तस्य॑ ते॒ द्यौर्म॑हि॒मा नक्ष॑त्राणि रू॒पमा॑दि॒त्यस्ते॒ तेज॒स्तस्मै᳚ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा᳚ ॥ 42 ॥
(यः प्रा॑ण॒तो द्यौरा॑दि॒त्यो᳚ - ऽष्टात्रिग्ं॑शत् ) (अ. 16)
य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒-यँस्य॑ दे॒वाः । यस्य॑ छा॒या-ऽमृतं॒-यँस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि प्र॒जाप॑तये त्वा॒ जुष्ट॑-ङ्गृह्णामि॒ तस्य॑ ते पृथि॒वी म॑हि॒मौष॑धयो॒ वन॒स्पत॑यो रू॒पम॒ग्निस्ते॒ तेज॒स्तस्मै᳚ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा᳚ ॥ 43 ॥
(य आ᳚त्म॒दाः पृ॑थि॒व्य॑ग्नि-रेका॒न्नच॑त्वारि॒ग्ं॒शत्) (अ. 17)
आ ब्रह्म॑-न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मा ऽस्मि-न्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो जा॑यता॒-न्दोग्ध्री॑धे॒नुर्वोढा॑ ऽन॒ड्वाना॒शु-स्सप्तिः॒ पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठा-स्स॒भेयो॒ युवा ऽऽस्य यज॑मानस्य वी॒रो जा॑यता-न्निका॒मेनि॑कामे नः प॒र्जन्यो॑ वर्षतु फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्तां-योँगक्षे॒मोनः॑ कल्पताम् ॥ 44 ॥
(आ ब्रह्म॒ - न्नेक॑चत्वारिग्ंशत् )(आ18)
आ-ऽक्रान्॑ वा॒जी पृ॑थि॒वीम॒ग्निं-युँज॑मकृत वा॒ज्यर्वा ऽऽक्रान्॑ वा॒ज्य॑न्तरि॑क्षं-वाँ॒युं-युँज॑मकृत वा॒ज्यर्वा॒ द्यां-वाँ॒ज्या-ऽक्रग्ग्॑स्त॒ सूर्यं॒-युँज॑मकृत वा॒ज्यर्वा॒ ऽग्निस्ते॑ वाजि॒न्॒ युङ्ङनु॒ त्वा ऽऽ र॑भे स्व॒स्ति मा॒ स-म्पा॑रय वा॒युस्ते॑ वाजि॒न्॒ युङ्ङनु॒ त्वा ऽऽ र॑भे स्व॒स्ति मा॒ स- [स्व॒स्ति मा॒ सम्, पा॒र॒या॒ ऽऽदि॒त्यस्ते॑] 45
-म्पा॑रया ऽऽदि॒त्यस्ते॑ वाजि॒न्॒ युङ्ङनु॒ त्वा ऽऽ र॑भे स्व॒स्ति मा॒ स-म्पा॑रय प्राण॒धृग॑सि प्रा॒ण-म्मे॑ दृग्ंह व्यान॒धृग॑सि व्या॒न-म्मे॑ दृग्ंहा ऽपान॒धृग॑स्यपा॒न-म्म॑ दृग्ंह॒ चक्षु॑रसि॒ चक्षु॒र्मयि॑ धेहि॒ श्रोत्र॑मसि॒ श्रोत्र॒-म्मयि॑ धे॒ह्यायु॑र॒स्यायु॒र्मयि॑ धेहि ॥ 46 ॥
(वा॒युस्ते॑ वाजि॒न्॒ युङ्ङनु॒ त्वा ऽऽ र॑भे स्व॒स्ति मा॒ सं - त्रिच॑त्वारिग्ंशच्च) (अ. 19)
जज्ञि॒ बीजं॒-वँर्ष्टा॑ प॒र्जन्यः॒ पक्ता॑ स॒स्यग्ं सु॑पिप्प॒ला ओष॑धय-स्स्वधिचर॒णेयग्ं सू॑पसद॒नो᳚-ऽग्नि-स्स्व॑द्ध्य॒क्षम॒न्तरि॑क्षग्ंसुपा॒वः पव॑मान-स्सूपस्था॒ना द्यौ-श्शि॒वम॒सौ तप॑न् यथापू॒र्वम॑होरा॒त्रे प॑ञ्चद॒शिनो᳚ ऽर्धमा॒सा-स्त्रि॒ग्ं॒शिनो॒ मासाः᳚ कॢ॒प्ता ऋ॒तवः॑ शा॒न्त-स्सं॑वँथ्स॒रः ॥ 47 ॥
(जज्ञि॒ बीज॒ - मेक॑त्रिग्ंशत्) (अ. 20)
आ॒ग्ने॒यो᳚-ऽष्टाक॑पाल-स्सौ॒म्यश्च॒रु-स्सा॑वि॒त्रो᳚-ऽष्टाक॑पालः पौ॒ष्णश्च॒रू रौ॒द्रश्च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो मृगाख॒रे यदि॒ ना-ऽऽगच्छे॑-द॒ग्नये-ऽग्ं॑हो॒मुचे॒-ऽष्टाक॑पाल-स्सौ॒र्य-म्पयो॑ वाय॒व्य॑ आज्य॑भागः ॥ 48 ॥
(आ॒ग्ने॒य - श्चतु॑र्विग्ंशतिः) (अ. 21)
अ॒ग्नये-ऽग्ं॑हो॒मुचे॒-ऽष्टाक॑पाल॒ इन्द्रा॑या-ऽग्ंहो॒मुच॒ एका॑दशकपालो मि॒त्रावरु॑णाभ्या-मागो॒मुग्भ्या᳚-म्पय॒स्या॑ वायोसावि॒त्र आ॑गो॒मुग्भ्या᳚-ञ्च॒रुर॒श्विभ्या॑-मागो॒मुग्भ्या᳚-न्धा॒ना म॒रुद्भ्य॑ एनो॒मुग्भ्यः॑ स॒प्तक॑पालो॒ विश्वे᳚भ्यो दे॒वेभ्य॑ एनो॒मुग्भ्यो॒ द्वाद॑शकपा॒लो ऽनु॑मत्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो॒ द्यावा॑पृथि॒वीभ्या॑-मग्ंहो॒मुग्भ्या᳚-न्द्विकपा॒लः ॥ 49 ॥
(अ॒ग्नये-ऽग्ं॑हो॒मुचे᳚ - त्रि॒ग्ं॒शत्) (अ. 22)
अ॒ग्नये॒ सम॑नम-त्पृथि॒व्यै सम॑नम॒द्यथा॒-ऽग्निः पृ॑थि॒व्या स॒मन॑मदे॒व-म्मह्य॑-म्भ॒द्रा-स्सन्न॑तय॒-स्स-न्न॑मन्तु वा॒यवे॒ सम॑नमद॒न्तरि॑क्षाय॒ सम॑नम॒द्यथा॑ वा॒युर॒न्तरि॑क्षेण॒ सूर्या॑य॒ सम॑नमद्दि॒वे सम॑नम॒द्यथा॒ सूर्यो॑ दि॒वा च॒न्द्रम॑से॒ सम॑नम॒न्नक्ष॑त्रेभ्य॒-स्सम॑नम॒द्यथा॑ च॒न्द्रमा॒ नक्ष॑त्रै॒र्वरु॑णाय॒ सम॑नमद॒द्भ्य-स्सम॑नम॒-द्यथा॒ [-स्सम॑नम॒-द्यथा᳚, वरु॑णो॒-ऽद्भि-स्साम्ने॒] 50
वरु॑णो॒-ऽद्भि-स्साम्ने॒ सम॑नमदृ॒चे सम॑नम॒द्यथा॒ साम॒र्चा ब्रह्म॑णे॒ सम॑नम-त्क्ष॒त्राय॒ सम॑नम॒द्यथा॒ ब्रह्म॑ क्ष॒त्रेण॒ राज्ञे॒ सम॑नम-द्वि॒शे सम॑नम॒द्यथा॒ राजा॑ वि॒शा रथा॑य॒-स्सम॑नम॒दश्वे᳚भ्य॒-स्सम॑नम॒द्यथा॒ रथो-ऽश्वैः᳚ प्र॒जाप॑तये॒ सम॑नम-द्भू॒तेभ्य॒-स्सम॑नम॒द्यथा᳚ प्र॒जाप॑तिर्भू॒तै-स्स॒मन॑मदे॒व-म्मह्य॑-म्भ॒द्रा-स्सन्न॑तय॒-स्स-न्न॑मन्तु ॥ 51 ॥
(अ॒द्भ्य-स्सम॑नम॒द्यथा॒-मह्यं॑-च॒त्वारि॑ च) (अ. 23)
ये ते॒ पन्था॑न-स्सवितः पू॒र्व्यासो॑-ऽरे॒णवो॒ वित॑ता अ॒न्तरि॑क्षे । तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च देव ब्रूहि ॥ नमो॒-ऽग्नये॑ पृथिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमो॑ वा॒यवे᳚-ऽन्तरिक्ष॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नम॒-स्सूर्या॑य दिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि ॥ 52 ॥
(ये ते॒ - चतु॑श्चत्वारिग्ंशत्) (अ. 24)
यो वा अश्व॑स्य॒ मेद्ध्य॑स्य॒ शिरो॒ वेद॑ शीर्ष॒ण्वा-न्मेद्ध्यो॑ भवत्यु॒षा वा अश्व॑स्य॒ मेद्ध्य॑स्य॒ शिर॒-स्सूर्य॒श्चक्षु॒र्वातः॑ प्रा॒णश्च॒न्द्रमा॒-श्श्रोत्र॒-न्दिशः॒ पादा॑ अवान्तरदि॒शाः पर्श॑वो-ऽहोरा॒त्रे नि॑मे॒षो᳚-ऽर्धमा॒साः पर्वा॑णि॒ मासा᳚-स्स॒धान्ना᳚न्यृ॒तवो-ऽङ्गा॑नि संवँथ्स॒र आ॒त्मा र॒श्मयः॒ केशा॒ नक्ष॑त्राणि रू॒प-न्तार॑का अ॒स्थानि॒ नभो॑ मा॒ग्ं॒सान्योष॑धयो॒ लोमा॑नि॒ वन॒स्पत॑यो॒ वाला॑ अ॒ग्निर्मुखं॑-वैँश्वान॒रो व्यात्तग्ं॑ [व्यात्त᳚म्, स॒मु॒द्र उ॒दर॑म॒न्तरि॑क्ष-] 53
समु॒द्र उ॒दर॑म॒न्तरि॑क्ष-म्पा॒यु-र्द्यावा॑पृथि॒वी आ॒ण्डौ ग्रावा॒ शेप॒-स्सोमो॒ रेतो॒ यज्ज॑ञ्ज॒भ्यते॒ तद्वि द्यो॑तते॒ यद्वि॑धूनु॒ते त-थ्स्त॑नयति॒ यन्मेह॑ति॒ तद्व॑र्षति॒ वागे॒वास्य॒ वागह॒र्वा अश्व॑स्य॒ जाय॑मानस्य महि॒मा पु॒रस्ता᳚ज्जायते॒ रात्रि॑रेन-म्महि॒मा प॒श्चादनु॑ जायत ए॒तौ वै म॑हि॒माना॒-वश्व॑म॒भित॒-स्स-म्ब॑भूवतु॒र्॒हयो॑ दे॒वान॑वह॒ दर्वा-ऽसु॑रान् वा॒जी ग॑न्ध॒र्वा-नश्वो॑ मनु॒ष्या᳚न्-थ्समु॒द्रो वा अश्व॑स्य॒ योनिः॑ समु॒द्रो बन्धुः॑ ॥ 54 ॥
(व्यात्त॑ - मवह॒-द्- द्वाद॑श च ) (अ. 25)
(गावो॒ - गाव॒-स्सिषा॑सन्तीः- प्रथ॒मे मा॒सि - स॑मा॒न्यो॑ - यदि॒ सोमौ॑- षड॒है - रु॒-थ्सृज्या(3)न् - दे॒वाना॑ - म॒र्क्ये॑ण॒ - चर्मा-ऽव॑ - पृथि॒व्यै - द॒त्वते॒ - कस्त्वा॒ - ऽग्नये॒ - यो वै - यः प्रा॑ण॒तो - य आ᳚त्म॒दा - आ ब्रह्म॒ - न्ना-ऽक्रा॒न् - जज्ञि॒ बीज॑ - माग्ने॒यो᳚-ऽष्टाक॑पालो॒ - ऽग्नये-ऽग्ं॑हो॒मुचे॒-ऽष्टाक॑पालो॒ - ऽग्नये॒सम॑नम॒--द्ये ते॒ पन्था॑नो॒ - यो वा अश्व॑स्य॒मेद्ध्य॑स्य॒ शिरः॒ - पञ्च॑विग्ंशतिः)
(गावः॑ - समा॒न्यः॑ - सव॑नमष्टा॒भि - र्वा ए॒ते दे॒वकृ॑तञ्चा - ऽभि॒जित्या॒ इत्या॑हु॒ -र्वरु॑णो॒-ऽद्भि-स्साम्ने॒ - चतु॑ष् पञ्चा॒सत्)
(गावो॒, योनि॑ स्समु॒द्रो बन्धुः॑)
(प्र॒जनन॑ग्ं - साद्याः - प्र॒जवं॒ - बृह॒स्पति॒ - र्गावः - पञ्च॑) (7)
(इ॒षे, वा॑य॒व्य॑, म्प्र॒जाप॑ति, र्युञ्जा॒ना, स्सा॑वि॒त्राणि॑, प्राचीन॑वग्ंश, म्प्र॒जन॑नग्ं, सप्त) (7)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां सप्तमकाण्डे पञ्चमः प्रश्न-स्समाप्तः ॥
॥ इति तैत्तिरीयसंहिता समाप्ता ॥
Roman (IAST) Transliteration
kṛṣṇa yajurvedīya taittirīya saṃhitāyāṃ saptamakāṇḍe pañcamaḥ praśnaḥ - satraviśeṣābhidhānaṃ
o-nnamaḥ paramātmane, śrī mahāgaṇapataye namaḥ,
śrī gurubhyo namaḥ | ha॒riḥ॒ om ||
gāvo॒ vā e॒ta-thsa॒tra-mā̭satāśṛ॒ṅgā-ssa॒tī-śśṛṅgā̭ṇi no jāyantā॒ iti॒ kāmḙna॒ tāsā॒-ndaśa॒māsā॒ niṣa̭ṇṇā॒ āsa॒nnatha॒ śṛṅgā᳚ṇyajāyanta॒ tā uda̭tiṣṭha॒nnarā॒thsmetyatha॒ yāsā॒-nnājā̭yanta॒ tā-ssaṃ̭va~thsa॒ra-mā॒ptvoda̭tiṣṭha॒ -nnarā॒thsmeti॒ yāsā॒-ñcājā̭yanta॒ yāsā᳚-ñca॒ na tā u॒bhayī॒ru-da̭tiṣṭha॒-nnarā॒thsmeti̭ gosa॒traṃ-vai~ [gosa॒traṃ-vai~, saṃ॒va~॒thsa॒ro ya] 1
saṃ̭va~thsa॒ro ya e॒vaṃ-vi~॒dvāgṃsaḥ̭ saṃva~thsa॒ra-mṷpa॒yantyṛ̭ddhnu॒vantye॒va tasmā᳚-ttūpa॒rā vārṣi̭kau॒ māsau॒ partvā̭ carati sa॒trābhi̭jita॒gg॒hya̭syai॒ tasmā᳚-thsaṃva~thsara॒sado॒ ya-tki-ñca̭ gṛ॒he kri॒yate॒ tadā॒pta-mava̭ruddha-ma॒bhiji̭ta-ṅkriyate samu॒draṃ-vā~ e॒te pra pla̭vante॒ ye saṃ̭va~thsa॒ramṷpa॒yanti॒ yo vai sa̭mu॒drasya̭ pā॒ra-nna paśya̭ti॒ na vai sa tata॒ udḙti saṃva~thsa॒ro [udḙti saṃva~thsa॒raḥ, vai sa̭mu॒dra-] 2
vai sa̭mu॒dra-stasyai॒ta-tpā॒raṃ-ya~da̭tirā॒trau ya e॒vaṃ-vi~॒dvāgṃsaḥ̭ saṃva~thsa॒ra-mṷpa॒yantyanā᳚rtā e॒vodṛca̭-ṅgacchantī॒yaṃ-vai~ pūrvo̭-'tirā॒tro̭ 'sāvutta̭ro॒ manaḥ॒ pūrvo॒ vāgutta̭raḥ prā॒ṇaḥ pūrvo̭-'pā॒na utta̭raḥ pra॒rodha̭na॒-mpūrva̭ u॒daya̭na॒mutta̭ro॒ jyoti̭ṣṭomo vaiśvāna॒ro̭ 'tirā॒tro bha̭vati॒ jyoti̭re॒va pu॒rastā᳚ddadhate suva॒rgasya̭ lo॒kasyā-nṷkhyātyai caturvi॒gṃ॒śaḥ prā̭ya॒ṇīyo̭ bhavati॒ catṷrvigṃśati-rardhamā॒sā- [catṷrvigṃśati-rardhamā॒sāḥ, saṃ॒va~॒thsa॒raḥ] 3
-ssaṃ̭va~thsa॒raḥ pra॒yanta̭ e॒va saṃ̭va~thsa॒re prati̭ tiṣṭhanti॒ tasya॒ trīṇi̭ ca śa॒tāni̭ ṣa॒ṣṭiśca̭ sto॒trīyā॒stāva̭tī-ssaṃva~thsa॒rasya॒ rātra̭ya u॒bhe e॒va saṃ̭va~thsa॒rasya̭ rū॒pe ā᳚pnuvanti॒ te saggsthi̭tyā॒ ari̭ṣṭyā॒ utta̭rai॒raho̭bhiścaranti ṣaḍa॒hā bha̭vanti॒ ṣa-ḍvā ṛ॒tavaḥ̭ saṃva~thsa॒ra ṛ॒tuṣve॒va saṃ̭va~thsa॒re prati̭ tiṣṭhanti॒ gauścā-''yṷśca maddhya॒ta-sstomaṷ bhavata-ssaṃva~thsa॒rasyai॒va tanmi̭thu॒na-mma̭ddhya॒to [tanmi̭thu॒na-mma̭ddhya॒taḥ, da॒dha॒ti॒ pra॒jana̭nāya॒] 4
da̭dhati pra॒jana̭nāya॒ jyoti̭ra॒bhito̭ bhavati vi॒moca̭name॒va tacchandāg̭sye॒va ta-dvi॒mokaṃ̭-ya~॒ntyatho̭ ubha॒yato᳚jyotiṣai॒va ṣa̭ḍa॒hena̭ suva॒rgaṃ-lo~॒kaṃ-ya~̭nti brahmavā॒dino̭ vada॒ntyāsa̭te॒ kena̭ ya॒ntīti̭ deva॒yānḙna pa॒theti̭ brūyā॒cchandāgṃ̭si॒ vai dḙva॒yānaḥ॒ panthā̭ gāya॒trī tri॒ṣṭub-jaga̭tī॒jyoti॒rvai gā̭ya॒trī gaustri॒ṣṭugāyu॒rjaga̭tī॒ yade॒te stomā॒ bhava̭nti deva॒yānḙnai॒va [ ] 5
ta-tpa॒thā ya̭nti samā॒nagṃ sāma̭ bhavati devalo॒ko vai sāma̭ devalo॒kāde॒va naya̭ntya॒nyāa̭nyā॒ ṛco̭ bhavanti manuṣyalo॒ko vā ṛco̭ manuṣyalo॒kāde॒vānyama̭nya-ndevalo॒kama̭bhyā॒roha̭nto yantyabhiva॒rto bra̭hmasā॒ma-mbha̭vati suva॒rgasya̭ lo॒kasyā॒bhivṛ̭tyā abhi॒ji-dbha̭vati suva॒rgasya̭ lo॒kasyā॒bhiji̭tyai viśva॒ji-dbha̭vati॒ viśva̭sya॒ jityai̭ mā॒simā̭si pṛ॒ṣṭhānyupa̭ yanti mā॒simā᳚syatigrā॒hyā̭ gṛhyante mā॒simā᳚sye॒va vī॒rya̭-ndadhati mā॒sā-mprati̭ṣṭhityā u॒pari̭ṣṭānmā॒sā-mpṛ॒ṣṭhānyupa̭ yanti॒ tasmā̭du॒pari̭ṣṭā॒doṣa̭dhayaḥ॒ phala̭-ṅgṛhṇanti || 6 ||
(go॒sa॒traṃ-vā~ - ḙti saṃva~thsa॒ro᳚ - 'rdhamā॒sā - mi̭thu॒na-mma̭ddhya॒to - dḙva॒yānḙnai॒va - vī॒ryaṃ̭ - trayo̭daśa ca) (a. 1)
gāvo॒ vā e॒ta-thsa॒tramā̭satāśṛ॒ṅgā-ssa॒tī-śśṛṅgā̭ṇi॒ siṣā̭santī॒stāsā॒-ndaśa॒ māsā॒ niṣa̭ṇṇā॒ āsa॒nnatha॒ śṛṅgā᳚ṇyajāyanta॒ tā a̭bruva॒nnarā॒thsmo-tti̭ṣṭhā॒māva॒ ta-ṅkāma̭maruthsmahi॒ yena॒ kāmḙna॒ nyaṣa̭dā॒meti॒ tāsā̭mu॒ tvā a̭bruvanna॒rdhāvā॒ yāva̭tī॒rvā-''sā̭mahā e॒vemaudvā̭da॒śau māsaṷ saṃva~thsa॒ragṃ sa॒pāndyo-tti̭ṣṭhā॒meti॒ tāsā᳚- [tāsā᳚m, dvā॒da॒śe mā॒si] 7
-ndvāda॒śe mā॒si śṛṅgā̭ṇi॒ prāva̭rtanta śra॒ddhayā॒ vā-'śra̭ddhayā vā॒ tā i॒mā yāstṷ̄pa॒rā u॒bhayyo॒ vāva tā ā᳚rdhnuva॒n॒. yāśca॒ śṛṅgā॒ṇyasa̭nva॒n॒. yāścorja̭ma॒vārṷndhata॒rdhnoti̭ da॒śasṷ mā॒sū᳚ttiṣṭha̭nnṛ॒ddhnoti̭ dvāda॒śasu॒ ya e॒vaṃ-ve~da̭ pa॒dena॒ khalu॒ vā e॒te ya̭nti vi॒ndati॒ khalu॒ vai pa॒dena॒ ya-ntadvā e॒tadṛ॒ddhamaya̭na॒-ntasmā̭ de॒ta-dgo॒sani̭ || 8 ||
(ti॒ṣṭhā॒meti॒ tāsāṃ॒ - tasmā॒-d- dve ca̭) (a. 2)
pra॒tha॒me mā॒si pṛ॒ṣṭhānyupa̭ yanti maddhya॒ma upa̭ yantyutta॒ma upa̭ yanti॒ tadā̭hu॒ryāṃ-vai~ trireka॒syāhna̭ upa॒sīda̭nti da॒hraṃ-vai~ sā-'pa̭rābhyā॒-ndohā᳚bhyā-ndu॒he-'tha॒ kuta॒-ssā dho᳚kṣyate॒ yā-ndvāda̭śa॒ kṛtva̭ upa॒sīda॒ntīti̭ saṃva~thsa॒ragṃ sa॒pāndyo᳚tta॒me mā॒si sa॒kṛ-tpṛ॒ṣṭhānyupḙyu॒sta-dyaja̭mānā ya॒jña-mpa॒śūnava̭ rundhate samu॒draṃ-vā~ [samu॒draṃ-vai~, e॒tḙ-'navā॒rama̭pā॒ra-mpra] 9
e॒tḙ-'navā॒rama̭pā॒ra-mpra pla̭vante॒ ye saṃ̭va~thsa॒ramṷpa॒yanti॒ ya-dbṛ̭ha-drathanta॒re a॒nvarjḙyu॒ryathā॒ maddhyḙ samu॒drasya̭ pla॒vama॒nvarjḙyustā॒dṛ-ktadanṷthsarga-mbṛha-drathanta॒rābhyā̭mi॒tvā pra̭ti॒ṣṭhā-ṅga̭cchanti॒ sarve᳚bhyo॒ vai kāme᳚bhya-ssa॒ndhirdṷhe॒ ta-dyaja̭mānā॒-ssarvā॒n kāmā॒nava̭ rundhate || 10 ||
(sa॒mu॒draṃ-vai~ - catṷstrigṃśacca) (a. 3)
sa॒mā॒nya̭ ṛco̭ bhavanti manuṣyalo॒ko vā ṛco̭ manuṣyalo॒kāde॒va na ya̭ntya॒nyada̭nya॒-thsāma̭ bhavati devalo॒ko vai sāma̭ devalo॒kāde॒vānyama̭nya-mmanuṣyalo॒ka-mpra̭tyava॒roha̭nto yanti॒ jaga̭tī॒magra॒ upa̭ yanti॒ jaga̭tīṃ॒-vai~ chandāgṃ̭si pra॒tyava̭rohantyā-graya॒ṇa-ṅgrahā̭ bṛ॒ha-tpṛ॒ṣṭhāni̭ trayastri॒gṃ॒śaggstomā॒-stasmā॒-jjyāyāgṃ̭sa॒-ṅkanī̭yā-npra॒tyava̭rohati vaiśvakarma॒ṇo gṛ̭hyate॒viśvā᳚nye॒va tena॒ karmā̭ṇi॒ yaja̭mānā॒ ava̭ rundhata ādi॒tyo [ādi॒tyaḥ, gṛ॒hya॒ta॒ i॒yaṃ-vā~] 11
gṛ̭hyata i॒yaṃ-vā~ adi̭tira॒syāme॒va prati̭ tiṣṭhantya॒nyo᳚-'nyo gṛhyete mithuna॒tvāya॒ prajā᳚tyā avānta॒raṃ-vai~ da̭śarā॒treṇa̭ pra॒jāpa̭tiḥ pra॒jā a̭sṛjata॒ ya-dda̭śarā॒tro bhava̭ti pra॒jā e॒va ta-dyaja̭mānā-ssṛjanta e॒tāgṃ ha॒ vā ṷda॒ṅka-śśau᳚lbāya॒na-ssa॒trasyardhi̭muvāca॒ ya-dda̭śarā॒troya-dda̭śarā॒tro bhava̭ti sa॒trasyardhyā॒ atho॒ yade॒va pūrve॒ṣvaha̭ssu॒ vilo̭ma kri॒yate॒ tasyai॒vai ( )-ṣā śāntiḥ̭ || 12 ||
(ā॒di॒tya - stasyai॒va - dve ca̭) (a. 4)
yadi॒ somau॒ sagṃsṷtau॒ syātā᳚-mmaha॒ti rātri̭yai prātaranuvā॒ka-mu॒pākṷryā॒-tpūrvo॒ vāca॒-mpūrvo̭ de॒vatāḥ॒ pūrva॒-śchandāgṃ̭si vṛṅkte॒ vṛṣa̭ṇvatī-mprati॒pada̭-ṅkuryā-tprātassava॒nāde॒vaiṣā॒mindraṃ̭-vṛ~॒ṅkte 'tho॒ khalvā̭hussavanamu॒khe-sa̭vanamukhe kā॒ryeti̭ savanamu॒khā-thsa̭vanamukhā-de॒vaiṣā॒mindraṃ̭-vṛ~ṅkte saṃve~॒śāyo̭pave॒śāya̭ gāyatri॒yāstri॒ṣṭubho॒ jaga̭tyā anu॒ṣṭubhaḥ̭ pa॒ṅktyā a॒bhibhū᳚tyai॒ svāhā॒ chandāgṃ̭si॒ vai saṃ̭ve~॒śa ṷpave॒śa-śchando̭bhi-re॒vaiṣā॒- [ṷpave॒śa-śchando̭bhi-re॒vaiṣā᳚m, chandāgṃ̭si] 13
-ñchandāgṃ̭si vṛṅkte saja॒nīya॒gṃ॒ śasyaṃ̭-vi~ha॒vyagṃ̭ śasya̭ma॒gastya̭sya kayāśu॒bhīya॒gṃ॒ śasya̭me॒tāva॒dvā a̭sti॒ yāva̭de॒ta-dyāva̭de॒vāsti॒ tadḙṣāṃ-vṛ~ṅkte॒ yadi̭ prātassava॒ne ka॒laśo॒ dīryḙta vaiṣṇa॒vīṣṷ śipivi॒ṣṭava̭tīṣu stuvīra॒n॒.yadvai ya॒jñasyā̭-ti॒ricya̭te॒ viṣṇu॒-ntacchi̭pivi॒ṣṭama॒bhyati̭ ricyate॒ tadviṣṇuḥ̭ śipivi॒ṣṭo-'ti̭rikta e॒vāti̭rikta-ndadhā॒tyatho॒ ati̭riktenai॒vā-ti̭riktamā॒ptvā-'va̭ rundhate॒ yadi̭ ma॒ddhyandi̭ne॒ dīryḙta vaṣaṭkā॒rani̭dhana॒gṃ॒ sāma̭ kuryurvaṣaṭkā॒ro vai ya॒jñasya̭ prati॒ṣṭhā pra̭ti॒ṣṭhāme॒vaina̭-dgamayanti॒ yadi̭ tṛtīyasava॒na e॒tade॒va || 14 ||
(chando̭bhire॒vaiṣā॒ - mavai - kā॒nnavigṃ̭śa॒tiśca̭) (a. 5)
ṣa॒ḍa॒hai-rmāsā᳚n-thsa॒mpādyā-'ha॒ru-thsṛ̭janti ṣaḍa॒hairhi māsā᳚n-thsa॒mpaśya̭ntya-rdhamā॒sairmāsā᳚n-thsa॒mpādyāha॒ru-thsṛ̭jantya-rdhamā॒sairhi māsā᳚n-thsa॒mpaśya̭ntyamāvā॒sya̭yā॒ māsā᳚n-thsa॒mpādyāha॒ru-thsṛ̭jantyamāvā॒sya̭yā॒ hi māsā᳚n-thsa॒mpaśya̭nti paurṇamā॒syā māsā᳚n-thsa॒mpādyā-'haru-thsṛ̭janti paurṇamā॒syā hi māsā᳚n-thsa॒mpaśya̭nti॒ yo vai pū॒rṇa ā̭si॒ñcati॒ parā॒ sa si̭ñcati॒ yaḥ pū॒rṇādu॒daca̭ti [ ] 15
prā॒ṇama̭smi॒nthsa da̭dhāti॒ ya-tpau᳚rṇamā॒syā māsā᳚n-thsa॒pāndyāha̭ru-thsṛ॒janti̭ saṃva~thsa॒rāyai॒va ta-tprā॒ṇa-nda̭dhati॒ tadanṷ sa॒triṇaḥ॒ prāṇa̭nti॒ yadaha॒rno-thsṛ॒jeyu॒ryathā॒ dṛti॒rupa̭naddho vi॒pata̭tye॒vagṃ saṃ̭va~thsa॒ro vi pa̭te॒dārti॒-mārcchḙyu॒rya-tpau᳚rṇamā॒syā māsā᳚n-thsa॒pāndyāha̭ru-thsṛ॒janti̭ saṃva~thsa॒rāyai॒va tadṷdā॒na-nda̭dhati॒ tadanṷ sa॒triṇa॒ u- [sa॒triṇa॒ ut, a॒na॒nti॒ nā-''rti॒-mārccha̭nti] 16
-da̭nanti॒ nā-''rti॒-mārccha̭nti pū॒rṇamā̭se॒ vai de॒vānāgṃ̭ su॒to ya-tpau᳚rṇamā॒syā māsā᳚n-thsa॒pāndyāha̭ru-thsṛ॒janti̭ de॒vānā̭me॒va ta-dya॒jñena̭ ya॒jña-mpra॒tyava̭rohanti॒ vi vā e॒ta-dya॒jña-ñchi̭ndanti॒ ya-thṣa̭ḍa॒hasa̭tanta॒gṃ॒ santa॒mathāha̭ru-thsṛ॒janti̭ prājāpa॒tya-mpa॒śumā la̭bhante pra॒jāpa̭ti॒-ssarvā̭ de॒vatā̭ de॒vatā̭bhire॒va ya॒jñagṃ sa-nta̭nvanti॒ yanti॒ vā e॒te sava̭nā॒dye-'ha̭- [sava̭nā॒dye-'haḥ̭, u॒-thsṛ॒janti̭] 17
-ru-thsṛ॒janti̭ tu॒rīya॒-ṅkhalu॒ vā e॒ta-thsava̭naṃ॒-ya~-thsā᳚nāṃ॒yyaṃ-ya~-thsā᳚nāṃ॒yya-mbhava̭ti॒ tenai॒va sava̭nā॒nna ya̭nti samupa॒hūya̭ bhakṣayantye॒tath- so̭mapīthā॒ hyḙtarhi̭ yathāyata॒naṃ-vā~ e॒teṣāgṃ̭ savana॒bhājo̭ de॒vatā̭ gacchanti॒ ye-'ha̭ru-thsṛ॒jantya̭nusava॒na-mpṷro॒ḍāśā॒-nnirva̭panti yathāyata॒nāde॒va sa̭vana॒bhājo̭ de॒vatā॒ ava̭ rundhate॒ 'ṣṭāka̭pālā-nprātassava॒na ekā̭daśakapālā॒-nmāddhya̭ndine॒ sava̭ne॒ dvāda̭śakapālāg-stṛtīyasava॒ne chandāg̭sye॒vā-''ptvā -'va̭ rundhate vaiśvade॒va-ñca॒ru-ntṛ̭tīyasava॒ne nirva̭panti vaiśvade॒vaṃ-vai~ tṛ̭tīyasava॒na-ntenai॒va tṛ̭tīyasava॒nānna ya̭nti || 18 ||
(u॒daca॒ - tyu - dye-'ha̭ - rā॒ptvā - pañca̭daśa ca) (a. 6)
u॒thsṛjyāṃ(3)nothsṛjyā(3)miti̭ mīmāgṃsante brahmavā॒dina॒-stadvā̭huru॒-thsṛjya̭me॒vetya̭-māvā॒syā̭yā-ñca paurṇamā॒syā-ñco॒-thsṛjya॒mityā̭hure॒te hi ya॒jñaṃ-va~ha̭ta॒ iti॒ te tvāva nothsṛjye॒ ityā̭hu॒rye a̭vānta॒raṃ-ya~॒jña-mbhe॒jāte॒ iti॒ yā pra̭tha॒mā vya̭ṣṭakā॒ tasyā̭mu॒-thsṛjya॒mityā̭hure॒ṣa vai mā॒so vi̭śa॒ra iti॒ nā-''di̭ṣṭa॒- [nā-''di̭ṣṭam, uthsṛ̭jeyu॒-] 19
-muthsṛ̭jeyu॒-ryadādi̭ṣṭa-muthsṛ॒jeyṷryā॒dṛśe॒ punaḥ̭ paryāplā॒ve maddhyḙ ṣaḍa॒hasya̭ sa॒pandyḙta ṣaḍa॒hairmāsā᳚n-thsa॒pāndya॒ ya-thsa̭pta॒ma- maha॒stasmi॒nnu-thsṛ̭jeyu॒-stada॒gnaye॒ vasṷmate puro॒ḍāśa̭ma॒ṣṭāka̭pāla॒-nnirva̭peyurai॒ndra-ndadhīndrā̭ya ma॒rutva̭te puro॒ḍāśa॒mekā̭daśakapālaṃ-vai~śvade॒va-ndvāda̭śakapālama॒gnervai vasṷmataḥ prātassava॒naṃ-ya~da॒gnaye॒ vasṷmate puro॒ḍāśa̭ma॒ṣṭāka̭pāla-nni॒rvapa̭nti de॒vatā̭me॒va ta-dbhā॒ginī᳚-ṅku॒rvanti॒ [-ṅku॒rvanti̭, sava̭na] 20
sava̭na-maṣṭā॒bhirupa̭ yanti॒ yadai॒ndra-ndadhi॒ bhava॒tīndra̭me॒va ta-dbhā̭ga॒dheyā॒nna cyā̭vaya॒ntīndra̭sya॒ vai ma॒rutva̭to॒ māddhya̭ndina॒gṃ॒ sava̭naṃ॒-ya~dindrā̭ya ma॒rutva̭te puro॒ḍāśa॒mekā̭daśakapāla-nni॒rvapa̭nti de॒vatā̭me॒va ta-dbhā॒ginī᳚-ṅku॒rvanti॒ sava̭namekāda॒śabhi॒rupa̭ yanti॒ viśvḙṣāṃ॒-vai~ de॒vānā̭mṛbhu॒matā᳚-ntṛtīyasava॒naṃya~-dvai᳚śvade॒va-ndvāda̭śakapāla-nni॒rvapa̭nti de॒vatā̭ e॒va ta-dbhā॒ginīḥ᳚ ku॒rvanti॒ sava̭na-ndvāda॒śabhi॒- [sava̭na-ndvāda॒śabhiḥ̭, upa̭ yanti] 21
-rupa̭ yanti prājāpa॒tya-mpa॒śumā la̭bhante ya॒jño vai pra॒jāpa̭ti-rya॒jñasyā-na̭nusargāyābhiva॒rta i॒ta-ṣṣaṇmā॒so bra̭hmasā॒ma-mbha̭vati॒ brahma॒ vā a̭bhiva॒rto brahma̭ṇai॒va ta-thsṷva॒rgaṃ-lo~॒ka-ma̭bhiva॒rtaya̭nto yanti pratikū॒lami̭va॒ hīta-ssṷva॒rgo lo॒ka indra॒ kratṷ-nna॒ ā bha̭ra pi॒tā pu॒trebhyo॒ yathā᳚ | śikṣā̭ no a॒smi-npṷruhūta॒ yāma̭ni jī॒vā jyoti̭-raśīma॒hītya॒-muta̭ āya॒tāgṃ ṣaṇmā॒so bra̭hmasā॒ma-mbha̭vatya॒yaṃ-vai~ lo॒ko jyotiḥ̭ pra॒jā jyoti̭ri॒mame॒va tallo॒ka-mpaśya̭nto-'bhi॒vada̭nta॒ ā ya̭nti || 22 ||
(nā-''di̭ṣṭaṃ - ku॒rvanti̭ - dvāda॒śabhi॒ - riti̭- vigṃśa॒tiśca̭) (a. 7)
de॒vānāṃ॒-vā~ anta̭-ñja॒gmuṣā̭mindri॒yaṃ-vī~॒rya̭-mapā᳚krāma॒-tta-tkro॒śenāvā̭rundhata॒ ta-tkro॒śasya̭ krośa॒tvaṃ-ya~-tkro॒śena॒ cātvā̭la॒syānte᳚ stu॒vanti̭ ya॒jñasyai॒vānta̭-ṅga॒tvendri॒yaṃ-vī~॒rya̭mava̭ rundhate sa॒trasyardhyā̭ ''hava॒nīya॒syānte᳚ stuvantya॒gni-me॒vopa̭-dra॒ṣṭāra̭-ṅkṛ॒tvardhi॒mupa̭ yanti pra॒jāpa̭te॒r॒hṛda̭yena havi॒rdhāne॒-'nta-sstṷvanti pre॒māṇa̭me॒vāsya̭ gacchanti ślo॒kena̭ pu॒rastā॒-thsada̭sa- [pu॒rastā॒-thsada̭saḥ, stu॒va॒ntyanṷślokena] 23
-sstuva॒ntyanṷślokena pa॒ścā-dya॒jñasyai॒vānta̭-ṅga॒tvā ślo̭ka॒bhājo̭ bhavanti na॒vabhi̭-raddhva॒ryuru-dgā̭yati॒ nava॒ vai purṷṣe prā॒ṇāḥ prā॒ṇāne॒va yaja̭māneṣu dadhāti॒ sarvā̭ ai॒ndriyo̭ bhavanti prā॒ṇeṣve॒vendri॒ya-nda̭dha॒-tyapra̭tihṛtābhi॒ru-dgā̭yati॒ tasmā॒-tpurṷṣa॒-ssarvā᳚ṇya॒nyāni̭ śī॒rṣṇo-'ṅgā̭ni॒ pratya̭cati॒ śira̭ e॒va na pa̭ñcada॒śagṃra̭thanta॒ra-mbha̭vatīndri॒yame॒vāva̭ rundhate saptada॒śa- [saptada॒śam, bṛ॒ha-da॒nnādya॒syā] 24
-mbṛ॒ha-da॒nnādya॒syā-'va̭ruddhyā॒ atho॒ praiva tena̭ jāyanta ekavi॒gṃ॒śa-mbha॒dra-ndvi॒padā̭su॒ prati̭ṣṭhityai॒ patna̭ya॒ upa̭ gāyanti mithuna॒tvāya॒ prajā᳚tyai pra॒jā̭patiḥ pra॒jā a̭sṛjata॒ so̭-'kāmayatā॒-''sāma॒hagṃ rā॒jya-mparī̭yā॒miti॒ tāsāgṃ̭ rāja॒nenai॒va rā॒jya-mparyai॒-tta-drā̭ja॒nasya̭ rājana॒tvaṃ-ya~-drā̭ja॒na-mbhava̭ti pra॒jānā̭me॒va ta-dyaja̭mānā rā॒jya-mpari̭ yanti pañcavi॒gṃ॒śa-mbha̭vati pra॒jāpa̭te॒- [pra॒jāpa̭teḥ, āptyai̭ pa॒ñcabhi॒-stiṣṭha̭nta-sstuvanti] 25
-rāptyai̭ pa॒ñcabhi॒-stiṣṭha̭nta-sstuvanti devalo॒kame॒vābhi ja̭yanti pa॒ñcabhi॒rāsī̭nā manuṣyalo॒kame॒vābhi ja̭yanti॒ daśa॒ sampa̭dyante॒ daśā᳚kṣarā vi॒rāḍannaṃ̭-vi~॒rā-ḍvi॒rājai॒vā-nnādya॒mava̭ rundhate pañca॒dhā vi̭ni॒ṣadya̭ stuvanti॒ pañca॒ diśo̭ di॒kṣvḙva prati̭tiṣṭha॒ntyekai̭ka॒yā-'stṷtayā sa॒māya̭nti di॒gbhya e॒vānnādya॒gṃ॒ sa-mbha̭ranti॒ tābhi̭-rudgā॒to-dgā̭yati di॒gbhya e॒vā-'nnādyagṃ̭ [e॒vā-'nnādya᳚m, sa॒mbhṛtya॒ teja̭] 26
sa॒mbhṛtya॒ teja̭ ā॒tma-nda̭dhate॒ tasmā॒dekaḥ̭ prā॒ṇa-ssarvā॒ṇyaṅgā᳚nyava॒tyatho॒ yathā̭ supa॒rṇa ṷtpati॒ṣyañchira̭ utta॒ma-ṅkṷru॒ta e॒vame॒va ta-dyaja̭mānāḥ pra॒jānā̭mutta॒mā bha̭vantyāsa॒ndī-mṷdgā॒tā ''ro̭hati॒ sāmrā᳚jyame॒va ga̭cchanti ple॒ṅkhagṃ hotā॒ nāka̭syai॒va pṛ॒ṣṭhagṃ ro̭hanti kū॒rcāva̭ddhva॒ryu-rbra॒ddhnasyai॒va vi॒ṣṭapa̭-ṅgacchantye॒tāva̭nto॒ vai dḙvalo॒kāsteṣve॒va ya̭thāpū॒rva-mprati̭ tiṣṭha॒ntyatho̭ ā॒krama̭ṇame॒va ta-thsetuṃ॒-ya~ja̭mānāḥ kurvate suva॒rgasya̭ lo॒kasya॒ sama̭ṣṭyai || 27 ||
(sada̭saḥ-saptada॒śaṃ-pra॒jāpa̭te-rgāyati di॒gbhya e॒vānnādyaṃ॒-pratye-kā̭daśa ca) (a. 8)
a॒rkyḙṇa॒ vai sa̭hasra॒śaḥ pra॒jāpa̭tiḥ pra॒jā a̭sṛjata॒ tābhya॒ ilā᳚de॒nnerāṃ॒-lū~tā॒mavā̭rundha॒ yada॒rkya̭-mbhava̭ti pra॒jā e॒va ta-dyaja̭mānā-ssṛjanta॒ ilā᳚da-mbhavati pra॒jābhya̭ e॒va sṛ॒ṣṭābhya॒ irāṃ॒-lū~tā॒mava̭ rundhate॒ tasmā॒dyāgṃ samāgṃ̭ sa॒tragṃ samṛ̭ddha॒-ṅkṣodhṷkā॒stāgṃ samā᳚-mpra॒jā iṣa॒gg॒ hyā̭sā॒mūrja̭mā॒dada̭te॒ yāgṃ samāṃ॒-vyṛ~̭ddha॒-makṣo̭dhukā॒stāgṃ samā᳚-mpra॒jā [samā᳚-mpra॒jāḥ, na hyā̭sā॒miṣa॒] 28
na hyā̭sā॒miṣa॒-mūrja̭-mā॒dada̭ta utkro॒da-ṅkṷrvate॒ yathā̭ ba॒ndhā-nmṷmucā॒nā ṷtkro॒da-ṅku॒rvata̭ e॒vame॒va ta-dyaja̭mānā devaba॒ndhā-nmṷmucā॒nā ṷtkro॒da-ṅkṷrvata॒ iṣa॒mūrja̭mā॒tma-ndadhā̭nā vā॒ṇa-śśa॒tata̭nturbhavati śa॒tāyuḥ॒ purṷṣa-śśa॒tendri̭ya॒ āyṷṣye॒vendri॒ye prati̭ tiṣṭhantyā॒ji-ndhā̭va॒ntyana̭bhijitasyā॒-bhiji̭tyai dundu॒bhīn-thsa॒māghna̭nti para॒mā vā e॒ṣā vāgyā dṷndu॒bhau pa̭ra॒māme॒va [ ] 29
vāca॒mava̭ rundhate bhūmidundu॒bhimā ghna̭nti॒ yaivemāṃ-vā~-kpravi̭ṣṭā॒ tāme॒vāva̭ rundha॒te 'tho̭ i॒māme॒va ja̭yanti॒ sarvā॒ vāco̭ vadanti॒ sarvā̭sāṃ-vā~॒cāmava̭ruddhyā ā॒rdrecarma॒n vyāya̭cchete indri॒yasyā va̭ruddhyā॒ ā-'nyaḥ krośa̭ti॒ prānya-śśagṃ̭sati॒ ya ā॒krośa̭ti pu॒nātye॒vainā॒nthsa yaḥ pra॒śagṃsa̭ti pū॒teṣve॒vā-'nnādya̭-ndadhā॒tyṛṣi̭kṛta-ñca॒ [-ndadhā॒tyṛṣi̭kṛta-ñca॒, vā e॒te] 30
vā e॒te de॒vakṛ̭ta-ñca॒ pūrvai॒rmāsai॒rava̭ rundhate॒ ya-dbhṷ̄te॒cchadā॒gṃ॒ sāmā̭ni॒ bhava̭ntyu॒bhaya॒syāva̭ruddhyai॒ yanti॒ vā e॒te mi̭thu॒nādye saṃ̭va~thsa॒ra-mṷpa॒yantya̭ntarve॒di mi̭thu॒nau sa-mbha̭vata॒stenai॒va mi̭thu॒nānna ya̭nti || 31 ||
(vyṛ̭ddha॒makṣo̭dhukā॒stāgṃ samā᳚-mpra॒jāḥ - pa̭ra॒māme॒va - ca̭ - tri॒gṃ॒śacca̭) (a. 9)
carmāva̭ bhindanti pā॒pmāna̭me॒vaiṣā॒mava̭ bhindanti॒ mā-'pa̭ rāthsī॒rmā-'ti̭ vyāthsī॒rityā̭ha sampra॒tyḙvaiṣā᳚-mpā॒pmāna॒mava̭ bhindantyudaku॒mbhāna̭dhini॒dhāya̭ dā॒syo̭ mārjā॒līya॒-mpari̭ nṛtyanti pa॒do ni̭ghna॒tīri॒damma̭dhu॒-ṅgāya̭ntyo॒ madhu॒ vai de॒vānā᳚-mpara॒ma-ma॒nnādya̭-mpara॒mame॒vā-nnādya॒mava̭ rundhate pa॒do ni ghna̭nti mahī॒yāme॒vaiṣṷ dadhati || 32 ||
(carmai - kā॒nnapa̭ñcā॒śat) (a. 10)
pṛ॒thi॒vyai svāhā॒ 'ntari̭kṣāya॒ svāhā̭ di॒ve svāhā̭ samploṣya॒te svāhā̭ sa॒plaṃva~̭mānāya॒ svāhā॒ samplṷtāya॒ svāhā̭ meghāyiṣya॒te svāhā̭ meghāya॒te svāhā̭ meghi॒tāya॒ svāhā̭ me॒ghāya॒ svāhā̭ nīhā॒rāya॒ svāhā̭ ni॒hākā̭yai॒ svāhā᳚ prāsa॒cāya॒ svāhā᳚ praca॒lākā̭yai॒ svāhā̭ vidyotiṣya॒te svāhā̭ vi॒dyota̭mānāya॒ svāhā̭ saṃvi~॒dyota̭mānāya॒ svāhā᳚ stanayiṣya॒te svāhā᳚ sta॒naya̭te॒ svāho॒ -gragg sta॒naya̭te॒ svāhā̭ varṣiṣya॒te svāhā॒ varṣa̭te॒ svāhā̭ 'bhi॒varṣa̭te॒ svāhā̭ pari॒varṣa̭te॒ svāhā̭ saṃ॒va~rṣa̭te॒ [saṃ॒va~rṣa̭te, svāhā̭ 'nu॒varṣa̭te॒ svāhā̭] 33
svāhā̭ 'nu॒varṣa̭te॒ svāhā̭ śīkāyiṣya॒te svāhā̭ śīkāya॒te svāhā̭ śīki॒tāya॒ svāhā᳚proṣiṣya॒te svāhā᳚ pruṣṇa॒te svāhā̭ paripruṣṇa॒te svāho᳚-dgrahīṣya॒te svāho᳚ dgṛhṇa॒te svāho-dgṛ̭hītāya॒ svāhā̭ viploṣya॒te svāhā̭ vi॒plava̭mānāya॒ svāhā॒ viplṷtāya॒ svāhā̭ ''taphsya॒te svāhā॒ ''tapa̭te ॒svāho॒-gramā॒tapa̭te॒ svāha॒ -rgbhya-ssvāhā॒ yajṷrbhya॒-ssvāhā॒ sāma̭bhya॒-ssvāhā 'ṅgi̭robhya॒-ssvāhā॒ vede᳚bhya॒-ssvāhā॒ gāthā᳚bhya॒-ssvāhā̭ nārāśa॒gṃ॒sībhya॒-ssvāhā॒ raibhī᳚bhya॒-ssvāhā॒ sarva̭smai॒ svāhā᳚ || 34 ||
(saṃ॒va~rṣa̭te॒ - raibhī᳚bhya॒-ssvāhā॒ - dve ca̭) (a. 11)
da॒tvate॒ svāhā̭ 'da॒ntakā̭ya॒ svāhā᳚ prā॒ṇine॒ svāhā᳚ 'prā॒ṇāya॒ svāhā॒ mukha̭vate॒ svāhā̭-'mu॒khāya॒ svāhā॒ nāsi̭kavate॒ svāhā̭ 'nāsi॒kāya॒ svāhā᳚ 'kṣa॒ṇvate॒ svāhā̭-'na॒kṣikā̭ya॒ svāhā̭ ka॒rṇine॒ svāhā̭ 'ka॒rṇakā̭ya॒ svāhā̭ śīrṣa॒ṇvate॒ svāhā̭-'śī॒r॒ṣakā̭ya॒ svāhā̭ pa॒dvate॒ svāhā̭ 'pā॒dakā̭ya॒ svāhā᳚ prāṇa॒te svāhā 'prā̭ṇate॒ svāhā॒ vada̭te॒ svāhā 'va̭date॒ svāhā॒ paśya̭te॒ svāhā 'pa̭śyate॒ svāhā̭ śṛṇva॒te svāhā 'śṛ̭ṇvate॒ svāhā̭ mana॒svine॒ svāhā̭- [mana॒svine॒ svāhā᳚, a॒ma॒nase॒ svāhā̭] 35
-'ma॒nase॒ svāhā̭ reta॒svine॒ svāhā̭ 're॒taskā̭ya॒ svāhā᳚ pra॒jābhya॒-ssvāhā᳚ pra॒jana̭nāya॒ svāhā॒ loma̭vate॒ svāhā̭ 'lo॒makā̭ya॒ svāhā᳚ tva॒ce svāhā॒ 'tvakkā̭ya॒ svāhā॒ carma̭ṇvate॒ svāhā̭ 'ca॒rmakā̭ya॒ svāhā॒ lohi̭tavate॒ svāhā̭-'lohi॒tāya॒ svāhā̭ māgṃsa॒nvate॒ svāhā̭ 'mā॒gṃ॒sakā̭ya॒ svāhā॒ snāva̭bhya॒-ssvāhā᳚ 'snā॒vakā̭ya॒ svāhā᳚ stha॒nvate॒ svāhā̭-'na॒sthikā̭ya॒ svāhā̭ majja॒nvate॒ svāhā̭ 'ma॒jjakā̭ya॒ svāhā॒ 'ṅgine॒ svāhā̭-'na॒ṅgāya॒ svāhā॒ ''tmane॒ svāhā 'nā᳚tmane॒ svāhā॒ sarva̭smai॒ svāhā᳚ || 36 ||
(ma॒na॒svine॒ svāhā - 'nā᳚tmane॒ svāhā॒ - dve ca̭) (a. 12)
kastvā̭ yunakti॒ sa tvā̭ yunaktu॒ viṣṇṷstvā yunaktva॒sya ya॒jñasyardhyai॒ mahya॒gṃ॒ sanna̭tyā a॒muṣmai॒ kāmā॒yā-''yṷṣe tvā prā॒ṇāya̭ tvā 'pā॒nāya̭ tvā vyā॒nāya̭ tvā॒ vyṷṣṭyai tvā ra॒yyai tvā॒ rādha̭se tvā॒ ghoṣā̭ya tvā॒ poṣā̭ya tvā ''rādgho॒ṣāya̭ tvā॒ pracyṷtyai tvā || 37 ||
(kastvā॒ - 'ṣṭātrigṃ̭śat) (a. 13)
a॒gnayḙ gāya॒trāya̭ tri॒vṛte॒ rātha̭ntarāya vāsa॒ntāyā॒-ṣṭāka̭pāla॒ indrā̭ya॒ traiṣṭṷbhāya pañcada॒śāya॒ bārha̭tāya॒ graiṣmā॒yaikā̭daśakapālo॒ viśve᳚bhyo de॒vebhyo॒ jāga̭tebhya-ssaptada॒śebhyo̭ vairū॒pebhyo॒ vārṣi̭kebhyo॒ dvāda̭śakapālo mi॒trāvarṷṇābhyā॒-mānṷṣṭubhābhyā-mekavi॒gṃ॒śābhyāṃ᳚-vai~rā॒jābhyāgṃ̭ śāra॒dābhyā᳚-mpaya॒syā̭ bṛha॒spata̭ye॒ pāṅktā̭ya triṇa॒vāya̭ śākva॒rāya॒ haima̭ntikāya ca॒ru-ssa̭vi॒tra ā̭ticchanda॒sāya̭ trayastri॒gṃ॒śāya̭ raiva॒tāya̭ śaiśi॒rāya॒ dvāda̭śakapā॒lo 'di̭tyai॒ viṣṇṷpatnyai ca॒rura॒gnayḙ vaiśvāna॒rāya॒ dvāda̭śakapā॒lo 'nṷmatyai ca॒ruḥ kā॒ya eka̭kapālaḥ || 38 ||
(a॒gnaye-'di̭tyā॒ anṷmatyai - sa॒ptaca̭tvārigṃśat) (a. 14)
yo vā a॒gnāva॒gniḥ pra̭hri॒yate॒ yaśca॒ somo॒ rājā॒ tayo̭re॒ṣa ā̭ti॒thyaṃ-ya~da̭gnīṣo॒mīyo-'thai॒ṣa ru॒dro yaścī॒yate॒ ya-thsañci̭te॒-'gnāve॒tāni̭ ha॒vīgṃṣi॒ na ni॒rvapḙde॒ṣa e॒va ru॒dro-'śā᳚nta upo॒tthāya̭ pra॒jā-mpa॒śūn yaja̭mānasyā॒bhi ma̭nyeta॒ ya-thsañci̭te॒-'gnāve॒tāni̭ ha॒vīgṃṣi̭ ni॒rvapa̭ti bhāga॒dheyḙnai॒vainagṃ̭ śamayati॒ nāsya̭ ru॒dro-'śā᳚nta [ru॒dro-'śā᳚ntaḥ, u॒po॒tthāya̭] 39
upo॒tthāya̭ pra॒jā-mpa॒śūna॒bhi ma̭nyate॒ daśa̭ ha॒vīgṃṣi̭ bhavanti॒ nava॒ vai purṷṣe prā॒ṇā nābhi̭rdaśa॒mī prā॒ṇāne॒va yaja̭māne dadhā॒tyatho॒ daśā᳚kṣarā vi॒rāḍannaṃ̭-vi~॒rā-ḍvi॒rājye॒vānnādye॒ prati̭ tiṣṭhatyṛ॒tubhi॒rvā e॒ṣa chando̭bhi॒-sstomaiḥ᳚ pṛ॒ṣṭhaiścḙta॒vya̭ ityā̭hu॒ryade॒tāni̭ ha॒vīgṃṣi̭ ni॒rvapa̭tyṛ॒tubhi̭re॒vaina॒-ñchando̭bhi॒-sstomaiḥ᳚ pṛ॒ṣṭhaiści̭nute॒ diśaḥ̭ suṣuvā॒ṇenā̭ - [ ] 40
-bhi॒jityā॒ ityā̭hu॒ryade॒tāni̭ ha॒vīgṃṣi̭ ni॒rvapa̭ti di॒śāma॒bhiji̭tyā e॒tayā॒ vā indra̭-nde॒vā a̭yājaya॒-ntasmā̭dindrasa॒va e॒tayā॒ manṷ-mmanu॒ṣyā᳚stasmā᳚-nmanusa॒vo yathendro̭ de॒vānāṃ॒-ya~thā॒ manṷrmanu॒ṣyā̭ṇāme॒va-mbha̭vati॒ ya e॒vaṃ-vi~॒dvāne॒tayeṣṭyā॒ yaja̭te॒ digva̭tīḥ puro-'nuvā॒kyā̭ bhavanti॒ sarvā̭sā-ndi॒śāma॒bhiji̭tyai || 41 ||
(aśā᳚ntaḥ - suṣuvā॒ṇenai - ka̭catvārigṃśacca) (a. 15)
yaḥ prā̭ṇa॒to ni̭miṣa॒to ma̭hi॒tvaika॒ idrājā॒ jaga̭to ba॒bhūva̭ | ya īśḙ a॒sya dvi॒pada॒ścatṷṣpadaḥ॒ kasmai̭ de॒vāya̭ ha॒viṣā̭ vidhema || u॒pa॒yā॒magṛ̭hīto-'si pra॒jāpa̭taye tvā॒ juṣṭa̭-ṅgṛhṇāmi॒ tasya̭ te॒ dyaurma̭hi॒mā nakṣa̭trāṇi rū॒pamā̭di॒tyaste॒ teja॒stasmai᳚ tvā mahi॒mne pra॒jāpa̭taye॒ svāhā᳚ || 42 ||
(yaḥ prā̭ṇa॒to dyaurā̭di॒tyo᳚ - 'ṣṭātrigṃ̭śat ) (a. 16)
ya ā᳚tma॒dā ba̭la॒dā yasya॒ viśva̭ u॒pāsa̭te pra॒śiṣaṃ॒-ya~sya̭ de॒vāḥ | yasya̭ chā॒yā-'mṛtaṃ॒-ya~sya̭ mṛ॒tyuḥ kasmai̭ de॒vāya̭ ha॒viṣā̭ vidhema || u॒pa॒yā॒magṛ̭hīto-'si pra॒jāpa̭taye tvā॒ juṣṭa̭-ṅgṛhṇāmi॒ tasya̭ te pṛthi॒vī ma̭hi॒mauṣa̭dhayo॒ vana॒spata̭yo rū॒pama॒gniste॒ teja॒stasmai᳚ tvā mahi॒mne pra॒jāpa̭taye॒ svāhā᳚ || 43 ||
(ya ā᳚tma॒dāḥ pṛ̭thi॒vya̭gni-rekā॒nnaca̭tvāri॒gṃ॒śat) (a. 17)
ā brahma̭-nbrāhma॒ṇo bra̭hmavarca॒sī jā̭yatā॒mā 'smi-nrā॒ṣṭre rā̭ja॒nya̭ iṣa॒vyaḥ̭ śūro̭ mahāra॒tho jā̭yatā॒-ndogdhrī̭dhe॒nurvoḍhā̭ 'na॒ḍvānā॒śu-ssaptiḥ॒ pura̭ndhi॒ryoṣā̭ ji॒ṣṇū ra̭the॒ṣṭhā-ssa॒bheyo॒ yuvā ''sya yaja̭mānasya vī॒ro jā̭yatā-nnikā॒meni̭kāme naḥ pa॒rjanyo̭ varṣatu pha॒linyo̭ na॒ oṣa̭dhayaḥ pacyantāṃ-yo~gakṣe॒monaḥ̭ kalpatām || 44 ||
(ā brahma॒ - nneka̭catvārigṃśat )(ā18)
ā-'krāṋ vā॒jī pṛ̭thi॒vīma॒gniṃ-yu~ja̭makṛta vā॒jyarvā ''krāṋ vā॒jya̭ntari̭kṣaṃ-vā~॒yuṃ-yu~ja̭makṛta vā॒jyarvā॒ dyāṃ-vā~॒jyā-'kragg̭sta॒ sūryaṃ॒-yu~ja̭makṛta vā॒jyarvā॒ 'gnistḙ vāji॒n॒ yuṅṅanu॒ tvā '' ra̭bhe sva॒sti mā॒ sa-mpā̭raya vā॒yustḙ vāji॒n॒ yuṅṅanu॒ tvā '' ra̭bhe sva॒sti mā॒ sa- [sva॒sti mā॒ sam, pā॒ra॒yā॒ ''di॒tyastḙ] 45
-mpā̭rayā ''di॒tyastḙ vāji॒n॒ yuṅṅanu॒ tvā '' ra̭bhe sva॒sti mā॒ sa-mpā̭raya prāṇa॒dhṛga̭si prā॒ṇa-mmḙ dṛgṃha vyāna॒dhṛga̭si vyā॒na-mmḙ dṛgṃhā 'pāna॒dhṛga̭syapā॒na-mma̭ dṛgṃha॒ cakṣṷrasi॒ cakṣu॒rmayi̭ dhehi॒ śrotra̭masi॒ śrotra॒-mmayi̭ dhe॒hyāyṷra॒syāyu॒rmayi̭ dhehi || 46 ||
(vā॒yustḙ vāji॒n॒ yuṅṅanu॒ tvā '' ra̭bhe sva॒sti mā॒ saṃ - trica̭tvārigṃśacca) (a. 19)
jajñi॒ bījaṃ॒-va~rṣṭā̭ pa॒rjanyaḥ॒ paktā̭ sa॒syagṃ sṷpippa॒lā oṣa̭dhaya-ssvadhicara॒ṇeyagṃ sṷ̄pasada॒no᳚-'gni-ssva̭ddhya॒kṣama॒ntari̭kṣagṃsupā॒vaḥ pava̭māna-ssūpasthā॒nā dyau-śśi॒vama॒sau tapa̭n yathāpū॒rvama̭horā॒tre pa̭ñcada॒śino᳚ 'rdhamā॒sā-stri॒gṃ॒śino॒ māsāḥ᳚ kḷ॒ptā ṛ॒tavaḥ̭ śā॒nta-ssaṃ̭va~thsa॒raḥ || 47 ||
(jajñi॒ bīja॒ - meka̭trigṃśat) (a. 20)
ā॒gne॒yo᳚-'ṣṭāka̭pāla-ssau॒myaśca॒ru-ssā̭vi॒tro᳚-'ṣṭāka̭pālaḥ pau॒ṣṇaśca॒rū rau॒draśca॒rura॒gnayḙ vaiśvāna॒rāya॒ dvāda̭śakapālo mṛgākha॒re yadi॒ nā-''gacchḙ-da॒gnaye-'gṃ̭ho॒muce॒-'ṣṭāka̭pāla-ssau॒rya-mpayo̭ vāya॒vya̭ ājya̭bhāgaḥ || 48 ||
(ā॒gne॒ya - ścatṷrvigṃśatiḥ) (a. 21)
a॒gnaye-'gṃ̭ho॒muce॒-'ṣṭāka̭pāla॒ indrā̭yā-'gṃho॒muca॒ ekā̭daśakapālo mi॒trāvarṷṇābhyā-māgo॒mugbhyā᳚-mpaya॒syā̭ vāyosāvi॒tra ā̭go॒mugbhyā᳚-ñca॒rura॒śvibhyā̭-māgo॒mugbhyā᳚-ndhā॒nā ma॒rudbhya̭ eno॒mugbhyaḥ̭ sa॒ptaka̭pālo॒ viśve᳚bhyo de॒vebhya̭ eno॒mugbhyo॒ dvāda̭śakapā॒lo 'nṷmatyai ca॒rura॒gnayḙ vaiśvāna॒rāya॒ dvāda̭śakapālo॒ dyāvā̭pṛthi॒vībhyā̭-magṃho॒mugbhyā᳚-ndvikapā॒laḥ || 49 ||
(a॒gnaye-'gṃ̭ho॒muce᳚ - tri॒gṃ॒śat) (a. 22)
a॒gnaye॒ sama̭nama-tpṛthi॒vyai sama̭nama॒dyathā॒-'gniḥ pṛ̭thi॒vyā sa॒mana̭made॒va-mmahya̭-mbha॒drā-ssanna̭taya॒-ssa-nna̭mantu vā॒yave॒ sama̭namada॒ntari̭kṣāya॒ sama̭nama॒dyathā̭ vā॒yura॒ntari̭kṣeṇa॒ sūryā̭ya॒ sama̭namaddi॒ve sama̭nama॒dyathā॒ sūryo̭ di॒vā ca॒ndrama̭se॒ sama̭nama॒nnakṣa̭trebhya॒-ssama̭nama॒dyathā̭ ca॒ndramā॒ nakṣa̭trai॒rvarṷṇāya॒ sama̭namada॒dbhya-ssama̭nama॒-dyathā॒ [-ssama̭nama॒-dyathā᳚, varṷṇo॒-'dbhi-ssāmne॒] 50
varṷṇo॒-'dbhi-ssāmne॒ sama̭namadṛ॒ce sama̭nama॒dyathā॒ sāma॒rcā brahma̭ṇe॒ sama̭nama-tkṣa॒trāya॒ sama̭nama॒dyathā॒ brahma̭ kṣa॒treṇa॒ rājñe॒ sama̭nama-dvi॒śe sama̭nama॒dyathā॒ rājā̭ vi॒śā rathā̭ya॒-ssama̭nama॒daśve᳚bhya॒-ssama̭nama॒dyathā॒ ratho-'śvaiḥ᳚ pra॒jāpa̭taye॒ sama̭nama-dbhū॒tebhya॒-ssama̭nama॒dyathā᳚ pra॒jāpa̭tirbhū॒tai-ssa॒mana̭made॒va-mmahya̭-mbha॒drā-ssanna̭taya॒-ssa-nna̭mantu || 51 ||
(a॒dbhya-ssama̭nama॒dyathā॒-mahyaṃ̭-ca॒tvāri̭ ca) (a. 23)
ye te॒ panthā̭na-ssavitaḥ pū॒rvyāso̭-'re॒ṇavo॒ vita̭tā a॒ntari̭kṣe | tebhi̭rno a॒dya pa॒thibhiḥ̭ su॒gebhī॒ rakṣā̭ ca no॒ adhi̭ ca deva brūhi || namo॒-'gnayḙ pṛthivi॒kṣitḙ loka॒spṛtḙ lo॒kama॒smai yaja̭mānāya dehi॒ namo̭ vā॒yave᳚-'ntarikṣa॒kṣitḙ loka॒spṛtḙ lo॒kama॒smai yaja̭mānāya dehi॒ nama॒-ssūryā̭ya divi॒kṣitḙ loka॒spṛtḙ lo॒kama॒smai yaja̭mānāya dehi || 52 ||
(ye te॒ - catṷścatvārigṃśat) (a. 24)
yo vā aśva̭sya॒ meddhya̭sya॒ śiro॒ veda̭ śīrṣa॒ṇvā-nmeddhyo̭ bhavatyu॒ṣā vā aśva̭sya॒ meddhya̭sya॒ śira॒-ssūrya॒ścakṣu॒rvātaḥ̭ prā॒ṇaśca॒ndramā॒-śśrotra॒-ndiśaḥ॒ pādā̭ avāntaradi॒śāḥ parśa̭vo-'horā॒tre ni̭me॒ṣo᳚-'rdhamā॒sāḥ parvā̭ṇi॒ māsā᳚-ssa॒dhānnā᳚nyṛ॒tavo-'ṅgā̭ni saṃva~thsa॒ra ā॒tmā ra॒śmayaḥ॒ keśā॒ nakṣa̭trāṇi rū॒pa-ntāra̭kā a॒sthāni॒ nabho̭ mā॒gṃ॒sānyoṣa̭dhayo॒ lomā̭ni॒ vana॒spata̭yo॒ vālā̭ a॒gnirmukhaṃ̭-vai~śvāna॒ro vyāttagṃ̭ [vyātta᳚m, sa॒mu॒dra u॒dara̭ma॒ntari̭kṣa-] 53
samu॒dra u॒dara̭ma॒ntari̭kṣa-mpā॒yu-rdyāvā̭pṛthi॒vī ā॒ṇḍau grāvā॒ śepa॒-ssomo॒ reto॒ yajja̭ñja॒bhyate॒ tadvi dyo̭tate॒ yadvi̭dhūnu॒te ta-thsta̭nayati॒ yanmeha̭ti॒ tadva̭rṣati॒ vāge॒vāsya॒ vāgaha॒rvā aśva̭sya॒ jāya̭mānasya mahi॒mā pu॒rastā᳚jjāyate॒ rātri̭rena-mmahi॒mā pa॒ścādanṷ jāyata e॒tau vai ma̭hi॒mānā॒-vaśva̭ma॒bhita॒-ssa-mba̭bhūvatu॒r॒hayo̭ de॒vāna̭vaha॒ darvā-'sṷrān vā॒jī ga̭ndha॒rvā-naśvo̭ manu॒ṣyā᳚n-thsamu॒dro vā aśva̭sya॒ yoniḥ̭ samu॒dro bandhuḥ̭ || 54 ||
(vyātta̭ - mavaha॒-d- dvāda̭śa ca ) (a. 25)
(gāvo॒ - gāva॒-ssiṣā̭santīḥ- pratha॒me mā॒si - sa̭mā॒nyo̭ - yadi॒ somaṷ- ṣaḍa॒hai - ru॒-thsṛjyā(3)n - de॒vānā̭ - ma॒rkyḙṇa॒ - carmā-'va̭ - pṛthi॒vyai - da॒tvate॒ - kastvā॒ - 'gnaye॒ - yo vai - yaḥ prā̭ṇa॒to - ya ā᳚tma॒dā - ā brahma॒ - nnā-'krā॒n - jajñi॒ bīja̭ - māgne॒yo᳚-'ṣṭāka̭pālo॒ - 'gnaye-'gṃ̭ho॒muce॒-'ṣṭāka̭pālo॒ - 'gnaye॒sama̭nama॒--dye te॒ panthā̭no॒ - yo vā aśva̭sya॒meddhya̭sya॒ śiraḥ॒ - pañca̭vigṃśatiḥ)
(gāvaḥ̭ - samā॒nyaḥ̭ - sava̭namaṣṭā॒bhi - rvā e॒te de॒vakṛ̭tañcā - 'bhi॒jityā॒ ityā̭hu॒ -rvarṷṇo॒-'dbhi-ssāmne॒ - catṷṣ pañcā॒sat)
(gāvo॒, yoni̭ ssamu॒dro bandhuḥ̭)
(pra॒janana̭gṃ - sādyāḥ - pra॒javaṃ॒ - bṛha॒spati॒ - rgāvaḥ - pañca̭) (7)
(i॒ṣe, vā̭ya॒vya̭, mpra॒jāpa̭ti, ryuñjā॒nā, ssā̭vi॒trāṇi̭, prācīna̭vagṃśa, mpra॒jana̭nagṃ, sapta) (7)
|| hariḥ̭ om ||
|| kṛṣṇa yajurvedīya taittirīya saṃhitāyāṃ saptamakāṇḍe pañcamaḥ praśna-ssamāptaḥ ||
|| iti taittirīyasaṃhitā samāptā ||