4.25 किष्किन्धाकाण्ड - पञ्चविंश सर्गः

4.25 Kishkindhakanda - Panchavimsha Sargah

✍️ Valmiki 🖋️ Devanagari script
📄 Download PDF
श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ पञ्चविंशस्सर्गः ।
सुग्रीवं चैव तारां च साङ्गदं सहलक्ष्मणः ।
समानशोकः काकुत्स्थ स्सान्त्वयन्निदमब्रवीत् ॥ 1 ॥
न शोकपरितापेन श्रेयसा युज्यते मृतः ।
यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ ॥ 2 ॥
लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् ।
न कालादुत्तरं किञ्चित्कर्म शक्यमुपासितुम् ॥ 3 ॥
नियतिः कारणं लोके नियतिः कर्मसाधनम् ।
नियतिस्सर्वभूतानां नियोगेष्विह कारणम् ॥ 4 ॥
न कर्ता कस्यचित्कश्चिन्नियोगे चापिनेश्वरः ।
स्वभावे वर्तते लोकस्तस्य कालः परायणम् ॥ 5 ॥
न कालः कालमत्येति न कालः परिहीयते ।
स्वभावं च समासाद्य न कश्चिदतिवर्तते ॥ 6 ॥
न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः ।
न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः ॥ 7 ॥
किं तु कालपरीणामो द्रष्टव्यस्साधु पश्यता ।
धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ॥ 8 ॥
इतस्स्वां प्रकृतिं वाली गतःप्राप्तः क्रियाफलम् ।
धर्मार्थकाम संयोगैः पवित्रं प्लवगेश्वरः ॥ 9 ॥
स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना ।
स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता ॥ 10 ॥
एषा वै नियतिश्शेष्ठा यां गतो हरियूथपः ।
तदलं परितापेन प्राप्तकालमुपास्यताम् ॥ 11 ॥
वचनान्ते तु रामस्य लक्ष्मणः परवीरहा ।
अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसम् ॥ 12 ॥
कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् ।
ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति ॥ 13 ॥
समाज्ञापय काष्ठानि शुष्कानि च बहूनि च ।
चन्दनादीनि दिव्यानि वालिसंस्कारकारणात् ॥ 14 ॥
समाश्वासय चैनं त्वमङ्गदं दीनचेतसम् ।
मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् ॥ 15 ॥
अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च ।
घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम् ॥ 16 ॥
त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात् ।
त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः ॥ 17 ॥
सज्जीभवन्तु प्लवगाश्शिबिकावाहनोचिताः ।
समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम् ॥ 18 ॥
एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः ।
तसौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा ॥ 19 ॥
लक्ष्मणस्य वचश्श्रुत्वा तारस्सम्भ्रान्तमानसः ।
प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः ॥ 20 ॥
आदाय शिबिकां तारस्स तु पर्यापतत्पुनः ।
वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः ॥ 21 ॥
दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम् ।
पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम् ॥ 22 ॥
आचितां चित्रपत्तीभि स्सुनिविष्टां समन्ततः ।
विमानमिव सिद्धानां जालवातायनान्विताम् ॥ 23 ॥
सुनियुक्तां विशालां च सुकृतां विश्वकर्मणा ।
दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम् ॥ 24 ॥
वराभरणहारैश्च चित्रमाल्योपशोभिताम् ।
गुहागहनसञ्छन्नां रक्तचन्दनभूषिताम् ॥ 25 ॥
पुष्पौघैस्समभिच्छन्नां पद्ममालाभिरेव च ।
तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम् ॥ 26 ॥
ईदृशीं शिबिकां दृष्ट्वा रामो लक्ष्मणमब्रवीत् ।
क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम् ॥ 27 ॥
ततो वालिनमुद्यम्य सुग्रीवश्शिबिकां तदा ।
आरोपयत विक्रोशन्नङ्गदेन सहैव तु ॥ 28 ॥
आरोप्य शिबिकां चैव वालिनं गतजीवितम् ।
अलङ्कारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम् ॥ 29 ॥
आज्ञापयत्तदा राजा सुग्रीव प्लवगेश्वरः ।
और्ध्वदैहिकमार्यस्य क्रियतामनुरूपतः ॥ 30 ॥
विश्राणयन्तो रत्नानि विविधानि बहून्यपि ।
अग्रतः प्लवगा यान्तु शिबिका समनन्तरम् ॥ 31 ॥
राज्ञामृद्दिविशेषा हि दृश्यन्ते भुवि यादृशाः ।
तादृशैरिह कुर्वन्तु वानरा भर्तृसत्क्रियाम् ॥ 32 ॥
तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदैहिकम् ।
अङ्गदं परिगृह्याऽशु तारप्रभृतयस्तदा ॥ 33 ॥
क्रोशन्तः प्रययुस्सर्वे वानरा हतबान्धवाः ।
ततः प्रणिहिताः सर्वा वानर्योस्य वशानुगाः ॥ 34 ॥
चुक्रुशु र्वीर वीरेति भूयः क्रोशन्ति ताः स्त्रीयः ।
ताराप्रभृतयस्सर्वा वानर्यो हरियूथपाः ।
अनुजग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः ॥ 35 ॥
तासां रुदितशब्देन वानरीणां वनान्तरे ।
वनानि गिरयश्चैव विक्रोशन्तीव सर्वतः ॥ 36 ॥
पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते ॥ 37 ॥
चितां चक्रुस्सुबहवो वानराश्शोककर्शिताः ।
अवरोप्य ततस्स्कन्धाच्छिबिकां वाहनोचिताः ।
तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः ॥ 38 ॥
ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम् ॥ 39 ॥
आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता ।
हा वानर महाराज हा नाथ मम वत्सल ॥ 40 ॥
हा महार्ह महाबाहो हा मम प्रिय पश्य माम् ।
जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् ॥ 41 ॥
प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद आस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा ॥ 42 ॥
एष त्वां रामरूपेण कालः कर्षति वानर ।
येन स्म विधवास्सर्वाः कृता एकेषुणा वने ॥ 43 ॥
इमास्तास्तव राजेन्द्र वानर्योवल्लभास्सदा ।
पादैर्विकृष्ट मध्वानमागताः किं न बुध्यसे ॥ 44 ॥
तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः ।
इदानीं नेक्षसे कस्तात्सुग्रीवं प्लवगेश्वरम् ॥ 45 ॥
एते हि सचिवा राजं स्तारप्रभृतयस्तव ।
पुरवासी जनश्चायं परिवार्यासतेऽनघ ॥ 46 ॥
विसर्जयैतान् प्लवगान्यथोचितमरिन्दम ।
ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः ॥ 47 ॥
एवं विलपतीं तारां पतिशोकपरिप्लुताम् ।
उत्थापयन्ति स्म तदा वानर्यश्शोककर्शिताः ॥ 48 ॥
सुग्रीवेण ततस्सार्धम्मङ्गदः पितरं रुदन् ।
चितामारोपयामास शोकेनाभिहतेन्द्रियः ॥ 49 ॥
ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार ह ।
पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः ॥ 50 ॥
संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवङ्गमाः ।
आजग्मुरुदकं कर्तुं नदीं शुभजलां शिवाम् ॥ 51 ॥
ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः ।
सुग्रीवतारासहितास्सिषिचुर्वालिने जलम् ॥ 52 ॥
सुग्रीवेणेव दीनेन दीनो भूत्वा महाबलः ।
समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् ॥ 53 ॥
ततस्तु तं वालिनमग्र्यपौरुषं प्रकाशमिक्ष्वाकुवरेषुणा हतम् ।
प्रदीप्य दीप्ताग्निसमौजसं तदा सलक्ष्मणं राममुपेयिवान्हरिः ॥ 54 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे पञ्चविंशस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe kiṣkindhākāṇḍam |
atha pañcaviṃśassargaḥ |
sugrīvaṃ caiva tārāṃ ca sāṅgadaṃ sahalakṣmaṇaḥ |
samānaśokaḥ kākutstha ssāntvayannidamabravīt || 1 ||
na śokaparitāpena śreyasā yujyate mṛtaḥ |
yadatrānantaraṃ kāryaṃ tatsamādhātumarhatha || 2 ||
lokavṛttamanuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam |
na kālāduttaraṃ kiñcitkarma śakyamupāsitum || 3 ||
niyatiḥ kāraṇaṃ loke niyatiḥ karmasādhanam |
niyatissarvabhūtānāṃ niyogeṣviha kāraṇam || 4 ||
na kartā kasyacitkaścinniyoge cāpineśvaraḥ |
svabhāve vartate lokastasya kālaḥ parāyaṇam || 5 ||
na kālaḥ kālamatyeti na kālaḥ parihīyate |
svabhāvaṃ ca samāsādya na kaścidativartate || 6 ||
na kālasyāsti bandhutvaṃ na heturna parākramaḥ |
na mitrajñātisambandhaḥ kāraṇaṃ nātmano vaśaḥ || 7 ||
kiṃ tu kālaparīṇāmo draṣṭavyassādhu paśyatā |
dharmaścārthaśca kāmaśca kālakramasamāhitāḥ || 8 ||
itassvāṃ prakṛtiṃ vālī gataḥprāptaḥ kriyāphalam |
dharmārthakāma saṃyogaiḥ pavitraṃ plavageśvaraḥ || 9 ||
svadharmasya ca saṃyogājjitastena mahātmanā |
svargaḥ parigṛhītaśca prāṇānaparirakṣatā || 10 ||
eṣā vai niyatiśśeṣṭhā yāṃ gato hariyūthapaḥ |
tadalaṃ paritāpena prāptakālamupāsyatām || 11 ||
vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā |
avadatpraśritaṃ vākyaṃ sugrīvaṃ gatacetasam || 12 ||
kuru tvamasya sugrīva pretakāryamanantaram |
tārāṅgadābhyāṃ sahito vālino dahanaṃ prati || 13 ||
samājñāpaya kāṣṭhāni śuṣkāni ca bahūni ca |
candanādīni divyāni vālisaṃskārakāraṇāt || 14 ||
samāśvāsaya cainaṃ tvamaṅgadaṃ dīnacetasam |
mā bhūrbāliśabuddhistvaṃ tvadadhīnamidaṃ puram || 15 ||
aṅgadastvānayenmālyaṃ vastrāṇi vividhāni ca |
ghṛtaṃ tailamatho gandhānyaccātra samanantaram || 16 ||
tvaṃ tāra śibikāṃ śīghramādāyāgaccha sambhramāt |
tvarā guṇavatī yuktā hyasminkāle viśeṣataḥ || 17 ||
sajjībhavantu plavagāśśibikāvāhanocitāḥ |
samarthā balinaścaiva nirhariṣyanti vālinam || 18 ||
evamuktvā tu sugrīvaṃ sumitrānandavardhanaḥ |
tasau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā || 19 ||
lakṣmaṇasya vacaśśrutvā tārassambhrāntamānasaḥ |
praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ || 20 ||
ādāya śibikāṃ tārassa tu paryāpatatpunaḥ |
vānarairuhyamānāṃ tāṃ śūrairudvahanocitaiḥ || 21 ||
divyāṃ bhadrāsanayutāṃ śibikāṃ syandanopamām |
pakṣikarmabhirācitrāṃ drumakarmavibhūṣitām || 22 ||
ācitāṃ citrapattībhi ssuniviṣṭāṃ samantataḥ |
vimānamiva siddhānāṃ jālavātāyanānvitām || 23 ||
suniyuktāṃ viśālāṃ ca sukṛtāṃ viśvakarmaṇā |
dāruparvatakopetāṃ cārukarmapariṣkṛtām || 24 ||
varābharaṇahāraiśca citramālyopaśobhitām |
guhāgahanasañchannāṃ raktacandanabhūṣitām || 25 ||
puṣpaughaissamabhicchannāṃ padmamālābhireva ca |
taruṇādityavarṇābhirbhrājamānābhirāvṛtām || 26 ||
īdṛśīṃ śibikāṃ dṛṣṭvā rāmo lakṣmaṇamabravīt |
kṣipraṃ vinīyatāṃ vālī pretakāryaṃ vidhīyatām || 27 ||
tato vālinamudyamya sugrīvaśśibikāṃ tadā |
āropayata vikrośannaṅgadena sahaiva tu || 28 ||
āropya śibikāṃ caiva vālinaṃ gatajīvitam |
alaṅkāraiśca vividhairmālyairvastraiśca bhūṣitam || 29 ||
ājñāpayattadā rājā sugrīva plavageśvaraḥ |
aurdhvadaihikamāryasya kriyatāmanurūpataḥ || 30 ||
viśrāṇayanto ratnāni vividhāni bahūnyapi |
agrataḥ plavagā yāntu śibikā samanantaram || 31 ||
rājñāmṛddiviśeṣā hi dṛśyante bhuvi yādṛśāḥ |
tādṛśairiha kurvantu vānarā bhartṛsatkriyām || 32 ||
tādṛśaṃ vālinaḥ kṣipraṃ prākurvannaurdhvadaihikam |
aṅgadaṃ parigṛhyā'śu tāraprabhṛtayastadā || 33 ||
krośantaḥ prayayussarve vānarā hatabāndhavāḥ |
tataḥ praṇihitāḥ sarvā vānaryosya vaśānugāḥ || 34 ||
cukruśu rvīra vīreti bhūyaḥ krośanti tāḥ strīyaḥ |
tārāprabhṛtayassarvā vānaryo hariyūthapāḥ |
anujagmurhi bhartāraṃ krośantyaḥ karuṇasvanāḥ || 35 ||
tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare |
vanāni girayaścaiva vikrośantīva sarvataḥ || 36 ||
puline girinadyāstu vivikte jalasaṃvṛte || 37 ||
citāṃ cakrussubahavo vānarāśśokakarśitāḥ |
avaropya tatasskandhācchibikāṃ vāhanocitāḥ |
tasthurekāntamāśritya sarve śokasamanvitāḥ || 38 ||
tatastārā patiṃ dṛṣṭvā śibikātalaśāyinam || 39 ||
āropyāṅke śirastasya vilalāpa suduḥkhitā |
hā vānara mahārāja hā nātha mama vatsala || 40 ||
hā mahārha mahābāho hā mama priya paśya mām |
janaṃ na paśyasīmaṃ tvaṃ kasmācchokābhipīḍitam || 41 ||
prahṛṣṭamiva te vaktraṃ gatāsorapi mānada āstārkasamavarṇaṃ ca lakṣyate jīvato yathā || 42 ||
eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara |
yena sma vidhavāssarvāḥ kṛtā ekeṣuṇā vane || 43 ||
imāstāstava rājendra vānaryovallabhāssadā |
pādairvikṛṣṭa madhvānamāgatāḥ kiṃ na budhyase || 44 ||
taveṣṭā nanu nāmaitā bhāryāścandranibhānanāḥ |
idānīṃ nekṣase kastātsugrīvaṃ plavageśvaram || 45 ||
ete hi sacivā rājaṃ stāraprabhṛtayastava |
puravāsī janaścāyaṃ parivāryāsate'nagha || 46 ||
visarjayaitān plavagānyathocitamarindama |
tataḥ krīḍāmahe sarvā vaneṣu madanotkaṭāḥ || 47 ||
evaṃ vilapatīṃ tārāṃ patiśokapariplutām |
utthāpayanti sma tadā vānaryaśśokakarśitāḥ || 48 ||
sugrīveṇa tatassārdhammaṅgadaḥ pitaraṃ rudan |
citāmāropayāmāsa śokenābhihatendriyaḥ || 49 ||
tato'gniṃ vidhivaddattvā so'pasavyaṃ cakāra ha |
pitaraṃ dīrghamadhvānaṃ prasthitaṃ vyākulendriyaḥ || 50 ||
saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṅgamāḥ |
ājagmurudakaṃ kartuṃ nadīṃ śubhajalāṃ śivām || 51 ||
tataste sahitāstatra hyaṅgadaṃ sthāpya cāgrataḥ |
sugrīvatārāsahitāssiṣicurvāline jalam || 52 ||
sugrīveṇeva dīnena dīno bhūtvā mahābalaḥ |
samānaśokaḥ kākutsthaḥ pretakāryāṇyakārayat || 53 ||
tatastu taṃ vālinamagryapauruṣaṃ prakāśamikṣvākuvareṣuṇā hatam |
pradīpya dīptāgnisamaujasaṃ tadā salakṣmaṇaṃ rāmamupeyivānhariḥ || 54 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye kiṣkindhākāṇḍe pañcaviṃśassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in