5.58 सुन्दरकाण्ड - अष्टपञ्चाश सर्गः

5.58 Sundarakanda - Ashtapanchasha Sargah

✍️ Valmiki 🖋️ Devanagari script
📄 Download PDF
श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ अष्टपञ्चाशस्सर्गः ।
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ।
हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥ 1 ॥
तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् ।
जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम् ॥ 2 ॥
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।
तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ॥ 3 ॥
तत्त्वतस्सर्वमेतन्नः प्रब्रूहि त्वं महाकपे ।
श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ॥ 4 ॥
यश्चार्थस्तत्त्र वक्तव्यो गतैरस्माभिरात्मवान् ।
रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः ॥ 5 ॥
स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः ।
प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ॥ 6 ॥
प्रत्यक्षमेव भवतां महेन्द्राग्रात्खामाप्लुतः ।
उदधेर्दक्षिणं पारं काङ्क्षमाण स्समाहितः ॥ 7 ॥
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।
काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥ 8 ॥
स्थितं पन्धानमावृत्य मेने विघ्नं च तं नगम् ।
उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् ॥ 9 ॥
कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च ।
प्रहतं च मया तस्य लाङ्गूलेन महागिरेः ॥ 10 ॥
शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ।
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः ॥ 11 ॥
पुत्त्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ।
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ॥ 12 ॥
मैनाकमिति विख्यातं निवसन्तं महोदधौ ।
पक्षवन्तः पुरा पुत्त्र बभूवुः पर्वतोत्तमाः ॥ 13 ॥
छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ।
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ॥ 14 ॥
चिच्छेद भगवान् पक्षान्वज्रेणैषां सहस्रशः ।
अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ॥ 15 ॥
मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे ।
रामस्य च मया साह्ये वर्तितव्यमरिन्दम ॥ 16 ॥
रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ।
एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः ॥ 17 ॥
कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ।
तेन चाहमनुज्ञातो मैनाकेन महात्मना ॥ 18 ॥
स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता ।
शरीरेण महाशैलः शैलेन च महोदधौ ॥ 19 ॥
उत्तमं जवमास्थाय शेषं पन्थानमास्थितः ।
ततोऽहं सुचिरं कालं वेगेनाभ्यागमं पथि ॥ 20 ॥
ततः पश्याम्यहं देवीं सुरसां नागमातरम् ।
समुद्रमध्ये सा देवी वचनं मामभाषत ॥ 21 ॥
मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम ।
अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥ 22 ॥
एवमुक्त स्सुरसया प्राञ्जलिः प्रणतः स्थितः ।
विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ॥ 23 ॥
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।
लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ॥ 24 ॥
तस्य सीता हृता भार्या रावणेन दुरात्मना ।
तस्या स्सङ्काशं दूतोऽहं गमिष्ये रामशासनात् ॥ 25 ॥
कर्तुमर्हसि रामस्य साहाय्यं विषये सती ।
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥ 26 ॥
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ।
एवमुक्ता मया सा तु सुरसा कामरूपिणी ॥ 27 ॥
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ।
एवमुक्तस्सुरसया दशयोजनमायतः ॥ 28 ॥
ततोर्थगुणविस्तारो बभूवाहं क्षणेन तु ।
मत्प्रमाणानुरूपं च व्यादितं च मुखं तया ॥ 29 ॥
तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः ।
तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः ॥ 30 ॥
अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् ।
अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः ॥ 31 ॥
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानय च वैदेहीं राघवेण महात्मना ॥ 32 ॥
सुखी भव महाबाहो प्रीताऽस्मि तव वानर ।
ततोऽहं साधु साध्विति सर्वभूतैः प्रशंसितः ॥ 33 ॥
ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा ।
छाया मे निगृहीता च न च पश्यामि किञ्चन ॥ 34 ॥
सोऽहं विहतवेगस्तु दिशो दश विलोकयन् ।
न किञ्चित्तत्र पश्यामि येन मेऽपहृता गतिः ॥ 35 ॥
ततो मे बुद्धिरुत्पन्ना किन्नाम गगने मम ।
ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ॥ 36 ॥
अधोभागेन मे दृष्टि श्शोचता पातिता मया ।
ततोऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ॥ 37 ॥
प्रहस्य च महानादमुक्तोऽहं भीमया तया ।
अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ॥ 38 ॥
क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः ।
भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ॥ 39 ॥
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ।
अस्यप्रमाणादधिकं तस्याः कायमपूरयम् ॥ 40 ॥
तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ।
न च मां साधु बुबुधे मम वा विकृतं कृतम् ॥ 41 ॥
ततोऽहं विपुलं रूपं सङ्क्षिप्य निमिषान्तरात् ।
तस्या हृदयमादाय प्रपतामि नभःस्थलम् ॥ 42 ॥
सा विसृष्टभुजा भीमा पपात लवणाम्भसि ।
मया पर्वतसङ्काशा निकृत्तहृदया सती ॥ 43 ॥
शृणोमि खगतानां च सिद्धानां चारणैस्सह ।
राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ॥ 44 ॥
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ।
गत्वा चाह महध्वानं पश्यामि नगमण्डितम् ॥ 45 ॥
दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी ।
अस्तं दिनकरे याते रक्षसां निलयं पुरम् ॥ 46 ॥
प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः ।
तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा ॥ 47 ॥
अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ।
जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् ॥ 48 ॥
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ।
प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः ॥ 49 ॥
अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ।
यस्मात्तस्माद्विजेतासि सर्वरक्षांस्यशेषतः ॥ 50 ॥
तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् ।
रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ॥ 51 ॥
तत स्सीतामपश्यंस्तु रावणस्य निवेशने ।
शोकसागरमासाद्य न पारमुपलक्षये ॥ 52 ॥
शोचता च मया दृष्टं प्राकारेण समावृतम् ।
काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ॥ 53 ॥
स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ।
अशोकवनिकामध्ये शिंशुपापादपो महान् ॥ 54 ॥
तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ।
अदूरे शिंशुपावृक्षात्पश्यामि वरवर्णिनीम् ॥ 55 ॥
श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ।
तदेकवासस्संवीतां रजोध्वस्तशिरोरुहाम् ॥ 56 ॥
शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ।
राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ॥ 57 ॥
मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ।
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥ 58 ॥
एकवेणीधरा दीना भर्तृचिन्तापरायणा ।
भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥ 59 ॥
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
कथञ्चिन्मृगशाबाक्षी तूर्णमासादिता मया ॥ 60 ॥
तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम् ।
तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ॥ 61 ॥
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् ।
शृणोम्यधिकगम्भीरं रावणस्य निवेशने ॥ 62 ॥
ततोऽहं परमोद्विग्नः स्वं रूपं प्रत्यसंहरम् ।
अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ॥ 63 ॥
ततो रावणदाराश्च रावणश्च महाबलः ।
तं देशं समनुप्राप्ता यत्र सीताऽभवत् स्थिता ॥ 64 ॥
तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् ।
सङ्कुच्योरूस्तनौ पीनौ बाहुभ्यां परिरभ्य च ॥ 65 ॥
वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ।
त्राणं किञ्चिदपश्यन्तीं वेपमानां तपस्विनीम् ॥ 66 ॥
तामुवाच दशग्रीवस्सीतां परमदुःखिताम् ।
अवाक्चिराः प्रपतितो बहुमन्यस्व मामिति ॥ 67 ॥
यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते ।
द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ॥ 68 ॥
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ।
उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥ 69 ॥
राक्षसाधम रामस्य भार्याममिततेजसः ।
इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ॥ 70 ॥
अवाच्यं वदतो जिह्वा कथं न पतिता तव ।
किञ्चिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ ॥ 71 ॥
अपहृत्याऽऽगतः पाप ते नादृष्टो महात्मना ।
न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे ॥ 72 ॥
यज्ञीय स्सत्यवादी च रणश्लाघी च राघवः ।
जानक्या परुषं वाक्यमेवमुक्तो दशाननः ॥ 73 ॥
जज्वाल सहसा कोपाच्चितास्थ इव पावकः ।
विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ॥ 74 ॥
मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा ।
स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः ॥ 75 ॥
वरा मन्दोदरी नाम तया स प्रतिषेधितः ।
उक्तश्च मधुरां वाणीं तया स मदनार्दितः ॥ 76 ॥
सीतया तव किं कार्यं महेन्द्रसमविक्रमः ।
देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च ॥ 77 ॥
सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ।
ततस्ताभिस्समेताभिर्नारीभिस्स महाबलः ॥ 78 ॥
प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः ।
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः ॥ 79 ॥
सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैस्सुदारुणैः ।
तृणवद्भाषितं तासां गणयामास जानकी ॥ 80 ॥
गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ।
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ॥ 81 ॥
रावणाय शशंसुस्ताः सीताध्यवसितं महत् ।
ततस्तास्सहितास्सर्वा निहताशा निरुद्यमाः ॥ 82 ॥
परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ।
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ॥ 83 ॥
विलप्य करुणं दीना प्रशुशोच सुदुःखिता ।
तासां मध्यात्समुत्थाय त्रिजटा वाक्यमब्रवीत् ॥ 84 ॥
आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ।
जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च ॥ 85 ॥
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।
रक्षसां च विनाशाय भर्तुरस्या जयाय च ॥ 86 ॥
अलमस्मात्परित्रातुं राघवाद्राक्षसीगणम् ।
अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ 87 ॥
यस्या ह्येवंविधस्स्वप्नो दुःखितायाः प्रदृश्यते ।
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ॥ 88 ॥
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।
ततस्सा ह्रीमती बाला भर्तुर्विजयहर्षिता ॥ 89 ॥
अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः ।
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ।
चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः ॥ 90 ॥
सम्भाषणार्थं च मया जानक्याश्चिन्तितो विधिः ॥ 91 ॥
इक्ष्वाकूणां हि वंशस्तु ततो मम पुरस्कृतः ।
श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ॥ 92 ॥
प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ।
कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गवः ॥ 93 ॥
का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ।
तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रुवं वचः ॥ 94 ॥
देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ।
सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ॥ 95 ॥
तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् ।
भर्त्राहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥ 96 ॥
इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् ।
अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ॥ 97 ॥
तदिच्छामि त्वयाऽऽज्ञप्तं देवि किं करवाण्यहम् ।
रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ॥ 98 ॥
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ।
आहरावणमुत्साद्य राघवो मां नयत्विति ॥ 99 ॥
प्रणम्य शिरसा देवीं महमार्यामनिन्दिताम् ।
राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ॥ 100 ॥
अथ मामब्रवीत्सीता गृह्यतामयमुत्तमः ।
मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ॥ 101 ॥
इत्युक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् ।
प्रायच्छत्परमोद्विग्ना वाचा मां सन्दिदेशह ॥ 102 ॥
ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः ।
प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ॥ 103 ॥
उक्तोऽहं पुनरेवेदं निश्चित्य मनसा तया ।
हनुमन्मम वृत्तान्तं वक्तुमर्हसि राघवे ॥ 104 ॥
यथा श्रुत्वैव न चिरात्तावुभौ रामलक्ष्मणौ ।
सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥ 105 ॥
यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम ।
न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत् ॥ 106 ॥
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत ।
उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ॥ 107 ॥
ततोऽवर्धत मे कायस्तदा पर्वतसन्निभः ।
युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ॥ 108 ॥
तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् ।
प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ॥ 109 ॥
मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः ।
ता स्समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥ 110 ॥
राजस्वनमिदं दुर्गं तव भग्नं दुरात्मना ।
वानरेण ह्यविज्ञाय तव वीर्यं महाबल ॥ 111 ॥
दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः ।
वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत् ॥ 112 ॥
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ।
राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः ॥ 113 ॥
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ।
मया तस्मिन्वनोद्देशे परिघेण निषूदितम् ॥ 114 ॥
तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः ।
निहतं च महत्सैन्यं रावणायाचचक्षिरे ॥ 115 ॥
ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ।
तत्रस्थान्राक्षसान् हत्वा शतं स्तम्भेन वै पुनः ॥ 116 ॥
ललामभूतो लङ्कायास्स वै विध्वंसितो मया ।
ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ॥ 117 ॥
राक्षसैर्बहुभिस्सार्धं घोररूपैर्भयानकैः ।
तं महाबलसम्पन्नं राक्षसं रणकोविदम् ॥ 118 ॥
परिघेणातिघोरेण सूदयामि सहानुगम् ।
तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्त्रान्महाबलान् ॥ 119 ॥
पदातिबलसम्पन्नान् प्रेषयामास रावणः ।
परिघेणैव तान् सर्वान्नयामि यमसादनम् ॥ 120 ॥
मन्त्रिपुत्त्रान्हतान्च्छृत्वा समरेऽलघुविक्रमान् ।
पञ्च सेनाग्रगाच्छ्रूरान्प्रेषयामास रावणः ॥ 121 ॥
तानहं सहसैन्यान्वै सर्वानेवाभ्यसूदयम् ।
ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ॥ 122 ॥
बहुभी राक्षसैस्सार्धं प्रेषयामास रावणः ।
तं तु मन्दोदरीपुत्त्रं कुमारं रणपण्डितम् ॥ 123 ॥
सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ।
चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ॥ 124 ॥
तमक्षमागतं भग्नं निशम्य स दशाननः ।
तत इन्द्रजितं नाम द्वितीयं रावणस्सुतम् ॥ 125 ॥
व्यादिदेश सुसङ्कृद्धो बलिनं युद्धदुर्मदम् ।
तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् ॥ 126 ॥
नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ।
महतापि महाबाहुः प्रत्ययेन महाबलः ॥ 127 ॥
प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः ।
सोऽविषह्यं हि मां बुद्ध्वा स्वं बलं चावमर्दितम् ॥ 128 ॥
ब्राह्मणास्त्रेण स तु मां प्राबध्नाच्छातिवेगितः ।
रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः ॥ 129 ॥
रावणस्य समीपं च गृहीत्वा मामुपानयन् ।
दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना ॥ 130 ॥
पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ।
तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ॥ 131 ॥
अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो ।
मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ॥ 132 ॥
रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ।
सोऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः ॥ 133 ॥
सुग्रीवश्च महातेजास्सत्वां कुशलमब्रवीत् ।
धर्मार्थकामसहितं हितं पथ्यमुवाच च ॥ 134 ॥
वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे ।
राघवो रणविक्रान्तो मित्त्रत्वं समुपागतः ॥ 135 ॥
तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता ।
तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया ॥ 136 ॥
मया च कथितं तस्मै वालिनश्च वधं प्रति ।
तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ॥ 137 ॥
वालिना हृतराज्येन सुग्रीवेण महाप्रभुः ।
चक्रेऽग्निसाक्षिकं सख्यं राघवस्सह लक्ष्मणः ॥ 138 ॥
तेन वालिनमुत्पाट्य शरेणैकेन संयुगे ।
वानराणां महाराजः कृतस्स प्लवतां प्रभुः ॥ 139 ॥
तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह ।
तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ॥ 140 ॥
क्षिप्रमानीयतां सीता दीयतां राघवाय च ।
यावन्न हरयो वीरा विधमन्ति बलं तव ॥ 141 ॥
वानराणां प्रभावो हि न केन विदितः पुरा ।
देवतानां सङ्काशं च ये गच्छन्ति निमन्त्रिताः ॥ 142 ॥
इति वानरराजस्त्वामाहेत्यभिहितो मया ।
मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ॥ 143 ॥
तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा ।
मत्प्रभावमविज्ञाय रावणेन दुरात्मना ॥ 144 ॥
ततो विभीषणो नाम तस्य भ्राता महामतिः ।
तेन राक्षसराजोऽसौ याचितो मम कारणात् ॥ 145 ॥
नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः ।
राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ॥ 146 ॥
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ।
दूतेन वेदितव्यं च यथार्थं हितवादिना ॥ 147 ॥
सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः ।
विरूपकरणं दृष्टं न वधोऽस्तीति शास्त्रतः ॥ 148 ॥
विभीषणेनैवमुक्तो रावणस्सन्दिदेश तान् ।
राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति ॥ 149 ॥
ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः ।
वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः ॥ 150 ॥
राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः ।
तदाऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः ॥ 151 ॥
बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ।
ततस्ते राक्षसाश्शूरा बद्धं मामग्निसंवृतम् ॥ 152 ॥
अघोषयन्राजमार्गे नगरद्वारमागताः ।
ततोऽहं सुमहद्रूपं सङ्क्षिप्य पुनरात्मनः ॥ 153 ॥
विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः ।
आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ॥ 154 ॥
ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ।
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् ॥ 155 ॥
दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ।
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ॥ 156 ॥
लङ्कायां कश्चिदुद्धेशः सर्वा भस्मीकृता पुरी ।
दहता च मया लङ्कां दग्धा सीता न संशयः ॥ 157 ॥
रामस्य हि महत्कार्यं मयेदं वितथीकृतम् ।
इति शोकसमाविष्टश्चिन्तामहमुपागतः ॥ 158 ॥
अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् ।
जानकी न च दग्धेति विस्मयोदन्तभाषिणाम् ॥ 159 ॥
ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् ।
अदग्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ॥ 160 ॥
दीप्यमाने तु लाङ्गूले न मां दहति पावकः ।
हृदयं च प्रहृष्टं मे वातास्सुरभिगन्धिनः ॥ 161 ॥
तैर्निमित्तैश्च दृष्टाथैः कारणैश्च महागुणैः ।
ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ॥ 162 ॥
पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः ।
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः ॥ 163 ॥
प्रतिप्लवनमारेभे युष्मद्धर्शनकाङ्क्षया ।
ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् ॥ 164 ॥
पन्थानमहमाक्रम्य भवतो दृष्टवानिह ।
राघवस्य प्रभावेण भवतां चैव तेजसा ॥ 165 ॥
सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम् ।
एतत्सर्वं मया तत्र यथावदुपपादितम् ॥ 166 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे अष्टपञ्चाशस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe sundarakāṇḍam |
atha aṣṭapañcāśassargaḥ |
tatastasya gireḥ śṛṅge mahendrasya mahābalāḥ |
hanumatpramukhāḥ prītiṃ harayo jagmuruttamām || 1 ||
taṃ tataḥ prītisaṃhṛṣṭaḥ prītimantaṃ mahākapim |
jāmbavānkāryavṛttāntamapṛcchadanilātmajam || 2 ||
kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate |
tasyāṃ vā sa kathaṃvṛttaḥ krūrakarmā daśānanaḥ || 3 ||
tattvatassarvametannaḥ prabrūhi tvaṃ mahākape |
śrutārthāścintayiṣyāmo bhūyaḥ kāryaviniścayam || 4 ||
yaścārthastattra vaktavyo gatairasmābhirātmavān |
rakṣitavyaṃ ca yattatra tadbhavānvyākarotu naḥ || 5 ||
sa niyuktastatastena samprahṛṣṭatanūruhaḥ |
praṇamya śirasā devyai sītāyai pratyabhāṣata || 6 ||
pratyakṣameva bhavatāṃ mahendrāgrātkhāmāplutaḥ |
udadherdakṣiṇaṃ pāraṃ kāṅkṣamāṇa ssamāhitaḥ || 7 ||
gacchataśca hi me ghoraṃ vighnarūpamivābhavat |
kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam || 8 ||
sthitaṃ pandhānamāvṛtya mene vighnaṃ ca taṃ nagam |
upasaṅgamya taṃ divyaṃ kāñcanaṃ nagasattamam || 9 ||
kṛtā me manasā buddhirbhettavyo'yaṃ mayeti ca |
prahataṃ ca mayā tasya lāṅgūlena mahāgireḥ || 10 ||
śikharaṃ sūryasaṅkāśaṃ vyaśīryata sahasradhā |
vyavasāyaṃ ca taṃ buddhvā sa hovāca mahāgiriḥ || 11 ||
puttreti madhurāṃ vāṇīṃ manaḥ prahlādayanniva |
pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ || 12 ||
mainākamiti vikhyātaṃ nivasantaṃ mahodadhau |
pakṣavantaḥ purā puttra babhūvuḥ parvatottamāḥ || 13 ||
chandataḥ pṛthivīṃ cerurbādhamānāḥ samantataḥ |
śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ || 14 ||
ciccheda bhagavān pakṣānvajreṇaiṣāṃ sahasraśaḥ |
ahaṃ tu mokṣitastasmāttava pitrā mahātmanā || 15 ||
mārutena tadā vatsa prakṣipto'smi mahārṇave |
rāmasya ca mayā sāhye vartitavyamarindama || 16 ||
rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ |
etacchrutvā vacastasya mainākasya mahātmanaḥ || 17 ||
kāryamāvedya tu girerudyataṃ ca mano mama |
tena cāhamanujñāto mainākena mahātmanā || 18 ||
sa cāpyantarhitaḥ śailo mānuṣeṇa vapuṣmatā |
śarīreṇa mahāśailaḥ śailena ca mahodadhau || 19 ||
uttamaṃ javamāsthāya śeṣaṃ panthānamāsthitaḥ |
tato'haṃ suciraṃ kālaṃ vegenābhyāgamaṃ pathi || 20 ||
tataḥ paśyāmyahaṃ devīṃ surasāṃ nāgamātaram |
samudramadhye sā devī vacanaṃ māmabhāṣata || 21 ||
mama bhakṣaḥ pradiṣṭastvamamarairharisattama |
atastvāṃ bhakṣayiṣyāmi vihitastvaṃ cirasya me || 22 ||
evamukta ssurasayā prāñjaliḥ praṇataḥ sthitaḥ |
vivarṇavadano bhūtvā vākyaṃ cedamudīrayam || 23 ||
rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam |
lakṣmaṇena saha bhrātrā sītayā ca parantapaḥ || 24 ||
tasya sītā hṛtā bhāryā rāvaṇena durātmanā |
tasyā ssaṅkāśaṃ dūto'haṃ gamiṣye rāmaśāsanāt || 25 ||
kartumarhasi rāmasya sāhāyyaṃ viṣaye satī |
athavā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam || 26 ||
āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te |
evamuktā mayā sā tu surasā kāmarūpiṇī || 27 ||
abravīnnātivarteta kaścideṣa varo mama |
evamuktassurasayā daśayojanamāyataḥ || 28 ||
tatorthaguṇavistāro babhūvāhaṃ kṣaṇena tu |
matpramāṇānurūpaṃ ca vyāditaṃ ca mukhaṃ tayā || 29 ||
taddṛṣṭvā vyāditaṃ cāsyaṃ hrasvaṃ hyakaravaṃ vapuḥ |
tasminmuhūrte ca punarbabhūvāṅguṣṭhamātrakaḥ || 30 ||
abhipatyāśu tadvaktraṃ nirgato'haṃ tataḥ kṣaṇāt |
abravītsurasā devī svena rūpeṇa māṃ punaḥ || 31 ||
arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham |
samānaya ca vaidehīṃ rāghaveṇa mahātmanā || 32 ||
sukhī bhava mahābāho prītā'smi tava vānara |
tato'haṃ sādhu sādhviti sarvabhūtaiḥ praśaṃsitaḥ || 33 ||
tato'ntarikṣaṃ vipulaṃ pluto'haṃ garuḍo yathā |
chāyā me nigṛhītā ca na ca paśyāmi kiñcana || 34 ||
so'haṃ vihatavegastu diśo daśa vilokayan |
na kiñcittatra paśyāmi yena me'pahṛtā gatiḥ || 35 ||
tato me buddhirutpannā kinnāma gagane mama |
īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate || 36 ||
adhobhāgena me dṛṣṭi śśocatā pātitā mayā |
tato'drākṣamahaṃ bhīmāṃ rākṣasīṃ salileśayām || 37 ||
prahasya ca mahānādamukto'haṃ bhīmayā tayā |
avasthitamasambhrāntamidaṃ vākyamaśobhanam || 38 ||
kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ |
bhakṣaḥ prīṇaya me dehaṃ ciramāhāravarjitam || 39 ||
bāḍhamityeva tāṃ vāṇīṃ pratyagṛhṇāmahaṃ tataḥ |
asyapramāṇādadhikaṃ tasyāḥ kāyamapūrayam || 40 ||
tasyāścāsyaṃ mahadbhīmaṃ vardhate mama bhakṣaṇe |
na ca māṃ sādhu bubudhe mama vā vikṛtaṃ kṛtam || 41 ||
tato'haṃ vipulaṃ rūpaṃ saṅkṣipya nimiṣāntarāt |
tasyā hṛdayamādāya prapatāmi nabhaḥsthalam || 42 ||
sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi |
mayā parvatasaṅkāśā nikṛttahṛdayā satī || 43 ||
śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaissaha |
rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hatā || 44 ||
tāṃ hatvā punarevāhaṃ kṛtyamātyayikaṃ smaran |
gatvā cāha mahadhvānaṃ paśyāmi nagamaṇḍitam || 45 ||
dakṣiṇaṃ tīramudadherlaṅkā yatra ca sā purī |
astaṃ dinakare yāte rakṣasāṃ nilayaṃ puram || 46 ||
praviṣṭo'hamavijñāto rakṣobhirbhīmavikramaiḥ |
tatra praviśataścāpi kalpāntaghanasannibhā || 47 ||
aṭṭahāsaṃ vimuñcantī nārī kāpyutthitā puraḥ |
jighāṃsantīṃ tatastāṃ tu jvaladagniśiroruhām || 48 ||
savyamuṣṭiprahāreṇa parājitya subhairavām |
pradoṣakāle praviśaṃ bhītayā'haṃ tayoditaḥ || 49 ||
ahaṃ laṅkāpurī vīra nirjitā vikrameṇa te |
yasmāttasmādvijetāsi sarvarakṣāṃsyaśeṣataḥ || 50 ||
tatrāhaṃ sarvarātraṃ tu vicinvan janakātmajām |
rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām || 51 ||
tata ssītāmapaśyaṃstu rāvaṇasya niveśane |
śokasāgaramāsādya na pāramupalakṣaye || 52 ||
śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam |
kāñcanena vikṛṣṭena gṛhopavanamuttamam || 53 ||
sa prākāramavaplutya paśyāmi bahupādapam |
aśokavanikāmadhye śiṃśupāpādapo mahān || 54 ||
tamāruhya ca paśyāmi kāñcanaṃ kadalīvanam |
adūre śiṃśupāvṛkṣātpaśyāmi varavarṇinīm || 55 ||
śyāmāṃ kamalapatrākṣīmupavāsakṛśānanām |
tadekavāsassaṃvītāṃ rajodhvastaśiroruhām || 56 ||
śokasantāpadīnāṅgīṃ sītāṃ bhartṛhite sthitām |
rākṣasībhirvirūpābhiḥ krūrābhirabhisaṃvṛtām || 57 ||
māṃsaśoṇitabhakṣābhirvyāghrībhirhariṇīmiva |
sā mayā rākṣasīmadhye tarjyamānā muhurmuhuḥ || 58 ||
ekaveṇīdharā dīnā bhartṛcintāparāyaṇā |
bhūmiśayyā vivarṇāṅgī padminīva himāgame || 59 ||
rāvaṇādvinivṛttārthā martavyakṛtaniścayā |
kathañcinmṛgaśābākṣī tūrṇamāsāditā mayā || 60 ||
tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīṃ yaśasvinīm |
tatraiva śiṃśupāvṛkṣe paśyannahamavasthitaḥ || 61 ||
tato halahalāśabdaṃ kāñcīnūpuramiśritam |
śṛṇomyadhikagambhīraṃ rāvaṇasya niveśane || 62 ||
tato'haṃ paramodvignaḥ svaṃ rūpaṃ pratyasaṃharam |
ahaṃ tu śiṃśupāvṛkṣe pakṣīva gahane sthitaḥ || 63 ||
tato rāvaṇadārāśca rāvaṇaśca mahābalaḥ |
taṃ deśaṃ samanuprāptā yatra sītā'bhavat sthitā || 64 ||
taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram |
saṅkucyorūstanau pīnau bāhubhyāṃ parirabhya ca || 65 ||
vitrastāṃ paramodvignāṃ vīkṣamāṇāṃ tatastataḥ |
trāṇaṃ kiñcidapaśyantīṃ vepamānāṃ tapasvinīm || 66 ||
tāmuvāca daśagrīvassītāṃ paramaduḥkhitām |
avākcirāḥ prapatito bahumanyasva māmiti || 67 ||
yadi cettvaṃ tu darpānmāṃ nābhinandasi garvite |
dvau māsāvantaraṃ sīte pāsyāmi rudhiraṃ tava || 68 ||
etacchrutvā vacastasya rāvaṇasya durātmanaḥ |
uvāca paramakruddhā sītā vacanamuttamam || 69 ||
rākṣasādhama rāmasya bhāryāmamitatejasaḥ |
ikṣvākukulanāthasya snuṣāṃ daśarathasya ca || 70 ||
avācyaṃ vadato jihvā kathaṃ na patitā tava |
kiñcidvīryaṃ tavānārya yo māṃ bharturasannidhau || 71 ||
apahṛtyā''gataḥ pāpa te nādṛṣṭo mahātmanā |
na tvaṃ rāmasya sadṛśo dāsye'pyasya na yujyase || 72 ||
yajñīya ssatyavādī ca raṇaślāghī ca rāghavaḥ |
jānakyā paruṣaṃ vākyamevamukto daśānanaḥ || 73 ||
jajvāla sahasā kopāccitāstha iva pāvakaḥ |
vivṛtya nayane krūre muṣṭimudyamya dakṣiṇam || 74 ||
maithilīṃ hantumārabdhaḥ strībhirhāhākṛtaṃ tadā |
strīṇāṃ madhyātsamutpatya tasya bhāryā durātmanaḥ || 75 ||
varā mandodarī nāma tayā sa pratiṣedhitaḥ |
uktaśca madhurāṃ vāṇīṃ tayā sa madanārditaḥ || 76 ||
sītayā tava kiṃ kāryaṃ mahendrasamavikramaḥ |
devagandharvakanyābhiryakṣakanyābhireva ca || 77 ||
sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi |
tatastābhissametābhirnārībhissa mahābalaḥ || 78 ||
prasādya sahasā nīto bhavanaṃ svaṃ niśācaraḥ |
yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ || 79 ||
sītāṃ nirbhartsayāmāsurvākyaiḥ krūraissudāruṇaiḥ |
tṛṇavadbhāṣitaṃ tāsāṃ gaṇayāmāsa jānakī || 80 ||
garjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam |
vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ || 81 ||
rāvaṇāya śaśaṃsustāḥ sītādhyavasitaṃ mahat |
tatastāssahitāssarvā nihatāśā nirudyamāḥ || 82 ||
parikṣipya samantāttāṃ nidrāvaśamupāgatāḥ |
tāsu caiva prasuptāsu sītā bhartṛhite ratā || 83 ||
vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā |
tāsāṃ madhyātsamutthāya trijaṭā vākyamabravīt || 84 ||
ātmānaṃ khādata kṣipraṃ na sītā vinaśiṣyati |
janakasyātmajā sādhvī snuṣā daśarathasya ca || 85 ||
svapno hyadya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ |
rakṣasāṃ ca vināśāya bharturasyā jayāya ca || 86 ||
alamasmātparitrātuṃ rāghavādrākṣasīgaṇam |
abhiyācāma vaidehīmetaddhi mama rocate || 87 ||
yasyā hyevaṃvidhassvapno duḥkhitāyāḥ pradṛśyate |
sā duḥkhairvividhairmuktā sukhamāpnotyanuttamam || 88 ||
praṇipātaprasannā hi maithilī janakātmajā |
tatassā hrīmatī bālā bharturvijayaharṣitā || 89 ||
avocadyadi tattathyaṃ bhaveyaṃ śaraṇaṃ hi vaḥ |
tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām |
cintayāmāsa vikrānto na ca me nirvṛtaṃ manaḥ || 90 ||
sambhāṣaṇārthaṃ ca mayā jānakyāścintito vidhiḥ || 91 ||
ikṣvākūṇāṃ hi vaṃśastu tato mama puraskṛtaḥ |
śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām || 92 ||
pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā |
kastvaṃ kena kathaṃ ceha prāpto vānarapuṅgavaḥ || 93 ||
kā ca rāmeṇa te prītistanme śaṃsitumarhasi |
tasyāstadvacanaṃ śrutvā hyahamapyabruvaṃ vacaḥ || 94 ||
devi rāmasya bhartuste sahāyo bhīmavikramaḥ |
sugrīvo nāma vikrānto vānarendro mahābalaḥ || 95 ||
tasya māṃ viddhi bhṛtyaṃ tvaṃ hanumantamihāgatam |
bhartrāhaṃ preṣitastubhyaṃ rāmeṇākliṣṭakarmaṇā || 96 ||
idaṃ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam |
aṅgulīyamabhijñānamadāttubhyaṃ yaśasvini || 97 ||
tadicchāmi tvayā''jñaptaṃ devi kiṃ karavāṇyaham |
rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kimuttaram || 98 ||
etacchrutvā viditvā ca sītā janakanandinī |
āharāvaṇamutsādya rāghavo māṃ nayatviti || 99 ||
praṇamya śirasā devīṃ mahamāryāmaninditām |
rāghavasya manohlādamabhijñānamayāciṣam || 100 ||
atha māmabravītsītā gṛhyatāmayamuttamaḥ |
maṇiryena mahābāhū rāmastvāṃ bahumanyate || 101 ||
ityuktvā tu varārohā maṇipravaramadbhutam |
prāyacchatparamodvignā vācā māṃ sandideśaha || 102 ||
tatastasyai praṇamyāhaṃ rājaputryai samāhitaḥ |
pradakṣiṇaṃ parikrāmamihābhyudgatamānasaḥ || 103 ||
ukto'haṃ punarevedaṃ niścitya manasā tayā |
hanumanmama vṛttāntaṃ vaktumarhasi rāghave || 104 ||
yathā śrutvaiva na cirāttāvubhau rāmalakṣmaṇau |
sugrīvasahitau vīrāvupeyātāṃ tathā kuru || 105 ||
yadyanyathā bhavedetaddvau māsau jīvitaṃ mama |
na māṃ drakṣyati kākutstho mriye sāhamanāthavat || 106 ||
tacchrutvā karuṇaṃ vākyaṃ krodho māmabhyavartata |
uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣamanantaram || 107 ||
tato'vardhata me kāyastadā parvatasannibhaḥ |
yuddhakāṅkṣī vanaṃ tacca vināśayitumārabhe || 108 ||
tadbhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam |
pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ || 109 ||
māṃ ca dṛṣṭvā vane tasmin samāgamya tatastataḥ |
tā ssamabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire || 110 ||
rājasvanamidaṃ durgaṃ tava bhagnaṃ durātmanā |
vānareṇa hyavijñāya tava vīryaṃ mahābala || 111 ||
durbuddhestasya rājendra tava vipriyakāriṇaḥ |
vadhamājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet || 112 ||
tacchrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ |
rākṣasāḥ kiṅkarā nāma rāvaṇasya manonugāḥ || 113 ||
teṣāmaśītisāhasraṃ śūlamudgarapāṇinām |
mayā tasminvanoddeśe parigheṇa niṣūditam || 114 ||
teṣāṃ tu hataśeṣā ye te gatvā laghuvikramāḥ |
nihataṃ ca mahatsainyaṃ rāvaṇāyācacakṣire || 115 ||
tato me buddhirutpannā caityaprāsādamākramam |
tatrasthānrākṣasān hatvā śataṃ stambhena vai punaḥ || 116 ||
lalāmabhūto laṅkāyāssa vai vidhvaṃsito mayā |
tataḥ prahastasya sutaṃ jambumālinamādiśat || 117 ||
rākṣasairbahubhissārdhaṃ ghorarūpairbhayānakaiḥ |
taṃ mahābalasampannaṃ rākṣasaṃ raṇakovidam || 118 ||
parigheṇātighoreṇa sūdayāmi sahānugam |
tacchrutvā rākṣasendrastu mantriputtrānmahābalān || 119 ||
padātibalasampannān preṣayāmāsa rāvaṇaḥ |
parigheṇaiva tān sarvānnayāmi yamasādanam || 120 ||
mantriputtrānhatāncchṛtvā samare'laghuvikramān |
pañca senāgragācchrūrānpreṣayāmāsa rāvaṇaḥ || 121 ||
tānahaṃ sahasainyānvai sarvānevābhyasūdayam |
tataḥ punardaśagrīvaḥ putramakṣaṃ mahābalam || 122 ||
bahubhī rākṣasaissārdhaṃ preṣayāmāsa rāvaṇaḥ |
taṃ tu mandodarīputtraṃ kumāraṃ raṇapaṇḍitam || 123 ||
sahasā khaṃ samutkrāntaṃ pādayośca gṛhītavān |
carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam || 124 ||
tamakṣamāgataṃ bhagnaṃ niśamya sa daśānanaḥ |
tata indrajitaṃ nāma dvitīyaṃ rāvaṇassutam || 125 ||
vyādideśa susaṅkṛddho balinaṃ yuddhadurmadam |
taccāpyahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṅgavam || 126 ||
naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣamupāgamam |
mahatāpi mahābāhuḥ pratyayena mahābalaḥ || 127 ||
preṣito rāvaṇenaiva saha vīrairmadotkaṭaiḥ |
so'viṣahyaṃ hi māṃ buddhvā svaṃ balaṃ cāvamarditam || 128 ||
brāhmaṇāstreṇa sa tu māṃ prābadhnācchātivegitaḥ |
rajjubhiścābhibadhnanti tato māṃ tatra rākṣasāḥ || 129 ||
rāvaṇasya samīpaṃ ca gṛhītvā māmupānayan |
dṛṣṭvā sambhāṣitaścāhaṃ rāvaṇena durātmanā || 130 ||
pṛṣṭaśca laṅkāgamanaṃ rākṣasānāṃ ca taṃ vadham |
tatsarvaṃ ca mayā tatra sītārthamiti jalpitam || 131 ||
asyāhaṃ darśanākāṅkṣī prāptastvadbhavanaṃ vibho |
mārutasyaurasaḥ putro vānaro hanumānaham || 132 ||
rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim |
so'haṃ dūtyena rāmasya tvatsakāśamihāgataḥ || 133 ||
sugrīvaśca mahātejāssatvāṃ kuśalamabravīt |
dharmārthakāmasahitaṃ hitaṃ pathyamuvāca ca || 134 ||
vasato ṛśyamūke me parvate vipuladrume |
rāghavo raṇavikrānto mittratvaṃ samupāgataḥ || 135 ||
tena me kathitaṃ rājñā bhāryā me rakṣasā hṛtā |
tatra sāhāyyamasmākaṃ kāryaṃ sarvātmanā tvayā || 136 ||
mayā ca kathitaṃ tasmai vālinaśca vadhaṃ prati |
tatra sāhāyyahetorme samayaṃ kartumarhasi || 137 ||
vālinā hṛtarājyena sugrīveṇa mahāprabhuḥ |
cakre'gnisākṣikaṃ sakhyaṃ rāghavassaha lakṣmaṇaḥ || 138 ||
tena vālinamutpāṭya śareṇaikena saṃyuge |
vānarāṇāṃ mahārājaḥ kṛtassa plavatāṃ prabhuḥ || 139 ||
tasya sāhāyyamasmābhiḥ kāryaṃ sarvātmanā tviha |
tena prasthāpitastubhyaṃ samīpamiha dharmataḥ || 140 ||
kṣipramānīyatāṃ sītā dīyatāṃ rāghavāya ca |
yāvanna harayo vīrā vidhamanti balaṃ tava || 141 ||
vānarāṇāṃ prabhāvo hi na kena viditaḥ purā |
devatānāṃ saṅkāśaṃ ca ye gacchanti nimantritāḥ || 142 ||
iti vānararājastvāmāhetyabhihito mayā |
māmaikṣata tataḥ kruddhaścakṣuṣā pradahanniva || 143 ||
tena vadhyo'hamājñapto rakṣasā raudrakarmaṇā |
matprabhāvamavijñāya rāvaṇena durātmanā || 144 ||
tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ |
tena rākṣasarājo'sau yācito mama kāraṇāt || 145 ||
naivaṃ rākṣasaśārdūla tyajyatāmeṣa niścayaḥ |
rājaśāstravyapeto hi mārgaḥ saṃsevyate tvayā || 146 ||
dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa |
dūtena veditavyaṃ ca yathārthaṃ hitavādinā || 147 ||
sumahatyaparādhe'pi dūtasyātulavikramaḥ |
virūpakaraṇaṃ dṛṣṭaṃ na vadho'stīti śāstrataḥ || 148 ||
vibhīṣaṇenaivamukto rāvaṇassandideśa tān |
rākṣasānetadevāsya lāṅgūlaṃ dahyatāmiti || 149 ||
tatastasya vacaḥ śrutvā mama pucchaṃ samantataḥ |
veṣṭitaṃ śaṇavalkaiśca jīrṇaiḥ kārpāsajaiḥ paṭaiḥ || 150 ||
rākṣasāḥ siddhasannāhāstataste caṇḍavikramāḥ |
tadā'dahyanta me pucchaṃ nighnantaḥ kāṣṭhamuṣṭibhiḥ || 151 ||
baddhasya bahubhiḥ pāśairyantritasya ca rākṣasaiḥ |
tataste rākṣasāśśūrā baddhaṃ māmagnisaṃvṛtam || 152 ||
aghoṣayanrājamārge nagaradvāramāgatāḥ |
tato'haṃ sumahadrūpaṃ saṅkṣipya punarātmanaḥ || 153 ||
vimocayitvā taṃ bandhaṃ prakṛtisthaḥ sthitaḥ punaḥ |
āyasaṃ parighaṃ gṛhya tāni rakṣāṃsyasūdayam || 154 ||
tatastannagaradvāraṃ vegenāplutavānaham |
pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām || 155 ||
dahāmyahamasambhrānto yugāntāgniriva prajāḥ |
vinaṣṭā jānakī vyaktaṃ na hyadagdhaḥ pradṛśyate || 156 ||
laṅkāyāṃ kaściduddheśaḥ sarvā bhasmīkṛtā purī |
dahatā ca mayā laṅkāṃ dagdhā sītā na saṃśayaḥ || 157 ||
rāmasya hi mahatkāryaṃ mayedaṃ vitathīkṛtam |
iti śokasamāviṣṭaścintāmahamupāgataḥ || 158 ||
athāhaṃ vācamaśrauṣaṃ cāraṇānāṃ śubhākṣarām |
jānakī na ca dagdheti vismayodantabhāṣiṇām || 159 ||
tato me buddhirutpannā śrutvā tāmadbhutāṃ giram |
adagdhā jānakītyevaṃ nimittaiścopalakṣitā || 160 ||
dīpyamāne tu lāṅgūle na māṃ dahati pāvakaḥ |
hṛdayaṃ ca prahṛṣṭaṃ me vātāssurabhigandhinaḥ || 161 ||
tairnimittaiśca dṛṣṭāthaiḥ kāraṇaiśca mahāguṇaiḥ |
ṛṣivākyaiśca siddhārthairabhavaṃ hṛṣṭamānasaḥ || 162 ||
punardṛṣṭvā ca vaidehīṃ visṛṣṭaśca tayā punaḥ |
tataḥ parvatamāsādya tatrāriṣṭamahaṃ punaḥ || 163 ||
pratiplavanamārebhe yuṣmaddharśanakāṅkṣayā |
tataḥ pavanacandrārkasiddhagandharvasevitam || 164 ||
panthānamahamākramya bhavato dṛṣṭavāniha |
rāghavasya prabhāveṇa bhavatāṃ caiva tejasā || 165 ||
sugrīvasya ca kāryārthaṃ mayā sarvamanuṣṭhitam |
etatsarvaṃ mayā tatra yathāvadupapāditam || 166 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye sundarakāṇḍe aṣṭapañcāśassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in