अथ एकादशोऽध्यायः ।
श्रीभगवान् उवाच ।
बद्धः मुक्तः इति व्याख्या गुणतः मे न वस्तुतः ।
गुणस्य मायामूलत्वात् न मे मोक्षः न बन्धनम् ॥ 1॥
शोकमोहौ सुखं दुःखं देहापत्तिः च मायया ।
स्वप्नः यथा आत्मनः ख्यातिः संसृतिः न तु वास्तवी ॥ 2॥
विद्या अविद्ये मम तनू विद्धि उद्धव शरीरिणाम् ।
मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥ 3॥
एकस्य एव मम अंशस्य जीवस्य एव महामते ।
बन्धः अस्य अविद्यया अनादिः विद्यया च तथा इतरः ॥ 4॥
अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।
विरुद्धधर्मिणोः तात स्थितयोः एकधर्मिणि ॥ 5॥
सुपर्णौ एतौ सदृशौ सखायौ
यदृच्छया एतौ कृतनीडौ च वृक्षे ।
एकः तयोः खादति पिप्पलान्नम्
अन्यः निरन्नः अपि बलेन भूयान् ॥ 6॥
आत्मानं अन्यं च सः वेद विद्वान्
अपिप्पलादः न तु पिप्पलादः ।
यः अविद्यया युक् स तु नित्यबद्धः
विद्यामयः यः स तु नित्यमुक्तः ॥ 7॥
देहस्थः अपि न देहस्थः विद्वान् स्वप्नात् यथा उत्थितः ।
अदेहस्थः अपि देहस्थः कुमतिः स्वप्नदृक् यथा ॥ 8॥
इन्द्रियैः इन्द्रियार्थेषु गुणैः अपि गुणेषु च ।
गृह्यमाणेषु अहङ्कुर्यात् न विद्वान् यः तु अविक्रियः ॥ 9॥
दैवाधीने शरीरे अस्मिन् गुणभाव्येन कर्मणा ।
वर्तमानः अबुधः तत्र कर्ता अस्मि इति निबध्यते ॥ 10॥
एवं विरक्तः शयनः आसनाटनमज्जने ।
दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु ॥ 11॥
न तथा बध्यते विद्वान् तत्र तत्र आदयन् गुणान् ।
प्रकृतिस्थः अपि असंसक्तः यथा खं सविता अनिलः ॥ 12॥
वैशारद्येक्षया असङ्गशितया छिन्नसंशयः ।
प्रतिबुद्धः इव स्वप्नात् नानात्वात् विनिवर्तते ॥ 13॥
यस्य स्युः वीतसङ्कल्पाः प्राणेन्द्रियमनोधियाम् ।
वृत्तयः सः विनिर्मुक्तः देहस्थः अपि हि तत् गुणैः ॥ 14॥
यस्य आत्मा हिंस्यते हिंस्र्यैः येन किञ्चित् यदृच्छया ।
अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः ॥ 15॥
न स्तुवीत न निन्देत कुर्वतः साधु असाधु वा ।
वदतः गुणदोषाभ्यां वर्जितः समदृक् मुनिः ॥ 16॥
न कुर्यात् न वदेत् किञ्चित् न ध्यायेत् साधु असाधु वा ।
आत्मारामः अनया वृत्त्या विचरेत् जडवत् मुनिः ॥ 17॥
शब्दब्रह्मणि निष्णातः न निष्णायात् परे यदि ।
श्रमः तस्य श्रमफलः हि अधेनुं इव रक्षतः ॥ 18॥
गां दुग्धदोहां असतीं च भार्याम्
देहं पराधीनं असत्प्रजां च ।
वित्तं तु अतीर्थीकृतं अङ्ग वाचम्
हीनां मया रक्षति दुःखदुःखी ॥ 19॥
यस्यां न मे पावनं अङ्ग कर्म
स्थितिउद्भवप्राण निरोधनं अस्य ।
लीलावतारीप्सितजन्म वा स्यात्
बन्ध्यां गिरं तां बिभृयात् न धीरः ॥ 20॥
एवं जिज्ञासया अपोह्य नानात्वभ्रमं आत्मनि ।
उपारमेत विरजं मनः मयि अर्प्य सर्वगे ॥ 21॥
यदि अनीशः धारयितुं मनः ब्रह्मणि निश्चलम् ।
मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ 22॥
श्रद्धालुः मे कथाः शऋण्वन् सुभद्रा लोकपावनीः ।
गायन् अनुस्मरन् कर्म जन्म च अभिनयन् मुहुः ॥ 23॥
मदर्थे धर्मकामार्थान् आचरन् मदपाश्रयः ।
लभते निश्चलां भक्तिं मयि उद्धव सनातने ॥ 24॥
सत्सङ्गलब्धया भक्त्या मयि मां सः उपासिता ।
सः वै मे दर्शितं सद्भिः अञ्जसा विन्दते पदम् ॥ 25॥
उद्धव उवाच ।
साधुः तव उत्तमश्लोक मतः कीदृग्विधः प्रभो ।
भक्तिः त्वयि उपयुज्येत कीदृशी सद्भिः आदृता ॥ 26॥
एतत् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत् प्रभो ।
प्रणताय अनुरक्ताय प्रपन्नाय च कथ्यताम् ॥ 27॥
त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः ।
अवतीर्णः असि भगवन् स्वेच्छाउपात्तपृथक् वपुः ॥ 28॥
श्रीभगवान् उवाच ।
कृपालुः अकृतद्रोहः तितिक्षुः सर्वदेहिनाम् ।
सत्यसारः अनवद्यात्मा समः सर्वोपकारकः ॥ 29॥
कामैः अहतधीः दान्तः मृदुः शुचिः अकिञ्चनः ।
अनीहः मितभुक् शान्तः स्थिरः मत् शरणः मुनिः ॥ 30॥
अप्रमत्तः गभीरात्मा धृतिमाञ्जितषड्गुणः ।
अमानी मानदः कल्पः मैत्रः कारुणिकः कविः ॥ 31॥
आज्ञाय एवं गुणान् दोषान्मयादिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत सः सत्तमः ॥ 32॥
ज्ञात्वा अज्ञात्वा अथ ये वै मां यावान् यः च अस्मि
यादृशः ।
भजन्ति अनन्यभावेन ते मे भक्ततमाः मताः ॥ 33॥
मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम् ।
परिचर्या स्तुतिः प्रह्वगुणकर्म अनुकीर्तनम् ॥ 34॥
मत्कथाश्रवणे श्रद्धा मत् अनुध्यानं उद्धव ।
सर्वलाभ उपहरणं दास्येन आत्मनिवेदनम् ॥ 35॥
मज्जन्मकर्मकथनं मम पर्वानुमोदनम् ।
गीतताण्डववादित्रगोष्ठीभिः मद्गृह उत्सवः ॥ 36॥
यात्रा बलिविधानं च सर्ववार्षिकपर्वसु ।
वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥ 37॥
मम अर्चास्थापने श्रद्धा स्वतः संहत्य च उद्यमः ।
उद्यान उपवनाक्रीडपुरमन्दिरकर्मणि ॥ 38॥
सम्मार्जन उपलेपाभ्यां सेकमण्डलवर्तनैः ।
गृहशुश्रूषणं मह्यं दासवद्यदमायया ॥ 39॥
अमानित्वं अदम्भित्वं कृतस्य अपरिकीर्तनम् ।
अपि दीपावलोकं मे न उपयुञ्ज्यात् निवेदितम् ॥ 40॥
यत् यत् इष्टतमं लोके यत् च अतिप्रियं आत्मनः ।
तत् तत् निवेदयेत् मह्यं तत् आनन्त्याय कल्पते ॥ 41॥
सूर्यः अग्निः ब्राह्मणः गावः वैष्णवः खं मरुत् जलम् ।
भूः आत्मा सर्वभूतानि भद्र पूजापदानि मे ॥ 42॥
सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।
आतिथ्येन तु विप्राग्र्यः गोष्वङ्ग यवसादिना ॥ 43॥
वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया ।
वायौ मुख्यधिया तोये द्रव्यैः तोयपुरस्कृतैः ॥ 44॥
स्थण्डिले मन्त्रहृदयैः भोगैः आत्मानं आत्मनि ।
क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ 45॥
धिष्ण्येषु एषु इति मद्रूपं शङ्खचक्रगदाम्बुजैः ।
युक्तं चतुर्भुजं शान्तं ध्यायन् अर्चेत् समाहितः ॥ 46॥
इष्टापूर्तेन मां एवं यः यजेत समाहितः ।
लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया ॥ 47॥
प्रायेण भक्तियोगेन सत्सङ्गेन विना उद्धव ।
न उपायः विद्यते सध्र्यङ् प्रायणं हि सतां अहम् ॥ 48॥
अथ एतत् परमं गुह्यं श्रुण्वतः यदुनन्दन ।
सुगोप्यं अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥ 49॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
एकादशपूजाविधानयोगो नाम एकादशोऽध्यायः ॥ 11॥
अथ द्वादशोऽध्यायः ।
श्रीभगवान् उवाच ।
न रोधयति मां योगः न स्साङ्ख्यं धर्मः एव च ।
न स्वाध्यायः तपः त्यागः न इष्टापूर्तं न दक्षिणा ॥ 1॥
व्रतानि यज्ञः छन्दांसि तीर्थानि नियमाः यमाः ।
यथा अवरुन्धे सत्सङ्गः सर्वसङ्ग अपहः हि माम् ॥ 2॥
सत्सङ्गेन हि दैतेया यातुधानः मृगाः खगाः ।
गन्धर्व अप्सरसः नागाः सिद्धाः चारणगुह्यकाः ॥ 3॥
विद्याधराः मनुष्येषु वैश्याः शूद्राः स्त्रियः अन्त्यजाः ।
रजः तमः प्रकृतयः तस्मिन् तस्मिन् युगे अनघ ॥ 4॥
बहवः मत्पदं प्राप्ताः त्वाष्ट्रकायाधवादयः ।
वृषपर्वा बलिः वाणः मयः च अथ विभीषणः ॥ 5॥
सुग्रीवः हनुमान् ऋक्षः गजः गृध्रः वणिक्पथः ।
व्याधः कुब्जा व्रजे गोप्यः यज्ञपत्न्यः तथा अपरे ॥ 6॥
ते न अधितश्रुतिगणाः न उपासितमहत्तमाः ।
अव्रतातप्ततपसः मत्सङ्गात् मां उपागताः ॥ 7॥
केवलेन हि भावेन गोप्यः गावः नगाः मृगाः ।
ये अन्ये मूढधियः नागाः सिद्धाः मां ईयुः अञ्जसा ॥ 8॥
यं न योगेन साङ्ख्येन दानव्रततपः अध्वरैः ।
व्याख्याः स्वाध्यायसन्न्यासैः प्राप्नुयात् यत्नवान् अपि ॥ 9॥
रामेण सार्धं मथुरां प्रणीते
श्वाफल्किना मयि अनुरक्तचित्ताः ।
विगाढभावेन न मे वियोग
तीव्राधयः अन्यं ददृशुः सुखाय ॥ 10॥
ताः ताः क्षपाः प्रेष्ठतमेन नीताः
मया एव वृन्दावनगोचरेण ।
क्षणार्धवत् ताः पुनरङ्ग तासां
हीना माया कल्पसमा बभूवुः ॥ 11॥
ताः न अविदन् मयि अनुषङ्गबद्ध
धियः स्वमात्मानं अदः तथा इदम् ।
यथा समाधौ मुनयः अब्धितोये
नद्यः प्रविष्टाः इव नामरूपे ॥ 12॥
मत्कामा रमणं जारं अस्वरूपविदः अबलाः ।
ब्रह्म मां परमं प्रापुः सङ्गात् शतसहस्रशः ॥ 13॥
तस्मात् त्वं उद्धव उत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतं एव च ॥ 14॥
मां एकं एव शरणं आत्मानं सर्वदेहिनाम् ।
याहि सर्वात्मभावेन मया स्याः हि अकुतोभयः ॥ 15॥
उद्धवः उवाच ।
संशयः श्रुण्वतः वाचं तव योगेश्वर ईश्वर ।
न निवर्ततः आत्मस्थः येन भ्राम्यति मे मनः ॥ 16॥
श्रीभगवान् उवाच ।
सः एष जीवः विवरप्रसूतिः
प्राणेन घोषेण गुहां प्रविष्टः ।
मनोमयं सूक्ष्मं उपेत्य रूपं
मात्रा स्वरः वर्णः इति स्थविष्ठः ॥ 17॥
यथा अनलः खे अनिलबन्धुः ऊष्मा
बलेन दारुण्यधिमथ्यमानः ।
अणुः प्रजातः हविषा समिध्यते
तथा एव मे व्यक्तिः इयं हि वाणी ॥ 18॥
एवं गदिः कर्मगतिः विसर्गः
घ्राणः रसः दृक् स्पर्शः श्रुतिः च ।
सङ्कल्पविज्ञानं अथ अभिमानः
सूत्रं रजः सत्त्वतमोविकारः ॥ 19॥
अयं हि जीवः त्रिवृत् अब्जयोनिः
अव्यक्तः एकः वयसा सः आद्यः ।
विश्लिष्टशक्तिः बहुधा एव भाति
बीजानि योनिं प्रतिपद्य यद्वत् ॥ 20॥
यस्मिन् इदं प्रोतं अशेषं ओतं
पटः यथा तन्तुवितानसंस्थः ।
यः एष संसारतरुः पुराणः
कर्मात्मकः पुष्पफले प्रसूते ॥ 21॥
द्वे अस्य बीजे शतमूलः त्रिनालः
पञ्चस्कन्धः पञ्चरसप्रसूतिः ।
दश एकशाखः द्विसुपर्णनीडः
त्रिवल्कलः द्विफलः अर्कं प्रविष्टः ॥ 22॥
अदन्ति च एकं फलं अस्य गृध्रा
ग्रामेचराः एकं अरण्यवासाः ।
हंसाः यः एकं बहुरूपं इज्यैः
मायामयं वेद सः वेद वेदम् ॥ 23॥
एवं गुरु उपासनया एकभक्त्या
विद्याकुठारेण शितेन धीरः ।
विवृश्च्य जीवाशयं अप्रमत्तः
सम्पद्य च आत्मानं अथ त्यज अस्त्रम् ॥ 24॥

द्वादशोऽध्यायः ॥ 12॥
अथ त्रयोदशोऽध्यायः ।
श्रीभगवान् उवाच ।
सत्त्वं रजः तमः इति गुणाः बुद्धेः न च आत्मनः ।
सत्त्वेन अन्यतमौ हन्यात् सत्त्वं सत्त्वेन च एव हि ॥ 1॥
सत्त्वात् धर्मः भवेत् वृद्धात् पुंसः मद्भक्तिलक्षणः ।
सात्विक उपासया सत्त्वं ततः धर्मः प्रवर्तते ॥ 2॥
धर्मः रजः तमः हन्यात् सत्त्ववृद्धिः अनुत्तमः ।
आशु नश्यति तत् मूलः हि अधर्मः उभये हते ॥ 3॥
आगमः अपः प्रजा देशः कालः कर्म च जन्म च ।
ध्यानं मन्त्रः अथ संस्कारः दश एते गुणहेतवः ॥ 4॥
तत् तत् सात्विकं एव एषां यत् यत् वृद्धाः प्रचक्षते ।
निन्दन्ति तामसं तत् तत् राजसं तत् उपेक्षितम् ॥ 5॥
सात्त्विकानि एव सेवेत पुमान् सत्त्वविवृद्धये ।
ततः धर्मः ततः ज्ञानं यावत् स्मृतिः अपोहनम् ॥ 6॥
वेणुसङ्घर्षजः वह्निः दग्ध्वा शाम्यति तत् वनम् ।
एवं गुणव्यत्ययजः देहः शाम्यति तत् क्रियः ॥ 7॥
उद्धवः उवाच ।
विदन्ति मर्त्याः प्रायेण विषयान् पदं आपदाम् ।
तथा अपि भुञ्जते कृष्ण तत् कथं श्व खर अजावत् ॥ 8॥
श्रीभगवान् उवाच ।
अहं इति अन्यथाबुद्धिः प्रमत्तस्य यथा हृदि ।
उत्सर्पति रजः घोरं ततः वैकारिकं मनः ॥ 9॥
रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः ।
ततः कामः गुणध्यानात् दुःसहः स्यात् हि दुर्मतेः ॥ 10॥
करोति कामवशगः कर्माणि अविजितेन्द्रियः ।
दुःखोदर्काणि सम्पश्यन् रजोवेगविमोहितः ॥ 11।
रजः तमोभ्यां यत् अपि विद्वान् विक्षिप्तधीः पुनः ।
अतन्द्रितः मनः युञ्जन् दोषदृष्टिः न सज्जते ॥ 12॥
अप्रमत्तः अनुयुञ्जीतः मनः मयि अर्पयन् शनैः ।
अनिर्विण्णः यथाकालं जितश्वासः जितासनः ॥ 13॥
एतावान् योगः आदिष्टः मत् शिष्यैः सनक आदिभिः ।
सर्वतः मनः आकृष्य मय्यद्धा आवेश्यते यथा ॥ 14॥
उद्धवः उवाच ।
यदा त्वं सनक आदिभ्यः येन रूपेण केशव ।
योगं आदिष्टवान् एतत् रूपं इच्छामि वेदितुम् ॥ 15॥
श्रीभगवान् उवाच ।
पुत्राः हिरण्यगर्भस्य मानसाः सनक आदयः ।
पप्रच्छुः पितरं सूक्ष्मां योगस्य ऐकान्तिकीं गतिम् ॥
16॥
सनक आदयः ऊचुः ।
गुणेषु आविशते चेतः गुणाः चेतसि च प्रभो ।
कथं अन्योन्यसन्त्यागः मुमुक्षोः अतितितीर्षोः ॥ 17॥
श्रीभगवान् उवाच ।
एवं पृष्टः महादेवः स्वयम्भूः भूतभावनः ।
ध्यायमानः प्रश्नबीजं न अभ्यपद्यत कर्मधीः ॥ 18॥
सः मां अचिन्तयत् देवः प्रश्नपारतितीर्षया ।
तस्य अहं हंसरूपेण सकाशं अगमं तदा ॥ 19॥
दृष्ट्वा मां त उपव्रज्य कृत्वा पाद अभिवन्दनम् ।
ब्रह्माणं अग्रतः कृत्वा पप्रच्छुः कः भवान् इति ॥ 20॥
इति अहं मुनिभिः पृष्टः तत्त्वजिज्ञासुभिः तदा ।
यत् अवोचं अहं तेभ्यः तत् उद्धव निबोध मे ॥ 21॥
वस्तुनः यदि अनानात्वं आत्मनः प्रश्नः ईदृशः ।
कथं घटेत वः विप्राः वक्तुः वा मे कः आश्रयः ॥ 22॥
पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः ।
कः भवान् इति वः प्रश्नः वाचारम्भः हि अनर्थकः ॥ 23॥
मनसा वचसा दृष्ट्या गृह्यते अन्यैः अपि इन्द्रियैः ।
अहं एव न मत्तः अन्यत् इति बुध्यध्वं अञ्जसा ॥ 24॥
गुणेषु आविशते चेतः गुणाः चेतसि च प्रजाः ।
जीवस्य देहः उभयं गुणाः चेतः मत् आत्मनः ॥ 25॥
गुणेषु च आविशत् चित्तं अभीक्ष्णं गुणसेवया ।
गुणाः च चित्तप्रभवाः मत् रूपः उभयं त्यजेत् ॥ 26॥
जाग्रत् स्वप्नः सुषुप्तं च गुणतः बुद्धिवृत्तयः ।
तासां विलक्षणः जीवः साक्षित्वेन विनिश्चितः ॥ 27॥
यः हि संसृतिबन्धः अयं आत्मनः गुणवृत्तिदः ।
मयि तुर्ये स्थितः जह्यात् त्यागः तत् गुणचेतसाम् ॥ 28॥
अहङ्कारकृतं बन्धं आत्मनः अर्थविपर्ययम् ।
विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितः त्यजेत् ॥ 29॥
यावत् नानार्थधीः पुंसः न निवर्तेत युक्तिभिः ।
जागर्ति अपि स्वपन् अज्ञः स्वप्ने जागरणं यथा ॥ 30॥
असत्त्वात् आत्मनः अन्येषां भावानां तत् कृता भिदा ।
गतयः हेतवः च अस्य मृषा स्वप्नदृशः यथा ॥ 31॥
यो जागरे बहिः अनुक्षणधर्मिणः अर्थान्
भुङ्क्ते समस्तकरणैः हृदि तत् सदृक्षान् ।
स्वप्ने सुषुप्तः उपसंहरते सः एकः
स्मृति अन्वयात् त्रिगुणवृत्तिदृक् इन्द्रिय ईशः ॥ 32॥
एवं विमृश्य गुणतः मनसः त्र्यवस्था
मत् मायया मयि कृता इति निश्चितार्थाः ।
सञ्छिद्य हार्दं अनुमानस्त् उक्तितीक्ष्ण
ज्ञानासिना भजतः मा अखिलसंशयाधिम् ॥ 33॥
ईक्षेत विभ्रमं इदं मनसः विलासम्
दृष्टं विनष्टं अतिलोलं अलातचक्रम् ।
विज्ञानं एकं उरुधा इव विभाति माया
स्वप्नः त्रिधा गुणविसर्गकृतः विकल्पः ॥ 34॥
दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्णः
तूष्णीं भवेत् निजसुख अनुभवः निरीहः ।
सन्दृश्यते क्व च यदि इदं अवस्तुबुद्ध्या
त्यक्तं भ्रमाय न भवेत् स्मृतिः आनिपातात् ॥ 35॥
देहं च नश्वरं अवस्थितं उत्थितं वा
सिद्धः न पश्यति यतः अध्यगमत्स्वरूपम् ।
दैवात् अपेतं उत दैवशात् उपेतम्
वासः यथा परिकृतं मदिरामदान्धः ॥ 36॥
देहः अपि दैववशगः खलु कर्म यावत्
स्वारम्भकं प्रतिसमीक्षतः एव सासुः ।
तं अप्रपञ्चं अधिरूढसमाधियोगः
स्वाप्नं पुनः न भजते प्रतिबुद्धवस्तुः ॥ 37॥
मया एतत् उक्तं वः विप्राः गुह्यं यत् साङ्ख्ययोगयोः ।
जानीतं आगतं यज्ञं युष्मत् धर्मविवक्षया ॥ 38॥
अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः ।
परायणं द्विजश्रेष्ठाः श्रियः कीर्तेः दमस्य च ॥ 39॥
मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियं आत्मानं साम्य असङ्ग आदयः गुणाः ॥ 40॥
इति मे छिन्नसन्देहाः मुनयः सनक आदयः ।
सभाजयित्वा परया भक्त्या अगृणत संस्तवैः ॥ 41॥
तैः अहं पूजितः सम्यक् संस्तुतः परम ऋषिभिः ।
प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ 42॥

हंसगीतानिरूपणं नाम त्रयोदशोऽध्यायः ॥ 13॥
अथ चतुर्दशोऽध्यायः ।
उद्धवः उवाच ।
वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः ।
तेषां विकल्पप्राधान्यं उत अहो एकमुख्यता ॥ 1॥
भवत् उदाहृतः स्वामिन् भक्तियोगः अनपेक्षितः ।
निरस्य सर्वतः सङ्गं येन त्वयि आविशेत् मनः ॥ 2॥
श्रीभगवान् उवाच ।
कालेन नष्टा प्रलये वाणीयं वेदसञ्ज्ञिता ।
मया आदौ ब्रह्मणे प्रोक्ता धर्मः यस्यां मदात्मकः ॥ 3॥
तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा ।
ततः भृगु आदयः अगृह्णन् सप्तब्रह्ममहर्षयः ॥ 4॥
तेभ्यः पितृभ्यः तत् पुत्राः देवदानवगुह्यकाः ।
मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ॥ 5॥
किन्देवाः किन्नराः नागाः रक्षः किम्पुरुष आदयः ।
बह्व्यः तेषां प्रकृतयः रजःसत्त्वतमोभुवः ॥ 6॥
याभिः भूतानि भिद्यन्ते भूतानां मतयः तथा ।
यथाप्रकृति सर्वेषां चित्राः वाचः स्रवन्ति हि ॥ 7॥
एवं प्रकृतिवैचित्र्यात् भिद्यन्ते मतयः नृणाम् ।
पारम्पर्येण केषाञ्चित् पाखण्डमतयः अपरे ॥ 8॥
मन्मायामोहितधियः पुरुषाः पुरुषर्षभ ।
श्रेयः वदन्ति अनेकान्तं यथाकर्म यथारुचि ॥ 9॥
धर्मं एके यशः च अन्ये कामं सत्यं दमं शमम् ।
अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् ।
केचित् यज्ञतपोदानं व्रतानि नियम अन्यमान् ॥ 10॥
आदि अन्तवन्तः एव एषां लोकाः कर्मविनिर्मिताः ।
दुःख उदर्काः तमोनिष्ठाः क्षुद्र आनन्दाः शुच अर्पिताः ॥
11॥
मयि अर्पित मनः सभ्य निरपेक्षस्य सर्वतः ।
मया आत्मना सुखं यत् तत् कुतः स्यात् विषय आत्मनाम् ॥
12॥
अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः ।
मया सन्तुष्टमनसः सर्वाः सुखमयाः दिशः ॥ 13॥
न पारमेष्ठ्यं न महेन्द्रधिष्ण्यम्
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीः अपुनर्भवं वा
मयि अर्पित आत्मा इच्छति मत् विना अन्यत् ॥ 14॥
न तथा मे प्रियतमः आत्मयोनिः न शङ्करः ।
न च सङ्कर्षणः न श्रीः न एव आत्मा च यथा भवान् ॥ 15॥
निरपेक्षं मुनिं शातं निर्वैरं समदर्शनम् ।
अनुव्रजामि अहं नित्यं पूयेयेति अङ्घ्रिरेणुभिः ॥ 16॥
निष्किञ्चना मयि अनुरक्तचेतसः
शान्ताः महान्तः अखिलजीववत्सलाः ।
कामैः अनालब्धधियः जुषन्ति यत्
तत् नैरपेक्ष्यं न विदुः सुखं मम ॥ 17॥
बाध्यमानः अपि मद्भक्तः विषयैः अजितेन्द्रियः ।
प्रायः प्रगल्भया भक्त्या विषयैः न अभिभूयते ॥ 18॥
यथा अग्निः सुसमृद्ध अर्चिः करोति एधांसि भस्मसात् ।
तथा मद्विषया भक्तिः उद्धव एनांसि कृत्स्नशः ॥ 19॥
न साधयति मां योगः न साङ्ख्यं धर्मः उद्धव ।
न स्वाध्यायः तपः त्यागः यथा भक्तिः मम ऊर्जिता ॥ 20॥
भक्त्या अहं एकया ग्राह्यः श्रद्धया आत्मा प्रियः सताम् ।
भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि सम्भवात् ॥ 21॥
धर्मः सत्यदया उपेतः विद्या वा तपसान्विता ।
मद्भ्क्त्यापेतं आत्मानं न सम्यक् प्रपुनाति हि ॥ 22॥
कथं विना रोमहर्षं द्रवता चेतसा विना ।
विनानन्द अश्रुकलया शुध्येत् भक्त्या विनाशयः ॥ 23॥
वाक् गद्गदा द्रवते यस्य चित्तम्
रुदति अभीक्ष्णं हसति क्वचित् च ।
विलज्जः उद्गायति नृत्यते च
मद्भक्तियुक्तः भुवनं पुनाति ॥ 24॥
यथा अग्निना हेम मलं जहाति
ध्मातं पुनः स्वं भजते च रूपम् ।
आत्मा च कर्मानुशयं विधूय
मद्भक्तियोगेन भजति अथः माम् ॥ 25॥
यथा यथा आत्मा परिमृज्यते असौ
मत्पुण्यगाथाश्रवण अभिधानैः ।
तथा तथा पश्यति वस्तु सूक्ष्मम्
चक्षुः यथा एव अञ्जनसम्प्रयुक्तम् ॥ 26॥
विषयान् ध्यायतः चित्तं विषयेषु विषज्जते ।
मां अनुस्मरतः चित्तं मयि एव प्रविलीयते ॥ 27॥
तस्मात् असत् अभिध्यानं यथा स्वप्नमनोरथम् ।
हित्वा मयि समाधत्स्व मनः मद्भावभावितम् ॥ 28॥
स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरतः आत्मवान् ।
क्षेमे विविक्तः आसीनः चिन्तयेत् मां अतन्द्रितः ॥ 29॥
न तथा अस्य भवेत् क्लेशः बन्धः च अन्यप्रसङ्गतः ।
योषित् सङ्गात् यथा पुंसः यथा तत् सङ्गिसङ्गतः ॥ 30॥
उद्धवः उवाच ।
यथा त्वां अरविन्दाक्ष यादृशं वा यदात्मकम् ।
ध्यायेत् मुमुक्षुः एतत् मे ध्यानं मे वक्तुं अर्हसि ॥ 31॥
श्रीभगवान् उवाच ।
समः आसनः आसीनः समकायः यथासुखम् ।
हस्तौ उत्सङ्गः आधाय स्वनासाग्रकृत ईक्षणः ॥ 32॥
प्राणस्य शोधयेत् मार्गं पूरकुम्भकरेचकैः ।
विपर्ययेण अपि शनैः अभ्यसेत् निर्जितेन्द्रियः ॥ 33॥
हृदि अविच्छिन्नं ओङ्कारं घण्टानादं बिसोर्णवत् ।
प्राणेन उदीर्य तत्र अथ पुनः संवेशयेत् स्वरम् ॥ 34॥
एवं प्रणवसंयुक्तं प्राणं एव समभ्यसेत् ।
दशकृत्वः त्रिषवणं मासात् अर्वाक् जित अनिलः ॥35॥
हृत्पुण्डरीकं अन्तस्थं ऊर्ध्वनालं अधोमुखम् ।
ध्यात्वा ऊर्ध्वमुखं उन्निद्रं अष्टपत्रं सकर्णिकम् ॥ 36॥
कर्णिकायां न्यसेत् सूर्यसोमाग्नीन् उत्तरोत्तरम् ।
वह्निमध्ये स्मरेत् रूपं मम एतत् ध्यानमङ्गलम् ॥ 37॥
समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् ।
सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥ 38॥
समान कर्ण विन्यस्त स्फुरन् मकर कुण्डलम् ।
हेम अम्बरं घनश्यामं श्रीवत्स श्रीनिकेतनम् ॥ 39॥
शङ्ख चक्र गदा पद्म वनमाला विभूषितम् ।
नूपुरैः विलसत् पादं कौस्तुभ प्रभया युतम् ॥ 40॥
द्युमत् किरीट कटक कटिसूत्र अङ्गद अयुतम् ।
सर्वाङ्ग सुन्दरं हृद्यं प्रसाद सुमुख ईक्षणम् ॥ 41॥
सुकुमारं अभिध्यायेत् सर्वाङ्गेषु मनः दधत् ।
इन्द्रियाणि इन्द्रियेभ्यः मनसा आकृष्य तत् मनः ।
बुद्ध्या सारथिना धीरः प्रणयेत् मयि सर्वतः ॥ 42॥
तत् सर्व व्यापकं चित्तं आकृष्य एकत्र धारयेत् ।
न अन्यानि चिन्तयेत् भूयः सुस्मितं भावयेत् मुखम् ॥ 43॥
तत्र लब्धपदं चित्तं आकृष्य व्योम्नि धारयेत् ।
तत् च त्यक्त्वा मदारोहः न किञ्चित् अपि चिन्तयेत् ॥ 44॥
एवं समाहितमतिः मां एव आत्मानं आत्मनि ।
विचष्टे मयि सर्वात्मत् ज्योतिः ज्योतिषि संयुतम् ॥ 45॥
ध्यानेन इत्थं सुतीव्रेण युञ्जतः योगिनः मनः ।
संयास्यति आशु निर्वाणं द्रव्य ज्ञान क्रिया भ्रमः ॥ 46॥

भक्तिरहस्यावधारणयोगो नाम चतुर्दशोऽध्यायः ॥ 14॥
अथ पञ्चदशोऽध्यायः ।
श्रीभगवान् उवाच ।
जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः
मयि धारयतः चेतः उपतिष्ठन्ति सिद्धयः ॥ 1॥
उद्धवः उवाच ।
कया धारणया कास्वित् कथंस्वित् सिद्धिः अच्युत ।
कति वा सिद्धयः ब्रूहि योगिनां सिद्धिदः भवान् ॥ 2॥
श्रीभगवान् उवाच ।
सिद्धयः अष्टादश प्रोक्ता धारणायोगपारगैः ।
तासां अष्टौ मत् प्रधानाः दशः एव गुणहेतवः ॥ 3॥
अणिमा महिमा मूर्तेः लघिमा प्राप्तिः इन्द्रियैः ।
प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणं ईशिता ॥ 4॥
गुणेषु असङ्गः वशिता यत् कामः तत् अवस्यति ।
एताः मे सिद्धयः सौम्य अष्टौ उत्पत्तिकाः मताः ॥ 5॥
अनूर्मिमत्त्वं देहे अस्मिन् दूरश्रवणदर्शनम् ।
मनोजवः कामरूपं परकायप्रवेशनम् ॥ 6॥
स्वच्छन्दमृत्युः देवानां सहक्रीडानुदर्शनम् ।
यथासङ्कल्पसंसिद्धिः आज्ञाप्रतिहता गतिः ॥ 7॥
त्रिकालज्ञत्वं अद्वन्द्वं परचित्तादि अभिज्ञता ।
अग्नि अर्क अम्बु विष आदीनां प्रतिष्टम्भः अपराजयः ॥ 8॥
एताः च उद्देशतः प्रोक्ता योगधारणसिद्धयः ।
यया धारणया या स्यात् यथा वा स्यात् निबोध मे ॥ 9॥
भूतसूक्ष्म आत्मनि मयि तन्मात्रं धारयेत् मनः ।
अणिमानं अवाप्नोति तन्मात्र उपासकः मम ॥ 10॥
महति आत्मन् मयि परे यथासंस्थं मनः दधत् ।
महिमानं अवाप्नोति भूतानां च पृथक् पृथक् ॥ 11॥
परमाणुमये चित्तं भूतानां मयि रञ्जयन् ।
कालसूक्ष्मात्मतां योगी लघिमानं अवाप्नुयात् ॥ 12॥
धारयन् मयि अहन्तत्त्वे मनः वैकारिके अखिलम् ।
सर्वेन्द्रियाणां आत्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ 13॥
महति आत्मनि यः सूत्रे धारयेत् मयि मानसम् ।
प्राकाम्यं पारमेष्ठ्यं मे विन्दते अव्यक्तजन्मनः ॥ 14॥
विष्णौ त्र्यधि ईश्वरे चित्तं धारयेत् कालविग्रहे ।
सः ईशित्वं अवाप्नोति क्षेत्रक्षेत्रज्ञचोदनाम् ॥ 15॥
नारायणे तुरीयाख्ये भगवत् शब्दशब्दिते ।
मनः मयि आदधत् योगी मत् धर्माः वहितां इयात् ॥ 16॥
निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।
परमानन्दं आप्नोति यत्र कामः अवसीयते ॥ 17॥
श्वेतदीपपतौ चित्तं शुद्धे धर्ममये मयि ।
धारयन् श्वेततां याति षडूर्मिरहितः नरः ॥ 18॥
मयि आकाश आत्मनि प्राणे मनसा घोषं उद्वहन् ।
तत्र उपलब्धा भूतानां हंसः वाचः श्रुणोति असौ ॥ 19॥
चक्षुः त्वष्टरि संयोज्य त्वष्टारं अपि चक्षुषि ।
मां तत्र मनसा ध्यायन् विश्वं पश्यति सूक्ष्मदृक् ॥ 20॥
मनः मयि सुसंयोज्य देहं तदनु वायुना ।
मद्धारण अनुभावेन तत्र आत्मा यत्र वै मनः ॥ 21॥
यदा मनः उपादाय यत् यत् रूपं बुभूषति ।
तत् तत् भवेत् मनोरूपं मद्योगबलं आश्रयः ॥ 22॥
परकायं विशन् सिद्धः आत्मानं तत्र भावयेत् ।
पिण्डं हित्वा विशेत् प्राणः वायुभूतः षडङ्घ्रिवत् ॥ 23॥
पार्ष्ण्या आपीड्य गुदं प्राणं हृत् उरः कण्ठ मूर्धसु ।
आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वा उत्सृजेत् तनुम् ॥ 24॥
विहरिष्यन् सुराक्रीडे मत्स्थं सत्त्वं विभावयेत् ।
विमानेन उपतिष्ठन्ति सत्त्ववृत्तीः सुरस्त्रियः ॥ 25॥
यथा सङ्कल्पयेत् बुद्ध्या यदा वा मत्परः पुमान् ।
मयि सत्ये मनः युञ्जन् तथा तत् समुपाश्नुते ॥ 26॥
यः वै मद्भावं आपन्नः ईशितुः वशितुः पुमान् ।
कुतश्चित् न विहन्येत तस्य च आज्ञा यथा मम ॥ 27॥
मद्भक्त्या शुद्धसत्त्वस्य योगिनः धारणाविदः ।
तस्य त्रैकालिकी बुद्धिः जन्म मृत्यु उपबृंहिता ॥ 28॥
अग्नि आदिभिः न हन्येत मुनेः योगं अयं वपुः ।
मद्योगश्रान्तचित्तस्य यादसां उदकं यथा ॥ 29॥
मद्विभूतिः अभिध्यायन् श्रीवत्स अस्त्रबिभूषिताः ।
ध्वजातपत्रव्यजनैः सः भवेत् अपराजितः ॥ 30॥
उपासकस्य मां एवं योगधारणया मुनेः ।
सिद्धयः पूर्वकथिताः उपतिष्ठन्ति अशेषतः ॥ 31॥
जितेन्द्रियस्य दान्तस्य जितश्वास आत्मनः मुनेः ।
मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा ॥ 32॥
अन्तरायान् वदन्ति एताः युञ्जतः योगं उत्तमम् ।
मया सम्पद्यमानस्य कालक्षेपणहेतवः ॥ 33॥
जन्म ओषधि तपो मन्त्रैः यावतीः इह सिद्धयः ।
योगेन आप्नोति ताः सर्वाः न अन्यैः योगगतिं व्रजेत् ॥ 34॥
सर्वासां अपि सिद्धीनां हेतुः पतिः अहं प्रभुः ।
अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम् ॥ 35॥
अहं आत्मा अन्तरः बाह्यः अनावृतः सर्वदेहिनाम् ।
यथा भूतानि भूतेषु बहिः अन्तः स्वयं तथा ॥ 36॥

सिद्धनिरूपणयोगो नाम पञ्चदशोऽध्यायः ॥ 15॥
अथ षोडशोऽध्यायः ।
उद्धवः उवाच ।
त्वं ब्रह्म परमं साक्षात् अनादि अनन्तं अपावृतम् ।
सर्वेषां अपि भावानां त्राणस्थिति अप्यय उद्भवः ॥ 1॥
उच्चावचेषु भूतेषु दुर्ज्ञेयं अकृत आत्मभिः ।
उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥ 2॥
येषु येषु च भावेषु भक्त्या त्वां परमर्षयः ।
उपासीनाः प्रपद्यन्ते संसिद्धिं तत् वदस्व मे ॥ 3॥
गूढः चरसि भूतात्मा भूतानां भूतभावन ।
न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ 4॥
याः काः च भूमौ दिवि वै रसायाम्
विभूतयः दिक्षु महाविभूते ।
ताः मह्यं आख्याहि अनुभाविताः ते
नमामि ते तीर्थ पद अङ्घ्रिपद्मम् ॥ 5॥
श्रीभगवान् उवाच ।
एवं एतत् अहं पृष्टः प्रश्नं प्रश्नविदां वर ।
युयुत्सुना विनशने सपत्नैः अर्जुनेन वै ॥ 6॥
ज्ञात्वा ज्ञातिवधं गर्ह्यं अधर्मं राज्यहेतुकम् ।
ततः निवृत्तः हन्ता अहं हतः अयं इति लौकिकः ॥ 7॥
सः तदा पुरुषव्याघ्रः युक्त्या मे प्रतिबोधितः ।
अभ्यभाषत मां एवं यथा त्वं रणमूर्धनि ॥ 8॥
अहं आत्मा उद्धव आमीषां भूतानां सुहृत् ईश्वरः ।
अहं सर्वाणि भूतानि तेषां स्थिति उद्भव अप्ययः ॥ 9॥
अहं गतिः गतिमतां कालः कलयतां अहम् ।
गुणानां च अपि अहं साम्यं गुणिन्या उत्पत्तिकः गुणः ॥ 10॥
गुणिनां अपि अहं सूत्रं महतां च महान् अहम् ।
सूक्ष्माणां अपि अहं जीवः दुर्जयानां अहं मनः ॥ 11॥
हिरण्यगर्भः वेदानां मन्त्राणां प्रणवः त्रिवृत् ।
अक्षराणां अकारः अस्मि पदानि छन्दसां अहम् ॥ 12॥
इन्द्रः अहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।
आदित्यानां अहं विष्णू रुद्राणां नीललोहितः ॥ 13॥
ब्रह्मर्षीणां भृगुः अहं राजर्षीणां अहं मनुः ।
देवर्षिणां नारदः अहं हविर्धानि अस्मि धेनुषु ॥ 14॥
सिद्धेश्वराणां कपिलः सुपर्णः अहं पतत्रिणाम् ।
प्रजापतीनां दक्षः अहं पितॄणां अहं अर्यमा ॥ 15॥
मां विद्धि उद्धव दैत्यानां प्रह्लादं असुरेश्वरम् ।
सोमं नक्षत्र ओषधीनां धनेशं यक्षरक्षसाम् ॥ 16॥
ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् ।
तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ 17॥
उच्चैःश्रवाः तुरङ्गाणां धातूनां अस्मि काञ्चनम् ।
यमः संयमतां च अहं सर्पाणां अस्मि वासुकिः ॥ 18॥
नागेन्द्राणां अनन्तः अहं मृगेन्द्रः शऋङ्गिदंष्ट्रिणाम् ।
आश्रमाणां अहं तुर्यः वर्णानां प्रथमः अनघ ॥ 19॥
तीर्थानां स्रोतसां गङ्गा समुद्रः सरसां अहम् ।
आयुधानां धनुः अहं त्रिपुरघ्नः धनुष्मताम् ॥ 20॥
धिष्ण्यानां अस्मि अहं मेरुः गहनानां हिमालयः ।
वनस्पतीनां अश्वत्थः ओषधीनां अहं यवः ॥ 21॥
पुरोधसां वसिष्ठः अहं ब्रह्मिष्ठानां बृहस्पतिः ।
स्कन्दः अहं सर्वसेनान्यां अग्रण्यां भगवान् अजः ॥ 22॥
यज्ञानां ब्रह्मयज्ञः अहं व्रतानां अविहिंसनम् ।
वायु अग्नि अर्क अम्बु वाक् आत्मा शुचीनां अपि अहं शुचिः ॥ 23॥
योगानां आत्मसंरोधः मन्त्रः अस्मि विजिगीषताम् ।
आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ 24॥
स्त्रीणां तु शतरूपा अहं पुंसां स्वायम्भुवः मनुः ।
नारायणः मुनीनां च कुमारः ब्रह्मचारिणाम् ॥ 25॥
धर्माणां अस्मि सन्न्यासः क्षेमाणां अबहिः मतिः ।
गुह्यानां सूनृतं मौनं मिथुनानां अजः तु अहम् ॥ 26॥
संवत्सरः अस्मि अनिमिषां ऋतूनां मधुमाधवौ ।
मासानां मार्गशीर्षः अहं नक्षत्राणां तथा अभिजित् ॥ 27॥
अहं युगानां च कृतं धीराणां देवलः असितः ।
द्वैपायनः अस्मि व्यासानां कवीनां काव्यः आत्मवान् ॥ 28॥
वासुदेवः भगवतां त्वं भागवतेषु अहम् ।
किम्पुरुषाणां हनुमान् विद्याघ्राणां सुदर्शनः ॥ 29॥
रत्नानां पद्मरागः अस्मि पद्मकोशः सुपेशसाम् ।
कुशः अस्मि दर्भजातीनां गव्यं आज्यं हविष्षु अहम् ॥
30॥
व्यवसायिनां अहं लक्ष्मीः कितवानां छलग्रहः ।
तितिक्षा अस्मि तितिक्षणां सत्त्वं सत्त्ववतां अहम् ॥ 31॥
ओजः सहोबलवतां कर्म अहं विद्धि सात्त्वताम् ।
सात्त्वतां नवमूर्तीनां आदिमूर्तिः अहं परा ॥ 32॥
विश्वावसुः पूर्वचित्तिः गन्धर्व अप्सरसां अहम् ।
भूधराणां अहं स्थैर्यं गन्धमात्रं अहं भुवः ॥ 33॥
अपां रसः च परमः तेजिष्ठानां विभावसुः ।
प्रभा सूर्य इन्दु ताराणां शब्दः अहं नभसः परः ॥ 34॥
ब्रह्मण्यानां बलिः अहं विराणां अहं अर्जुनः ।
भूतानां स्थितिः उत्पत्तिः अहं वै प्रतिसङ्क्रमः ॥ 35॥
गति उक्ति उत्सर्ग उपादानं आनन्द स्पर्श लक्षणम् ।
आस्वाद श्रुति अवघ्राणं अहं सर्वेन्द्रिय इन्द्रियम् ॥ 36॥
पृथिवी वायुः आकाशः आपः ज्योतिः अहं महान् ।
विकारः पुरुषः अव्यक्तं रजः सत्त्वं तमः परम् ।
अहं एतत् प्रसङ्ख्यानं ज्ञानं सत्त्वविनिश्चयः ॥ 37॥
मया ईश्वरेण जीवेन गुणेन गुणिना विना ।
सर्वात्मना अपि सर्वेण न भावः विद्यते क्वचित् ॥ 38॥
सङ्ख्यानं परमाणूनां कालेन क्रियते मया ।
न तथा मे विभूतीनां सृजतः अण्डानि कोटिशः ॥ 39॥
तेजः श्रीः कीर्तिः ऐश्वर्यं ह्रीः त्यागः सौभगं भगः ।
वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मे अंशकः ॥ 40॥
एताः ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः ।
मनोविकाराः एव एते यथा वाचा अभिधीयते ॥ 41॥
वाचं यच्छ मनः यच्छ प्राणानि यच्छ इन्द्रियाणि च ।
आत्मानं आत्मना यच्छ न भूयः कल्पसे अध्वने ॥ 42॥
यः वै वाक् मनसि सम्यक् असंयच्छन् धिया यतिः ।
तस्य व्रतं तपः दानं स्रवत्यामघटाम्बुवत् ॥ 43॥
तस्मात् मनः वचः प्राणान् नियच्छेत् मत् परायणः ।
मत् भक्ति युक्तया बुद्ध्या ततः परिसमाप्यते ॥ 44॥

विभूतियोगो नाम षोडशोऽध्यायः ॥ 16॥
अथ सप्तदशोऽध्यायः ।
उद्धवः उवाच ।
यः त्वया अभितः पूर्वं धर्मः त्वत् भक्तिलक्षणः ।
वर्णाश्रम आचारवतां सर्वेषां द्विपदां अपि ॥ 1॥
यथा अनुष्ठीयमानेन त्वयि भक्तिः नृणां भवेत् ।
स्वधर्मेण अरविन्दाक्ष तत् समाख्यातुं अर्हसि ॥ 2॥
पुरा किल महाबाहो धर्मं परमकं प्रभो ।
यत् तेन हंसरूपेण ब्रह्मणे अभ्यात्थ माधव ॥ 3॥
सः इदानीं सुमहता कालेन अमित्रकर्शन ।
न प्रायः भविता मर्त्यलोके प्राक् अनुशासितः ॥ 4॥
वक्ता कर्ता अविता न अन्यः धर्मस्य अच्युत ते भुवि ।
सभायां अपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ 5॥
कर्त्रा अवित्रा प्रवक्त्रा च भवता मधुसूदन ।
त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ 6॥
तत्त्वं नः सर्वधर्मज्ञ धर्मः त्वत् भक्तिलक्षणः ।
यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ 7॥
श्रीशुकः उवाच ।
इत्थं स्वभृत्यमुख्येन पृष्टः सः भगवान् हरिः ।
प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥ 8॥
श्रीभगवान् उवाच ।
धर्म्यः एष तव प्रश्नः नैःश्रेयसकरः नृणाम् ।
वर्णाश्रम आचारवतां तं उद्धव निबोध मे ॥ 9॥
आदौ कृतयुगे वर्णः नृणां हंसः इति स्मृतः ।
कृतकृत्याः प्रजाः जात्याः तस्मात् कृतयुगं विदुः ॥ 10॥
वेदः प्रणवः एव अग्रे धर्मः अहं वृषरूपधृक् ।
उपासते तपोनिष्ठां हंसं मां मुक्तकिल्बिषाः ॥ 11॥
त्रेतामुखे महाभाग प्राणात् मे हृदयात् त्रयी ।
विद्या प्रादुः अभूत् तस्याः अहं आसं त्रिवृन्मखः ॥ 12॥
विप्र क्षत्रिय विट् शूद्राः मुख बाहु उरु पादजाः ।
वैराजात् पुरुषात् जाताः यः आत्माचारलक्षणाः ॥ 13॥
गृहाश्रमः जघनतः ब्रह्मचर्यं हृदः मम ।
वक्षःस्थानात् वने वासः न्यासः शीर्षणि संस्थितः ॥ 14॥
वर्णानां आश्रमाणां च जन्मभूमि अनुसारिणीः ।
आसन् प्रकृतयः नॄणां नीचैः नीच उत्तम उत्तमाः ॥ 15॥
शमः दमः तपः शौचं सन्तोषः क्षान्तिः आर्जवम् ।
मद्भक्तिः च दया सत्यं ब्रह्मप्रकृतयः तु इमाः ॥ 16॥
तेजः बलं धृतिः शौर्यं तितिक्षा औदार्यं उद्यमः ।
स्थैर्यं ब्रह्मणि अत ऐश्वर्यं क्षत्रप्रकृतयः तु इमाः ॥
17॥
आस्तिक्यं दाननिष्ठा च अदम्भः ब्रह्मसेवनम् ।
अतुष्टिः अर्थ उपचयैः वैश्यप्रकृतयः तु इमाः ॥ 18॥
शुश्रूषणं द्विजगवां देवानां च अपि अमायया ।
तत्र लब्धेन सन्तोषः शूद्रप्रकृतयः तु इमाः ॥ 19॥
अशौचं अनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः ।
कामः क्रोधः च तर्षः च स्वभावः अन्तेवसायिनाम् ॥ 20॥
अहिंसा सत्यं अस्तेयं अकामक्रोधलोभता ।
भूतप्रियहितेहा च धर्मः अयं सार्ववर्णिकः ॥ 21॥
द्वितीयं प्राप्य अनुपूर्व्यात् जन्म उपनयनं द्विजः ।
वसन् गुरुकुले दान्तः ब्रह्म अधीयीत च आहुतः ॥ 22॥
मेखला अजिन दण्ड अक्ष ब्रह्मसूत्र कमण्डलून् ।
जटिलः अधौतदद्वासः अरक्तपीठः कुशान् दधत् ॥ 23॥
स्नान भोजन होमेषु जप उच्चारे च वाग्यतः ।
न च्छिन्द्यात् नख रोमाणि कक्ष उपस्थगतानि अपि ॥ 24॥
रेतः न अवरिकेत् जातु ब्रह्मव्रतधरः स्वयम् ।
अवकीर्णे अवगाह्य अप्सु यतासुः त्रिपदीं जपेत् ॥ 25॥
अग्नि अर्क आचार्य गो विप्र गुरु वृद्ध सुरान् शुचिः ।
समाहितः उपासीत सन्ध्ये च यतवाक् जपन् ॥ 26॥
आचार्यं मां विजानीयात् न अवमन्येत कर्हिचित् ।
न मर्त्यबुद्धि आसूयेत सर्वदेवमयः गुरुः ॥ 27॥
सायं प्रातः उपानीय भैक्ष्यं तस्मै निवेदयेत् ।
यत् च अन्यत् अपि अनुज्ञातं उपयुञ्जीत संयतः ॥ 28॥
शुश्रूषमाणः आचार्यं सदा उपासीत नीचवत् ।
यान शय्या आसन स्थानैः न अतिदूरे कृताञ्जलिः ॥ 29॥
एवंवृत्तः गुरुकुले वसेत् भोगविवर्जितः ।
विद्या समाप्यते यावत् बिभ्रत् व्रतं अखण्डितम् ॥ 30॥
यदि असौ छन्दसां लोकं आरोक्ष्यन् ब्रह्मविष्टपम् ।
गुरवे विन्यसेत् देहं स्वाध्यायार्थं वृहत् व्रतः ॥ 31॥
अग्नौ गुरौ आत्मनि च सर्वभूतेषु मां परम् ।
अपृथक् धीः उपासीत ब्रह्मवर्चस्वी अकल्मषः ॥ 32॥
स्त्रीणां निरीक्षण स्पर्श संलाप क्ष्वेलन आदिकम् ।
प्राणिनः मिथुनीभूतान् अगृहस्थः अग्रतः त्यजेत् ॥ 33॥
शौचं आचमनं स्नानं सन्ध्या उपासनं आर्जवम् ।
तीर्थसेवा जपः अस्पृश्य अभक्ष्य असम्भाष्य वर्जनम् ॥
34॥
सर्व आश्रम प्रयुक्तः अयं नियमः कुलनन्दन।
मद्भावः सर्बभूतेषु मनोवाक्काय संयमः ॥ 35॥
एवं बृहत् व्रतधरः ब्राह्मणः अग्निः इव ज्वलन् ।
मद्भक्तः तीव्रतपसा दग्धकर्म आशयः अमलः ॥ 36॥
अथ अनन्तरं आवेक्ष्यन् यथा जिज्ञासित आगमः ।
गुरवे दक्षिणां दत्त्वा स्नायत् गुरु अनुमोदितः ॥ 37॥
गृहं वनं वा उपविशेत् प्रव्रजेत् वा द्विज उत्तमः ।
आश्रमात् आश्रमं गच्छेत् न अन्यथा मत्परः चरेत् ॥ 38॥
गृहार्थी सदृशीं भार्यां उद्वहेत् अजुगुप्सिताम् ।
यवीयसीं तु वयसा यां सवर्णां अनुक्रमात् ॥ 39॥
इज्य अध्ययन दानानि सर्वेषां च द्विजन्मनाम् ।
प्रतिग्रहः अध्यापनं च ब्राह्मणस्य एव याजनम् ॥ 40॥
प्रतिग्रहं मन्यमानः तपः तेजोयशोनुदम् ।
अन्याभ्यां एव जीवेत शिलैः वा दोषदृक् तयोः ॥ 41॥
ब्राह्मणस्य हि देहः अयं क्षुद्रकामाय न इष्यते ।
कृच्छ्राय तपसे च इह प्रेत्य अनन्तसुखाय च ॥ 42॥
शिलोञ्छवृत्त्या परितुष्टचित्तः
धर्मं महान्तं विरजं जुषाणः ।
मयि अर्पितात्मा गृहः एव तिष्ठन्
न अतिप्रसक्तः समुपैति शान्तिम् ॥ 43॥
समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम् ।
तान् उद्धरिष्ये न चिरात् आपद्भ्यः नौः इव अर्णवात् ॥ 44॥
सर्वाः समुद्धरेत् राजा पिता इव व्यसनात् प्रजाः ।
आत्मानं आत्मना धीरः यथा गजपतिः गजान् ॥ 45॥
एवंविधः नरपतिः विमानेन अर्कवचसा ।
विधूय इह अशुभं कृत्स्नं इन्द्रेण सह मोदते ॥ 46॥
सीदन् विप्रः वणिक् वृत्त्या पण्यैः एव आपदं तरेत् ।
खड्गेन वा आपदाक्रान्तः न श्ववृत्त्या कथञ्चन ॥ 47॥
वैश्यवृत्त्या तु राजन् यः जीवेत् मृगयया आपदि ।
चरेत् वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥ 48॥
शूद्रवृत्तिं भजेत् वैश्यः शूद्रः कारुकटप्रियाम् ।
कृच्छ्रात् मुक्तः न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ 49॥
वेद अध्याय स्वधा स्वाहा बलि अन्न आद्यैः यथा उदयम् ।
देवर्षि पितृभूतानि मद्रूपाणि अन्वहं यजेत् ॥ 50॥
यदृच्छया उपपन्नेन शुक्लेन उपार्जितेन वा ।
धनेन अपीडयन् भृत्यान् न्यायेन एव आहरेत् क्रतून् ॥ 51॥
कुटुम्बेषु न सज्जेत न प्रमाद्येत् कुटुम्बि अपि ।
विपश्चित् नश्वरं पश्येत् अदृष्टं अपि दृष्टवत् ॥ 52॥
पुत्र दारा आप्त बन्धूनां सङ्गमः पान्थसङ्गमः ।
अनुदेहं वियन्ति एते स्वप्नः निद्रानुगः यथा ॥ 53॥
इत्थं परिमृशन् मुक्तः गृहेषु अतिथिवत् वसन् ।
न गृहैः अनुबध्येत निर्ममः निरहङ्कृतः ॥ 54॥
कर्मभिः गृहं एधीयैः इष्ट्वा मां एव भक्तिमान् ।
तिष्ठेत् वनं वा उपविशेत् प्रजावान् वा परिव्रजेत् ॥ 55॥
यः तु आसक्तं अतिः गेहे पुत्र वित्तैषण आतुरः ।
स्त्रैणः कृपणधीः मूढः मम अहं इति बध्यते ॥ 56॥
अहो मे पितरौ वृद्धौ भार्या बालात्मजा आत्मजाः ।
अनाथाः मां ऋते दीनाः कथं जीवन्ति दुःखिताः ॥ 57॥
एवं गृह आशय आक्षिप्त हृदयः मूढधीः अयम् ।
अतृप्तः तान् अनुध्यायन् मृतः अन्धं विशते तमः ॥ 58॥

ब्रह्मचर्यगृहस्थकर्मधर्मनिरूपणे सप्तदशोऽध्यायः ॥
17॥
अथ अष्टादशोऽध्यायः ।
श्रीभगवान् उवाच ।
वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सह एव वा ।
वनः एव वसेत् शान्तः तृतीयं भागं आयुषः ॥ 1॥
कन्दमूलफलैः वन्यैः मेध्यैः वृत्तिं प्रकल्पयेत् ।
वसीत वल्कलं वासः तृणपर्ण अजिनानि च ॥ 2॥
केशरोमनखश्मश्रुमलानि बिभृयात् अतः ।
न धावेत् अप्सु मज्जेत त्रिकालं स्थण्डिलेशयः ॥ 3॥
ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड् जले ।
आकण्ठमग्नः शिशिरः एवंवृत्तः तपश्चरेत् ॥ 4॥
अग्निपक्वं समश्नीयात् कालपक्वं अथ अपि वा ।
उलूखल अश्मकुट्टः वा दन्त उलूखलः एव वा ॥ 5॥
स्वयं सञ्चिनुयात् सर्वं आत्मनः वृत्तिकारणम् ।
देशकालबल अभिज्ञः न आददीत अन्यदा आहृतम् ॥ 6॥
वन्यैः चरुपुरोडाशैः निर्वपेत् कालचोदितान् ।
न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ 7॥
अग्निहोत्रं च दर्शः च पूर्णमासः च पूर्ववत् ।
चातुर्मास्यानि च मुनेः आम्नातानि च नैगमैः ॥ 8॥
एवं चीर्णेन तपसा मुनिः धमनिसन्ततः ।
मां तपोमयं आराध्य ऋषिलोकात् उपैति माम् ॥ 9॥
यः तु एतत् कृच्छ्रतः चीर्णं तपः निःश्रेयसं महत् ।
कामाय अल्पीयसे युञ्ज्यात् वालिशः कः अपरः ततः ॥ 10॥
यदा असौ नियमे अकल्पः जरया जातवेपथुः ।
आत्मनि अग्नीन् समारोप्य मच्चित्तः अग्निं समाविशेत् ॥ 11॥
यदा कर्मविपाकेषु लोकेषु निरय आत्मसु ।
विरागः जायते सम्यक् न्यस्त अग्निः प्रव्रजेत् ततः ॥ 12॥
इष्ट्वा यथा उपदेशं मां दत्त्वा सर्वस्वं ऋत्विजे ।
अग्नीन् स्वप्राणः आवेश्य निरपेक्षः परिव्रजेत् ॥ 13॥
विप्रस्य वै सन्न्यसतः देवाः दारादिरूपिणः ।
विघ्नान् कुर्वन्ति अयं हि अस्मान् आक्रम्य समियात् परम् ॥ 14॥
बिभृयात् चेत् मुनिः वासः कौपीन आच्छादनं परम् ।
त्यक्तं न दण्डपात्राभ्यां अन्यत् किञ्चित् अनापदि ॥ 15॥
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेत् जलम् ।
सत्यपूतां वदेत् वाचं मनःपूतं समाचरेत् ॥ 16॥
मौन अनीहा अनिल आयामाः दण्डाः वाक् देह चेतसाम् ।
नहि एते यस्य सन्ति अङ्गः वेणुभिः न भवेत् यतिः ॥ 17॥
भिक्षां चतुषु वर्णेषु विगर्ह्यान् वर्जयन् चरेत् ।
सप्तागारान् असङ्क्लृप्तान् तुष्येत् लब्धेन तावता ॥ 18॥
बहिः जलाशयं गत्वा तत्र उपस्पृश्य वाग्यतः ।
विभज्य पावितं शेषं भुञ्जीत अशेषं आहृतम् ॥ 19॥
एकः चरेत् महीं एतां निःसङ्गः संयतेन्द्रियः ।
आत्मक्रीडः आत्मरतः आत्मवान् समदर्शनः ॥ 20॥
विविक्तक्षेमशरणः मद्भावविमलाशयः ।
आत्मानं चिन्तयेत् एकं अभेदेन मया मुनिः ॥ 21॥
अन्वीक्षेत आत्मनः बन्धं मोक्षं च ज्ञाननिष्ठया ।
बन्धः इन्द्रियविक्षेपः मोक्षः एषां च संयमः ॥ 22॥
तस्मात् नियम्य षड्वर्गं मद्भावेन चरेत् मुनिः ।
विरक्तः क्षुल्लकामेभ्यः लब्ध्वा आत्मनि सुखं महत् ॥ 23॥
पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशन् चरेत् ।
पुण्यदेशसरित् शैलवन आश्रमवतीं महीम् ॥ 24॥
वानप्रस्थ आश्रम पदेषु अभीक्ष्णं भैक्ष्यं आचरेत् ।
संसिध्यत्याश्वसम्मोहः शुद्धसत्त्वः शिलान्धसा ॥ 25॥
न एतत् वस्तुतया पश्येत् दृश्यमानं विनश्यति ।
असक्तचित्तः विरमेत् इह अमुत्र चिकीर्षितात् ॥ 26॥
यत् एतत् आत्मनि जगत् मनोवाक्प्राणसंहतम् ।
सर्वं माया इति तर्केण स्वस्थः त्यक्त्वा न तत् स्मरेत् ॥ 27॥
ज्ञाननिष्ठः विरक्तः वा मद्भक्तः वा अनपेक्षकः ।
सलिङ्गान् आश्रमां त्यक्त्वा चरेत् अविधिगोचरः ॥ 28॥
बुधः बालकवत् क्रीडेत् कुशलः जडवत् चरेत् ।
वदेत् उन्मत्तवत् विद्वान् गोचर्यां नैगमः चरेत् ॥ 29॥
वेदवादरतः न स्यात् न पाखण्डी न हैतुकः ।
शुष्कवादविवादे न कञ्चित् पक्षं समाश्रयेत् ॥ 30॥
न उद्विजेत जनात् धीरः जनं च उद्वेजयेत् न तु ।
अतिवादान् तितिक्षेत न अवमन्येत कञ्चन ।
देहं उद्दिश्य पशुवत् वैरं कुर्यात् न केनचित् ॥ 31॥
एकः एव परः हि आत्मा भूतेषु आत्मनि अवस्थितः ।
यथा इन्दुः उदपात्रेषु भूतानि एकात्मकानि च ॥ 32॥
अलब्ध्वा न विषीदेत काले काले अशनं क्वचित् ।
लब्ध्वा न हृष्येत् धृतिं आनुभयं दैवतन्त्रितम् ॥ 33॥
आहारार्थं समीहेत युक्तं तत् प्राणधारणम् ।
तत्त्वं विमृश्यते तेन तत् विज्ञाय विमुच्यते ॥ 34॥
यत् ऋच्छया उपपन्नात् अन्नं अद्यात् श्रेष्ठं उत अपरम् ।
तथा वासः तथा शय्यां प्राप्तं प्राप्तं भजेत् मुनिः ॥ 35॥
शौचं आचमनं स्नानं न तु चोदनया चरेत् ।
अन्यान् च नियमान् ज्ञानी यथा अहं लीलया ईश्वरः ॥ 36॥
नहि तस्य विकल्पाख्या या च मद्वीक्षया हता ।
आदेहान्तात् क्वचित् ख्यातिः ततः सम्पद्यते मया ॥ 37॥
दुःख उदर्केषु कामेषु जातनिर्वेदः आत्मवान् ।
अजिज्ञासित मद्धर्मः गुरुं मुनिं उपाव्रजेत् ॥ 38॥
तावत् परिचरेत् भक्तः श्रद्धावान् अनसूयकः ।
यावत् ब्रह्म विजानीयात् मां एव गुरुं आदृतः ॥ 39॥
यः तु असंयत षड्वर्गः प्रचण्ड इन्द्रिय सारथिः ।
ज्ञान वैराग्य रहितः त्रिदण्डं उपजीवति ॥ 40॥
सुरान् आत्मानं आत्मस्थं निह्नुते मां च धर्महा ।
अविपक्व कषायः अस्मात् उष्मात् च विहीयते ॥ 41॥
भिक्षोः धर्मः शमः अहिंसा तपः ईक्षा वनौकसः ।
गृहिणः भूतरक्ष इज्याः द्विजस्य आचार्यसेवनम् ॥ 42॥
ब्रह्मचर्यं तपः शौचं सन्तोषः भूतसौहृदम् ।
गृहस्थस्य अपि ऋतौ गन्तुः सर्वेषां मदुपासनम् ॥ 43॥
इति मां यः स्वधर्मेण भजन् नित्यं अनन्यभाक् ।
सर्वभूतेषु मद्भावः मद्भक्तिं विन्दते अचिरात् ॥ 44॥
भक्त्या उद्धव अनपायिन्या सर्वलोकमहेश्वरम् ।
सर्व उत्पत्ति अपि अयं ब्रह्म कारणं मा उपयाति सः ॥ 45॥
इति स्वधर्म निर्णिक्त सत्त्वः निर्ज्ञात् मद्गतिः ।
ज्ञान विज्ञान सम्पन्नः न चिरात् समुपैति माम् ॥ 46॥
वर्णाश्रमवतां धर्मः एषः आचारलक्षणः ।
सः एव मद्भक्तियुतः निःश्रेयसकरः परः ॥ 47॥
एतत् ते अभिहितं साधो भवान् पृच्छति यत् च माम् ।
यथा स्वधर्मसंयुक्तः भक्तः मां समियात् परम् ॥ 48॥

वानप्रस्थसन्न्यासधर्मनिरूपणं नामाष्टादशोऽध्यायः ॥ 18॥
अथ एकोनविंशः अध्यायः ।
श्रीभगवान् उवाच ।
यः विद्याश्रुतसम्पन्नः आत्मवान् न अनुमानिकः ।
मायामात्रं इदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥ 1॥
ज्ञानिनः तु अहं एव इष्टः स्वार्थः हेतुः च सम्मतः ।
स्वर्गः च एव अपवर्गः च न अन्यः अर्थः मदृते प्रियः ॥ 2॥
ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुः मम ।
ज्ञानी प्रियतमः अतः मे ज्ञानेन असौ बिभर्ति माम् ॥ 3॥
तपः तीर्थं जपः दानं पवित्राणि इतराणि च ।
न अलं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता ॥ 4॥
तस्मात् ज्ञानेन सहितं ज्ञात्वा स्वात्मानं उद्धव ।
ज्ञानविज्ञानसम्पन्नः भज मां भक्तिभावतः ॥ 5॥
ज्ञानविज्ञानयज्ञेन मां इष्ट्वा आत्मानं आत्मनि ।
सर्वयज्ञपतिं मां वै संसिद्धिं मुनयः अगमन्॥ 6॥
त्वयि उद्धव आश्रयति यः त्रिविधः विकारः
मायान्तरा आपतति न आदि अपवर्गयोः यत् ।
जन्मादयः अस्य यत् अमी तव तस्य किं स्युः
आदि अन्तयोः यत् असतः अस्ति तत् एव मध्ये ॥ 7॥
उद्धवः उवाच ।
ज्ञानं विशुद्धं विपुलं यथा एतत्
वैराग्यविज्ञानयुतं पुराणम् ।
आख्याहि विश्वेश्वर विश्वमूर्ते
त्वत् भक्तियोगं च महत् विमृग्यम् ॥ 8॥
तापत्रयेण अभिहतस्य घोरे
सन्तप्यमानस्य भवाध्वनीश ।
पश्यामि न अन्यत् शरणं तवाङ्घ्रि
द्वन्द्व आतपत्रात् अमृत अभिवर्षात् ॥ 9॥
दष्टं जनं सम्पतितं बिले अस्मिन्
कालाहिना क्षुद्रसुखोः उतर्षम् ।
समुद्धर एनं कृपया अपवर्ग्यैः
वचोभिः आसिञ्च महानुभाव ॥ 10॥
श्रीभगवान् उवाच ।
इत्थं एतत् पुरा राजा भीष्मं धर्मभृतां वरम् ।
अजातशत्रुः पप्रच्छ सर्वेषां नः अनुश्रुण्वताम् ॥ 11॥
निवृत्ते भारते युद्धे सुहृत् निधनविह्वलः ।
श्रुत्वा धर्मान् बहून् पश्चात् मोक्षधर्मान् अपृच्छत ॥
12॥
तान् अहं ते अभिधास्यामि देवव्रतमुखात् श्रुतान् ।
ज्ञानवैराग्यविज्ञानश्रद्धाभक्ति उपबृंहितान् ॥ 13॥
नव एकादश पञ्च त्रीन् भावान् भूतेषु येन वै ।
ईक्षेत अथ एकं अपि एषु तत् ज्ञानं मम निश्चितम् ॥ 14॥
एतत् एव हि विज्ञानं न तथा एकेन येन यत् ।
स्थिति उत्पत्ति अपि अयान् पश्येत् भावानां त्रिगुण आत्मनाम् ॥
15॥
आदौ अन्ते च मध्ये च सृज्यात् सृज्यं यत् अन्वियात् ।
पुनः तत् प्रतिसङ्क्रामे यत् शिष्येत तत् एव सत् ॥ 16॥
श्रुतिः प्रत्यक्षं ऐतिह्यं अनुमानं चतुष्टयम् ।
प्रमाणेषु अनवस्थानात् विकल्पात् सः विरज्यते ॥ 17॥
कर्मणां परिणामित्वात् आविरिञ्चात् अमङ्गलम् ।
विपश्चित् नश्वरं पश्येत् अदृष्टं अपि दृष्टवत् ॥ 18॥
भक्तियोगः पुरा एव उक्तः प्रीयमाणाय ते अनघ ।
पुनः च कथयिष्यामि मद्भक्तेः कारणं परम् ॥ 19॥
श्रद्धा अमृतकथायां मे शश्वत् मत् अनुकीर्तनम् ।
परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ 20॥
आदरः परिचर्यायां सर्वाङ्गैः अभिवन्दनम् ।
मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः ॥ 21॥
मदर्थेषु अङ्गचेष्टा च वचसा मद्गुणेरणम् ।
मय्यर्पणं च मनसः सर्वकामविवर्जनम् ॥ 22॥
मदर्थे अर्थ परित्यागः भोगस्य च सुखस्य च ।
इष्टं दत्तं हुतं जप्तं मदर्थं यत् व्रतं तपः ॥ 23॥
एवं धर्मैः मनुष्याणां उद्धव आत्मनिवेदिनाम् ।
मयि सञ्जायते भक्तिः कः अन्यः अर्थः अस्य अवशिष्यते ॥ 24॥
यदा आत्मनि अर्पितं चित्तं शान्तं सत्त्व उपबृंहितम् ।
धर्मं ज्ञानं सवैराग्यं ऐश्वर्यं च अभिपद्यते ॥ 25॥
यत् अर्पितं तत् विकल्पे इन्द्रियैः परिधावति ।
रजस्वलं च आसन् निष्ठं चित्तं विद्धि विपर्ययम् ॥ 26॥
धर्मः मद्भक्तिकृत् प्रोक्तः ज्ञानं च एकात्म्यदर्शनम् ।
गुणेषु असङ्गः वैराग्यं ऐश्वर्यं च अणिं आदयः ॥ 27॥
उद्धवः उवाच ।
यमः कतिविधः प्रोक्तः नियमः वा अरिकर्शन ।
कः शमः कः दमः कृष्ण का तितिक्षा धृतिः प्रभो ॥ 28॥
किं दानं किं तपः शौर्यं किं सत्यं ऋतं उच्यते ।
कः त्यागः किं धनं चेष्टं कः यज्ञः का च दक्षिणा ॥
29॥
पुंसः किंस्वित् बलं श्रीमन् भगः लाभः च केशव ।
का विद्या ह्रीः परा का श्रीः किं सुखं दुःखं एव च ॥
30॥
कः पण्डितः कः च मूर्खः कः पन्थाः उत्पथः च कः ।
कः स्वर्गः नरकः कः स्वित् कः बन्धुः उत किं गृहम् ॥ 31॥
कः आढ्यः कः दरिद्रः वा कृपणः कः ईश्वरः ।
एतान् प्रश्नान् मम ब्रूहि विपरीतान् च सत्पते ॥ 32॥
श्रीभगवान् उवाच ।
अहिंसा सत्यं अस्तेयं असङ्गः ह्रीः असञ्चयः ।
आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमा अभयम् ॥
33।
शौचं जपः तपः होमः श्रद्धा आतिथ्यं मत् अर्चनम् ।
तीर्थाटनं परार्थेहा तुष्टिः आचार्यसेवनम् ॥ 34॥
एते यमाः सनियमाः उभयोः द्वादश स्मृताः ।
पुंसां उपासिताः तात यथाकामं दुहन्ति हि ॥ 35॥
शमः मत् निष्ठता बुद्धेः दमः इन्द्रियसंयमः ।
तितिक्षा दुःखसम्मर्षः जिह्वा उपस्थजयः धृतिः ॥ 36॥
दण्डन्यासः परं दानं कामत्यागः तपः स्मृतम् ।
स्वभावविजयः शौर्यं सत्यं च समदर्शनम् ॥ 37॥
ऋतं च सूनृता वाणी कविभिः परिकीर्तिता ।
कर्मस्वसङ्गमः शौचं त्यागः सन्न्यासः उच्यते ॥ 38॥
धर्मः इष्टं धनं नॄणां यज्ञः अहं भगवत्तमः ।
दक्षिणा ज्ञानसन्देशः प्राणायामः परं बलम् ॥ 39॥
भगः मे ऐश्वरः भावः लाभः मद्भक्तिः उत्तमः ।
विद्या आत्मनि भिद अबाधः जुगुप्सा ह्रीः अकर्मसु ॥ 40॥
श्रीः गुणाः नैरपेक्ष्य आद्याः सुखं दुःखसुख अत्ययः ।
दुःखं कामसुख अपेक्षा पण्डितः बन्धमोक्षवित् ॥ 41॥
मूर्खः देह आदि अहं बुद्धिः पन्थाः मत् निगमः स्मृतः ।
उत्पथः चित्तविक्षेपः स्वर्गः सत्त्वगुण उअदयः ॥ 42॥
नरकः तमः उन्नहः बन्धुः गुरुः अहं सखे ।
गृहं शरीरं मानुष्यं गुणाढ्यः हि आढ्यः उच्यते ॥ 43॥
दरिद्रः यः तु असन्तुष्टः कृपणः यः अजितेन्द्रियः ।
गुणेषु असक्तधीः ईशः गुणसङ्गः विपर्ययः ॥ 44॥
एतः उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः ।
किं वर्णितेन बहुना लक्षणं गुणदोषयोः ।
गुणदोष दृशिः दोषः गुणः तु उभयवर्जितः ॥ 45॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुधवसंवादे
एकोनविंशोऽध्यायः ॥ 19॥
अथ विंशः अध्यायः ।
उद्धवः उवाच ।
विधिः च प्रतिषेधः च निगमः हि ईश्वरस्य ते ।
अवेक्षते अरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥ 1॥
वर्णाश्रम विकल्पं च प्रतिलोम अनुलोमजम् ।
द्रव्य देश वयः कालान् स्वर्गं नरकं एव च ॥ 2॥
गुण दोष भिदा दृष्टिं अन्तरेण वचः तव ।
निःश्रेयसं कथं नॄणां निषेध विधि लक्षणम् ॥ 3॥
पितृदेवमनुष्याणां वेदः चक्षुः तव ईश्वर ।
श्रेयः तु अनुपलब्धे अर्थे साध्यसाधनयोः अपि ॥ 4॥
गुणदोषभिदादृष्टिः निगमात् ते न हि स्वतः ।
निगमेन अपवादः च भिदायाः इति हि भ्रमः ॥ 5॥
श्रीभगवान् उवाच ।
योगाः त्रयः मया प्रोक्ता नॄणां श्रेयोविधित्सया ।
ज्ञानं कर्म च भक्तिः च न उपायः अन्यः अस्ति कुत्रचित् ॥
6॥
निर्विण्णानां ज्ञानयोगः न्यासिनां इह कर्मसु ।
तेषु अनिर्विण्णचित्तानां कर्मयोगः ति कामिनाम् ॥ 7॥
यदृच्छया मत् कथा आदौ जातश्रद्धः तु यः पुमान् ।
न निर्विण्णः न अतिसक्तः भक्तियोगः अस्य सिद्धिदः ॥ 8॥
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत् कथाश्रवण आदौ वा श्रद्धा यावत् न जायते ॥ 9॥
स्वधर्मस्थः यजन्यज्ञैः अनाशीः कामः उद्धव ।
न याति स्वर्गनरकौ यदि अन्यत्र समाचरेत् ॥ 10॥
अस्मिन् लोके वर्तमानः स्वधर्मस्थः अनघः शुचिः ।
ज्ञानं विशुद्धं आप्नोति मद्भक्तिं वा यदृच्छया ॥ 11॥
स्वर्गिणः अपि एतं इच्छन्ति लोकं निरयिणः तथा ।
साधकं ज्ञानभक्तिभ्यां उभयं तत् असाधकम् ॥ 12॥
न नरः स्वर्गतिं काङ्क्षेत् नारकीं वा विचक्षणः ।
न इमं लोकं च काङ्क्षेत देह आवेशात् प्रमाद्यति ॥ 13॥
एतत् विद्वान् पुरा मृत्योः अभवाय घटेत सः ।
अप्रमत्तः इदं ज्ञात्वा मर्त्यं अपि अर्थसिद्धिदम् ॥ 14॥
छिद्यमानं यमैः एतैः कृतनीडं वनस्पतिम् ।
खगः स्वकेतं उत्सृज्य क्षेमं याति हि अलम्पटः ॥ 15॥
अहोरात्रैः छिद्यमानं बुद्ध्वायुः भयवेपथुः ।
मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ 16॥
नृदेहं आद्यं सुलभं सुदुर्लभम्
प्लवं सुकल्पं गुरुकर्णधारम् ।
मया अनुकूलेन नभस्वतेरितम्
पुमान् भवाब्धिं न तरेत् सः आत्महा ॥ 17॥
यदा आरम्भेषु निर्विण्णः विरक्तः संयतेन्द्रियः ।
अभ्यासेन आत्मनः योगी धारयेत् अचलं मनः ॥ 18॥
धार्यमाणं मनः यः हि भ्राम्यदाशु अनवस्थितम् ।
अतन्द्रितः अनुरोधेन मार्गेण आत्मवशं नयेत् ॥ 19॥
मनोगतिं न विसृजेत् जितप्राणः जितेन्द्रियः ।
सत्त्वसम्पन्नया बुद्ध्या मनः आत्मवशं नयेत् ॥ 20॥
एषः वै परमः योगः मनसः सङ्ग्रहः स्मृतः ।
हृदयज्ञत्वं अन्विच्छन् दम्यस्य एव अर्वतः मुहुः ॥ 21॥
साङ्ख्येन सर्वभावानां प्रतिलोम अनुलोमतः ।
भव अपि अयौ अनुध्ययेत् मनः यावत् प्रसीदति ॥ 22॥
निर्विण्णस्य विरक्तस्य पुरुषस्य उक्तवेदिनः ।
मनः त्यजति दौरात्म्यं चिन्तितस्य अनुचिन्तया ॥ 23॥
यम आदिभिः योगपथैः आन्वीक्षिक्या च विद्यया ।
मम अर्चोपासनाभिः वा न अन्यैः योग्यं स्मरेत् मनः ॥ 24॥
यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् ।
योगेन एव दहेत् अंहः न अन्यत् तत्र कदाचन ॥ 25॥
स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः ।
कर्मणां जाति अशुद्धानां अनेन नियमः कृतः ।
गुणदोषविधानेन सङ्गानां त्याजनेच्छया ॥ 26॥
जातश्रद्दः मत्कथासु निर्विण्णः सर्वकर्मसु ।
वेद दुःखात्मकान् कामान् परित्यागे अपि अनीश्वरः ॥ 27॥
ततः भजेत मां प्रीतः श्रद्धालुः दृढनिश्चयः ।
जुषमाणः च तान् कामान् दुःख उदर्कान् च गर्हयन् ॥ 28॥
प्रोक्तेन भक्तियोगेन भजतः मा असकृत् मुनेः ।
कामाः हृदय्याः नश्यन्ति सर्वे मयि हृदि स्थिते ॥ 29॥
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते च अस्य कर्माणि मयि दृष्टे अखिल आत्मनि ॥ 30॥
तस्मात् मद्भक्तियुक्तस्य योगिनः वै मत् आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयः भवेत् इह ॥ 31॥
यत् कर्मभिः यत् तपसा ज्ञानवैराग्यतः च यत् ।
योगेन दानधर्मेण श्रेयोभिः इतरैः अपि ॥ 32॥
सर्वं मद्भक्तियोगेन मद्भक्तः लभते अञ्जसा ।
स्वर्ग अपवर्गं मत् धाम कथञ्चित् यदि वाञ्छति ॥ 33॥
न किञ्चित् साधवः धीराः भक्ताः हि एकान्तिनः मम ।
वाञ्छति अपि मया दत्तं कैवल्यं अपुनर्भवम् ॥ 34॥
नैरपेक्ष्यं परं प्राहुः निःश्रेयसं अनल्पकम् ।
तस्मात् निराशिषः भक्तिः निरपेक्षस्य मे भवेत् ॥ 35॥
न मयि एकान्तभक्तानां गुणदोष उद्भवाः गुणाः ।
साधूनां समचित्तानां बुद्धेः परं उपेयुषाम् ॥ 36॥
एवं एतत् मया आदिष्टान् अनुतिष्ठन्ति मे पथः ।
क्षेमं विन्दन्ति मत् स्थानं यत् ब्रह्म परमं विदुः ॥ 37॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
वेदत्रयीविभागयोगो नाम विंशोऽध्यायः ॥ 20॥
अथ एकविंशः अध्यायः ।
श्रीभगवान् उवाच ।
यः एतान् मत्पथः हित्वा भक्तिज्ञानक्रियात्मकान् ।
क्षुद्रान् कामान् चलैः प्राणैः जुषन्तः संसरन्ति ते ॥ 1॥

विपर्ययः तु दोषः स्यात् उभयोः एषः निश्चयः ॥ 2॥
शुद्धि अशुद्धी विधीयेते समानेषु अपि वस्तुषु ।
द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभ अशुभौ ॥ 3॥
धर्मार्थं व्यवहारार्थं यात्रार्थं इति च अनघ ।
दर्शितः अयं मया आचारः धर्मं उद्वहतां धुरम् ॥ 4॥
भूमि अम्बु अग्नि अनिल आकाशाः भूतानां पञ्च धातवः ।
आब्रह्म स्थावर आदीनां शरीराः आत्मसंयुताः ॥ 5॥
वेदेन नामरूपाणि विषमाणि समेषु अपि ।
धातुषु उद्धव कल्प्यन्तः एतेषां स्वार्थसिद्धये ॥ 6॥
देश काल आदि भावानां वस्तूनां मम सत्तम ।
गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥ 7॥
अकृष्णसारः देशानां अब्रह्मण्यः अशुचिः भवेत् ।
कृष्णसारः अपि असौवीर कीकट असंस्कृतेरिणम् ॥ 8॥
कर्मण्यः गुणवान् कालः द्रव्यतः स्वतः एव वा ।
यतः निवर्तते कर्म सः दोषः अकर्मकः स्मृतः ॥ 9॥
द्रव्यस्य शुद्धि अशुद्धी च द्रव्येण वचनेन च ।
संस्कारेण अथ कालेन महत्त्व अल्पतया अथवा ॥ 10॥
शक्त्या अशक्त्या अथवा बुद्ध्या समृद्ध्या च यत् आत्मने ।
अघं कुर्वन्ति हि यथा देश अवस्था अनुसारतः ॥ 11॥
धान्य दारु अस्थि तन्तूनां रस तैजस चर्मणाम् ।
काल वायु अग्नि मृत्तोयैः पार्थिवानां युत अयुतैः ॥ 12॥
अमेध्यलिप्तं यत् येन गन्धं लेपं व्यपोहति ।
भजते प्रकृतिं तस्य तत् शौचं तावत् इष्यते ॥ 13॥
स्नान दान तपः अवस्था वीर्य संस्कार कर्मभिः ।
मत् स्मृत्या च आत्मनः शौचं शुद्धः कर्म आचरेत् द्विजः ॥ 14॥
मन्त्रस्य च परिज्ञानं कर्मशुद्धिः मदर्पणम् ।
धर्मः सम्पद्यते षड्भिः अधर्मः तु विपर्ययः ॥ 15॥
क्वचित् गुणः अपि दोषः स्यात् दोषः अपि विधिना गुणः ।
गुणदोषार्थनियमः तत् भिदां एव बाधते ॥ 16॥
समानकर्म आचरणं पतितानां न पातकम् ।
औत्पत्तिकः गुणः सङ्गः न शयानः पतति अधः ॥ 17॥
यतः यतः निवर्तेत विमुच्येत ततः ततः ।
एषः धर्मः नॄणां क्षेमः शोकमोहभय अपहः ॥ 18॥
विषयेषु गुणाध्यासात् पुंसः सङ्गः ततः भवेत् ।
सङ्गात् तत्र भवेत् कामः कामात् एव कलिः नॄणाम् ॥ 19॥
कलेः दुर्विषहः क्रोधः तमः तं अनुवर्तते ।
तमसा ग्रस्यते पुंसः चेतना व्यापिनी द्रुतम् ॥ 20॥
तया विरहितः साधो जन्तुः शून्याय कल्पते ।
ततः अस्य स्वार्थविभ्रंशः मूर्च्छितस्य मृतस्य च ॥ 21॥
विषयाभिनिवेशेन न आत्मानं वेद न अपरम् ।
वृक्षजीविकया जीवन् व्यर्थं भस्त्र इव यः श्वसन् ॥ 22॥
फलश्रुतिः इयं नॄणां न श्रेयः रोचनं परम् ।
श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ 23॥
उत्पत्ति एव हि कामेषु प्राणेषु स्वजनेषु च ।
आसक्तमनसः मर्त्या आत्मनः अनर्थहेतुषु ॥ 24॥
न तान् अविदुषः स्वार्थं भ्राम्यतः वृजिनाध्वनि ।
कथं युञ्ज्यात् पुनः तेषु तान् तमः विशतः बुधः ॥ 25॥
एवं व्यवसितं केचित् अविज्ञाय कुबुद्धयः ।
फलश्रुतिं कुसुमितां न वेदज्ञाः वदन्ति हि ॥ 26॥
कामिनः कृपणाः लुब्धाः पुष्पेषु फलबुद्धयः ।
अग्निमुग्धा धुमतान्ताः स्वं लोकं न विन्दन्ति ते ॥ 27॥
न ते मां अङ्गः जानन्ति हृदिस्थं यः इदं यतः ।
उक्थशस्त्राः हि असुतृपः यथा नीहारचक्षुषः ॥ 28॥
ते मे मतं अविज्ञाय परोक्षं विषयात्मकाः ।
हिंसायां यदि रागः स्यात् यज्ञः एव न चोदना ॥ 29॥
हिंसाविहाराः हि अलब्धैः पशुभिः स्वसुखेच्छया ।
यजन्ते देवताः यज्ञैः पितृभूतपतीन् खलाः ॥ 30॥
स्वप्न् उपमं अमुं लोकं असन्तं श्रवणप्रियम् ।
आशिषः हृदि सङ्कल्प्य त्यजन्ति अर्थान् यथा वणिक् ॥ 31॥
रजःसत्त्वतमोनिष्ठाः रजःसत्त्वतमोजुषः ।
उपासतः इन्द्रमुख्यान् देवादीन् न तथा एव माम् ॥ 32॥
इष्ट्वा इह देवताः यज्ञैः गत्वा रंस्यामहे दिवि ।
तस्य अन्तः इह भूयास्मः महाशाला महाकुलाः ॥ 33॥
एवं पुष्पितया वाचा व्याक्षिप्तमनसां नॄणाम् ।
मानिनान् च अतिस्तब्धानां मद्वार्ता अपि न रोचते ॥ 34॥
वेदाः ब्रह्मात्मविषयाः त्रिकाण्डविषयाः इमे ।
परोक्षवादाः ऋषयः परोक्षं मम च प्रियम् ॥ 35॥
शब्दब्रह्म सुदुर्बोधं प्राण इन्द्रिय मनोमयम् ।
अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥ 36॥
मया उपबृंहितं भूम्ना ब्रह्मणा अनन्तशक्तिना ।
भूतेषु घोषरूपेण बिसेषु ऊर्ण इव लक्ष्यते ॥ 37॥
यथा ऊर्णनाभिः हृदयात् ऊर्णां उद्वमते मुखात् ।
आकाशात् घोषवान् प्राणः मनसा स्पर्शरूपिणा ॥ 38॥
छन्दोमयः अमृतमयः सहस्रपदवीं प्रभुः ।
ओङ्कारात् व्यञ्जित स्पर्श स्वर उष्म अन्तस्थ भूषिताम् ॥
39॥
विचित्रभाषाविततां छन्दोभिः चतुर उत्तरैः ।
अनन्तपारां बृहतीं सृजति आक्षिपते स्वयम् ॥ 40॥
गायत्री उष्णिक् अनुष्टुप् च बृहती पङ्क्तिः एव च ।
त्रिष्टुप् जगती अतिच्छन्दः हि अत्यष्टि अतिजगत् विराट् ॥ 41॥
किं विधत्ते किं आचष्टे किं अनूद्य विकल्पयेत् ।
इति अस्याः हृदयं लोके न अन्यः मत् वेद कश्चन ॥42॥
मां विधत्ते अभिधत्ते मां विकल्प्य अपोह्यते तु अहम् ।
एतावान् सर्ववेदार्थः शब्दः आस्थाय मां भिदाम् ।
मायामात्रं अनूद्य अन्ते प्रतिषिध्य प्रसीदति ॥ 43॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवद्द्धवसंवादे
वेदत्रयविभागनिरूपणं नाम एकविंशोऽध्यायः ॥ 21॥
अथ द्वाविंशः अध्यायः ।
उद्धवः उवाच ।
कति तत्त्वानि विश्वेश सङ्ख्यातानि ऋषिभिः प्रभो ।
नव एकादश पञ्च त्रीणि आत्थ त्वं इह शुश्रुम ॥ 1॥
केचित् षड्विंशतिं प्राहुः अपरे पञ्चविंशतिम् ।
सप्त एके नव षट् केचित् चत्वारि एकादश अपरे ।
केचित् सप्तदश प्राहुः षोडश एके त्रयोदश ॥ 2॥
एतावत् त्वं हि सङ्ख्यानां ऋषयः यत् विवक्षया ।
गायन्ति पृथक् आयुष्मन् इदं नः वक्तुं अर्हसि ॥ 3॥
श्रीभगवान् उवाच ।
युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणाः यथा ।
मायां मदीयां उद्गृह्य वदतां किं नु दुर्घटम् ॥ 4॥
न एतत् एवं यथा आत्थ त्वं यत् अहं वच्मि तत् तथा ।
एवं विवदतां हेतुं शक्तयः मे दुरत्ययाः ॥ 5॥
यासां व्यतिकरात् आसीत् विकल्पः वदतां पदम् ।
प्राप्ते शमदमे अपि एति वादस्तमनु शाम्यति ॥ 6॥
परस्परान् अनुप्रवेशात् तत्त्वानां पुरुषर्षभ ।
पौर्व अपर्य प्रसङ्ख्यानं यथा वक्तुः विवक्षितम् ॥ 7॥
एकस्मिन् अपि दृश्यन्ते प्रविष्टानि इतराणि च ।
पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः ॥ 8॥
पौर्व अपर्यं अतः अमीषां प्रसङ्ख्यानं अभीप्सताम् ।
यथा विविक्तं यत् वक्त्रं गृह्णीमः युक्तिसम्भवात् ॥ 9॥
अनादि अविद्यायुक्तस्य पुरुषस्य आत्मवेदनम् ।
स्वतः न सम्भवात् अन्यः तत्त्वज्ञः ज्ञानदः भवेत् ॥ 10॥
पुरुष ईश्वरयोः अत्र न वैलक्षण्यं अणु अपि ।
तत् अन्यकल्पनापार्था ज्ञानं च प्रकृतेः गुणः ॥ 11॥
प्रकृतिः गुणसाम्यं वै प्रकृतेः न आत्मनः गुणाः ।
सत्त्वं रजः तमः इति स्थिति उत्पत्ति अन्तहेतवः ॥ 12॥
सत्त्वं ज्ञानं रजः कर्म तमः अज्ञानं इह उच्यते ।
गुणव्यतिकरः कालः स्वभावः सूत्रं एव च ॥ 13॥
पुरुषः प्रकृतिः व्यक्तं अहङ्कारः नभः अनिलः ।
ज्योतिः आपः क्षितिः इति तत्त्वानि उक्तानि मे नव ॥ 14॥
श्रोत्रं त्वक् दर्शनं घ्राणः जिह्वा इति ज्ञानशक्तयः ।
वाक् पाणि उपस्थ पायु अङ्घ्रिः कर्माण्यङ्ग उभयं मनः ॥ 15॥
शब्दः स्पर्शः रसः गन्धः रूपं च इति अर्थजातयः ।
गति उक्ति उत्सर्ग शिल्पानि कर्म आयतन सिद्धयः ॥ 16॥
सर्ग आदौ प्रकृतिः हि अस्य कार्य कारण रूपिणी ।
सत्त्व आदिभिः गुणैः धत्ते पुरुषः अव्यक्तः ईक्षते ॥ 17॥
व्यक्त आदयः विकुर्वाणाः धातवः पुरुष ईक्षया ।
लब्धवीर्याः सृजन्ति अण्डं संहताः प्रकृतेः बलात् ॥ 18॥
सप्त एव धातवः इति तत्र अर्थाः पञ्च खादयः ।
ज्ञानं आत्मा उभय आधारः ततः देह इन्द्रिय आसवः ॥ 19॥
षड् इति अत्र अपि भूतानि पञ्च षष्ठः परः पुमान् ।
तैः युक्तः आत्मसम्भूतैः सृष्ट्वा इदं समुपाविशत् ॥ 20॥
चत्वारि एव इति तत्र अपि तेजः आपः अन्नं आत्मनः ।
जातानि तैः इदं जातं जन्म अवयविनः खलु ॥ 21॥
सङ्ख्याने सप्तदशके भूतमात्र इन्द्रियाणि च ।
पञ्चपञ्च एक मनसा आत्मा सप्तदशः स्मृतः ॥ 22॥
तद्वत् षोडशसङ्ख्याने आत्मा एव मनः उच्यते ।
भूतेन्द्रियाणि पञ्च एव मनः आत्मा त्रयोदशः ॥ 23॥
एकादशत्वः आत्मा असौ महाभूतेन्द्रियाणि च ।
अष्टौ प्रकृतयः च एव पुरुषः च नव इति अथ ॥ 24॥
इति नाना प्रसङ्ख्यानं तत्त्वानां ऋषिभिः कृतम् ।
सर्वं न्याय्यं युक्तिमत्वात् विदुषां किं अशोभनम् ॥ 25॥
उद्धवः उवाच ।
प्रकृतिः पुरुषः च उभौ यदि अपि आत्मविलक्षणौ ।
अन्योन्य अपाश्रयात् कृष्ण दृश्यते न भिदा तयोः ।
प्रकृतौ लक्ष्यते हि आत्मा प्रकृतिः च तथा आत्मनि ॥ 26॥
एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि ।
छेत्तुं अर्हसि सर्वज्ञ वचोभिः नयनैपुणैः ॥ 27॥
त्वत्तः ज्ञानं हि जीवानां प्रमोषः ते अत्र शक्तितः ।
त्वं एव हि आत्म मायाया गतिं वेत्थ न च अपरः ॥ 28॥
श्रीभगवान् उवाच ।
प्रकृतिः पुरुषः च इति विकल्पः पुरुषर्षभ ।
एषः वैकारिकः सर्गः गुणव्यतिकरात्मकः ॥ 29॥
मम अङ्ग माया गुणमयी अनेकधा
विकल्पबुद्धीः च गुणैः विधत्ते ।
वैकारिकः त्रिविधः अध्यात्मं एकम्
अथ अधिदैवं अधिभूतं अन्यत् ॥ 30॥
दृक् रूपं आर्कं वपुः अत्र रन्ध्रे
परस्परं सिध्यति यः स्वतः खे ।
आत्मा यत् एषं अपरः यः आद्यः
स्वया अनुभूत्य अखिलसिद्धसिद्धिः ।
एवं त्वक् आदि श्रवणादि चक्षुः
जिह्व आदि नास आदि च चित्तयुक्तम् ॥ 31॥
यः असौ गुणक्षोभकृतौ विकारः
प्रधानमूलात् महतः प्रसूतः ।
अहं त्रिवृत् मोहविकल्पहेतुः
वैकारिकः तामसः ऐन्द्रियः च ॥ 32॥
आत्मापरिज्ञानमयः विवादः
हि अस्ति इति न अस्ति इति भिदार्थनिष्ठः ।
व्यर्थः अपि न एव उपरमेत पुंसां
मत्तः परावृत्तधियां स्वलोकात् ॥ 33॥
उद्धवः उवाच ।
त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो ।
उच्च अवचान् यथा देहान् गृह्णन्ति विसृजन्ति च ॥ 34॥
तत् मम आख्याहि गोविन्द दुर्विभाव्यं अनात्मभिः ।
न हि एतत् प्रायशः लोके विद्वांसः सन्ति वञ्चिताः ॥ 35॥
श्रीभगवान् उवाच ।
मनः कर्ममयं नृणां इन्द्रियैः पञ्चभिः युतम् ।
लोकात् लोकं प्रयाति अन्यः आत्मा तत् अनुवर्तते ॥ 36॥
ध्यायन् मनः अनुविषयान् दृष्टान् वा अनुश्रुतान् अथ ।
उद्यत् सीदत् कर्मतन्त्रं स्मृतिः तत् अनुशाम्यति ॥ 37॥
विषय अभिनिवेशेन न आत्मानं यत् स्मरेत् पुनः ।
जन्तोः वै कस्यचित् हेतोः मृत्युः अत्यन्तविस्मृतिः ॥ 38॥
जन्म तु आत्मतया पुंसः सर्वभावेन भूरिद ।
विषय स्वीकृतिं प्राहुः यथा स्वप्नमनोरथः ॥ 39॥
स्वप्नं मनोरथं च इत्थं प्राक्तनं न स्मरति असौ ।
तत्र पूर्वं इव आत्मानं अपूर्वं च अनुपश्यति ॥ 40॥
इन्द्रिय आयन सृष्ट्या इदं त्रैविध्यं भाति वस्तुनि ।
बहिः अन्तः भिदाहेतुः जनः असत् जनकृत् यथा ॥ 41॥
नित्यदा हि अङ्गः भूतानि भवन्ति न भवन्ति च ।
कालेन अल्क्ष्यवेगेन सूक्ष्मत्वात् तत् न दृश्यते ॥ 42॥
यथा अर्चिषां स्रोतसां च फलानां वा वनस्पतेः ।
तथा एव सर्वभूतानां वयः अवस्था आदयः कृताः ॥ 43॥
सः अयं दीपः अर्चिषां यद्वत् स्रोतसां तत् इदं जलम् ।
सः अयं पुमान् इति नृणां मृषाः गीः धीः मृषा
आयुषाम् ॥ 44॥
मा स्वस्य कर्मबीजेन जायते सः अपि अयं पुमान् ।
म्रियते वामरः भ्रान्त्या यथा अग्निः दारु संयुतः ॥ 45॥
निषेकगर्भजन्मानि बाल्यकौमारयौवनम् ।
वयोमध्यं जरा मृत्युः इति अवस्थाः तनोः नव ॥ 46॥
एताः मनोरथमयीः हि अन्यस्य उच्चावचाः तनूः ।
गुणसङ्गात् उपादत्ते क्वचित् कश्चित् जहाति च ॥ 47॥
आत्मनः पितृपुत्राभ्यां अनुमेयौ भवाप्ययौ ।
न भवाप्ययवस्तूनां अभिज्ञः द्वयलक्षणः ॥ 48॥
तरोः बीजविपाकाभ्यां यः विद्वात् जन्मसंयमौ ।
तरोः विलक्षणः द्रष्टा एवं द्रष्टा तनोः पृथक् ॥ 49॥
प्रकृतेः एवं आत्मानं अविविच्य अबुधः पुमान् ।
तत्त्वेन स्पर्शसम्मूढः संसारं प्रतिपद्यते ॥ 50॥
सत्त्वसङ्गात् ऋषीन् देवान् रजसा असुरमानुषान् ।
तमसा भूततिर्यक्त्वं भ्रामितः याति कर्मभिः ॥ 51॥
नृत्यतः गायतः पश्यन् यथा एव अनुकरोति तान् ।
एवं बुद्धिगुणान् पश्यन् अनीहः अपि अनुकार्यते ॥ 52॥
यथा अम्भसा प्रचलता तरवः अपि चलाः इव ।
चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमति इव भूः ॥ 53॥
यथा मनोरथधियः विषयानुभवः मृषा ।
स्वप्नदृष्टाः च दाशार्ह तथा संसारः आत्मनः ॥ 54॥
अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते ।
ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा ॥ 55॥
तस्मात् उद्धव मा भुङ्क्ष्व विषयान् असत् इन्द्रियैः ।
आत्मा अग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम् ॥ 56॥
क्षिप्तः अवमानितः असद्भिः प्रलब्धः असूयितः अथवा ।
ताडितः सन्निबद्धः वा वृत्त्या वा परिहापितः ॥ 57॥
निष्ठितः मूत्रितः बहुधा एवं प्रकम्पितः ।
श्रेयस्कामः कृच्छ्रगतः आत्मना आत्मानं उद्धरेत् ॥ 58॥
उद्धवः उवाच ।
यथा एवं अनुबुद्ध्येयं वद नः वदतां वर ।
सुदुःसहं इमं मन्यः आत्मनि असत् अतिक्रमम् ॥ 59॥
विदुषं अपि विश्वात्मन् प्रकृतिः हि बलीयसी ।
ऋते त्वत् धर्मनिरतान् शान्ताः ते चरणालयान् ॥ 60॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
द्वाविंशोऽध्यायः ॥ 22॥
अथ त्रयोविंशः अध्यायः ।
बादरायणिः उवाच ।
सः एवं आशंसितः उद्धवेन
भागवतमुख्येन दाशार्हमुख्यः ।
सभाजयन् बृत्यवचः मुकुन्दः
तं आबभाषे श्रवणीयवीर्यः ॥ 1॥
श्रीभगवान् उवाच ।
बर्हस्पत्य सः वै न अत्र साधुः वै दुर्जन् ईरितैः ।
दुरुक्तैः भिन्नं आत्मानं यः समाधातुं ईश्वरः ॥ 2॥
न तथा तप्यते विद्धः पुमान् बाणैः सुमर्मगैः ।
यथा तुदन्ति मर्मस्थाः हि असतां परुषेषवः ॥ 3॥
कथयन्ति महत्पुण्यं इतिहासं इह उद्धव ।
तं अहं वर्णयिष्यामि निबोध सुसमाहितः ॥ 4॥
केनचित् भिक्षुणा गीतं परिभूतेन दुर्जनैः ।
स्मरताः धृतियुक्तेन विपाकं निजकर्मणाम् ॥ 5॥
अवनिषु द्विजः कश्चित् आसीत् आढ्यतमः श्रिया ।
वार्तावृत्तिः कदर्यः तु कामी लुब्धः अतिकोपनः ॥ 6॥
ज्ञातयः अतिथयः तस्य वाङ्मात्रेण अपि न अर्चिताः ।
शून्य अवसथः आत्मा अपि काले कामैः अनर्चितः ॥ 7॥
दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः ।
दारा दुहितरः भृत्याः विषण्णाः न आचरन् प्रियम् ॥ 8॥
तस्य एवं यक्षवित्तस्य च्युतस्य उभयलोकतः ।
धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः ॥ 9॥
तत् अवध्यान विस्रस्त पुण्य स्कन्धस्य भूरिद ।
अर्थः अपि अगच्छन् निधनं बहु आयास परिश्रमः ॥ 10॥
ज्ञातयः जगृहुः किञ्चित् किञ्चित् अस्यवः उद्धव ।
दैवतः कालतः किञ्चित् ब्रह्मबन्धोः नृपार्थिवात् ॥ 11॥
सः एवं द्रविणे नष्टे धर्मकामविवर्जितः ।
उपेक्षितः च स्वजनैः चिन्तां आप दुरत्ययाम् ॥ 12॥
तस्य एवं ध्यायतः दीर्घं नष्टरायः तपस्विनः ।
खिद्यतः बाष्पकण्ठस्य निर्वेदः सुमहान् अभूत् ॥ 13॥
सः च आह इदं अहो कष्टं वृथा आत्मा मे अनुतापितः ।
न धर्माय न कामाय यस्य अर्थ आयासः ईदृशः ॥ 14॥
प्रायेण अर्थाः कदर्याणां न सुखाय कदाचन ।
इह च आत्मोपतापाय मृतस्य नरकाय च ॥ 15॥
यशः यशस्विनां शुद्धं श्लाघ्याः ये गुणिनां गुणाः ।
लोभः स्वल्पः अपि तान् हन्ति श्वित्रः रूपं इव इप्सितम् ॥ 16॥
अर्थस्य साधने सिद्धः उत्कर्षे रक्षणे व्यये ।
नाश उपभोगः आयासः त्रासः चिन्ता भ्रमः नृणाम् ॥ 17॥
स्तेयं हिंसा अनृतं दम्भः कामः क्रोधः स्मयः मदः ।
भेदः वैरं अविश्वासः संस्पर्धा व्यसनानि च ॥ 18॥
एते पञ्चदशान् अर्थाः हि अर्थमूलाः मताः नृणाम् ।
तस्मात् अनर्थं अर्थाख्यं श्रेयः अर्थी दूरतः त्यजेत् ॥ 19॥
भिद्यन्ते भ्रातरः दाराः पितरः सुहृदः तथा ।
एकास्निग्धाः काकिणिना सद्यः सर्वे अरयः कृताः ॥ 20॥
अर्थेन अल्पीयसा हि एते संरब्धा दीप्तं अन्यवः ।
त्यजन्ति आशु स्पृधः घ्नन्ति सहसा उत्सृज्य सौहृदम् ॥
21॥
लब्ध्वा जन्म अमरप्रार्थ्यं मानुष्यं तत् द्विज अग्र्यताम् ।
तत् अनादृत्य ये स्वार्थं घ्नन्ति यान्ति अशुभां गतिम् ॥
22॥
स्वर्ग अपवर्गयोः द्वारं प्राप्य लोकं इमं पुमान् ।
द्रविणे कः अनूषज्जेत मर्त्यः अनर्थस्य धामनि ॥ 23॥
देवर्षि पितृ भूतानि ज्ञातीन् बन्धून् च भागिनः ।
असंविभज्य च आत्मानं यक्षवित्तः पतति अधः ॥ 24॥
व्यर्थया अर्थेहया वित्तं प्रमत्तस्य वयः बलम् ।
कुशलाः येन सिध्यन्ति जरठः किं नु साधये ॥ 25॥
कस्मात् सङ्क्लिश्यते विद्वान् व्यर्थया अर्थेहया असकृत् ।
कस्यचित् मायया नूनं लोकः अयं सुविमोहितः ॥ 26॥
किं धनैः धनदैः वा किं कामैः वा कामदैः उत ।
मृत्युना ग्रस्यमानस्य कर्मभिः वा उत जन्मदैः ॥ 27॥
नूनं मे भगवान् तुष्टः सर्वदेवमयः हरिः ।
येन नीतः दशां एतां निर्वेदः च आत्मनः प्लवः ॥ 28॥
सः अहं कलौ अशेषेण शोषयिह्ह्ये अङ्गं आत्मनः ।
अप्रमत्तः अखिलस्वार्थे यदि स्यात् सिद्धः आत्मनि ॥ 29॥
तत्र मां अनुमोदेरन् देवाः त्रिभुवनेश्वराः ।
मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत् ॥ 30॥
श्रीभगवान् उवाच ।
इति अभिप्रेत्य मनसा हि आवन्त्यः द्विजसत्तमः ।
उन्मुच्य हृदयग्रन्थीन् शान्तः भिक्षुः अभूत् मुनिः ॥ 31॥
सः चचार महीं एतां संयत आत्मेन्द्रिय अनिलः ।
भिक्षार्थं नगर ग्रामान् असङ्गः अलक्षितः अविशत् ॥ 32॥
तं वै प्रवयसं भिक्षुं अवधूतं असज्जनाः ।
दृष्ट्वा पर्यभवन् भद्रः बह्वीभिः परिभूतिभिः ॥ 33॥
केचित् त्रिवेणुं जगृहुः एके पात्रं कमण्डलुम् ।
पीठं च एके अक्षसूत्रं च कन्थां चीराणि केचन ॥ 34॥
प्रदाय च पुनः तानि दर्शितानि आददुः मुनेः ।
अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित् तटे ॥ 35॥
मूत्रयन्ति च पापिष्ठाः ष्ठीवन्ति अस्य च मूर्धनि ।
यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत् ॥ 36॥
तर्जयन्ति अपरे वाग्भिः स्तेनः अयं इति वादिनः ।
बध्नन्ति रज्ज्वा तं केचित् बध्यतां बध्यतां इति ॥ 37॥
क्षिपन्ति एके अवजानन्तः एषः धर्मध्वजः शठः ।
क्षीणवित्तः इमां वृत्तिं अग्रहीत् स्वजन उज्झितः ॥ 38॥
अहो एषः महासारः धृतिमान् गिरिः आडिव ।
मौनेन साधयति अर्थं बकवत् दृढनिश्चयः ॥ 39॥
इति एके विहसन्ति एनं एके दुर्वातयन्ति च ।
तं बबन्धुः निरुरुधुः यथा क्रीडनकं द्विजम् ॥ 40॥
एवं सः भौतिकं दुःखं दैविकं दैहिकं च यत् ।
भोक्तव्यं आत्मनः दिष्टं प्राप्तं प्राप्तं अबुध्यत ॥ 41॥
परिभूतः इमां गाथां अगायत नराधमैः ।
पातयद्भिः स्वधर्मस्थः धृतिं आस्थाय सात्विकीम् ॥ 42॥
द्विजः उवाच ।
न अयं जनः मे सुखदुःखहेतुः
न देवतात्मा ग्रहकर्मकालाः ।
मनः परं कारणं आमनन्ति
संसारचक्रं परिवर्तयेत् यत् ॥ 43॥
मनः गुणान् वै सृजते बलीयः
ततः च कर्माणि विलक्षणानि ।
शुक्लानि कृष्णानि अथ लोहितानि
तेभ्यः सवर्णाः सृतयः भवन्ति ॥ 44॥
अनीहः आत्मा मनसा समीहता
हिरण्मयः मत्सखः उद्विचष्टे ।
मनः स्वलिङ्गं परिगृह्य कामान्
जुषन् निबद्धः गुणसङ्गतः असौ ॥ 45॥
दानं स्वधर्मः नियमः यमः च
श्रुतं च कर्माणि च सद्व्रतानि ।
सर्वे मनोनिग्रहलक्षणान्ताः
परः हि योगः मनसः समाधि ॥ 46॥
समाहितं यस्य मनः प्रशान्तम्
दानादिभिः किं वद तस्य कृत्यम् ।
असंयतं यस्य मनः विनश्यत्
दानादिभिः चेत् अपरं किमेभिः ॥ 47॥
मनोवशे अन्ये हि अभवन् स्म देवाः
मनः च न अन्यस्य वशं समेति ।
भीष्मः हि देवः सहसः सहीयान्
युञ्ज्यात् वशे तं सः हि देवदेवः ॥ 48॥
तं दुर्जयं शत्रुं असह्यवेगं
मरुन्तुदं तत् न विजित्य केचित् ।
कुर्वन्ति असत् विग्रहं अत्र मर्त्यैः
मित्राणि उदासीन रिपून् विमूढाः ॥ 49॥
देहं मनोमात्रं इमं गृहीत्वा
मम अहं इति अन्ध धियः मनुष्याः ।
एषः अहं अन्यः अयं इति भ्रमेण
दुरन्तपारे तमसि भ्रमन्ति ॥ 50॥
जनः तु हेतुः सुखदुःखयोः चेत्
किं आत्मनः च अत्र ह भौमयोः तत् ।
जिह्वां क्वचित् सन्दशति स्वदद्भिः
तत् वेदनायां कतमाय कुप्येत् ॥ 51॥
दुःखस्य हेतुः यदि देवताः तु
किं आत्मनः तत्र विकारयोः तत् ।
यत् अङ्गं अङ्गेन निहन्यते क्वचित्
क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ 52॥
आत्मा यदि स्यात् सुखदुःखहेतुः
किं अन्यतः तत्र निजस्वभावः ।
न हि आत्मनः अन्यत् यदि तत् मृषा स्यात्
क्रुध्येत कस्मात् न सुखं न दुःखम् ॥ 53॥
ग्रहाः निमित्तं सुखदुःखयोः चेत्
किं आत्मनः अजस्य जनस्य ते वै ।
ग्रहैः ग्रहस्य एव वदन्ति पीडाम्
क्रुध्येत कस्मै पुरुषः ततः अन्यः ॥ 54॥
कर्माः तु हेतुः सुखदुःखयोः चेत्
किं आत्मनः तत् हि जडाजडत्वे ।
देहः तु अचित्पुरुषः अयं सुपर्णः
क्रुध्येत कस्मै न हि कर्ममूलम् ॥ 55॥
कालः तु हेतुः सुखदुःखयोः चेत्
किं आत्मनः तत्र तत् आत्मकः असौ ।
न अग्नेः हि तापः न हिमस्य तत् स्यात्
क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ 56॥
न केनचित् क्व अपि कथञ्चन अस्य
द्वन्द्व उपरागः परतः परस्य ।
यथाहमः संसृतिरूपिणः स्यात्
एवं प्रबुद्धः न बिभेति भूतैः ॥ 57॥
एतां सः आस्थाय परात्मनिष्ठाम्
अध्यासितां पूर्वतमैः महर्षिभिः ।
अहं तरिष्यामि दुरन्तपारम्
तमः मुकुन्द अङ्घ्रिनिषेवया एव ॥ 58॥
श्रीभगवान् उवाच ।
निर्विद्य नष्टद्रविणः गतक्लमः
प्रव्रज्य गां पर्यटमानः इत्थम् ।
निराकृतः असद्भिः अपि स्वधर्मात्
अकम्पितः अमुं मुनिः आह गाथाम् ॥ 59॥
सुखदुःखप्रदः न अन्यः पुरुषस्य आत्मविभ्रमः ।
मित्र उदासीनरिपवः संसारः तमसः कृतः ॥ 60॥
तस्मात् सर्वात्मना तात निगृहाण मनो धिया ।
मयि आवेशितया युक्तः एतावान् योगसङ्ग्रहः ॥ 61॥
यः एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः ।
धारयन् श्रावयन् श्रुण्वन् द्वन्द्वैः न एव अभिभूयते ॥ 62॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
बिक्षुगीतनिरूपणं नाम त्रयोविंशोऽध्यायः ॥ 23॥
अथ चतुर्विंशोऽध्याः ।
श्रीभगवान् उवाच ।
अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैः विनिश्चितम् ।
यत् विज्ञाय पुमान् सद्यः जह्यात् वैकल्पिकं भ्रमम् ॥ 1॥
आसीत् ज्ञानं अथः हि अर्थः एकं एव अविकल्पितम् ।
यदा विवेकनिपुणाः आदौ कृतयुगे अयुगे ॥ 2॥
तत् मायाफलरूपेण केवलं निर्विकल्पितम् ।
वाङ्मनः अगोचरं सत्यं द्विधा समभवत् बृहत् ॥ 3॥
तयोः एकतरः हि अर्थः प्रकृतिः सोभयात्मिका ।
ज्ञानं तु अन्यतरः भावः पुरुषः सः अभिधीयते ॥ 4॥
तमः रजः सत्त्वं इति प्रकृतेः अभवन् गुणाः ।
मया प्रक्षोभ्यमाणायाः पुरुष अनुमतेन च ॥ 5॥
तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः ।
ततः विकुर्वतः जातः यः अहङ्कारः विमोहनः ॥ 6॥
वैकारिकः तैजसः च तामसः च इति अहं त्रिवृत् ।
तन्मात्र इन्द्रिय मनसां कारणं चित् अचित् मयः ॥ 7॥
अर्थः तन्मात्रिकात् जज्ञे तामसात् इन्द्रियाणि च ।
तैजसात् देवताः आसन् एकादश च वैकृतात् ॥ 8॥
मया सञ्चोदिताः भावाः सर्वे संहति अकारिणः ।
अण्डं उत्पादयामासुः मम आयतनं उत्तमम् ॥ 9॥
तस्मिन् अहं समभवं अण्डे सलिलसंस्थितौ ।
मम नाभ्यां अभूत् पद्मं विश्वाख्यं तत्र च आत्मभूः ॥
10॥
सः असृजत् तपसा युक्तः रजसा मत् अनुग्रहात् ।
लोकान् सपालान् विश्वात्मा भूः भुवः स्वः इति त्रिधा ॥ 11॥
देवानां ओकः आसीत् स्वः भूतानां च भुवः पदम् ।
मर्त्य आदीनां च भूः लोकः सिद्धानां त्रितयात् परम् ॥
12॥
अधः असुराणां नागानां भूमेः ओकः असृजत् प्रभुः ।
त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुण आत्मनाम् ॥ 13॥
योगस्य तपसः च एव न्यासस्य गतयः अमलाः ।
महः जनः तपः सत्यं भक्तियोगस्य मद्गतिः ॥ 14॥
मया कालात्मना धात्रा कर्मयुक्तं इदं जगत् ।
गुणप्रवाहः एतस्मिन् उन्मज्जति निमज्जति ॥ 15॥
अणुः बृहत् कृशः स्थूलः यः यः भावः प्रसिध्यति ।
सर्वः अपि उभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ 16॥
यः तु यस्य आदिः अन्तः च सः वै मध्यं च तस्य सन् ।
विकारः व्यवहारार्थः यथा तैजस पार्थिवाः ॥ 17॥
यत् उपादाय पूर्वः तु भावः विकुरुते अपरम् ।
आदिः अन्तः यदा यस्य तत् सत्यं अभिधीयते ॥ 18॥
प्रकृतिः हि अस्य उपादानं आधारः पुरुषः परः ।
सतः अभिव्यञ्जकः कालः ब्रह्म तत् त्रितयं तु अहम् ॥ 19॥
सर्गः प्रवर्तते तावत् पौर्व अपर्येण नित्यशः ।
महान् गुणविसर्ग अर्थः स्थिति अन्तः यावत् ईक्षणम् ॥ 20॥
विराट् मया आसाद्यमानः लोककल्पविकल्पकः ।
पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ 21॥
अन्ने प्रलीयते मर्त्यं अन्नं धानासु लीयते ।
धानाः भूमौ प्रलीयन्ते भूमिः गन्धे प्रलीयते ॥ 22॥
अप्सु प्रलीयन्ते गन्धः आपः च स्वगुणे रसे ।
लीयते ज्योतिषि रसः ज्योती रूपे प्रलीयते ॥ 23॥
रूपं वायौ सः च स्पर्शे लीयते सः अपि च अम्बरे ।
अम्बरं शब्दतन्मात्रः इन्द्रियाणि स्वयोनिषु ॥ 24॥
योनिः वैकारिके सौम्य लीयते मनसि ईश्वरे ।
शब्दः भूतादिं अपि एति भूतादिः महति प्रभुः ॥ 25॥
सः लीयते महान् स्वेषु गुणेषु गुणवत्तमः ।
ते अव्यक्ते सम्प्रलीयन्ते तत्कले लीयते अव्यये ॥ 26॥
कालः मायामये जीवे जीवः आत्मनि मयि अजे ।
आत्मा केवलः आत्मस्थः विकल्प अपाय लक्षणः ॥ 27॥
एवं अन्वीक्षमाणस्य कथं वैकल्पिकः भ्रमः ।
मनसः हृदि तिष्ठेत व्योम्नि इव अर्क उदये तमः ॥ 28॥
एषः साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः ।
प्रतिलोम अनुलोमाभ्यां परावरदृशा मया ॥ 29॥

प्रकृतिपुरुषसाङ्ख्ययोगो नाम चतुर्विंशोऽध्यायः ॥ 24॥
अथ पञ्चविंशोऽध्यायः ।
श्रीभगवानुवाच ।
गुणानां असमिश्राणां पुमान्येन यथा भवेत् ।
तन्मे पुरुषवर्य इअदं उपधारय शंसतः ॥ 1॥
समः दमः तितिक्षा ईक्षा तपः सत्यं दया स्मृतिः ।
तुष्टिः त्यागः अस्पृहा श्रद्धा ह्रीः दया आदिः स्वनिर्वृतिः ॥ 2॥
कामः ईहा मदः तृष्णा स्तम्भः आशीः भिदा सुखम् ।
मद उत्साहः यशः प्रीतिः हास्यं वीर्यं बल उद्यमः ॥ 3॥
क्रोधः लोभः अनृतं हिंसा याञ्चा दम्भः क्लमः कलिः ।
शोकमोहौ विषादार्ती निद्रा आशा भीः अनुद्यमः ॥ 4॥
सत्त्वस्य रजसः च एताः तमसः च अनुमूर्वशः ।
वृत्तयः वर्णितप्रायाः सन्निपातं अथः श्रुणु ॥ 5॥
सन्निपातः तु अहं इति मम इति उद्धव या मतिः ।
व्यवहारः सन्निपातः मनोमात्र इन्द्रियासुभिः ॥ 6॥
धर्मे च अर्थे च कामे च यदा असौ परिनिष्ठितः ।
गुणानां सन्निकर्षः अयं श्रद्धाः अतिधनावहः ॥ 7॥
प्रवृत्तिलक्षणे निष्ठा पुमान् यः हि गृहाश्रमे ।
स्वधर्मे च अनुतिष्ठेत गुणानां समितिः हि सा ॥ 8॥
पुरुषं सत्त्वसंयुक्तं अनुमीयात् शम आदिभिः ।
कामादिभी रजोयुक्तं क्रोधाद्यैः तमसा युतम् ॥ 9॥
यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः ।
तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्त्रियं एव वा ॥ 10॥
यदा आशिषः आशास्य मां भजेत स्वकर्मभिः ।
तं रजःप्रकृतिं विद्यात् हिंसां आशास्य तामसम् ॥ 11॥
सत्त्वं रजः तमः इति गुणाः जीवस्य न एव मे ।
चित्तजा यैः तु भूतानां सज्जमानः निबध्यते ॥ 12॥
यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् ।
तदा सुखेन युज्येत धर्मज्ञान आदिभिः पुमान् ॥ 13॥
यदा जयेत् तमः सत्त्वं रजः सङ्गं भिदा चलम् ।
तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ॥ 14॥
यदा जयेत् रजः सत्त्वं तमः मूढः लयं जडम् ।
युज्येत शोकमोहाभ्यां निद्रया हिंसया आशया ॥ 15॥
यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः ।
देहे अभयं मनोसङ्गं तत् सत्त्वं विद्धि मत्पदम् ॥ 16॥
विकुर्वन् क्रियया च अधीर निर्वृतिः च चेतसाम् ।
गात्रास्वास्थ्यं मनः भ्रान्तं रजः एतैः निशामय ॥ 17॥
सीदत् चित्तं विलीयेत चेतसः ग्रहणे अक्षमम् ।
मनः नष्टं तमः ग्लानिः तमः तत् उपधारय ॥ 18॥
एधमाने गुणे सत्त्वे देवानां बलं एधते ।
असुराणां च रजसि तमसि उद्धव रक्षसाम् ॥ 19॥
सत्त्वात् जगरणं विद्यात् रजसा स्वप्नं आदिशेत् ।
प्रस्वापं तमसा जन्तोः तुरीयं त्रिषु सन्ततम् ॥ 20॥
उपर्युपरि गच्छन्ति सत्त्वेन आब्रह्मणः जनाः ।
तमसा अधः अधः आमुख्यात् रजसा अन्तरचारिणः ॥ 21॥
सत्त्वे प्रलीनाः स्वः यान्ति नरलोकं रजोलयाः ।
तमोलयाः तु निरयं यान्ति मां एव निर्गुणाः ॥ 22॥
मदर्पणं निष्फलं वा सात्विकं निजकर्म तत् ।
राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ 23॥
कैवल्यं सात्विकं ज्ञानं रजः वैकल्पिकं च यत् ।
प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ 24॥
वनं तु सात्विकः वासः ग्रामः राजसः उच्यते ।
तामसं द्यूतसदनं मन्निकेतनं तु निर्गुणम् ॥ 25॥
सात्विकः कारकः असङ्गी रागान्धः राजसः स्मृतः ।
तामसः स्मृतिविभ्रष्टः निर्गुणः मदपाश्रयः ॥ 26॥
सात्त्विकी आध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी ।
तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ 27॥
पथ्यं पूतं अनायः तं आहार्यं सात्त्विकं स्मृतम् ।
राजसं च इन्द्रियप्रेष्ठं तामसं च आर्तिद अशुचि ॥ 28॥
सात्त्विकं सुखं आत्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोहदैनोत्थं निर्गुणं मदपाश्रयम् ॥ 29॥
द्रव्यं देशः फलं कालः ज्ञानं कर्म च कारकाः ।
श्रद्धा अवस्था आकृतिः निष्ठा त्रैगुण्यः सर्वः एव हि ॥
30॥
सर्वे गुणमयाः भावाः पुरुष अव्यक्त धिष्ठिताः ॥ 31॥
एताः संसृतयः पुंसः गुणकर्मनिबन्धनाः ।
येन इमे निर्जिताः सौम्य गुणाः जीवेन चित्तजाः ।
भक्तियोगेन मन्निष्ठः मद्भावाय प्रपद्यते ॥ 32॥
तस्मात् अहं इमं लब्ध्वा ज्ञानविज्ञानसम्भवम् ।
गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥ 33॥
निःसङ्गः मां भजेत् विद्वान् अप्रमत्तः जितेन्द्रियः ।
रजः तमः च अभिजयेत् सत्त्वसंसेवया मुनिः ॥ 34॥
सत्त्वं च अभिजयेत् युक्तः नैरपेक्ष्येण शान्तधीः ।
सम्पद्यते गुणैः मुक्तः जीवः जीवं विहाय माम् ॥ 35॥
जीवः जीवविनिर्मुक्तः गुणैः च आशयसम्भवैः ।
मया एव ब्रह्मणा पूर्णः न बहिः न अन्तरः चरेत् ॥ 36॥

गुणनिर्गुणनिरूपणं नाम पञ्चविंशोऽध्यायः ॥ 25॥
अथ षड्विंशोऽध्यायः ।
श्रीभगवान् उवाच ।
मत् लक्षणं इमं कायं लब्ध्वा मद्धर्मः आस्थितः ।
आनन्दं परमात्मानं आत्मस्थं समुपैति माम् ॥1॥
गुणमय्याः जीवयोन्याः विमुक्तः ज्ञाननिष्ठया ।
गुणेषु मायामात्रेषु दृश्यमानेषु अवस्तुतः ।
वर्तमानः अपि न पुमान् युज्यते अवस्तुभिः गुणैः ॥ 2॥
सङ्गं न कुर्यात् असतां शिश्न उदर तृपां क्वचित् ।
तस्य अनुगतः तमसि अन्धे पतति अन्ध अनुगान्धवत् ॥ 3॥
ऐलः सम्राट् इमां गाथां अगायत बृहच्छ्रवाः ।
उर्वशी विरहात् मुह्यन् निर्विण्णः शोकसंयमे ॥ 4॥
त्यक्त्वा आत्मानं व्रजन्तीं तां नग्नः उन्मत्तवत् नृपः ।
विलपन् अन्वगात् जाये घोरे तिष्ठ इति विक्लवः ॥ 5॥
कामान् अतृप्तः अनुजुषन् क्षुल्लकान् वर्षयामिनीः ।
न वेद यान्तीः न अयान्तीः उर्वशी आकृष्टचेअतनः ॥ 6॥
ऐलः उवाच ।
अहो मे मोहविस्तारः कामकष्मलचेतसः ।
देव्याः गृहीतकण्ठस्य न आयुःखण्डाः इमे स्मृताः ॥ 7॥
न अहं वेद अभिनिर्मुक्तः सूर्यः वा अभ्युदितः अमुया ।
मुषितः वर्षपूगानां बत अहानि गतानि उत ॥ 8॥
अहो मे आत्मसम्मोहः येन आत्मा योषितां कृतः ।
क्रीडामृगः चक्रवर्ती नरदेवशिखामणिः ॥ 9॥
सपरिच्छदं आत्मानं हित्वा तृणं इव ईश्वरम् ।
यान्तीं स्त्रियं च अन्वगमं नग्नः उन्मत्तवत् रुदन् ॥ 10॥
कुतः तस्य अनुभावः स्यात् तेजः ईशत्वं एव वा ।
यः अन्वगच्छं स्त्रियं यान्तीं खरवत् पादताडितः ॥ 11॥
किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा ।
किं विविक्तेन मौनेन स्त्रीभिः यस्य मनः हृतम् ॥ 12॥
स्वार्थस्य अकोविदं धिङ् मां मूर्खं पण्डित मानिनम् ।
यः अहं ईश्वरतां प्राप्य स्त्रीभिः गो खरवत् जितः ॥ 13॥
सेवतः वर्षपूगात् मे उर्वश्यः अधरासवम् ।
न तृप्यति आत्मभूः कामः वह्निः आहुतिभिः यथा ॥ 14॥
पुंश्चल्या अपहृतं चित्तं कोन्वन्यः मोचितुं प्रभुः ।
आत्मारामेश्वरं ऋते भगवन्तं अधोक्षजम् ॥ 15॥
बोधितस्य अपि देव्या मे सूक्तवाक्येन दुर्मतेः ।
मनोगतः महामोहः न अपयाति अजितात्मनः ॥ 16॥
किं एतया नः अपकृतं रज्ज्वा वा सर्पचेतसः ।
रज्जुस्वरूप अविदुषः यः अहं यत् अजितेन्द्रियः ॥ 17॥
क्व अयं मलोमसः कायः दौर्गन्धि आदि आत्मकः अशुचिः ।
क्व गुणाः सौमनस्य आद्याः हि अध्यासः अविद्यया कृतः ॥ 18॥
पित्रोः किं स्वं नु भार्यायाः स्वामिनः अग्नेः श्वगृध्रयोः ।
किं आत्मनः किं सुहृदां इति यः न अवसीयते ॥ 19॥
तस्मिन् कलेवरे अमेध्ये तुच्छनिष्ठे विषज्जते ।
अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ 20॥
त्वङ् मांस रुधिर स्नायु मेदो मज्जा अस्थि संहतौ ।
विण्मूत्रपूये रमतां कृमीणां कियत् अन्तरम् ॥ 21॥
अथ अपि न उपसज्जेत स्त्रीषु स्त्रैणेषु च अर्थवित् ।
विषय इन्द्रिय संयोगात् मनः क्षुभ्यति न अन्यथा ॥ 22॥
अदृष्टात् अश्रुतात् भावात् न भावः उपजायते ।
असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ 23॥
तस्मात् सङ्गः न कर्तव्यः स्त्रीषु स्त्रैणेषु च इन्द्रियैः ।
विदुषां च अपि अविश्रब्धः षड्वर्गः किमु मादृशाम् ॥
24॥
श्रीभगवान् उवाच ।
एवं प्रगायन् नृपदेवदेवः
सः उर्वशीलोकं अथः विहाय ।
आत्मानं आत्मनि अवगम्य मां वै
उपारमत् ज्ञानविधूतमोहः ॥ 25॥
ततः दुःसङ्गं उत्सृज्य सत्सु सज्जेत बुद्धिमान् ।
सन्तः एतस्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः ॥ 26॥
सन्तः अनपेक्षाः मच्चित्ताः प्रशान्ताः समदर्शिनः ।
निर्ममाः निरहङ्काराः निर्द्वन्द्वाः निष्परिग्रहाः ॥ 27॥
तेषु नित्यं महाभागः महाभागेषु मत्कथाः ।
सम्भवन्ति हिता नॄणां जुषतां प्रपुनन्ति अघम् ॥ 28॥
ताः ये श्रुण्वन्ति गायन्ति हि अनुमोदन्ति च अदृताः ।
मत्पराः श्रद्दधानाः च भक्तिं विन्दन्ति ते मयि ॥ 29॥
भक्तिं लब्धवतः साधोः किं अन्यत् अवशिष्यते ।
मयि अनन्तगुणे ब्रह्मणि आनन्द अनुभव आत्मनि ॥ 30॥
यथा उपश्रयमाणस्य भगवन्तं विभावसुम् ।
शीतं भयं तमः अपि एति साधून् संसेवतः तथा ॥ 31॥
निमज्ज्य उन्मज्ज्यतां घोरे भवाब्धौ परम अयनम् ।
सन्तः ब्रह्मविदः शान्ताः नौः दृढ इव अप्सु मज्जताम् ॥ 32॥
अन्नं हि प्राणिनां प्राणः आर्तानां शरणं तु अहम् ।
धर्मः वित्तं नृणां प्रेत्य सन्तः अर्वाक् बिभ्यतः अरणम् ॥
33॥
सन्तः दिशन्ति चक्षूंषि बहिः अर्कः समुत्थितः ।
देवताः बान्धवाः सन्तः सन्तः आत्मा अहं एव च ॥ 34॥
वैतसेनः ततः अपि एवं उर्वश्या लोकनिःस्पृहः ।
मुक्तसङ्गः महीं एतां आत्मारामः चचार ह ॥ 35॥

ऐलगीतं नाम षड्विंशोऽध्यायः ॥ 26॥
अथ सप्तविंशोऽध्यायः ।
उद्धवः उवाच ।
क्रियायोगं समाचक्ष्व भवत् आराधनं प्रभो ।
यस्मात् त्वां ये यथा अर्चन्ति सात्वताः सात्वतर्षभ ॥ 1॥
एतत् वदन्ति मुनयः मुहुः निःश्रेयसं नृणाम् ।
नारदः भगवान् व्यासः आचार्यः अङ्गिरसः सुतः ॥ 2॥
निःसृतं ते मुखाम्भोजाद्यत् आह भगवान् अजः ।
पुत्रेभ्यः भृगुमुख्येभ्यः देव्यै च भगवान् भवः ॥ 3॥
एतत् वै सर्ववर्णानां आश्रमाणां च सम्मतम् ।
श्रेयसां उत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ 4॥
एतत् कमलपत्राक्ष कर्मबन्धविमोचनम् ।
भक्ताय च अनुरक्ताय ब्रूहि विश्वेश्वर ईश्वर ॥ 5॥
श्रीभगवान् उवाच ।
नहि अन्तः अनन्तपारस्य कर्मकाण्डस्य च उद्धव ।
सङ्क्षिप्तं वर्णयिष्यामि यथावत् अनुपूर्वशः ॥ 6॥
वैदिकः तान्त्रिकः मिश्रः इति मे त्रिविधः मखः ।
त्रयाणां ईप्सितेन एव विधिना मां समर्चयेत् ॥ 7॥
यदा स्वनिगमेन उक्तं द्विजत्वं प्राप्य पूरुषः ।
यथा यजेत मां भक्त्या श्रद्धया तत् निबोध मे ॥ 8॥
अर्चायां स्थण्डिले अग्नौ वा सूर्ये वा अप्सु हृदि द्विजः ।
द्रव्येण भक्तियुक्तः अर्चेत् स्वगुरुं मां अमायया ॥ 9॥
पूर्वं स्नानं प्रकुर्वीत धौतदन्तः अङ्गशुद्धये ।
उभयैः अपि च स्नानं मन्त्रैः मृद्ग्रहणादिना ॥ 10॥
सन्ध्या उपास्ति आदि कर्माणि वेदेन अचोदितानि मे ।
पूजां तैः कल्पयेत् सम्यक् सङ्कल्पः कर्मपावनीम् ॥ 11॥
शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रतिमा अष्टविधा स्मृता ॥ 12॥
चल अचल इति द्विविधा प्रतिष्ठा जीवमन्दिरम् ।
उद्वास आवाहने न स्तः स्थिरायां उद्धव अर्चने ॥ 13॥
अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेत् द्वयम् ।
स्नपनं तु अविलेप्यायां अन्यत्र परिमार्जनम् ॥ 14॥
द्रव्यैः प्रसिद्ध्यैः मत् यागः प्रतिमादिषु अमायिनः ।
भक्तस्य च यथालब्धैः हृदि भावेन च एव हि ॥ 15॥
स्नान अलङ्करणं प्रेष्ठं अर्चायां एव तु उद्धव ।
स्थण्डिले तत्त्वविन्यासः वह्नौ आज्यप्लुतं हविः ॥ 16॥
सूर्ये च अभ्यर्हणं प्रेष्ठं सलिले सलिल आदिभिः ।
श्रद्धया उपाहृतं प्रेष्ठं भक्तेन मम वारि अपि ॥ 17॥
भूर्यपि अभक्त उपहृतं न मे तोषाय कल्पते ।
गन्धः धूपः सुमनसः दीपः अन्न आद्य च किं पुनः ॥ 18॥
शुचिः सम्भृतसम्भारः प्राक् दर्भैः कल्पित आसनः ।
आसीनः प्राक् उदक् वा अर्चेत् अर्चायां अथ सम्मुखः ॥ 19॥
कृतन्यासः कृतन्यासां मदर्चां पाणिना मृजेत् ।
कलशं प्रोक्षणीयं च यथावत् उपसाधयेत् ॥ 20॥
तत् अद्भिः देवयजनं द्रव्याणि आत्मानं एव च ।
प्रोक्ष्य पात्राणि त्रीणि अद्भिः तैः तैः द्रव्यैः च साधयेत् ॥ 21॥
पाद्य अर्घ आचमनीयार्थं त्रीणि पात्राणि दैशिकः ।
हृदा शीर्ष्णा अथ शिखया गायत्र्या च अभिमन्त्रयेत् ॥
22॥
पिण्डे वायु अग्नि संशुद्धे हृत्पद्मस्थां परां मम ।
अण्वीं जीवकलां ध्यायेत् नाद अन्ते सिद्धभाविताम् ॥ 23॥
तया आत्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः ।
आवाह्य अर्च आदिषु स्थाप्य न्यस्त अङ्गं मां प्रपूजयेत् ॥
24॥
पाद्य उपस्पर्श अर्हण आदीन् उपचारान् प्रकल्पयेत् ।
धर्मादिभिः च नवभिः कल्पयित्वा आसनं मम ॥ 25॥
पद्मं अष्टदलं तत्र कर्णिकाकेसर उज्ज्वलम् ।
उभाभ्यां वेदतन्त्राभ्यां मह्यं तु उभयसिद्धये ॥ 26॥
सुदर्शनं पाञ्चजन्यं गदासीषुधनुः हलान् ।
मुसलं कौस्तुभं मालां श्रीवत्सं च अनुपूजयेत् ॥ 27॥
नन्दं सुनन्दं गरुडं प्रचण्डं चण्डं एव च ।
महाबलं बलं च एव कुमुदं कुमुदेक्षणम् ॥ 28॥
दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् ।
स्वे स्वे स्थाने तु अभिमुखान् पूजयेत् प्रोक्षण आदिभिः ॥ 29॥
चन्दन उशीर कर्पूर कुङ्कुम अगरु वासितैः ।
सलिलैः स्नापयेत् मन्त्रैः नित्यदा विभवे सति ॥ 30॥
स्वर्णघर्म अनुवाकेन महापुरुषविद्यया ।
पौरुषेण अपि सूक्तेन सामभीः राजनादिभिः ॥ 31॥
वस्त्र उपवीत आभरण पत्र स्रक् गन्ध लेपनैः ।
अलङ्कुर्वीत सप्रेम मद्भक्तः मां यथा उचितम् ॥ 32॥
पाद्यं आचमनीयं च गन्धं सुमनसः अक्षतान् ।
धूप दीप उपहार्याणि दद्यात् मे श्रद्धया अर्चकः ॥ 33॥
गुडपायससर्पींषि शष्कुलि आपूप मोदकान् ।
संयाव दधि सूपां च नैवेद्यं सति कल्पयेत् ॥ 34॥
अभ्यङ्ग उन्मर्दन आदर्श दन्तधौ अभिषेचनम् ।
अन्नद्य गीत नृत्यादि पर्वणि स्युः उतान्वहम् ॥ 35॥
विधिना विहिते कुण्डे मेखलागर्तवेदिभिः ।
अग्निं आधाय परितः समूहेत् पाणिना उदितम् ॥ 36॥
परिस्तीर्य अथ पर्युक्षेत् अन्वाधाय यथाविधि ।
प्रोक्षण्या आसाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ 37॥
तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः ।
लसत् चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ 38॥
स्फुरत् किरीट कटक कटिसूत्रवर अङ्गदम् ।
श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ 39॥
ध्यायन् अभ्यर्च्य दारूणि हविषा अभिघृतानि च ।
प्रास्य आज्यभागौ आघारौ दत्त्वा च आज्यप्लुतं हविः ॥ 40॥
जुहुयात् मूलमन्त्रेण षोडशर्च अवदानतः ।
धर्मादिभ्यः यथान्यायं मन्त्रैः स्विष्टिकृतं बुधः ॥ 41॥
अभ्यर्च्य अथ नमस्कृत्य पार्षदेभ्यः बलिं हरेत् ।
मूलमन्त्रं जपेत् ब्रह्म स्मरन् नारायण आत्मकम् ॥ 42॥
दत्त्वा आचमनं उच्छेषं विष्वक्सेनाय कल्पयेत् ।
मुखवासं सुरभिमत् ताम्बूलाद्यं अथ अर्हयेत् ॥ 42॥
उपगायन् गृणन् नृत्यन् कर्माणि अभिनयन् मम ।
मत्कथाः श्रावयन् श्रुण्वन् मुहूर्तं क्षणिकः भवेत् ॥ 44।
स्तवैः उच्चावचैः स्तोत्रैः पौराणैः प्रकृतैः अपि ।
स्तुत्वा प्रसीद भगवन् इति वन्देत दण्डवत् ॥ 45॥
शिरः मत् पादयोः कृत्वा बाहुभ्यां च परस्परम् ।
प्रपन्नं पाहि मां ईश भीतं मृत्युग्रह अर्णवात् ॥ 46॥
इति शेषां मया दत्तां शिरसि आधाय सादरम् ।
उद्वासयेत् चेत् उद्वास्यं ज्योतिः ज्योतिषि तत् पुनः ॥ 47॥
अर्चादिषु यदा यत्र श्रद्धा मां तत्र च अर्चयेत् ।
सर्वभूतेषु आत्मनि च सर्व आत्मा अहं अवस्थितः ॥ 48॥
एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः ।
अर्चन् उभयतः सिद्धिं मत्तः विन्दति अभीप्सिताम् ॥ 49॥
मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेत् दृढम् ।
पुष्प उद्यानानि रम्याणि पूजा यात्रा उत्सव आश्रितान् ॥ 50॥
पूजादीनां प्रवाहार्थं महापर्वसु अथ अन्वहम् ।
क्षेत्रापणपुरग्रामान् दत्त्वा मत् सार्ष्टितां इयात् ॥ 51॥
प्रतिष्ठया सार्वभौमंसद्मना भुवनत्रयम् ।
पूजादिना ब्रह्मलोकं त्रिभिः मत् साम्यतां इयात् ॥ 52॥
मां एव नैरपेक्ष्येण भक्तियोगेन विन्दति ।
भक्तियोगं सः लभते एवं यः पूजयेत माम् ॥ 53॥
यः स्वदत्तां परैः दत्तं हरेत सुरविप्रयोः ।
वृत्तिं सः जायते विड्भुक् वर्षाणां अयुतायुतम् ॥ 54॥
कर्तुः च सारथेः हेतोः अनुमोदितुः एव च ।
कर्मणां भागिनः प्रेत्य भूयः भूयसि तत्फलम् ॥ 55॥

सप्तविंशोऽध्यायः ॥ 27॥
अथ अष्टविंशः अध्यायः ।
श्रीभगवान् उवाच ।
परस्वभावकर्माणि न प्रशंसेत् न गर्हयेत् ।
विश्वं एकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ 1॥
परस्वभावकर्माणि यः प्रशंसति निन्दति ।
सः आशु भ्रश्यते स्वार्थात् असत्य अभिनिवेशतः ॥ 2॥
तैजसे निद्रया आपन्ने पिण्डस्थः नष्टचेतनः ।
मायां प्राप्नोति मृत्युं वा तद्वत् नानार्थदृक् पुमान् ॥ 3॥
किं भद्रं किं अभद्रं वा द्वैतस्य अवस्तुनः कियत् ।
वाचा उदितं तत् अनृतं मनसा ध्यातं एव च ॥ 4॥
छायाप्रत्याह्वयाभासा हि असन्तः अपि अर्थकारिणः ।
एवं देहादयः भावाः यच्छन्ति आमृत्युतः भयम् ॥ 5॥
आत्मा एव तत् इदं विश्वं सृज्यते सृजति प्रभुः ।
त्रायते त्राति विश्वात्मा ह्रियते हरति ईश्वरः ॥ 6॥
तस्मात् नहि आत्मनः अन्यस्मात् अन्यः भावः निरूपितः ।
निरूपितेयं त्रिविधा निर्मूला भातिः आत्मनि ।
इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ 7॥
एतत् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् ।
न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ 8॥
प्रत्यक्षेण अनुमानेन निगमेन आत्मसंविदा ।
आदि अन्तवत् असत् ज्ञात्वा निःसङ्गः विचरेत् इह ॥ 9॥
उद्धवः उवाच ।
न एव आत्मनः न देहस्य संसृतिः द्रष्टृदृश्ययोः ।
अनात्मस्वदृशोः ईश कस्य स्यात् उपलभ्यते ॥ 10॥
आत्मा अव्ययः अगुणः शुद्धः स्वयञ्ज्योतिः अनावृतः ।
अग्निवत् दारुवत् देहः कस्य इह संसृतिः ॥ 11॥
श्रीभगवान् उवाच ।
यावत् देह इन्द्रिय प्राणैः आत्मनः सन्निकर्षणम् ।
संसारः फलवान् तावत् अपार्थः अपि अविवेकिनः ॥ 12॥

ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा ॥ 13॥
यथा हि अप्रतिबुद्धस्य प्रस्वापः बहु अनर्थभृत् ।
सः एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ 14॥
शोक हर्ष भय क्रोध लोभ मोह स्पृहादयः ।
अहङ्कारस्य दृश्यन्ते जन्म मृत्युः च न आत्मनः ॥ 15॥
देह इन्द्रिय प्राण मनः अभिमानः
जीवः अन्तरात्मा गुणकर्म मूर्तिः ।
सूत्रं महान् इति उरुधा इव गीतः
संसारः आधावति कालतन्त्रः ॥ 16॥
अमूलं एतत् बहुरूप रूपितं
मनोवचःप्राणशरीरकर्म ।
ज्ञानासिना उपासनया शितेन
छित्त्वा मुनिः गां विचरति अतृष्णः ॥ 17॥
ज्ञानं विवेकः निगमः तपः च
प्रत्यक्षं ऐतिह्यं अथ अनुमानम् ।
आदि अन्तयोः अस्य यत् एव केवलम्
कालः च हेतुः च तत् एव मध्ये ॥ 18॥
यथा हिरण्यं स्वकृतं पुरस्तात्
पश्चात् च सर्वस्य हिरण्मयस्य ।
तत् एव मध्ये व्यवहार्यमाणम्
नानापदेशैः अहं अस्य तद्वत् ॥ 19॥
विज्ञानं एतत् त्रियवस्तं अङ्ग
गुणत्रयं कारण कार्य कर्तृ ।
समन्वयेन व्यतिरेकतः च
येन एव तुर्येण तत् एव सत्यम् ॥ 20॥
न यत् पुरस्तात् उत यत् न पश्चात्
मध्ये च तत् न व्यपदेशमात्रम् ।
भूतं प्रसिद्धं च परेण यद्यत्
तत् एव तत् स्यात् इति मे मनीषा ॥ 21॥
अविद्यमानः अपि अवभासते यः
वैकारिकः राजससर्गः एषः ।
ब्रह्म स्वयञ्ज्योतिः अतः विभाति
ब्रह्म इन्द्रिय अर्थ आत्म विकार चित्रम् ॥ 22॥
एवं स्फुटं ब्रह्मविवेकहेतुभिः
परापवादेन विशारदेन ।
छित्त्वा आत्मसन्देहं उपारमेत
स्वानन्दतुष्टः अखिल कामुकेभ्यः ॥ 23॥
न आत्मा वपुः पार्थिवं इन्द्रियाणि
देवाः हि असुः वायुजलं हुताशः ।
मनः अन्नमात्रं धिषणा च सत्त्वम्
अहङ्कृतिः खं क्षितिः अर्थसाम्यम् ॥ 24॥
समाहितैः कः करणैः गुणात्मभिः
गुणः भवेत् मत्सुविविक्तधाम्नः ।
विक्षिप्यमाणैः उत किं न दूषणम्
घनैः उपेतैः विगतैः रवेः किम् ॥ 25॥
यथा नभः वायु अनल अम्बु भू गुणैः
गतागतैः वर्तुगुणैः न सज्जते ।
तथा अक्षरं सत्त्व रजः तमः मलैः
अहम्मतेः संसृतिहेतुभिः परम् ॥ 26॥
तथापि सङ्गः परिवर्जनीयः
गुणेषु मायारचितेषु तावत् ।
मद्भक्तियोगेन दृढेन यावत्
रजः निरस्येत मनःकषायः ॥ 27॥
यथा आमयः असाधु चिकित्सितः नृणाम्
पुनः पुनः सन्तुदति प्ररोहन् ।
एवं मनः अपक्व कषय कर्म
कुयोगिनं विध्यति सर्वसङ्गम् ॥ 28॥
कुयोगिनः ये विहित अन्तरायैः
मनुष्यभूतैः त्रिदश उपसृष्टैः ।
ते प्राक्तन अभ्यासबलेन भूयः
युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥ 29॥
करोति कर्म क्रियते च जन्तुः
केनापि असौ चोदितः आनिपातात् ।
न तत्र विद्वान्प्रकृतौ स्थितः अपि
निवृत्त तृष्णः स्वसुख अनुभूत्या ॥ 30॥
तिष्ठन्तं आसीनं उत व्रजन्तम्
शयानं उक्षन्तं अदन्तं अन्नम् ।
स्वभावं अन्यत् किं अपि इहमानम्
आत्मानं आत्मस्थमतिः न वेद ॥ 31॥
यदि स्म पश्यति असत् इन्द्रिय अथ
नाना अनुमानेन विरुद्धं अन्यत् ।
न मन्यते वस्तुतया मनीषी
स्वाप्नं यथा उत्थाय तिरोदधानम् ॥ 32॥
पूर्वं गृहीतं गुणकर्मचित्रम्
अज्ञानं आत्मनि अविविक्तं अङ्ग ।
निवर्तते तत् पुनः ईक्षया एव
न गृह्यते न अपि विसृज्य आत्मा ॥ 33॥
यथा हि भानोः उदयः नृचक्षुषाम्
तमः निहन्यात् न तु सद्विधत्ते ।
एवं समीक्षा निपुणा सती मे
हन्यात् तमिस्रं पुरुषस्य बुद्धेः ॥ 34॥
एषः स्वयञ्ज्योतिः अजः अप्रमेयः
महानुभूतिः सकलानुभूतिः ।
एकः अद्वितीयः वचसां विरामे
येन ईशिता वाक् असवः चरन्ति ॥ 35॥
एतावान् आत्मसम्मोहः यत् विकल्पः तु केवले ।
आत्मन् नृते स्वमात्मानं अवलम्बः न यस्य हि ॥36॥
यत् नाम आकृतिभिः ग्राह्यं पञ्चवर्णं अबाधितम् ।
व्यर्थेन अपि अर्थवादः अयं द्वयं पण्डितमानिनाम् ॥ 37॥
योगिनः अपक्वयोगस्य युञ्जतः कायः उत्थितैः ।
उपसर्गैः विहन्येत तत्र अयं विहितः विधिः ॥ 38॥
योगधारणया कांश्चित् आसनैः धारण अन्वितैः ।
तपोमन्त्रौषधैः कांश्चित् उपसर्गान् विनिर्दहेत् ॥ 39॥
कांश्चित् मम अनुध्यानेन नामसङ्कीर्तन आदिभिः ।
योगेश्वर अनुवृत्त्या वा हन्यात् अशुभदान् शनैः ॥ 40॥
केचित् देहं इमं धीराः सुकल्पं वयसि स्थिरम् ।
विधाय विविध उपायैः अथ युञ्जन्ति सिद्धये ॥ 41॥
न हि तत् कुशलात् दृत्यं तत् आयासः हि अपार्थकः ।
अन्तवत्त्वात् शरीरस्य फलस्य इव वनस्पतेः ॥ 42॥
योगं निषेवतः नित्यं कायः चेत् कल्पतां इयात् ।
तत् श्रद्दध्यात् न मतिमान् योगं उत्सृज्य मत्परः ॥ 43॥
योगचर्यां इमां योगी विचरन् मत् व्यपाश्रयः ।
न अन्तरायैः विहन्येत निःस्पृहः स्वसुखानुभूः ॥ 44॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
परमार्थनिर्णयो नाम अष्टाविंशोऽध्यायः ॥ 28॥
अथ एकोनत्रिंशः अध्यायः ।
सुदुस्तरां इमां मन्ये योगचर्यां अनात्मनः ।
यथा अञ्जसा पुमान् सिह्येत् तत् मे ब्रूहि अञ्जसा अच्युत ॥ 1॥
प्रायशः पुण्डरीकाक्ष युञ्जन्तः योगिनः मनः ।
विषीदन्ति असमाधानात् मनोनिग्रहकर्शिताः ॥ 2॥
अथ अतः आनन्ददुघं पदाम्बुजम्
हंसाः श्रयेरन् अरविन्दलोचन ।
सुखं नु विश्वेश्वर योगकर्मभिः
त्वत् मायया अमी विहताः न मानिनः ॥ 3॥
किं चित्रं अच्युत तव एतत् अशेषबन्धः
दासेषु अनन्यशरणेषु यत् आत्म सात्त्वम् ।
यः अरोचयत्सह मृगैः स्वयं ईश्वराणाम्
श्रीमत् किरीट तट पीडित पाद पीठः ॥ 4॥
तं त्वा अखिल आत्मदयित ईश्वरं आश्रितानाम्
सर्व अर्थदं स्वकृतवित् विसृजेत कः नु ।
कः वा भजेत् किं अपि विस्मृतये अनु भूत्यै
किं वा भवेत् न तव पादरजोजुषां नः ॥ 5॥
न एव उपयन्ति अपचितिं कवयः तव ईश
ब्रह्मायुषा अपि कृतं ऋधमुदः स्मरन्तः ।
यः अन्तर्बहिः तनुभृतां अशुभं विधुन्वन्
आचार्यचैत्यवपुषा स्वगतं व्यनक्ति ॥ 6॥
श्रीशुकः उवाच ।
इति उद्धवेन अति अनुरक्त चेतसा
पृष्टः जगत्क्रीडनकः स्वशक्तिभिः ।
गृहीत मूर्तित्रयः ईश्वर ईश्वरः
जगाद सप्रेम मनोहरस्मितः ॥ 7॥
श्रीभगवान् उवाच ।
हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलाम् ।
यान् श्रद्धया आचरन् मर्त्यः मृत्युं जयति दुर्जयम् ॥ 8॥
कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् ।
मयि अर्पित मनः चित्तः मत् धर्म आत्ममनोरतिः ॥ 9॥
देशान् पुण्यान् आश्रयेत मद्भक्तैः साधुभिः श्रितान् ।
देव आसुर मनुष्येषु मद्भक्त आचरितानि च ॥ 10॥
पृथक् सत्रेण वा मह्यं पर्वयात्रा महोत्सवान् ।
कारयेत् गीतनृत्य आद्यैः महाराज विभूतिभिः ॥ 11॥
मां एव सर्वभूतेषु बहिः अन्तः अपावृतम् ।
ईक्षेत आत्मनि च आत्मानं यथा खं अमल आशयः ॥ 12॥
इति सर्वाणि भूतानि मद्भावेन महाद्युते ।
सभाजयन् मन्यमानः ज्ञानं केवलं आश्रितः ॥ 13॥
ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्ये अर्के स्फुलिङ्गके ।
अक्रूरे क्रूरके च एव समदृक् पण्डितः मतः ॥ 14॥
नरेषु अभीक्ष्णं मद्भावं पुंसः भावयतः अचिरात् ।
स्पर्धा असूया तिरस्काराः साहङ्काराः वियन्ति हि ॥ 15॥
विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् ।
प्रणमेत् दण्डवत् भूमौ आश्व चाण्डाल गो खरम् ॥ 16॥
यावत् सर्वेषु भूतेषु मद्भावः न उपजायते ।
तावत् एवं उपासीत वाङ् मन काय वृत्तिभिः ॥ 17॥
सर्वं ब्रह्मात्मकं तस्य विद्यया आत्म मनीषया ।
परिपश्यन् उपरमेत् सर्वतः मुक्त संशयः ॥ 18॥
अयं हि सर्वकल्पानां सध्रीचीनः मतः मम ।
मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ 19॥
न हि अङ्ग उपक्रमे ध्वंसः मद्धर्मस्य उद्धव अणु अपि ।
मया व्यवसितः सम्यक् निर्गुणत्वात् अनाशिषः ॥ 20॥
यः यः मयि परे धर्मः कल्प्यते निष्फलाय चेत् ।
तत् आयासः निरर्थः स्यात् भयादेः इव सत्त्म ॥ 21॥
एषा बुद्धिमतां बुद्धिः मनीषा च मनीषिणाम् ।
यत् सत्यं अनृतेन इह मर्त्येन आप्नोति मा अमृतम् ॥ 22॥
एष ते अभिहितः कृत्स्नः ब्रह्मवादस्य सङ्ग्रहः ।
समासव्यासविधिना देवानां अपि दुर्गमः ॥ 23॥
अभीक्ष्णशः ते गदितं ज्ञानं विस्पष्टयुक्तिमत् ।
एतत् विज्ञाय मुच्येत पुरुषः नष्टसंशयः ॥ 24॥
सुविविक्तं तव प्रश्नं मया एतत् अपि धारयेत् ।
सनातनं ब्रह्मगुह्यं परं ब्रह्म अधिगच्छति ॥ 25॥
यः एतत् मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम् ।
तस्य अहं ब्रह्मदायस्य ददामि आत्मानं आत्मना ॥ 26॥
यः एतत् समधीयीत पवित्रं परमं शुचि ।
सः पूयेत अहः अहः मां ज्ञानदीपेन दर्शयन् ॥ 27॥
यः एतत् श्रद्धया नित्यं अव्यग्रः श्रुणुयात् नरः ।
मयि भक्तिं परां कुर्वन् कर्मभिः न सः बध्यते ॥ 28॥
अपि उद्धव त्वया ब्रह्म सखे समवधारितम् ।
अपि ते विगतः मोहः शोकः च असौ मनोभवः ॥ 29॥
न एतत् त्वया दाम्भिकाय नास्तिकाय शठाय च ।
अशुश्रूषोः अभक्ताय दुर्विनीताय दीयताम् ॥ 30॥
एतैः दोषैः विहीनाय ब्रह्मण्याय प्रियाय च ।
साधवे शुचये ब्रूयात् भक्तिः स्यात् शूद्र योषिताम् ॥ 31॥
न एतत् विज्ञाय जिज्ञासोः ज्ञातव्यं अवशिष्यते ।
पीत्वा पीयूषं अमृतं पातव्यं न अवशिष्यते ॥ 32॥
ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे ।
यावान् अर्थः नृणां तात तावान् ते अहं चतुर्विधः ॥ 33॥
मर्त्यः यदा त्यक्त समस्तकर्मा
निवेदितात्मा विचिकीर्षितः मे ।
तदा अमृतत्वं प्रतिपद्यमानः
मया आत्मभूयाय च कल्पते वै ॥ 34॥
श्रीशुकः उवाच ।
सः एवं आदर्शित योगमार्गः
तदा उत्तम श्लोकवचः निशम्य ।
बद्ध अञ्जलिः प्रीति उपरुद्ध कण्ठः
न किञ्चित् ऊचेः अश्रु परिप्लुत अक्षः ॥ 35॥
विष्टभ्य चित्तं प्रणय अवघूर्णम्
धैर्येण राजन् बहु मन्यमानः ।
कृताञ्जलिः प्राह यदुप्रवीरम्
शीर्ष्णा स्पृशन् तत् चरण अरविन्दम् ॥ 36॥
उद्धवः उवाच ।
विद्रावितः मोह महा अन्धकारः
यः आश्रितः मे तव सन्निधानात् ।
विभावसोः किं नु समीपगस्य
शीतं तमः भीः प्रभवन्ति अज अद्य ॥ 37॥
प्रत्यर्पितः मे भवता अनुकम्पिना
भृत्याय विज्ञानमयः प्रदीपः ।
हित्वा कृतज्ञः तव पादमूलम्
कः अन्यत् समीयात् शरणं त्वदीयम् ॥ 38॥
वृक्णः च मे सुदृढः स्नेहपाशः
दाशार्ह वृष्णि अन्धक सात्वतेषु ।
प्रसारितः सृष्टिविवृद्धये त्वया
स्वमायया हि आत्म सुबोध हेतिना ॥ 39॥
नमः अस्तु ते महायोगिन् प्रपन्नं अनुशाधि माम् ।
यथा त्वत् चरण अम्भोजे रतिः स्यात् अनपायिनी ॥ 40॥
श्रीभगवान् उवाच ।
गच्छ उद्धव मया आदिष्टः बदरि आख्यं मम आश्रमम् ।
तत्र मत् पाद तीर्थोदे स्नान उपस्पर्शनैः शुचिः ॥ 41॥
ईक्षया अलकनन्दाया विधूत अशेष कल्मषः ।
वसानः वल्कलानि अङ्ग वन्यभुक् सुख निःस्पृहः ॥ 42॥
तितिक्षौः द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः ।
शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ 43॥
मत्तः अनुशिक्षितं यत् ते विविक्तमनुभावयन् ।
मयि आवेशित वाक् चित्तः मद्धर्म निरतः भव ।
अतिव्रज्य गतीः तिस्रः मां एष्यसि ततः परम् ॥ 44॥
श्रीशुकः उवाच ।
सः एवं उक्तः हरिमेधसा उद्धवः
प्रदक्षिणं तं परिसृत्य पादयोः ।
शिरः निधाय अश्रुकलाभिः आर्द्रधीः
न्यषिञ्चत् अद्वन्द्वपरः अपि उपक्रमे ॥ 45॥
सुदुस्त्यज स्नेह वियोग कातरः
न शक्नुवन् तं परिहातुं आतुरः ।
कृच्छ्रं ययौ मूर्धनि भर्तृपादुके
बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥ 46॥
ततः तं अन्तर्हृदि सन्निवेश्य
गतः महाभागवतः विशालाम् ।
यथा उपदिष्टां जगत् एकबन्धुना
ततः समास्थाय हरेः अगात् गतिम् ॥ 47॥
यः एअतत् आनन्द समुद्र सम्भृतम्
ज्ञानामृतं भागवताय भाषितम् ।
कृष्णेण योगेश्वर सेविताङ्घ्रिणा
सच्छ्रद्धया आसेव्य जगत् विमुच्यते ॥ 48॥
भवभय अपहन्तुं ज्ञानविज्ञानसारम्
निगमकृत् उपजहे भृङ्गवत् वेदसारम् ।
अमृतं उदधितः च अपाययत् भृत्यवर्गान्
पुरुषं ऋषभं आद्यं कृष्णसञ्ज्ञं नतः अस्मि ॥ 49॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
परमार्थप्राप्तिसुगमोपायकथनोद्धवबदरिकाश्रमप्रवेशो
नाम एकोनत्रिंशोऽध्यायः ॥ 29॥
अथ त्रिंशः अध्यायः ।
राजा उवाच ।
ततः महाभागवते उद्धवे निर्गते वनम् ।
द्वारवत्यां किं अकरोत् भगवान् भूतभावनः ॥ 1॥
ब्रह्मशाप उपसंसृष्टे स्वकुले यादवर्षभः ।
प्रेयसीं सर्वनेत्राणां तनुं सः कथं अत्यजत् ॥ 2॥
प्रत्याक्रष्टुं नयनं अबला यत्र लग्नं न शेकुः
कर्णाविष्टं न सरति ततः यत् सतां आत्मलग्नम् ।
यत् श्रीः वाचां जनयति रतिं किं नु मानं कवीनाम्
दृष्ट्वा जिष्णोः युधि रथगतं यत् च तत् साम्यम्
ईयुः ॥ 3॥
ऋषिः उवाच ।
दिवि भुवि अन्तरिक्षे च महोत्पातान् समुत्थितान् ।
दृष्ट्वा आसीनान् सुधर्मायां कृष्णः प्राह यदून् इदम् ॥ 4॥
श्रीभगवान् उवाच ।
एते घोराः महोत्पाताः द्वार्वत्यां यमकेतवः ।
मुहूर्तं अपि न स्थेयं अत्र नः यदुपुङ्गवाः ॥ 5॥
स्त्रियः बालाः च वृद्धाः च शङ्खोद्धारं व्रजन्त्वितः ।
वयं प्रभासं यास्यामः यत्र प्रत्यक् सरस्वती ॥ 6॥
तत्र अभिषिच्य शुचय उपोष्य सुसमाहिताः ।
देवताः पूजयिष्यामः स्नपन आलेपन अर्हणैः ॥7॥
ब्राह्मणान् तु महाभागान् कृतस्वस्त्ययना वयम् ।
गो भू हिरण्य वासोभिः गज अश्वरथ वेश्मभिः ॥ 8॥
विधिः एषः हि अरिष्टघ्नः मङ्गल आयनं उत्तमम् ।
देव द्विज गवां पूजा भूतेषु परमः भवः ॥ 9॥
इति सर्वे समाकर्ण्य यदुवृद्धाः मधुद्विषः ।
तथा इति नौभिः उत्तीर्य प्रभासं प्रययू रथैः ॥ 10॥
तस्मिन् भगवता आदिष्टं यदुदेवेन यादवा ।
चक्रुः परभया भक्त्या सर्वश्रेय उपबृंहितम् ॥ 11॥
ततः तस्मिन् महापानं पपुः मैरेयकं मधु ।
दिष्ट विभ्रंशित धियः यत् द्रवैः भ्रश्यते मतिः ॥ 12॥
महापान अभिमत्तानां वीराणां दृप्तचेतसाम् ।
कृष्णमाया विमूढानां सङ्घर्षः सुमहान् अभूत् ॥ 13॥
युयुधुः क्रोधसंरब्धा वेलायां आततायिनः ।
धनुभिः असिभिः मल्लैः गदाभिः तां अरर्ष्टिभिः ॥ 14॥
पतत्पताकै रथकुञ्जरादिभिः
खर उष्ट्र गोभिः महिषैः नरैः अपि ।
मिथः समेत्य अश्वतरैः सुदुर्मदा
न्यहन् शरर्दद्भिः इव द्विपा वने ॥ 15॥
प्रद्युम्न साम्बौ युधि रूढमत्सरौ
अक्रूर भोजौ अनिरुद्ध सात्यकी ।
सुभद्र सङ्ग्रामजितौ सुदारुणौ
गदौ सुमित्रा सुरथौ समीयतुः ॥ 16॥
अन्ये च ये वै निशठ उल्मुक आदयः
सहस्रजित् शतजित् भानु मुख्याः ।
अन्योन्यं आसाद्य मदान्धकारिता
जघ्नुः मुकुन्देन विमोहिता भृशम् ॥ 17॥
दाशार्ह वृष्णि अन्धक भोज सात्वता
मधु अर्बुदा माथुरशूरसेनाः ।
विसर्जनाः कुकुराः कुन्तयः च
मिथः ततः ते अथ विसृज्य सौहृदम् ॥ 18॥
पुत्राः अयुध्यन् पितृभिः भ्रातृभिः च
स्वस्त्रीय दौहित्र पितृव्यमातुलैः ।
मित्राणि मित्रैः सुहृदः सुहृद्भिः
ज्ञातींस्त्वहन् ज्ञातयः एव मूढाः ॥ 19॥
शरेषु क्षीयमाणेषु भज्यमानेषु धन्वसु ।
शस्त्रेषु क्षीयमाणेषु मुष्टिभिः जह्रुः एरकाः ॥ 20॥
ताः वज्रकल्पाः हि अभवन् परिघाः मुष्टिनाः भृताः ।
जघ्नुः द्विषः तैः कृष्णेन वार्यमाणाः तु तं च ते ॥ 21॥
प्रत्यनीकं मन्यमानाः बलभद्रं च मोहिताः ।
हन्तुं कृतधियः राजन् आपन्नाः आततायिनः ॥ 22॥
अथ तौ अपि सङ्क्रुद्धौ उद्यम्य कुरुनन्दन ।
एरका मुष्टि परिघौ जरन्तौ जघ्नतुः युधि ॥ 23॥
ब्रह्मशाप उपसृष्टानां कृष्णमायावृत आत्मनाम् ।
स्पर्धाक्रोधः क्षयं निन्ये वैणवः अग्निः यथा वनम् ॥ 24॥
एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः ।
अवतारितः भुवः भारः इति मेने अवशेषितः ॥ 25॥
रामः समुद्रवेलायां योगं आस्थाय पौरुषम् ।
तत् त्याज लोकं मानुष्यं संयोज्य आत्मानं आत्मनि ॥ 26॥
रामनिर्याणं आलोक्य भगवान् देवकीसुतः ।
निषसाद धरोपस्थे तूष्णीं आसाद्य पिप्पलम् ॥ 27॥
बिभ्रत् चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया ।
दिशः वितिमाराः कुर्वन् विधूमः इव पावकः ॥ 28॥
श्रीवत्साङ्कं घनश्यामं तप्त हाटक वर्चसम् ।
कौशेय अम्बर युग्मेन परिवीतं सुमङ्गलम् ॥ 29॥
सुन्दर स्मित वक्त्र अब्जं नील कुन्तल मण्डितम् ।
पुण्डरीक अभिरामाक्षं स्फुरन् मकर कुण्डलम् ॥ 30॥
कटिसूत्र ब्रह्मसूत्र किरीट कटक अङ्गदैः ।
हार नूपुर मुद्राभिः कौस्तुभेन विराजितम् ॥ 31॥
वनमाला परीताङ्गं मूर्तिमद्भिः निज आयुधैः ।
कृत्वा उरौ दक्षिणे पादं आसीनं पङ्कज अरुणम् ॥ 32॥
मुसलौ अशेषायः खण्डकृतेषुः लुब्धकः जराः ।
मृगास्य आकारं तत् चरणं विव्याध मृगशङ्कया ॥ 33॥
चतुर्भुजं तं पुरुषं दृष्ट्वा सः कृत किल्बिषः ।
भीतः पपात शिरसा पादयोः असुरद्विषः ॥ 34॥
अजानता कृतं इदं पापेन मधुसूदन ।
क्षन्तुं अर्हसि पापस्य उत्तमश्लोकः मे अनघ ॥ 35॥
यस्य अनुस्मरणं नॄणां अज्ञान ध्वान्त नाशनम् ।
वदन्ति तस्य ते विष्णो मया असाधु कृतं प्रभो ॥ 36॥
तत् मा आशु जहि वैकुण्ठ पाप्मानं मृग लुब्धकम् ।
यथा पुनः अहं तु एवं न कुर्यां सत् अतिक्रमम् ॥ 37॥
यस्य आत्म योग रचितं न विदुः विरिञ्चः
रुद्र आदयः अस्य तनयाः पतयः गिरां ये ।
त्वत् मायया पिहित दृष्टयः एतत् अञ्जः
किं तस्य ते वयं असत् गतयः गृणीमः ॥ 38॥
श्रीभगवान् उवाच ।
मा भैः जरे त्वं उत्तिष्ठ कामः एषः कृतः हि मे ।
याहि त्वं मत् अनुज्ञातः स्वर्गं सुकृतिनां पदम् ॥ 39॥
इति आदिष्टः भगवता कृष्णेन इच्छा शरीरिणा ।
त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ 40॥
दारुकः कृष्णपदवीं अन्विच्छन् अधिगम्यताम् ।
वायुं तुलसिकामोदं आघ्राय अभिमुखं ययौ ॥ 41॥
तं तत्र तिग्मद्युभिः आयुधैः वृतम्
हि अश्वत्थमूले कृतकेतनं पतिम् ।
स्नेहप्लुतात्मा निपपात पादयो
रथात् अवप्लुत्य सबाष्पलोचनः ॥ 42॥
अपश्यतः त्वत् चरण अम्बुजं प्रभो
दृष्टिः प्रणष्टा तमसि प्रविष्टा ।
दिशः न जाने न लभे च शान्तिम्
यथा निशायं उडुपे प्रणष्टे ॥ 43॥
इति ब्रुवते सूते वै रथः गरुडलाञ्छनः ।
खं उत्पपात राजेन्द्र साश्वध्वजः उदीक्षतः ॥ 44॥
तं अन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च ।
तेन अति विस्मित आत्मानं सूतं आह जनार्दनः ॥ 45॥
गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः ।
सङ्कर्षणस्य निर्याणं बन्धुभ्यः ब्रूहि मत् दशाम् ॥ 46॥
द्वारकायां च न स्थेयं भवद्भिः च स्वबन्धुभिः ।
मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ॥ 47॥
स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः ।
अर्जुनेन आविताः सर्व इन्द्रप्रस्थं गमिष्यथ ॥ 48॥
त्वं तु मत् धर्मं आस्थाय ज्ञाननिष्ठः उपेक्षकः ।
मन्माया रचनां एतां विज्ञाय उपशमं व्रज ॥ 49॥
इति उक्तः तं परिक्रम्य नमस्कृत्य पुनः पुनः ।
तत् पादौ शीर्ष्णि उपाधाय दुर्मनाः प्रययौ पुरीम् ॥ 50॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे यदुकुलसङ्क्षयो नाम
त्रिंशोऽध्यायः ॥ 30॥
अथ एकत्रिंशः अध्यायः ।
श्रीशुकः उवाच ।
अथ तत्र आगमत् ब्रह्मा भवान्या च समं भवः ।
महेन्द्रप्रमुखाः देवाः मुनयः सप्रजेश्वराः ॥ 1॥
पितरः सिद्धगन्धर्वाः विद्याधर महोरगाः ।
चारणाः यक्षरक्षांसि किन्नर अप्सरसः द्विजाः ॥ 2॥
द्रष्टुकामाः भगवतः निर्वाणं परम उत्सुकाः ।
गायन्तः च गृणन्तः च शौरेः कर्माणि जन्म च ॥ 3॥
ववर्षुः पुष्पवर्षाणि विमान आवलिभिः नभः ।
कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः ॥ 4॥
भगवान् पितामहं वीक्ष्य विभूतिः आत्मनः विभुः ।
संयोज्य आत्मनि च आत्मानं पद्मनेत्रे न्यमीलयत् ॥ 5॥
लोकाभिरामां स्वतनुं धारणा ध्यान मङ्गलम् ।
योगधारणया आग्नेय्या अदग्ध्वा धाम आविशत् स्वकम् ॥ 6॥
दिवि दुन्दुभयः नेदुः पेतुः सुमनः च खात् ।
सत्यं धर्मः धृतिः भूमेः कीर्तिः श्रीः च अनु तं वयुः ॥ 7॥
देव आदयः ब्रह्ममुख्याः न विशन्तं स्वधामनि ।
अविज्ञातगतिं कृष्णं ददृशुः च अतिविस्मिताः ॥ 8॥
सौदामन्याः यथा आकाशे यान्त्याः हित्वा अभ्रमण्डलम् ।
गतिः न लक्ष्यते मर्त्यैः तथा कृष्णस्य दैवतैः ॥ 9॥
ब्रह्म रुद्र आदयः ते तु दृष्ट्वा योगगतिं हरेः ।
विस्मिताः तां प्रशंसन्तः स्वं स्वं लोकं ययुः तदा ॥ 10॥
राजन् परस्य तनुभृत् जननाप्ययेहा
मायाविडम्बनं अवेहि यथा नटस्य ।
सृष्ट्वा आत्मना इदं अनुविश्य विहृत्य च अन्ते
संहृत्य च आत्म महिना उपरतः सः आस्ते ॥ 11॥
मर्त्येन यः गुरुसुतं यमलोकनीतम्
त्वां च आनयत् शरणदः परम अस्त्र दग्धम् ।
जिग्ये अन्तक अन्तकं अपि ईशं असौ अवनीशः
किं स्वावने स्वरनयन् मृगयुं सदेहम् ॥ 12॥
तथा अपि अशेशा स्थिति सम्भव अपि
अयेषु अनन्य हेतुः यत् अशेष शक्तिधृक् ।
न इच्छत् प्रणेतुं वपुः अत्र शेषितम्
मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ 13॥
यः एतां प्रातः उत्थाय कृष्णस्य पदवीं पराम् ।
प्रयतः कीर्तयेत् भक्त्या तां एव आप्नोति अनुत्तमाम् ॥ 14॥
दारुकः द्वारकां एत्य वसुदेव उग्रसेनयोः ।
पतित्वा चरणावस्रैः न्यषिञ्चत् कृष्णविच्युतः ॥ 15॥
कथयामास निधनं वृष्णीनां कृत्स्नशः नृप ।
तत् श्रुत्वा उद्विग्न हृदयाः जनाः शोक विमूर्च्छिताः ॥ 16॥
तत्र स्म त्वरिता जग्मुः कृष्ण विश्लेष विह्वलाः ।
व्यसवाः शेरते यत्र ज्ञातयः घ्नन्तः आननम् ॥ 17॥
देवकी रोहिणी च एव वसुदेवः तथा सुतौ ।
कृष्ण राम अवपश्यन्तः शोक आर्ताः विजहुः स्मृतिम् ॥ 18॥
प्राणान् च विजहुः तत्र भगवत् विरह आतुराः ।
उपगुह्य पतीन् तात चितां आरुरुहुः स्त्रियः ॥ 19॥
रामपत्न्यः च तत् देहं उपगुह्य अग्निं आविशन् ।
वसुदेवपत्न्यः तत् गात्रं प्रद्युम्न आदीन् हरेः स्नुषाः ।
कृष्णपत्न्यः आविशन् अग्निं रुक्मिणि आद्याः तदात्मिकाः ॥ 20॥
अर्जुनः प्रेयसः सख्युः कृष्णस्य विरह आतुरः ।
आत्मानं सान्त्वयामास कृष्णगीतैः सदुक्तिभिः ॥ 21॥
बन्धूनां नष्टगोत्राणां अर्जुनः साम्परायिकम् ।
हतानां कारयामास यथावत् अनुपूर्वशः ॥ 22॥
द्वारकां हरिणा त्यक्ता समुद्रः अप्लावयत् क्षणात् ।
वर्जयित्वा महाराज श्रीमत् भगवत् आलयम् ॥ 23॥
नित्यं सन्निहितः तत्र भगवान् मधुसूदनः ।
स्मृत्या अशेषा अशुभहरं सर्व मङ्गलं अमङ्गलम् ॥ 24॥
स्त्री बाल वृद्धान् आदाय हतशेषान् धनञ्जयः ।
इन्द्रप्रस्थं समावेश्य वज्र तत्र अभ्यषेचयत् ॥ 25॥
श्रुत्वा सुहृत् वधं राजन् अर्जुनात् ते पितामहाः ।
त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् ॥ 26॥
यः एतत् देवदेवस्य विष्णोः कर्माणि जन्म च ।
कीर्तयेत् श्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥ 27॥
इत्थं हरेः भगवतः रुचिर अवतार
वीर्याणि बालचरितानि च शन्तमानि ।
अन्यत्र च इह च श्रुतानि गृणन् मनुष्यः
भक्तिं परां परमहंसगतौ लभेत ॥ 28॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे मौसलोपाख्यानं नाम
एकत्रिंशोऽध्यायः ॥ 31॥
॥ इति उद्धवगीता नाम एकादशस्कन्धः समाप्तः ॥
Roman (IAST) Transliteration
atha ekādaśo'dhyāyaḥ |
śrībhagavān uvāca |
baddhaḥ muktaḥ iti vyākhyā guṇataḥ me na vastutaḥ |
guṇasya māyāmūlatvāt na me mokṣaḥ na bandhanam || 1||
śokamohau sukhaṃ duḥkhaṃ dehāpattiḥ ca māyayā |
svapnaḥ yathā ātmanaḥ khyātiḥ saṃsṛtiḥ na tu vāstavī || 2||
vidyā avidye mama tanū viddhi uddhava śarīriṇām |
mokṣabandhakarī ādye māyayā me vinirmite || 3||
ekasya eva mama aṃśasya jīvasya eva mahāmate |
bandhaḥ asya avidyayā anādiḥ vidyayā ca tathā itaraḥ || 4||
atha baddhasya muktasya vailakṣaṇyaṃ vadāmi te |
viruddhadharmiṇoḥ tāta sthitayoḥ ekadharmiṇi || 5||
suparṇau etau sadṛśau sakhāyau
yadṛcchayā etau kṛtanīḍau ca vṛkṣe |
ekaḥ tayoḥ khādati pippalānnam
anyaḥ nirannaḥ api balena bhūyān || 6||
ātmānaṃ anyaṃ ca saḥ veda vidvān
apippalādaḥ na tu pippalādaḥ |
yaḥ avidyayā yuk sa tu nityabaddhaḥ
vidyāmayaḥ yaḥ sa tu nityamuktaḥ || 7||
dehasthaḥ api na dehasthaḥ vidvān svapnāt yathā utthitaḥ |
adehasthaḥ api dehasthaḥ kumatiḥ svapnadṛk yathā || 8||
indriyaiḥ indriyārtheṣu guṇaiḥ api guṇeṣu ca |
gṛhyamāṇeṣu ahaṅkuryāt na vidvān yaḥ tu avikriyaḥ || 9||
daivādhīne śarīre asmin guṇabhāvyena karmaṇā |
vartamānaḥ abudhaḥ tatra kartā asmi iti nibadhyate || 10||
evaṃ viraktaḥ śayanaḥ āsanāṭanamajjane |
darśanasparśanaghrāṇabhojanaśravaṇādiṣu || 11||
na tathā badhyate vidvān tatra tatra ādayan guṇān |
prakṛtisthaḥ api asaṃsaktaḥ yathā khaṃ savitā anilaḥ || 12||
vaiśāradyekṣayā asaṅgaśitayā chinnasaṃśayaḥ |
pratibuddhaḥ iva svapnāt nānātvāt vinivartate || 13||
yasya syuḥ vītasaṅkalpāḥ prāṇendriyamanodhiyām |
vṛttayaḥ saḥ vinirmuktaḥ dehasthaḥ api hi tat guṇaiḥ || 14||
yasya ātmā hiṃsyate hiṃsryaiḥ yena kiñcit yadṛcchayā |
arcyate vā kvacit tatra na vyatikriyate budhaḥ || 15||
na stuvīta na nindeta kurvataḥ sādhu asādhu vā |
vadataḥ guṇadoṣābhyāṃ varjitaḥ samadṛk muniḥ || 16||
na kuryāt na vadet kiñcit na dhyāyet sādhu asādhu vā |
ātmārāmaḥ anayā vṛttyā vicaret jaḍavat muniḥ || 17||
śabdabrahmaṇi niṣṇātaḥ na niṣṇāyāt pare yadi |
śramaḥ tasya śramaphalaḥ hi adhenuṃ iva rakṣataḥ || 18||
gāṃ dugdhadohāṃ asatīṃ ca bhāryām
dehaṃ parādhīnaṃ asatprajāṃ ca |
vittaṃ tu atīrthīkṛtaṃ aṅga vācam
hīnāṃ mayā rakṣati duḥkhaduḥkhī || 19||
yasyāṃ na me pāvanaṃ aṅga karma
sthitiudbhavaprāṇa nirodhanaṃ asya |
līlāvatārīpsitajanma vā syāt
bandhyāṃ giraṃ tāṃ bibhṛyāt na dhīraḥ || 20||
evaṃ jijñāsayā apohya nānātvabhramaṃ ātmani |
upārameta virajaṃ manaḥ mayi arpya sarvage || 21||
yadi anīśaḥ dhārayituṃ manaḥ brahmaṇi niścalam |
mayi sarvāṇi karmāṇi nirapekṣaḥ samācara || 22||
śraddhāluḥ me kathāḥ śaṛṇvan subhadrā lokapāvanīḥ |
gāyan anusmaran karma janma ca abhinayan muhuḥ || 23||
madarthe dharmakāmārthān ācaran madapāśrayaḥ |
labhate niścalāṃ bhaktiṃ mayi uddhava sanātane || 24||
satsaṅgalabdhayā bhaktyā mayi māṃ saḥ upāsitā |
saḥ vai me darśitaṃ sadbhiḥ añjasā vindate padam || 25||
uddhava uvāca |
sādhuḥ tava uttamaśloka mataḥ kīdṛgvidhaḥ prabho |
bhaktiḥ tvayi upayujyeta kīdṛśī sadbhiḥ ādṛtā || 26||
etat me puruṣādhyakṣa lokādhyakṣa jagat prabho |
praṇatāya anuraktāya prapannāya ca kathyatām || 27||
tvaṃ brahma paramaṃ vyoma puruṣaḥ prakṛteḥ paraḥ |
avatīrṇaḥ asi bhagavan svecchāupāttapṛthak vapuḥ || 28||
śrībhagavān uvāca |
kṛpāluḥ akṛtadrohaḥ titikṣuḥ sarvadehinām |
satyasāraḥ anavadyātmā samaḥ sarvopakārakaḥ || 29||
kāmaiḥ ahatadhīḥ dāntaḥ mṛduḥ śuciḥ akiñcanaḥ |
anīhaḥ mitabhuk śāntaḥ sthiraḥ mat śaraṇaḥ muniḥ || 30||
apramattaḥ gabhīrātmā dhṛtimāñjitaṣaḍguṇaḥ |
amānī mānadaḥ kalpaḥ maitraḥ kāruṇikaḥ kaviḥ || 31||
ājñāya evaṃ guṇān doṣānmayādiṣṭān api svakān |
dharmān santyajya yaḥ sarvān māṃ bhajeta saḥ sattamaḥ || 32||
jñātvā ajñātvā atha ye vai māṃ yāvān yaḥ ca asmi
yādṛśaḥ |
bhajanti ananyabhāvena te me bhaktatamāḥ matāḥ || 33||
malliṅgamadbhaktajanadarśanasparśanārcanam |
paricaryā stutiḥ prahvaguṇakarma anukīrtanam || 34||
matkathāśravaṇe śraddhā mat anudhyānaṃ uddhava |
sarvalābha upaharaṇaṃ dāsyena ātmanivedanam || 35||
majjanmakarmakathanaṃ mama parvānumodanam |
gītatāṇḍavavāditragoṣṭhībhiḥ madgṛha utsavaḥ || 36||
yātrā balividhānaṃ ca sarvavārṣikaparvasu |
vaidikī tāntrikī dīkṣā madīyavratadhāraṇam || 37||
mama arcāsthāpane śraddhā svataḥ saṃhatya ca udyamaḥ |
udyāna upavanākrīḍapuramandirakarmaṇi || 38||
sammārjana upalepābhyāṃ sekamaṇḍalavartanaiḥ |
gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavadyadamāyayā || 39||
amānitvaṃ adambhitvaṃ kṛtasya aparikīrtanam |
api dīpāvalokaṃ me na upayuñjyāt niveditam || 40||
yat yat iṣṭatamaṃ loke yat ca atipriyaṃ ātmanaḥ |
tat tat nivedayet mahyaṃ tat ānantyāya kalpate || 41||
sūryaḥ agniḥ brāhmaṇaḥ gāvaḥ vaiṣṇavaḥ khaṃ marut jalam |
bhūḥ ātmā sarvabhūtāni bhadra pūjāpadāni me || 42||
sūrye tu vidyayā trayyā haviṣāgnau yajeta mām |
ātithyena tu viprāgryaḥ goṣvaṅga yavasādinā || 43||
vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā |
vāyau mukhyadhiyā toye dravyaiḥ toyapuraskṛtaiḥ || 44||
sthaṇḍile mantrahṛdayaiḥ bhogaiḥ ātmānaṃ ātmani |
kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām || 45||
dhiṣṇyeṣu eṣu iti madrūpaṃ śaṅkhacakragadāmbujaiḥ |
yuktaṃ caturbhujaṃ śāntaṃ dhyāyan arcet samāhitaḥ || 46||
iṣṭāpūrtena māṃ evaṃ yaḥ yajeta samāhitaḥ |
labhate mayi sadbhaktiṃ matsmṛtiḥ sādhusevayā || 47||
prāyeṇa bhaktiyogena satsaṅgena vinā uddhava |
na upāyaḥ vidyate sadhryaṅ prāyaṇaṃ hi satāṃ aham || 48||
atha etat paramaṃ guhyaṃ śruṇvataḥ yadunandana |
sugopyaṃ api vakṣyāmi tvaṃ me bhṛtyaḥ suhṛt sakhā || 49||
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ
saṃhitāyāmekādaśaskandhe śrīkṛṣṇoddhavasaṃvāde
ekādaśapūjāvidhānayogo nāma ekādaśo'dhyāyaḥ || 11||
atha dvādaśo'dhyāyaḥ |
śrībhagavān uvāca |
na rodhayati māṃ yogaḥ na ssāṅkhyaṃ dharmaḥ eva ca |
na svādhyāyaḥ tapaḥ tyāgaḥ na iṣṭāpūrtaṃ na dakṣiṇā || 1||
vratāni yajñaḥ chandāṃsi tīrthāni niyamāḥ yamāḥ |
yathā avarundhe satsaṅgaḥ sarvasaṅga apahaḥ hi mām || 2||
satsaṅgena hi daiteyā yātudhānaḥ mṛgāḥ khagāḥ |
gandharva apsarasaḥ nāgāḥ siddhāḥ cāraṇaguhyakāḥ || 3||
vidyādharāḥ manuṣyeṣu vaiśyāḥ śūdrāḥ striyaḥ antyajāḥ |
rajaḥ tamaḥ prakṛtayaḥ tasmin tasmin yuge anagha || 4||
bahavaḥ matpadaṃ prāptāḥ tvāṣṭrakāyādhavādayaḥ |
vṛṣaparvā baliḥ vāṇaḥ mayaḥ ca atha vibhīṣaṇaḥ || 5||
sugrīvaḥ hanumān ṛkṣaḥ gajaḥ gṛdhraḥ vaṇikpathaḥ |
vyādhaḥ kubjā vraje gopyaḥ yajñapatnyaḥ tathā apare || 6||
te na adhitaśrutigaṇāḥ na upāsitamahattamāḥ |
avratātaptatapasaḥ matsaṅgāt māṃ upāgatāḥ || 7||
kevalena hi bhāvena gopyaḥ gāvaḥ nagāḥ mṛgāḥ |
ye anye mūḍhadhiyaḥ nāgāḥ siddhāḥ māṃ īyuḥ añjasā || 8||
yaṃ na yogena sāṅkhyena dānavratatapaḥ adhvaraiḥ |
vyākhyāḥ svādhyāyasannyāsaiḥ prāpnuyāt yatnavān api || 9||
rāmeṇa sārdhaṃ mathurāṃ praṇīte
śvāphalkinā mayi anuraktacittāḥ |
vigāḍhabhāvena na me viyoga
tīvrādhayaḥ anyaṃ dadṛśuḥ sukhāya || 10||
tāḥ tāḥ kṣapāḥ preṣṭhatamena nītāḥ
mayā eva vṛndāvanagocareṇa |
kṣaṇārdhavat tāḥ punaraṅga tāsāṃ
hīnā māyā kalpasamā babhūvuḥ || 11||
tāḥ na avidan mayi anuṣaṅgabaddha
dhiyaḥ svamātmānaṃ adaḥ tathā idam |
yathā samādhau munayaḥ abdhitoye
nadyaḥ praviṣṭāḥ iva nāmarūpe || 12||
matkāmā ramaṇaṃ jāraṃ asvarūpavidaḥ abalāḥ |
brahma māṃ paramaṃ prāpuḥ saṅgāt śatasahasraśaḥ || 13||
tasmāt tvaṃ uddhava utsṛjya codanāṃ praticodanām |
pravṛttaṃ ca nivṛttaṃ ca śrotavyaṃ śrutaṃ eva ca || 14||
māṃ ekaṃ eva śaraṇaṃ ātmānaṃ sarvadehinām |
yāhi sarvātmabhāvena mayā syāḥ hi akutobhayaḥ || 15||
uddhavaḥ uvāca |
saṃśayaḥ śruṇvataḥ vācaṃ tava yogeśvara īśvara |
na nivartataḥ ātmasthaḥ yena bhrāmyati me manaḥ || 16||
śrībhagavān uvāca |
saḥ eṣa jīvaḥ vivaraprasūtiḥ
prāṇena ghoṣeṇa guhāṃ praviṣṭaḥ |
manomayaṃ sūkṣmaṃ upetya rūpaṃ
mātrā svaraḥ varṇaḥ iti sthaviṣṭhaḥ || 17||
yathā analaḥ khe anilabandhuḥ ūṣmā
balena dāruṇyadhimathyamānaḥ |
aṇuḥ prajātaḥ haviṣā samidhyate
tathā eva me vyaktiḥ iyaṃ hi vāṇī || 18||
evaṃ gadiḥ karmagatiḥ visargaḥ
ghrāṇaḥ rasaḥ dṛk sparśaḥ śrutiḥ ca |
saṅkalpavijñānaṃ atha abhimānaḥ
sūtraṃ rajaḥ sattvatamovikāraḥ || 19||
ayaṃ hi jīvaḥ trivṛt abjayoniḥ
avyaktaḥ ekaḥ vayasā saḥ ādyaḥ |
viśliṣṭaśaktiḥ bahudhā eva bhāti
bījāni yoniṃ pratipadya yadvat || 20||
yasmin idaṃ protaṃ aśeṣaṃ otaṃ
paṭaḥ yathā tantuvitānasaṃsthaḥ |
yaḥ eṣa saṃsārataruḥ purāṇaḥ
karmātmakaḥ puṣpaphale prasūte || 21||
dve asya bīje śatamūlaḥ trinālaḥ
pañcaskandhaḥ pañcarasaprasūtiḥ |
daśa ekaśākhaḥ dvisuparṇanīḍaḥ
trivalkalaḥ dviphalaḥ arkaṃ praviṣṭaḥ || 22||
adanti ca ekaṃ phalaṃ asya gṛdhrā
grāmecarāḥ ekaṃ araṇyavāsāḥ |
haṃsāḥ yaḥ ekaṃ bahurūpaṃ ijyaiḥ
māyāmayaṃ veda saḥ veda vedam || 23||
evaṃ guru upāsanayā ekabhaktyā
vidyākuṭhāreṇa śitena dhīraḥ |
vivṛścya jīvāśayaṃ apramattaḥ
sampadya ca ātmānaṃ atha tyaja astram || 24||

dvādaśo'dhyāyaḥ || 12||
atha trayodaśo'dhyāyaḥ |
śrībhagavān uvāca |
sattvaṃ rajaḥ tamaḥ iti guṇāḥ buddheḥ na ca ātmanaḥ |
sattvena anyatamau hanyāt sattvaṃ sattvena ca eva hi || 1||
sattvāt dharmaḥ bhavet vṛddhāt puṃsaḥ madbhaktilakṣaṇaḥ |
sātvika upāsayā sattvaṃ tataḥ dharmaḥ pravartate || 2||
dharmaḥ rajaḥ tamaḥ hanyāt sattvavṛddhiḥ anuttamaḥ |
āśu naśyati tat mūlaḥ hi adharmaḥ ubhaye hate || 3||
āgamaḥ apaḥ prajā deśaḥ kālaḥ karma ca janma ca |
dhyānaṃ mantraḥ atha saṃskāraḥ daśa ete guṇahetavaḥ || 4||
tat tat sātvikaṃ eva eṣāṃ yat yat vṛddhāḥ pracakṣate |
nindanti tāmasaṃ tat tat rājasaṃ tat upekṣitam || 5||
sāttvikāni eva seveta pumān sattvavivṛddhaye |
tataḥ dharmaḥ tataḥ jñānaṃ yāvat smṛtiḥ apohanam || 6||
veṇusaṅgharṣajaḥ vahniḥ dagdhvā śāmyati tat vanam |
evaṃ guṇavyatyayajaḥ dehaḥ śāmyati tat kriyaḥ || 7||
uddhavaḥ uvāca |
vidanti martyāḥ prāyeṇa viṣayān padaṃ āpadām |
tathā api bhuñjate kṛṣṇa tat kathaṃ śva khara ajāvat || 8||
śrībhagavān uvāca |
ahaṃ iti anyathābuddhiḥ pramattasya yathā hṛdi |
utsarpati rajaḥ ghoraṃ tataḥ vaikārikaṃ manaḥ || 9||
rajoyuktasya manasaḥ saṅkalpaḥ savikalpakaḥ |
tataḥ kāmaḥ guṇadhyānāt duḥsahaḥ syāt hi durmateḥ || 10||
karoti kāmavaśagaḥ karmāṇi avijitendriyaḥ |
duḥkhodarkāṇi sampaśyan rajovegavimohitaḥ || 11|
rajaḥ tamobhyāṃ yat api vidvān vikṣiptadhīḥ punaḥ |
atandritaḥ manaḥ yuñjan doṣadṛṣṭiḥ na sajjate || 12||
apramattaḥ anuyuñjītaḥ manaḥ mayi arpayan śanaiḥ |
anirviṇṇaḥ yathākālaṃ jitaśvāsaḥ jitāsanaḥ || 13||
etāvān yogaḥ ādiṣṭaḥ mat śiṣyaiḥ sanaka ādibhiḥ |
sarvataḥ manaḥ ākṛṣya mayyaddhā āveśyate yathā || 14||
uddhavaḥ uvāca |
yadā tvaṃ sanaka ādibhyaḥ yena rūpeṇa keśava |
yogaṃ ādiṣṭavān etat rūpaṃ icchāmi veditum || 15||
śrībhagavān uvāca |
putrāḥ hiraṇyagarbhasya mānasāḥ sanaka ādayaḥ |
papracchuḥ pitaraṃ sūkṣmāṃ yogasya aikāntikīṃ gatim ||
16||
sanaka ādayaḥ ūcuḥ |
guṇeṣu āviśate cetaḥ guṇāḥ cetasi ca prabho |
kathaṃ anyonyasantyāgaḥ mumukṣoḥ atititīrṣoḥ || 17||
śrībhagavān uvāca |
evaṃ pṛṣṭaḥ mahādevaḥ svayambhūḥ bhūtabhāvanaḥ |
dhyāyamānaḥ praśnabījaṃ na abhyapadyata karmadhīḥ || 18||
saḥ māṃ acintayat devaḥ praśnapāratitīrṣayā |
tasya ahaṃ haṃsarūpeṇa sakāśaṃ agamaṃ tadā || 19||
dṛṣṭvā māṃ ta upavrajya kṛtvā pāda abhivandanam |
brahmāṇaṃ agrataḥ kṛtvā papracchuḥ kaḥ bhavān iti || 20||
iti ahaṃ munibhiḥ pṛṣṭaḥ tattvajijñāsubhiḥ tadā |
yat avocaṃ ahaṃ tebhyaḥ tat uddhava nibodha me || 21||
vastunaḥ yadi anānātvaṃ ātmanaḥ praśnaḥ īdṛśaḥ |
kathaṃ ghaṭeta vaḥ viprāḥ vaktuḥ vā me kaḥ āśrayaḥ || 22||
pañcātmakeṣu bhūteṣu samāneṣu ca vastutaḥ |
kaḥ bhavān iti vaḥ praśnaḥ vācārambhaḥ hi anarthakaḥ || 23||
manasā vacasā dṛṣṭyā gṛhyate anyaiḥ api indriyaiḥ |
ahaṃ eva na mattaḥ anyat iti budhyadhvaṃ añjasā || 24||
guṇeṣu āviśate cetaḥ guṇāḥ cetasi ca prajāḥ |
jīvasya dehaḥ ubhayaṃ guṇāḥ cetaḥ mat ātmanaḥ || 25||
guṇeṣu ca āviśat cittaṃ abhīkṣṇaṃ guṇasevayā |
guṇāḥ ca cittaprabhavāḥ mat rūpaḥ ubhayaṃ tyajet || 26||
jāgrat svapnaḥ suṣuptaṃ ca guṇataḥ buddhivṛttayaḥ |
tāsāṃ vilakṣaṇaḥ jīvaḥ sākṣitvena viniścitaḥ || 27||
yaḥ hi saṃsṛtibandhaḥ ayaṃ ātmanaḥ guṇavṛttidaḥ |
mayi turye sthitaḥ jahyāt tyāgaḥ tat guṇacetasām || 28||
ahaṅkārakṛtaṃ bandhaṃ ātmanaḥ arthaviparyayam |
vidvān nirvidya saṃsāracintāṃ turye sthitaḥ tyajet || 29||
yāvat nānārthadhīḥ puṃsaḥ na nivarteta yuktibhiḥ |
jāgarti api svapan ajñaḥ svapne jāgaraṇaṃ yathā || 30||
asattvāt ātmanaḥ anyeṣāṃ bhāvānāṃ tat kṛtā bhidā |
gatayaḥ hetavaḥ ca asya mṛṣā svapnadṛśaḥ yathā || 31||
yo jāgare bahiḥ anukṣaṇadharmiṇaḥ arthān
bhuṅkte samastakaraṇaiḥ hṛdi tat sadṛkṣān |
svapne suṣuptaḥ upasaṃharate saḥ ekaḥ
smṛti anvayāt triguṇavṛttidṛk indriya īśaḥ || 32||
evaṃ vimṛśya guṇataḥ manasaḥ tryavasthā
mat māyayā mayi kṛtā iti niścitārthāḥ |
sañchidya hārdaṃ anumānast uktitīkṣṇa
jñānāsinā bhajataḥ mā akhilasaṃśayādhim || 33||
īkṣeta vibhramaṃ idaṃ manasaḥ vilāsam
dṛṣṭaṃ vinaṣṭaṃ atilolaṃ alātacakram |
vijñānaṃ ekaṃ urudhā iva vibhāti māyā
svapnaḥ tridhā guṇavisargakṛtaḥ vikalpaḥ || 34||
dṛṣṭiṃ tataḥ pratinivartya nivṛttatṛṣṇaḥ
tūṣṇīṃ bhavet nijasukha anubhavaḥ nirīhaḥ |
sandṛśyate kva ca yadi idaṃ avastubuddhyā
tyaktaṃ bhramāya na bhavet smṛtiḥ ānipātāt || 35||
dehaṃ ca naśvaraṃ avasthitaṃ utthitaṃ vā
siddhaḥ na paśyati yataḥ adhyagamatsvarūpam |
daivāt apetaṃ uta daivaśāt upetam
vāsaḥ yathā parikṛtaṃ madirāmadāndhaḥ || 36||
dehaḥ api daivavaśagaḥ khalu karma yāvat
svārambhakaṃ pratisamīkṣataḥ eva sāsuḥ |
taṃ aprapañcaṃ adhirūḍhasamādhiyogaḥ
svāpnaṃ punaḥ na bhajate pratibuddhavastuḥ || 37||
mayā etat uktaṃ vaḥ viprāḥ guhyaṃ yat sāṅkhyayogayoḥ |
jānītaṃ āgataṃ yajñaṃ yuṣmat dharmavivakṣayā || 38||
ahaṃ yogasya sāṅkhyasya satyasyartasya tejasaḥ |
parāyaṇaṃ dvijaśreṣṭhāḥ śriyaḥ kīrteḥ damasya ca || 39||
māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam |
suhṛdaṃ priyaṃ ātmānaṃ sāmya asaṅga ādayaḥ guṇāḥ || 40||
iti me chinnasandehāḥ munayaḥ sanaka ādayaḥ |
sabhājayitvā parayā bhaktyā agṛṇata saṃstavaiḥ || 41||
taiḥ ahaṃ pūjitaḥ samyak saṃstutaḥ parama ṛṣibhiḥ |
pratyeyāya svakaṃ dhāma paśyataḥ parameṣṭhinaḥ || 42||

haṃsagītānirūpaṇaṃ nāma trayodaśo'dhyāyaḥ || 13||
atha caturdaśo'dhyāyaḥ |
uddhavaḥ uvāca |
vadanti kṛṣṇa śreyāṃsi bahūni brahmavādinaḥ |
teṣāṃ vikalpaprādhānyaṃ uta aho ekamukhyatā || 1||
bhavat udāhṛtaḥ svāmin bhaktiyogaḥ anapekṣitaḥ |
nirasya sarvataḥ saṅgaṃ yena tvayi āviśet manaḥ || 2||
śrībhagavān uvāca |
kālena naṣṭā pralaye vāṇīyaṃ vedasañjñitā |
mayā ādau brahmaṇe proktā dharmaḥ yasyāṃ madātmakaḥ || 3||
tena proktā ca putrāya manave pūrvajāya sā |
tataḥ bhṛgu ādayaḥ agṛhṇan saptabrahmamaharṣayaḥ || 4||
tebhyaḥ pitṛbhyaḥ tat putrāḥ devadānavaguhyakāḥ |
manuṣyāḥ siddhagandharvāḥ savidyādharacāraṇāḥ || 5||
kindevāḥ kinnarāḥ nāgāḥ rakṣaḥ kimpuruṣa ādayaḥ |
bahvyaḥ teṣāṃ prakṛtayaḥ rajaḥsattvatamobhuvaḥ || 6||
yābhiḥ bhūtāni bhidyante bhūtānāṃ matayaḥ tathā |
yathāprakṛti sarveṣāṃ citrāḥ vācaḥ sravanti hi || 7||
evaṃ prakṛtivaicitryāt bhidyante matayaḥ nṛṇām |
pāramparyeṇa keṣāñcit pākhaṇḍamatayaḥ apare || 8||
manmāyāmohitadhiyaḥ puruṣāḥ puruṣarṣabha |
śreyaḥ vadanti anekāntaṃ yathākarma yathāruci || 9||
dharmaṃ eke yaśaḥ ca anye kāmaṃ satyaṃ damaṃ śamam |
anye vadanti svārthaṃ vā aiśvaryaṃ tyāgabhojanam |
kecit yajñatapodānaṃ vratāni niyama anyamān || 10||
ādi antavantaḥ eva eṣāṃ lokāḥ karmavinirmitāḥ |
duḥkha udarkāḥ tamoniṣṭhāḥ kṣudra ānandāḥ śuca arpitāḥ ||
11||
mayi arpita manaḥ sabhya nirapekṣasya sarvataḥ |
mayā ātmanā sukhaṃ yat tat kutaḥ syāt viṣaya ātmanām ||
12||
akiñcanasya dāntasya śāntasya samacetasaḥ |
mayā santuṣṭamanasaḥ sarvāḥ sukhamayāḥ diśaḥ || 13||
na pārameṣṭhyaṃ na mahendradhiṣṇyam
na sārvabhaumaṃ na rasādhipatyam |
na yogasiddhīḥ apunarbhavaṃ vā
mayi arpita ātmā icchati mat vinā anyat || 14||
na tathā me priyatamaḥ ātmayoniḥ na śaṅkaraḥ |
na ca saṅkarṣaṇaḥ na śrīḥ na eva ātmā ca yathā bhavān || 15||
nirapekṣaṃ muniṃ śātaṃ nirvairaṃ samadarśanam |
anuvrajāmi ahaṃ nityaṃ pūyeyeti aṅghrireṇubhiḥ || 16||
niṣkiñcanā mayi anuraktacetasaḥ
śāntāḥ mahāntaḥ akhilajīvavatsalāḥ |
kāmaiḥ anālabdhadhiyaḥ juṣanti yat
tat nairapekṣyaṃ na viduḥ sukhaṃ mama || 17||
bādhyamānaḥ api madbhaktaḥ viṣayaiḥ ajitendriyaḥ |
prāyaḥ pragalbhayā bhaktyā viṣayaiḥ na abhibhūyate || 18||
yathā agniḥ susamṛddha arciḥ karoti edhāṃsi bhasmasāt |
tathā madviṣayā bhaktiḥ uddhava enāṃsi kṛtsnaśaḥ || 19||
na sādhayati māṃ yogaḥ na sāṅkhyaṃ dharmaḥ uddhava |
na svādhyāyaḥ tapaḥ tyāgaḥ yathā bhaktiḥ mama ūrjitā || 20||
bhaktyā ahaṃ ekayā grāhyaḥ śraddhayā ātmā priyaḥ satām |
bhaktiḥ punāti manniṣṭhā śvapākān api sambhavāt || 21||
dharmaḥ satyadayā upetaḥ vidyā vā tapasānvitā |
madbhktyāpetaṃ ātmānaṃ na samyak prapunāti hi || 22||
kathaṃ vinā romaharṣaṃ dravatā cetasā vinā |
vinānanda aśrukalayā śudhyet bhaktyā vināśayaḥ || 23||
vāk gadgadā dravate yasya cittam
rudati abhīkṣṇaṃ hasati kvacit ca |
vilajjaḥ udgāyati nṛtyate ca
madbhaktiyuktaḥ bhuvanaṃ punāti || 24||
yathā agninā hema malaṃ jahāti
dhmātaṃ punaḥ svaṃ bhajate ca rūpam |
ātmā ca karmānuśayaṃ vidhūya
madbhaktiyogena bhajati athaḥ mām || 25||
yathā yathā ātmā parimṛjyate asau
matpuṇyagāthāśravaṇa abhidhānaiḥ |
tathā tathā paśyati vastu sūkṣmam
cakṣuḥ yathā eva añjanasamprayuktam || 26||
viṣayān dhyāyataḥ cittaṃ viṣayeṣu viṣajjate |
māṃ anusmarataḥ cittaṃ mayi eva pravilīyate || 27||
tasmāt asat abhidhyānaṃ yathā svapnamanoratham |
hitvā mayi samādhatsva manaḥ madbhāvabhāvitam || 28||
strīṇāṃ strīsaṅgināṃ saṅgaṃ tyaktvā dūrataḥ ātmavān |
kṣeme viviktaḥ āsīnaḥ cintayet māṃ atandritaḥ || 29||
na tathā asya bhavet kleśaḥ bandhaḥ ca anyaprasaṅgataḥ |
yoṣit saṅgāt yathā puṃsaḥ yathā tat saṅgisaṅgataḥ || 30||
uddhavaḥ uvāca |
yathā tvāṃ aravindākṣa yādṛśaṃ vā yadātmakam |
dhyāyet mumukṣuḥ etat me dhyānaṃ me vaktuṃ arhasi || 31||
śrībhagavān uvāca |
samaḥ āsanaḥ āsīnaḥ samakāyaḥ yathāsukham |
hastau utsaṅgaḥ ādhāya svanāsāgrakṛta īkṣaṇaḥ || 32||
prāṇasya śodhayet mārgaṃ pūrakumbhakarecakaiḥ |
viparyayeṇa api śanaiḥ abhyaset nirjitendriyaḥ || 33||
hṛdi avicchinnaṃ oṅkāraṃ ghaṇṭānādaṃ bisorṇavat |
prāṇena udīrya tatra atha punaḥ saṃveśayet svaram || 34||
evaṃ praṇavasaṃyuktaṃ prāṇaṃ eva samabhyaset |
daśakṛtvaḥ triṣavaṇaṃ māsāt arvāk jita anilaḥ ||35||
hṛtpuṇḍarīkaṃ antasthaṃ ūrdhvanālaṃ adhomukham |
dhyātvā ūrdhvamukhaṃ unnidraṃ aṣṭapatraṃ sakarṇikam || 36||
karṇikāyāṃ nyaset sūryasomāgnīn uttarottaram |
vahnimadhye smaret rūpaṃ mama etat dhyānamaṅgalam || 37||
samaṃ praśāntaṃ sumukhaṃ dīrghacārucaturbhujam |
sucārusundaragrīvaṃ sukapolaṃ śucismitam || 38||
samāna karṇa vinyasta sphuran makara kuṇḍalam |
hema ambaraṃ ghanaśyāmaṃ śrīvatsa śrīniketanam || 39||
śaṅkha cakra gadā padma vanamālā vibhūṣitam |
nūpuraiḥ vilasat pādaṃ kaustubha prabhayā yutam || 40||
dyumat kirīṭa kaṭaka kaṭisūtra aṅgada ayutam |
sarvāṅga sundaraṃ hṛdyaṃ prasāda sumukha īkṣaṇam || 41||
sukumāraṃ abhidhyāyet sarvāṅgeṣu manaḥ dadhat |
indriyāṇi indriyebhyaḥ manasā ākṛṣya tat manaḥ |
buddhyā sārathinā dhīraḥ praṇayet mayi sarvataḥ || 42||
tat sarva vyāpakaṃ cittaṃ ākṛṣya ekatra dhārayet |
na anyāni cintayet bhūyaḥ susmitaṃ bhāvayet mukham || 43||
tatra labdhapadaṃ cittaṃ ākṛṣya vyomni dhārayet |
tat ca tyaktvā madārohaḥ na kiñcit api cintayet || 44||
evaṃ samāhitamatiḥ māṃ eva ātmānaṃ ātmani |
vicaṣṭe mayi sarvātmat jyotiḥ jyotiṣi saṃyutam || 45||
dhyānena itthaṃ sutīvreṇa yuñjataḥ yoginaḥ manaḥ |
saṃyāsyati āśu nirvāṇaṃ dravya jñāna kriyā bhramaḥ || 46||

bhaktirahasyāvadhāraṇayogo nāma caturdaśo'dhyāyaḥ || 14||
atha pañcadaśo'dhyāyaḥ |
śrībhagavān uvāca |
jitendriyasya yuktasya jitaśvāsasya yoginaḥ
mayi dhārayataḥ cetaḥ upatiṣṭhanti siddhayaḥ || 1||
uddhavaḥ uvāca |
kayā dhāraṇayā kāsvit kathaṃsvit siddhiḥ acyuta |
kati vā siddhayaḥ brūhi yogināṃ siddhidaḥ bhavān || 2||
śrībhagavān uvāca |
siddhayaḥ aṣṭādaśa proktā dhāraṇāyogapāragaiḥ |
tāsāṃ aṣṭau mat pradhānāḥ daśaḥ eva guṇahetavaḥ || 3||
aṇimā mahimā mūrteḥ laghimā prāptiḥ indriyaiḥ |
prākāmyaṃ śrutadṛṣṭeṣu śaktipreraṇaṃ īśitā || 4||
guṇeṣu asaṅgaḥ vaśitā yat kāmaḥ tat avasyati |
etāḥ me siddhayaḥ saumya aṣṭau utpattikāḥ matāḥ || 5||
anūrmimattvaṃ dehe asmin dūraśravaṇadarśanam |
manojavaḥ kāmarūpaṃ parakāyapraveśanam || 6||
svacchandamṛtyuḥ devānāṃ sahakrīḍānudarśanam |
yathāsaṅkalpasaṃsiddhiḥ ājñāpratihatā gatiḥ || 7||
trikālajñatvaṃ advandvaṃ paracittādi abhijñatā |
agni arka ambu viṣa ādīnāṃ pratiṣṭambhaḥ aparājayaḥ || 8||
etāḥ ca uddeśataḥ proktā yogadhāraṇasiddhayaḥ |
yayā dhāraṇayā yā syāt yathā vā syāt nibodha me || 9||
bhūtasūkṣma ātmani mayi tanmātraṃ dhārayet manaḥ |
aṇimānaṃ avāpnoti tanmātra upāsakaḥ mama || 10||
mahati ātman mayi pare yathāsaṃsthaṃ manaḥ dadhat |
mahimānaṃ avāpnoti bhūtānāṃ ca pṛthak pṛthak || 11||
paramāṇumaye cittaṃ bhūtānāṃ mayi rañjayan |
kālasūkṣmātmatāṃ yogī laghimānaṃ avāpnuyāt || 12||
dhārayan mayi ahantattve manaḥ vaikārike akhilam |
sarvendriyāṇāṃ ātmatvaṃ prāptiṃ prāpnoti manmanāḥ || 13||
mahati ātmani yaḥ sūtre dhārayet mayi mānasam |
prākāmyaṃ pārameṣṭhyaṃ me vindate avyaktajanmanaḥ || 14||
viṣṇau tryadhi īśvare cittaṃ dhārayet kālavigrahe |
saḥ īśitvaṃ avāpnoti kṣetrakṣetrajñacodanām || 15||
nārāyaṇe turīyākhye bhagavat śabdaśabdite |
manaḥ mayi ādadhat yogī mat dharmāḥ vahitāṃ iyāt || 16||
nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ |
paramānandaṃ āpnoti yatra kāmaḥ avasīyate || 17||
śvetadīpapatau cittaṃ śuddhe dharmamaye mayi |
dhārayan śvetatāṃ yāti ṣaḍūrmirahitaḥ naraḥ || 18||
mayi ākāśa ātmani prāṇe manasā ghoṣaṃ udvahan |
tatra upalabdhā bhūtānāṃ haṃsaḥ vācaḥ śruṇoti asau || 19||
cakṣuḥ tvaṣṭari saṃyojya tvaṣṭāraṃ api cakṣuṣi |
māṃ tatra manasā dhyāyan viśvaṃ paśyati sūkṣmadṛk || 20||
manaḥ mayi susaṃyojya dehaṃ tadanu vāyunā |
maddhāraṇa anubhāvena tatra ātmā yatra vai manaḥ || 21||
yadā manaḥ upādāya yat yat rūpaṃ bubhūṣati |
tat tat bhavet manorūpaṃ madyogabalaṃ āśrayaḥ || 22||
parakāyaṃ viśan siddhaḥ ātmānaṃ tatra bhāvayet |
piṇḍaṃ hitvā viśet prāṇaḥ vāyubhūtaḥ ṣaḍaṅghrivat || 23||
pārṣṇyā āpīḍya gudaṃ prāṇaṃ hṛt uraḥ kaṇṭha mūrdhasu |
āropya brahmarandhreṇa brahma nītvā utsṛjet tanum || 24||
vihariṣyan surākrīḍe matsthaṃ sattvaṃ vibhāvayet |
vimānena upatiṣṭhanti sattvavṛttīḥ surastriyaḥ || 25||
yathā saṅkalpayet buddhyā yadā vā matparaḥ pumān |
mayi satye manaḥ yuñjan tathā tat samupāśnute || 26||
yaḥ vai madbhāvaṃ āpannaḥ īśituḥ vaśituḥ pumān |
kutaścit na vihanyeta tasya ca ājñā yathā mama || 27||
madbhaktyā śuddhasattvasya yoginaḥ dhāraṇāvidaḥ |
tasya traikālikī buddhiḥ janma mṛtyu upabṛṃhitā || 28||
agni ādibhiḥ na hanyeta muneḥ yogaṃ ayaṃ vapuḥ |
madyogaśrāntacittasya yādasāṃ udakaṃ yathā || 29||
madvibhūtiḥ abhidhyāyan śrīvatsa astrabibhūṣitāḥ |
dhvajātapatravyajanaiḥ saḥ bhavet aparājitaḥ || 30||
upāsakasya māṃ evaṃ yogadhāraṇayā muneḥ |
siddhayaḥ pūrvakathitāḥ upatiṣṭhanti aśeṣataḥ || 31||
jitendriyasya dāntasya jitaśvāsa ātmanaḥ muneḥ |
maddhāraṇāṃ dhārayataḥ kā sā siddhiḥ sudurlabhā || 32||
antarāyān vadanti etāḥ yuñjataḥ yogaṃ uttamam |
mayā sampadyamānasya kālakṣepaṇahetavaḥ || 33||
janma oṣadhi tapo mantraiḥ yāvatīḥ iha siddhayaḥ |
yogena āpnoti tāḥ sarvāḥ na anyaiḥ yogagatiṃ vrajet || 34||
sarvāsāṃ api siddhīnāṃ hetuḥ patiḥ ahaṃ prabhuḥ |
ahaṃ yogasya sāṅkhyasya dharmasya brahmavādinām || 35||
ahaṃ ātmā antaraḥ bāhyaḥ anāvṛtaḥ sarvadehinām |
yathā bhūtāni bhūteṣu bahiḥ antaḥ svayaṃ tathā || 36||

siddhanirūpaṇayogo nāma pañcadaśo'dhyāyaḥ || 15||
atha ṣoḍaśo'dhyāyaḥ |
uddhavaḥ uvāca |
tvaṃ brahma paramaṃ sākṣāt anādi anantaṃ apāvṛtam |
sarveṣāṃ api bhāvānāṃ trāṇasthiti apyaya udbhavaḥ || 1||
uccāvaceṣu bhūteṣu durjñeyaṃ akṛta ātmabhiḥ |
upāsate tvāṃ bhagavan yāthātathyena brāhmaṇāḥ || 2||
yeṣu yeṣu ca bhāveṣu bhaktyā tvāṃ paramarṣayaḥ |
upāsīnāḥ prapadyante saṃsiddhiṃ tat vadasva me || 3||
gūḍhaḥ carasi bhūtātmā bhūtānāṃ bhūtabhāvana |
na tvāṃ paśyanti bhūtāni paśyantaṃ mohitāni te || 4||
yāḥ kāḥ ca bhūmau divi vai rasāyām
vibhūtayaḥ dikṣu mahāvibhūte |
tāḥ mahyaṃ ākhyāhi anubhāvitāḥ te
namāmi te tīrtha pada aṅghripadmam || 5||
śrībhagavān uvāca |
evaṃ etat ahaṃ pṛṣṭaḥ praśnaṃ praśnavidāṃ vara |
yuyutsunā vinaśane sapatnaiḥ arjunena vai || 6||
jñātvā jñātivadhaṃ garhyaṃ adharmaṃ rājyahetukam |
tataḥ nivṛttaḥ hantā ahaṃ hataḥ ayaṃ iti laukikaḥ || 7||
saḥ tadā puruṣavyāghraḥ yuktyā me pratibodhitaḥ |
abhyabhāṣata māṃ evaṃ yathā tvaṃ raṇamūrdhani || 8||
ahaṃ ātmā uddhava āmīṣāṃ bhūtānāṃ suhṛt īśvaraḥ |
ahaṃ sarvāṇi bhūtāni teṣāṃ sthiti udbhava apyayaḥ || 9||
ahaṃ gatiḥ gatimatāṃ kālaḥ kalayatāṃ aham |
guṇānāṃ ca api ahaṃ sāmyaṃ guṇinyā utpattikaḥ guṇaḥ || 10||
guṇināṃ api ahaṃ sūtraṃ mahatāṃ ca mahān aham |
sūkṣmāṇāṃ api ahaṃ jīvaḥ durjayānāṃ ahaṃ manaḥ || 11||
hiraṇyagarbhaḥ vedānāṃ mantrāṇāṃ praṇavaḥ trivṛt |
akṣarāṇāṃ akāraḥ asmi padāni chandasāṃ aham || 12||
indraḥ ahaṃ sarvadevānāṃ vasūnāmasmi havyavāṭ |
ādityānāṃ ahaṃ viṣṇū rudrāṇāṃ nīlalohitaḥ || 13||
brahmarṣīṇāṃ bhṛguḥ ahaṃ rājarṣīṇāṃ ahaṃ manuḥ |
devarṣiṇāṃ nāradaḥ ahaṃ havirdhāni asmi dhenuṣu || 14||
siddheśvarāṇāṃ kapilaḥ suparṇaḥ ahaṃ patatriṇām |
prajāpatīnāṃ dakṣaḥ ahaṃ pitṝṇāṃ ahaṃ aryamā || 15||
māṃ viddhi uddhava daityānāṃ prahlādaṃ asureśvaram |
somaṃ nakṣatra oṣadhīnāṃ dhaneśaṃ yakṣarakṣasām || 16||
airāvataṃ gajendrāṇāṃ yādasāṃ varuṇaṃ prabhum |
tapatāṃ dyumatāṃ sūryaṃ manuṣyāṇāṃ ca bhūpatim || 17||
uccaiḥśravāḥ turaṅgāṇāṃ dhātūnāṃ asmi kāñcanam |
yamaḥ saṃyamatāṃ ca ahaṃ sarpāṇāṃ asmi vāsukiḥ || 18||
nāgendrāṇāṃ anantaḥ ahaṃ mṛgendraḥ śaṛṅgidaṃṣṭriṇām |
āśramāṇāṃ ahaṃ turyaḥ varṇānāṃ prathamaḥ anagha || 19||
tīrthānāṃ srotasāṃ gaṅgā samudraḥ sarasāṃ aham |
āyudhānāṃ dhanuḥ ahaṃ tripuraghnaḥ dhanuṣmatām || 20||
dhiṣṇyānāṃ asmi ahaṃ meruḥ gahanānāṃ himālayaḥ |
vanaspatīnāṃ aśvatthaḥ oṣadhīnāṃ ahaṃ yavaḥ || 21||
purodhasāṃ vasiṣṭhaḥ ahaṃ brahmiṣṭhānāṃ bṛhaspatiḥ |
skandaḥ ahaṃ sarvasenānyāṃ agraṇyāṃ bhagavān ajaḥ || 22||
yajñānāṃ brahmayajñaḥ ahaṃ vratānāṃ avihiṃsanam |
vāyu agni arka ambu vāk ātmā śucīnāṃ api ahaṃ śuciḥ || 23||
yogānāṃ ātmasaṃrodhaḥ mantraḥ asmi vijigīṣatām |
ānvīkṣikī kauśalānāṃ vikalpaḥ khyātivādinām || 24||
strīṇāṃ tu śatarūpā ahaṃ puṃsāṃ svāyambhuvaḥ manuḥ |
nārāyaṇaḥ munīnāṃ ca kumāraḥ brahmacāriṇām || 25||
dharmāṇāṃ asmi sannyāsaḥ kṣemāṇāṃ abahiḥ matiḥ |
guhyānāṃ sūnṛtaṃ maunaṃ mithunānāṃ ajaḥ tu aham || 26||
saṃvatsaraḥ asmi animiṣāṃ ṛtūnāṃ madhumādhavau |
māsānāṃ mārgaśīrṣaḥ ahaṃ nakṣatrāṇāṃ tathā abhijit || 27||
ahaṃ yugānāṃ ca kṛtaṃ dhīrāṇāṃ devalaḥ asitaḥ |
dvaipāyanaḥ asmi vyāsānāṃ kavīnāṃ kāvyaḥ ātmavān || 28||
vāsudevaḥ bhagavatāṃ tvaṃ bhāgavateṣu aham |
kimpuruṣāṇāṃ hanumān vidyāghrāṇāṃ sudarśanaḥ || 29||
ratnānāṃ padmarāgaḥ asmi padmakośaḥ supeśasām |
kuśaḥ asmi darbhajātīnāṃ gavyaṃ ājyaṃ haviṣṣu aham ||
30||
vyavasāyināṃ ahaṃ lakṣmīḥ kitavānāṃ chalagrahaḥ |
titikṣā asmi titikṣaṇāṃ sattvaṃ sattvavatāṃ aham || 31||
ojaḥ sahobalavatāṃ karma ahaṃ viddhi sāttvatām |
sāttvatāṃ navamūrtīnāṃ ādimūrtiḥ ahaṃ parā || 32||
viśvāvasuḥ pūrvacittiḥ gandharva apsarasāṃ aham |
bhūdharāṇāṃ ahaṃ sthairyaṃ gandhamātraṃ ahaṃ bhuvaḥ || 33||
apāṃ rasaḥ ca paramaḥ tejiṣṭhānāṃ vibhāvasuḥ |
prabhā sūrya indu tārāṇāṃ śabdaḥ ahaṃ nabhasaḥ paraḥ || 34||
brahmaṇyānāṃ baliḥ ahaṃ virāṇāṃ ahaṃ arjunaḥ |
bhūtānāṃ sthitiḥ utpattiḥ ahaṃ vai pratisaṅkramaḥ || 35||
gati ukti utsarga upādānaṃ ānanda sparśa lakṣaṇam |
āsvāda śruti avaghrāṇaṃ ahaṃ sarvendriya indriyam || 36||
pṛthivī vāyuḥ ākāśaḥ āpaḥ jyotiḥ ahaṃ mahān |
vikāraḥ puruṣaḥ avyaktaṃ rajaḥ sattvaṃ tamaḥ param |
ahaṃ etat prasaṅkhyānaṃ jñānaṃ sattvaviniścayaḥ || 37||
mayā īśvareṇa jīvena guṇena guṇinā vinā |
sarvātmanā api sarveṇa na bhāvaḥ vidyate kvacit || 38||
saṅkhyānaṃ paramāṇūnāṃ kālena kriyate mayā |
na tathā me vibhūtīnāṃ sṛjataḥ aṇḍāni koṭiśaḥ || 39||
tejaḥ śrīḥ kīrtiḥ aiśvaryaṃ hrīḥ tyāgaḥ saubhagaṃ bhagaḥ |
vīryaṃ titikṣā vijñānaṃ yatra yatra sa me aṃśakaḥ || 40||
etāḥ te kīrtitāḥ sarvāḥ saṅkṣepeṇa vibhūtayaḥ |
manovikārāḥ eva ete yathā vācā abhidhīyate || 41||
vācaṃ yaccha manaḥ yaccha prāṇāni yaccha indriyāṇi ca |
ātmānaṃ ātmanā yaccha na bhūyaḥ kalpase adhvane || 42||
yaḥ vai vāk manasi samyak asaṃyacchan dhiyā yatiḥ |
tasya vrataṃ tapaḥ dānaṃ sravatyāmaghaṭāmbuvat || 43||
tasmāt manaḥ vacaḥ prāṇān niyacchet mat parāyaṇaḥ |
mat bhakti yuktayā buddhyā tataḥ parisamāpyate || 44||

vibhūtiyogo nāma ṣoḍaśo'dhyāyaḥ || 16||
atha saptadaśo'dhyāyaḥ |
uddhavaḥ uvāca |
yaḥ tvayā abhitaḥ pūrvaṃ dharmaḥ tvat bhaktilakṣaṇaḥ |
varṇāśrama ācāravatāṃ sarveṣāṃ dvipadāṃ api || 1||
yathā anuṣṭhīyamānena tvayi bhaktiḥ nṛṇāṃ bhavet |
svadharmeṇa aravindākṣa tat samākhyātuṃ arhasi || 2||
purā kila mahābāho dharmaṃ paramakaṃ prabho |
yat tena haṃsarūpeṇa brahmaṇe abhyāttha mādhava || 3||
saḥ idānīṃ sumahatā kālena amitrakarśana |
na prāyaḥ bhavitā martyaloke prāk anuśāsitaḥ || 4||
vaktā kartā avitā na anyaḥ dharmasya acyuta te bhuvi |
sabhāyāṃ api vairiñcyāṃ yatra mūrtidharāḥ kalāḥ || 5||
kartrā avitrā pravaktrā ca bhavatā madhusūdana |
tyakte mahītale deva vinaṣṭaṃ kaḥ pravakṣyati || 6||
tattvaṃ naḥ sarvadharmajña dharmaḥ tvat bhaktilakṣaṇaḥ |
yathā yasya vidhīyeta tathā varṇaya me prabho || 7||
śrīśukaḥ uvāca |
itthaṃ svabhṛtyamukhyena pṛṣṭaḥ saḥ bhagavān hariḥ |
prītaḥ kṣemāya martyānāṃ dharmān āha sanātanān || 8||
śrībhagavān uvāca |
dharmyaḥ eṣa tava praśnaḥ naiḥśreyasakaraḥ nṛṇām |
varṇāśrama ācāravatāṃ taṃ uddhava nibodha me || 9||
ādau kṛtayuge varṇaḥ nṛṇāṃ haṃsaḥ iti smṛtaḥ |
kṛtakṛtyāḥ prajāḥ jātyāḥ tasmāt kṛtayugaṃ viduḥ || 10||
vedaḥ praṇavaḥ eva agre dharmaḥ ahaṃ vṛṣarūpadhṛk |
upāsate taponiṣṭhāṃ haṃsaṃ māṃ muktakilbiṣāḥ || 11||
tretāmukhe mahābhāga prāṇāt me hṛdayāt trayī |
vidyā prāduḥ abhūt tasyāḥ ahaṃ āsaṃ trivṛnmakhaḥ || 12||
vipra kṣatriya viṭ śūdrāḥ mukha bāhu uru pādajāḥ |
vairājāt puruṣāt jātāḥ yaḥ ātmācāralakṣaṇāḥ || 13||
gṛhāśramaḥ jaghanataḥ brahmacaryaṃ hṛdaḥ mama |
vakṣaḥsthānāt vane vāsaḥ nyāsaḥ śīrṣaṇi saṃsthitaḥ || 14||
varṇānāṃ āśramāṇāṃ ca janmabhūmi anusāriṇīḥ |
āsan prakṛtayaḥ nṝṇāṃ nīcaiḥ nīca uttama uttamāḥ || 15||
śamaḥ damaḥ tapaḥ śaucaṃ santoṣaḥ kṣāntiḥ ārjavam |
madbhaktiḥ ca dayā satyaṃ brahmaprakṛtayaḥ tu imāḥ || 16||
tejaḥ balaṃ dhṛtiḥ śauryaṃ titikṣā audāryaṃ udyamaḥ |
sthairyaṃ brahmaṇi ata aiśvaryaṃ kṣatraprakṛtayaḥ tu imāḥ ||
17||
āstikyaṃ dānaniṣṭhā ca adambhaḥ brahmasevanam |
atuṣṭiḥ artha upacayaiḥ vaiśyaprakṛtayaḥ tu imāḥ || 18||
śuśrūṣaṇaṃ dvijagavāṃ devānāṃ ca api amāyayā |
tatra labdhena santoṣaḥ śūdraprakṛtayaḥ tu imāḥ || 19||
aśaucaṃ anṛtaṃ steyaṃ nāstikyaṃ śuṣkavigrahaḥ |
kāmaḥ krodhaḥ ca tarṣaḥ ca svabhāvaḥ antevasāyinām || 20||
ahiṃsā satyaṃ asteyaṃ akāmakrodhalobhatā |
bhūtapriyahitehā ca dharmaḥ ayaṃ sārvavarṇikaḥ || 21||
dvitīyaṃ prāpya anupūrvyāt janma upanayanaṃ dvijaḥ |
vasan gurukule dāntaḥ brahma adhīyīta ca āhutaḥ || 22||
mekhalā ajina daṇḍa akṣa brahmasūtra kamaṇḍalūn |
jaṭilaḥ adhautadadvāsaḥ araktapīṭhaḥ kuśān dadhat || 23||
snāna bhojana homeṣu japa uccāre ca vāgyataḥ |
na cchindyāt nakha romāṇi kakṣa upasthagatāni api || 24||
retaḥ na avariket jātu brahmavratadharaḥ svayam |
avakīrṇe avagāhya apsu yatāsuḥ tripadīṃ japet || 25||
agni arka ācārya go vipra guru vṛddha surān śuciḥ |
samāhitaḥ upāsīta sandhye ca yatavāk japan || 26||
ācāryaṃ māṃ vijānīyāt na avamanyeta karhicit |
na martyabuddhi āsūyeta sarvadevamayaḥ guruḥ || 27||
sāyaṃ prātaḥ upānīya bhaikṣyaṃ tasmai nivedayet |
yat ca anyat api anujñātaṃ upayuñjīta saṃyataḥ || 28||
śuśrūṣamāṇaḥ ācāryaṃ sadā upāsīta nīcavat |
yāna śayyā āsana sthānaiḥ na atidūre kṛtāñjaliḥ || 29||
evaṃvṛttaḥ gurukule vaset bhogavivarjitaḥ |
vidyā samāpyate yāvat bibhrat vrataṃ akhaṇḍitam || 30||
yadi asau chandasāṃ lokaṃ ārokṣyan brahmaviṣṭapam |
gurave vinyaset dehaṃ svādhyāyārthaṃ vṛhat vrataḥ || 31||
agnau gurau ātmani ca sarvabhūteṣu māṃ param |
apṛthak dhīḥ upāsīta brahmavarcasvī akalmaṣaḥ || 32||
strīṇāṃ nirīkṣaṇa sparśa saṃlāpa kṣvelana ādikam |
prāṇinaḥ mithunībhūtān agṛhasthaḥ agrataḥ tyajet || 33||
śaucaṃ ācamanaṃ snānaṃ sandhyā upāsanaṃ ārjavam |
tīrthasevā japaḥ aspṛśya abhakṣya asambhāṣya varjanam ||
34||
sarva āśrama prayuktaḥ ayaṃ niyamaḥ kulanandana|
madbhāvaḥ sarbabhūteṣu manovākkāya saṃyamaḥ || 35||
evaṃ bṛhat vratadharaḥ brāhmaṇaḥ agniḥ iva jvalan |
madbhaktaḥ tīvratapasā dagdhakarma āśayaḥ amalaḥ || 36||
atha anantaraṃ āvekṣyan yathā jijñāsita āgamaḥ |
gurave dakṣiṇāṃ dattvā snāyat guru anumoditaḥ || 37||
gṛhaṃ vanaṃ vā upaviśet pravrajet vā dvija uttamaḥ |
āśramāt āśramaṃ gacchet na anyathā matparaḥ caret || 38||
gṛhārthī sadṛśīṃ bhāryāṃ udvahet ajugupsitām |
yavīyasīṃ tu vayasā yāṃ savarṇāṃ anukramāt || 39||
ijya adhyayana dānāni sarveṣāṃ ca dvijanmanām |
pratigrahaḥ adhyāpanaṃ ca brāhmaṇasya eva yājanam || 40||
pratigrahaṃ manyamānaḥ tapaḥ tejoyaśonudam |
anyābhyāṃ eva jīveta śilaiḥ vā doṣadṛk tayoḥ || 41||
brāhmaṇasya hi dehaḥ ayaṃ kṣudrakāmāya na iṣyate |
kṛcchrāya tapase ca iha pretya anantasukhāya ca || 42||
śiloñchavṛttyā parituṣṭacittaḥ
dharmaṃ mahāntaṃ virajaṃ juṣāṇaḥ |
mayi arpitātmā gṛhaḥ eva tiṣṭhan
na atiprasaktaḥ samupaiti śāntim || 43||
samuddharanti ye vipraṃ sīdantaṃ matparāyaṇam |
tān uddhariṣye na cirāt āpadbhyaḥ nauḥ iva arṇavāt || 44||
sarvāḥ samuddharet rājā pitā iva vyasanāt prajāḥ |
ātmānaṃ ātmanā dhīraḥ yathā gajapatiḥ gajān || 45||
evaṃvidhaḥ narapatiḥ vimānena arkavacasā |
vidhūya iha aśubhaṃ kṛtsnaṃ indreṇa saha modate || 46||
sīdan vipraḥ vaṇik vṛttyā paṇyaiḥ eva āpadaṃ taret |
khaḍgena vā āpadākrāntaḥ na śvavṛttyā kathañcana || 47||
vaiśyavṛttyā tu rājan yaḥ jīvet mṛgayayā āpadi |
caret vā viprarūpeṇa na śvavṛttyā kathañcana || 48||
śūdravṛttiṃ bhajet vaiśyaḥ śūdraḥ kārukaṭapriyām |
kṛcchrāt muktaḥ na garhyeṇa vṛttiṃ lipseta karmaṇā || 49||
veda adhyāya svadhā svāhā bali anna ādyaiḥ yathā udayam |
devarṣi pitṛbhūtāni madrūpāṇi anvahaṃ yajet || 50||
yadṛcchayā upapannena śuklena upārjitena vā |
dhanena apīḍayan bhṛtyān nyāyena eva āharet kratūn || 51||
kuṭumbeṣu na sajjeta na pramādyet kuṭumbi api |
vipaścit naśvaraṃ paśyet adṛṣṭaṃ api dṛṣṭavat || 52||
putra dārā āpta bandhūnāṃ saṅgamaḥ pānthasaṅgamaḥ |
anudehaṃ viyanti ete svapnaḥ nidrānugaḥ yathā || 53||
itthaṃ parimṛśan muktaḥ gṛheṣu atithivat vasan |
na gṛhaiḥ anubadhyeta nirmamaḥ nirahaṅkṛtaḥ || 54||
karmabhiḥ gṛhaṃ edhīyaiḥ iṣṭvā māṃ eva bhaktimān |
tiṣṭhet vanaṃ vā upaviśet prajāvān vā parivrajet || 55||
yaḥ tu āsaktaṃ atiḥ gehe putra vittaiṣaṇa āturaḥ |
straiṇaḥ kṛpaṇadhīḥ mūḍhaḥ mama ahaṃ iti badhyate || 56||
aho me pitarau vṛddhau bhāryā bālātmajā ātmajāḥ |
anāthāḥ māṃ ṛte dīnāḥ kathaṃ jīvanti duḥkhitāḥ || 57||
evaṃ gṛha āśaya ākṣipta hṛdayaḥ mūḍhadhīḥ ayam |
atṛptaḥ tān anudhyāyan mṛtaḥ andhaṃ viśate tamaḥ || 58||

brahmacaryagṛhasthakarmadharmanirūpaṇe saptadaśo'dhyāyaḥ ||
17||
atha aṣṭādaśo'dhyāyaḥ |
śrībhagavān uvāca |
vanaṃ vivikṣuḥ putreṣu bhāryāṃ nyasya saha eva vā |
vanaḥ eva vaset śāntaḥ tṛtīyaṃ bhāgaṃ āyuṣaḥ || 1||
kandamūlaphalaiḥ vanyaiḥ medhyaiḥ vṛttiṃ prakalpayet |
vasīta valkalaṃ vāsaḥ tṛṇaparṇa ajināni ca || 2||
keśaromanakhaśmaśrumalāni bibhṛyāt ataḥ |
na dhāvet apsu majjeta trikālaṃ sthaṇḍileśayaḥ || 3||
grīṣme tapyeta pañcāgnīn varṣāsvāsāraṣāḍ jale |
ākaṇṭhamagnaḥ śiśiraḥ evaṃvṛttaḥ tapaścaret || 4||
agnipakvaṃ samaśnīyāt kālapakvaṃ atha api vā |
ulūkhala aśmakuṭṭaḥ vā danta ulūkhalaḥ eva vā || 5||
svayaṃ sañcinuyāt sarvaṃ ātmanaḥ vṛttikāraṇam |
deśakālabala abhijñaḥ na ādadīta anyadā āhṛtam || 6||
vanyaiḥ carupuroḍāśaiḥ nirvapet kālacoditān |
na tu śrautena paśunā māṃ yajeta vanāśramī || 7||
agnihotraṃ ca darśaḥ ca pūrṇamāsaḥ ca pūrvavat |
cāturmāsyāni ca muneḥ āmnātāni ca naigamaiḥ || 8||
evaṃ cīrṇena tapasā muniḥ dhamanisantataḥ |
māṃ tapomayaṃ ārādhya ṛṣilokāt upaiti mām || 9||
yaḥ tu etat kṛcchrataḥ cīrṇaṃ tapaḥ niḥśreyasaṃ mahat |
kāmāya alpīyase yuñjyāt vāliśaḥ kaḥ aparaḥ tataḥ || 10||
yadā asau niyame akalpaḥ jarayā jātavepathuḥ |
ātmani agnīn samāropya maccittaḥ agniṃ samāviśet || 11||
yadā karmavipākeṣu lokeṣu niraya ātmasu |
virāgaḥ jāyate samyak nyasta agniḥ pravrajet tataḥ || 12||
iṣṭvā yathā upadeśaṃ māṃ dattvā sarvasvaṃ ṛtvije |
agnīn svaprāṇaḥ āveśya nirapekṣaḥ parivrajet || 13||
viprasya vai sannyasataḥ devāḥ dārādirūpiṇaḥ |
vighnān kurvanti ayaṃ hi asmān ākramya samiyāt param || 14||
bibhṛyāt cet muniḥ vāsaḥ kaupīna ācchādanaṃ param |
tyaktaṃ na daṇḍapātrābhyāṃ anyat kiñcit anāpadi || 15||
dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ pibet jalam |
satyapūtāṃ vadet vācaṃ manaḥpūtaṃ samācaret || 16||
mauna anīhā anila āyāmāḥ daṇḍāḥ vāk deha cetasām |
nahi ete yasya santi aṅgaḥ veṇubhiḥ na bhavet yatiḥ || 17||
bhikṣāṃ catuṣu varṇeṣu vigarhyān varjayan caret |
saptāgārān asaṅklṛptān tuṣyet labdhena tāvatā || 18||
bahiḥ jalāśayaṃ gatvā tatra upaspṛśya vāgyataḥ |
vibhajya pāvitaṃ śeṣaṃ bhuñjīta aśeṣaṃ āhṛtam || 19||
ekaḥ caret mahīṃ etāṃ niḥsaṅgaḥ saṃyatendriyaḥ |
ātmakrīḍaḥ ātmarataḥ ātmavān samadarśanaḥ || 20||
viviktakṣemaśaraṇaḥ madbhāvavimalāśayaḥ |
ātmānaṃ cintayet ekaṃ abhedena mayā muniḥ || 21||
anvīkṣeta ātmanaḥ bandhaṃ mokṣaṃ ca jñānaniṣṭhayā |
bandhaḥ indriyavikṣepaḥ mokṣaḥ eṣāṃ ca saṃyamaḥ || 22||
tasmāt niyamya ṣaḍvargaṃ madbhāvena caret muniḥ |
viraktaḥ kṣullakāmebhyaḥ labdhvā ātmani sukhaṃ mahat || 23||
puragrāmavrajān sārthān bhikṣārthaṃ praviśan caret |
puṇyadeśasarit śailavana āśramavatīṃ mahīm || 24||
vānaprastha āśrama padeṣu abhīkṣṇaṃ bhaikṣyaṃ ācaret |
saṃsidhyatyāśvasammohaḥ śuddhasattvaḥ śilāndhasā || 25||
na etat vastutayā paśyet dṛśyamānaṃ vinaśyati |
asaktacittaḥ viramet iha amutra cikīrṣitāt || 26||
yat etat ātmani jagat manovākprāṇasaṃhatam |
sarvaṃ māyā iti tarkeṇa svasthaḥ tyaktvā na tat smaret || 27||
jñānaniṣṭhaḥ viraktaḥ vā madbhaktaḥ vā anapekṣakaḥ |
saliṅgān āśramāṃ tyaktvā caret avidhigocaraḥ || 28||
budhaḥ bālakavat krīḍet kuśalaḥ jaḍavat caret |
vadet unmattavat vidvān gocaryāṃ naigamaḥ caret || 29||
vedavādarataḥ na syāt na pākhaṇḍī na haitukaḥ |
śuṣkavādavivāde na kañcit pakṣaṃ samāśrayet || 30||
na udvijeta janāt dhīraḥ janaṃ ca udvejayet na tu |
ativādān titikṣeta na avamanyeta kañcana |
dehaṃ uddiśya paśuvat vairaṃ kuryāt na kenacit || 31||
ekaḥ eva paraḥ hi ātmā bhūteṣu ātmani avasthitaḥ |
yathā induḥ udapātreṣu bhūtāni ekātmakāni ca || 32||
alabdhvā na viṣīdeta kāle kāle aśanaṃ kvacit |
labdhvā na hṛṣyet dhṛtiṃ ānubhayaṃ daivatantritam || 33||
āhārārthaṃ samīheta yuktaṃ tat prāṇadhāraṇam |
tattvaṃ vimṛśyate tena tat vijñāya vimucyate || 34||
yat ṛcchayā upapannāt annaṃ adyāt śreṣṭhaṃ uta aparam |
tathā vāsaḥ tathā śayyāṃ prāptaṃ prāptaṃ bhajet muniḥ || 35||
śaucaṃ ācamanaṃ snānaṃ na tu codanayā caret |
anyān ca niyamān jñānī yathā ahaṃ līlayā īśvaraḥ || 36||
nahi tasya vikalpākhyā yā ca madvīkṣayā hatā |
ādehāntāt kvacit khyātiḥ tataḥ sampadyate mayā || 37||
duḥkha udarkeṣu kāmeṣu jātanirvedaḥ ātmavān |
ajijñāsita maddharmaḥ guruṃ muniṃ upāvrajet || 38||
tāvat paricaret bhaktaḥ śraddhāvān anasūyakaḥ |
yāvat brahma vijānīyāt māṃ eva guruṃ ādṛtaḥ || 39||
yaḥ tu asaṃyata ṣaḍvargaḥ pracaṇḍa indriya sārathiḥ |
jñāna vairāgya rahitaḥ tridaṇḍaṃ upajīvati || 40||
surān ātmānaṃ ātmasthaṃ nihnute māṃ ca dharmahā |
avipakva kaṣāyaḥ asmāt uṣmāt ca vihīyate || 41||
bhikṣoḥ dharmaḥ śamaḥ ahiṃsā tapaḥ īkṣā vanaukasaḥ |
gṛhiṇaḥ bhūtarakṣa ijyāḥ dvijasya ācāryasevanam || 42||
brahmacaryaṃ tapaḥ śaucaṃ santoṣaḥ bhūtasauhṛdam |
gṛhasthasya api ṛtau gantuḥ sarveṣāṃ madupāsanam || 43||
iti māṃ yaḥ svadharmeṇa bhajan nityaṃ ananyabhāk |
sarvabhūteṣu madbhāvaḥ madbhaktiṃ vindate acirāt || 44||
bhaktyā uddhava anapāyinyā sarvalokamaheśvaram |
sarva utpatti api ayaṃ brahma kāraṇaṃ mā upayāti saḥ || 45||
iti svadharma nirṇikta sattvaḥ nirjñāt madgatiḥ |
jñāna vijñāna sampannaḥ na cirāt samupaiti mām || 46||
varṇāśramavatāṃ dharmaḥ eṣaḥ ācāralakṣaṇaḥ |
saḥ eva madbhaktiyutaḥ niḥśreyasakaraḥ paraḥ || 47||
etat te abhihitaṃ sādho bhavān pṛcchati yat ca mām |
yathā svadharmasaṃyuktaḥ bhaktaḥ māṃ samiyāt param || 48||

vānaprasthasannyāsadharmanirūpaṇaṃ nāmāṣṭādaśo'dhyāyaḥ || 18||
atha ekonaviṃśaḥ adhyāyaḥ |
śrībhagavān uvāca |
yaḥ vidyāśrutasampannaḥ ātmavān na anumānikaḥ |
māyāmātraṃ idaṃ jñātvā jñānaṃ ca mayi sannyaset || 1||
jñāninaḥ tu ahaṃ eva iṣṭaḥ svārthaḥ hetuḥ ca sammataḥ |
svargaḥ ca eva apavargaḥ ca na anyaḥ arthaḥ madṛte priyaḥ || 2||
jñānavijñānasaṃsiddhāḥ padaṃ śreṣṭhaṃ viduḥ mama |
jñānī priyatamaḥ ataḥ me jñānena asau bibharti mām || 3||
tapaḥ tīrthaṃ japaḥ dānaṃ pavitrāṇi itarāṇi ca |
na alaṃ kurvanti tāṃ siddhiṃ yā jñānakalayā kṛtā || 4||
tasmāt jñānena sahitaṃ jñātvā svātmānaṃ uddhava |
jñānavijñānasampannaḥ bhaja māṃ bhaktibhāvataḥ || 5||
jñānavijñānayajñena māṃ iṣṭvā ātmānaṃ ātmani |
sarvayajñapatiṃ māṃ vai saṃsiddhiṃ munayaḥ agaman|| 6||
tvayi uddhava āśrayati yaḥ trividhaḥ vikāraḥ
māyāntarā āpatati na ādi apavargayoḥ yat |
janmādayaḥ asya yat amī tava tasya kiṃ syuḥ
ādi antayoḥ yat asataḥ asti tat eva madhye || 7||
uddhavaḥ uvāca |
jñānaṃ viśuddhaṃ vipulaṃ yathā etat
vairāgyavijñānayutaṃ purāṇam |
ākhyāhi viśveśvara viśvamūrte
tvat bhaktiyogaṃ ca mahat vimṛgyam || 8||
tāpatrayeṇa abhihatasya ghore
santapyamānasya bhavādhvanīśa |
paśyāmi na anyat śaraṇaṃ tavāṅghri
dvandva ātapatrāt amṛta abhivarṣāt || 9||
daṣṭaṃ janaṃ sampatitaṃ bile asmin
kālāhinā kṣudrasukhoḥ utarṣam |
samuddhara enaṃ kṛpayā apavargyaiḥ
vacobhiḥ āsiñca mahānubhāva || 10||
śrībhagavān uvāca |
itthaṃ etat purā rājā bhīṣmaṃ dharmabhṛtāṃ varam |
ajātaśatruḥ papraccha sarveṣāṃ naḥ anuśruṇvatām || 11||
nivṛtte bhārate yuddhe suhṛt nidhanavihvalaḥ |
śrutvā dharmān bahūn paścāt mokṣadharmān apṛcchata ||
12||
tān ahaṃ te abhidhāsyāmi devavratamukhāt śrutān |
jñānavairāgyavijñānaśraddhābhakti upabṛṃhitān || 13||
nava ekādaśa pañca trīn bhāvān bhūteṣu yena vai |
īkṣeta atha ekaṃ api eṣu tat jñānaṃ mama niścitam || 14||
etat eva hi vijñānaṃ na tathā ekena yena yat |
sthiti utpatti api ayān paśyet bhāvānāṃ triguṇa ātmanām ||
15||
ādau ante ca madhye ca sṛjyāt sṛjyaṃ yat anviyāt |
punaḥ tat pratisaṅkrāme yat śiṣyeta tat eva sat || 16||
śrutiḥ pratyakṣaṃ aitihyaṃ anumānaṃ catuṣṭayam |
pramāṇeṣu anavasthānāt vikalpāt saḥ virajyate || 17||
karmaṇāṃ pariṇāmitvāt āviriñcāt amaṅgalam |
vipaścit naśvaraṃ paśyet adṛṣṭaṃ api dṛṣṭavat || 18||
bhaktiyogaḥ purā eva uktaḥ prīyamāṇāya te anagha |
punaḥ ca kathayiṣyāmi madbhakteḥ kāraṇaṃ param || 19||
śraddhā amṛtakathāyāṃ me śaśvat mat anukīrtanam |
pariniṣṭhā ca pūjāyāṃ stutibhiḥ stavanaṃ mama || 20||
ādaraḥ paricaryāyāṃ sarvāṅgaiḥ abhivandanam |
madbhaktapūjābhyadhikā sarvabhūteṣu manmatiḥ || 21||
madartheṣu aṅgaceṣṭā ca vacasā madguṇeraṇam |
mayyarpaṇaṃ ca manasaḥ sarvakāmavivarjanam || 22||
madarthe artha parityāgaḥ bhogasya ca sukhasya ca |
iṣṭaṃ dattaṃ hutaṃ japtaṃ madarthaṃ yat vrataṃ tapaḥ || 23||
evaṃ dharmaiḥ manuṣyāṇāṃ uddhava ātmanivedinām |
mayi sañjāyate bhaktiḥ kaḥ anyaḥ arthaḥ asya avaśiṣyate || 24||
yadā ātmani arpitaṃ cittaṃ śāntaṃ sattva upabṛṃhitam |
dharmaṃ jñānaṃ savairāgyaṃ aiśvaryaṃ ca abhipadyate || 25||
yat arpitaṃ tat vikalpe indriyaiḥ paridhāvati |
rajasvalaṃ ca āsan niṣṭhaṃ cittaṃ viddhi viparyayam || 26||
dharmaḥ madbhaktikṛt proktaḥ jñānaṃ ca ekātmyadarśanam |
guṇeṣu asaṅgaḥ vairāgyaṃ aiśvaryaṃ ca aṇiṃ ādayaḥ || 27||
uddhavaḥ uvāca |
yamaḥ katividhaḥ proktaḥ niyamaḥ vā arikarśana |
kaḥ śamaḥ kaḥ damaḥ kṛṣṇa kā titikṣā dhṛtiḥ prabho || 28||
kiṃ dānaṃ kiṃ tapaḥ śauryaṃ kiṃ satyaṃ ṛtaṃ ucyate |
kaḥ tyāgaḥ kiṃ dhanaṃ ceṣṭaṃ kaḥ yajñaḥ kā ca dakṣiṇā ||
29||
puṃsaḥ kiṃsvit balaṃ śrīman bhagaḥ lābhaḥ ca keśava |
kā vidyā hrīḥ parā kā śrīḥ kiṃ sukhaṃ duḥkhaṃ eva ca ||
30||
kaḥ paṇḍitaḥ kaḥ ca mūrkhaḥ kaḥ panthāḥ utpathaḥ ca kaḥ |
kaḥ svargaḥ narakaḥ kaḥ svit kaḥ bandhuḥ uta kiṃ gṛham || 31||
kaḥ āḍhyaḥ kaḥ daridraḥ vā kṛpaṇaḥ kaḥ īśvaraḥ |
etān praśnān mama brūhi viparītān ca satpate || 32||
śrībhagavān uvāca |
ahiṃsā satyaṃ asteyaṃ asaṅgaḥ hrīḥ asañcayaḥ |
āstikyaṃ brahmacaryaṃ ca maunaṃ sthairyaṃ kṣamā abhayam ||
33|
śaucaṃ japaḥ tapaḥ homaḥ śraddhā ātithyaṃ mat arcanam |
tīrthāṭanaṃ parārthehā tuṣṭiḥ ācāryasevanam || 34||
ete yamāḥ saniyamāḥ ubhayoḥ dvādaśa smṛtāḥ |
puṃsāṃ upāsitāḥ tāta yathākāmaṃ duhanti hi || 35||
śamaḥ mat niṣṭhatā buddheḥ damaḥ indriyasaṃyamaḥ |
titikṣā duḥkhasammarṣaḥ jihvā upasthajayaḥ dhṛtiḥ || 36||
daṇḍanyāsaḥ paraṃ dānaṃ kāmatyāgaḥ tapaḥ smṛtam |
svabhāvavijayaḥ śauryaṃ satyaṃ ca samadarśanam || 37||
ṛtaṃ ca sūnṛtā vāṇī kavibhiḥ parikīrtitā |
karmasvasaṅgamaḥ śaucaṃ tyāgaḥ sannyāsaḥ ucyate || 38||
dharmaḥ iṣṭaṃ dhanaṃ nṝṇāṃ yajñaḥ ahaṃ bhagavattamaḥ |
dakṣiṇā jñānasandeśaḥ prāṇāyāmaḥ paraṃ balam || 39||
bhagaḥ me aiśvaraḥ bhāvaḥ lābhaḥ madbhaktiḥ uttamaḥ |
vidyā ātmani bhida abādhaḥ jugupsā hrīḥ akarmasu || 40||
śrīḥ guṇāḥ nairapekṣya ādyāḥ sukhaṃ duḥkhasukha atyayaḥ |
duḥkhaṃ kāmasukha apekṣā paṇḍitaḥ bandhamokṣavit || 41||
mūrkhaḥ deha ādi ahaṃ buddhiḥ panthāḥ mat nigamaḥ smṛtaḥ |
utpathaḥ cittavikṣepaḥ svargaḥ sattvaguṇa uadayaḥ || 42||
narakaḥ tamaḥ unnahaḥ bandhuḥ guruḥ ahaṃ sakhe |
gṛhaṃ śarīraṃ mānuṣyaṃ guṇāḍhyaḥ hi āḍhyaḥ ucyate || 43||
daridraḥ yaḥ tu asantuṣṭaḥ kṛpaṇaḥ yaḥ ajitendriyaḥ |
guṇeṣu asaktadhīḥ īśaḥ guṇasaṅgaḥ viparyayaḥ || 44||
etaḥ uddhava te praśnāḥ sarve sādhu nirūpitāḥ |
kiṃ varṇitena bahunā lakṣaṇaṃ guṇadoṣayoḥ |
guṇadoṣa dṛśiḥ doṣaḥ guṇaḥ tu ubhayavarjitaḥ || 45||

saṃhitāyāmekādaśaskandhe bhagavadudhavasaṃvāde
ekonaviṃśo'dhyāyaḥ || 19||
atha viṃśaḥ adhyāyaḥ |
uddhavaḥ uvāca |
vidhiḥ ca pratiṣedhaḥ ca nigamaḥ hi īśvarasya te |
avekṣate aravindākṣa guṇaṃ doṣaṃ ca karmaṇām || 1||
varṇāśrama vikalpaṃ ca pratiloma anulomajam |
dravya deśa vayaḥ kālān svargaṃ narakaṃ eva ca || 2||
guṇa doṣa bhidā dṛṣṭiṃ antareṇa vacaḥ tava |
niḥśreyasaṃ kathaṃ nṝṇāṃ niṣedha vidhi lakṣaṇam || 3||
pitṛdevamanuṣyāṇāṃ vedaḥ cakṣuḥ tava īśvara |
śreyaḥ tu anupalabdhe arthe sādhyasādhanayoḥ api || 4||
guṇadoṣabhidādṛṣṭiḥ nigamāt te na hi svataḥ |
nigamena apavādaḥ ca bhidāyāḥ iti hi bhramaḥ || 5||
śrībhagavān uvāca |
yogāḥ trayaḥ mayā proktā nṝṇāṃ śreyovidhitsayā |
jñānaṃ karma ca bhaktiḥ ca na upāyaḥ anyaḥ asti kutracit ||
6||
nirviṇṇānāṃ jñānayogaḥ nyāsināṃ iha karmasu |
teṣu anirviṇṇacittānāṃ karmayogaḥ ti kāminām || 7||
yadṛcchayā mat kathā ādau jātaśraddhaḥ tu yaḥ pumān |
na nirviṇṇaḥ na atisaktaḥ bhaktiyogaḥ asya siddhidaḥ || 8||
tāvat karmāṇi kurvīta na nirvidyeta yāvatā |
mat kathāśravaṇa ādau vā śraddhā yāvat na jāyate || 9||
svadharmasthaḥ yajanyajñaiḥ anāśīḥ kāmaḥ uddhava |
na yāti svarganarakau yadi anyatra samācaret || 10||
asmin loke vartamānaḥ svadharmasthaḥ anaghaḥ śuciḥ |
jñānaṃ viśuddhaṃ āpnoti madbhaktiṃ vā yadṛcchayā || 11||
svargiṇaḥ api etaṃ icchanti lokaṃ nirayiṇaḥ tathā |
sādhakaṃ jñānabhaktibhyāṃ ubhayaṃ tat asādhakam || 12||
na naraḥ svargatiṃ kāṅkṣet nārakīṃ vā vicakṣaṇaḥ |
na imaṃ lokaṃ ca kāṅkṣeta deha āveśāt pramādyati || 13||
etat vidvān purā mṛtyoḥ abhavāya ghaṭeta saḥ |
apramattaḥ idaṃ jñātvā martyaṃ api arthasiddhidam || 14||
chidyamānaṃ yamaiḥ etaiḥ kṛtanīḍaṃ vanaspatim |
khagaḥ svaketaṃ utsṛjya kṣemaṃ yāti hi alampaṭaḥ || 15||
ahorātraiḥ chidyamānaṃ buddhvāyuḥ bhayavepathuḥ |
muktasaṅgaḥ paraṃ buddhvā nirīha upaśāmyati || 16||
nṛdehaṃ ādyaṃ sulabhaṃ sudurlabham
plavaṃ sukalpaṃ gurukarṇadhāram |
mayā anukūlena nabhasvateritam
pumān bhavābdhiṃ na taret saḥ ātmahā || 17||
yadā ārambheṣu nirviṇṇaḥ viraktaḥ saṃyatendriyaḥ |
abhyāsena ātmanaḥ yogī dhārayet acalaṃ manaḥ || 18||
dhāryamāṇaṃ manaḥ yaḥ hi bhrāmyadāśu anavasthitam |
atandritaḥ anurodhena mārgeṇa ātmavaśaṃ nayet || 19||
manogatiṃ na visṛjet jitaprāṇaḥ jitendriyaḥ |
sattvasampannayā buddhyā manaḥ ātmavaśaṃ nayet || 20||
eṣaḥ vai paramaḥ yogaḥ manasaḥ saṅgrahaḥ smṛtaḥ |
hṛdayajñatvaṃ anvicchan damyasya eva arvataḥ muhuḥ || 21||
sāṅkhyena sarvabhāvānāṃ pratiloma anulomataḥ |
bhava api ayau anudhyayet manaḥ yāvat prasīdati || 22||
nirviṇṇasya viraktasya puruṣasya uktavedinaḥ |
manaḥ tyajati daurātmyaṃ cintitasya anucintayā || 23||
yama ādibhiḥ yogapathaiḥ ānvīkṣikyā ca vidyayā |
mama arcopāsanābhiḥ vā na anyaiḥ yogyaṃ smaret manaḥ || 24||
yadi kuryāt pramādena yogī karma vigarhitam |
yogena eva dahet aṃhaḥ na anyat tatra kadācana || 25||
sve sve adhikāre yā niṣṭhā saḥ guṇaḥ parikīrtitaḥ |
karmaṇāṃ jāti aśuddhānāṃ anena niyamaḥ kṛtaḥ |
guṇadoṣavidhānena saṅgānāṃ tyājanecchayā || 26||
jātaśraddaḥ matkathāsu nirviṇṇaḥ sarvakarmasu |
veda duḥkhātmakān kāmān parityāge api anīśvaraḥ || 27||
tataḥ bhajeta māṃ prītaḥ śraddhāluḥ dṛḍhaniścayaḥ |
juṣamāṇaḥ ca tān kāmān duḥkha udarkān ca garhayan || 28||
proktena bhaktiyogena bhajataḥ mā asakṛt muneḥ |
kāmāḥ hṛdayyāḥ naśyanti sarve mayi hṛdi sthite || 29||
bhidyate hṛdayagranthiḥ chidyante sarvasaṃśayāḥ |
kṣīyante ca asya karmāṇi mayi dṛṣṭe akhila ātmani || 30||
tasmāt madbhaktiyuktasya yoginaḥ vai mat ātmanaḥ |
na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyaḥ bhavet iha || 31||
yat karmabhiḥ yat tapasā jñānavairāgyataḥ ca yat |
yogena dānadharmeṇa śreyobhiḥ itaraiḥ api || 32||
sarvaṃ madbhaktiyogena madbhaktaḥ labhate añjasā |
svarga apavargaṃ mat dhāma kathañcit yadi vāñchati || 33||
na kiñcit sādhavaḥ dhīrāḥ bhaktāḥ hi ekāntinaḥ mama |
vāñchati api mayā dattaṃ kaivalyaṃ apunarbhavam || 34||
nairapekṣyaṃ paraṃ prāhuḥ niḥśreyasaṃ analpakam |
tasmāt nirāśiṣaḥ bhaktiḥ nirapekṣasya me bhavet || 35||
na mayi ekāntabhaktānāṃ guṇadoṣa udbhavāḥ guṇāḥ |
sādhūnāṃ samacittānāṃ buddheḥ paraṃ upeyuṣām || 36||
evaṃ etat mayā ādiṣṭān anutiṣṭhanti me pathaḥ |
kṣemaṃ vindanti mat sthānaṃ yat brahma paramaṃ viduḥ || 37||

saṃhitāyāmekādaśaskandhe bhagavaduddhavasaṃvāde
vedatrayīvibhāgayogo nāma viṃśo'dhyāyaḥ || 20||
atha ekaviṃśaḥ adhyāyaḥ |
śrībhagavān uvāca |
yaḥ etān matpathaḥ hitvā bhaktijñānakriyātmakān |
kṣudrān kāmān calaiḥ prāṇaiḥ juṣantaḥ saṃsaranti te || 1||

viparyayaḥ tu doṣaḥ syāt ubhayoḥ eṣaḥ niścayaḥ || 2||
śuddhi aśuddhī vidhīyete samāneṣu api vastuṣu |
dravyasya vicikitsārthaṃ guṇadoṣau śubha aśubhau || 3||
dharmārthaṃ vyavahārārthaṃ yātrārthaṃ iti ca anagha |
darśitaḥ ayaṃ mayā ācāraḥ dharmaṃ udvahatāṃ dhuram || 4||
bhūmi ambu agni anila ākāśāḥ bhūtānāṃ pañca dhātavaḥ |
ābrahma sthāvara ādīnāṃ śarīrāḥ ātmasaṃyutāḥ || 5||
vedena nāmarūpāṇi viṣamāṇi sameṣu api |
dhātuṣu uddhava kalpyantaḥ eteṣāṃ svārthasiddhaye || 6||
deśa kāla ādi bhāvānāṃ vastūnāṃ mama sattama |
guṇadoṣau vidhīyete niyamārthaṃ hi karmaṇām || 7||
akṛṣṇasāraḥ deśānāṃ abrahmaṇyaḥ aśuciḥ bhavet |
kṛṣṇasāraḥ api asauvīra kīkaṭa asaṃskṛteriṇam || 8||
karmaṇyaḥ guṇavān kālaḥ dravyataḥ svataḥ eva vā |
yataḥ nivartate karma saḥ doṣaḥ akarmakaḥ smṛtaḥ || 9||
dravyasya śuddhi aśuddhī ca dravyeṇa vacanena ca |
saṃskāreṇa atha kālena mahattva alpatayā athavā || 10||
śaktyā aśaktyā athavā buddhyā samṛddhyā ca yat ātmane |
aghaṃ kurvanti hi yathā deśa avasthā anusārataḥ || 11||
dhānya dāru asthi tantūnāṃ rasa taijasa carmaṇām |
kāla vāyu agni mṛttoyaiḥ pārthivānāṃ yuta ayutaiḥ || 12||
amedhyaliptaṃ yat yena gandhaṃ lepaṃ vyapohati |
bhajate prakṛtiṃ tasya tat śaucaṃ tāvat iṣyate || 13||
snāna dāna tapaḥ avasthā vīrya saṃskāra karmabhiḥ |
mat smṛtyā ca ātmanaḥ śaucaṃ śuddhaḥ karma ācaret dvijaḥ || 14||
mantrasya ca parijñānaṃ karmaśuddhiḥ madarpaṇam |
dharmaḥ sampadyate ṣaḍbhiḥ adharmaḥ tu viparyayaḥ || 15||
kvacit guṇaḥ api doṣaḥ syāt doṣaḥ api vidhinā guṇaḥ |
guṇadoṣārthaniyamaḥ tat bhidāṃ eva bādhate || 16||
samānakarma ācaraṇaṃ patitānāṃ na pātakam |
autpattikaḥ guṇaḥ saṅgaḥ na śayānaḥ patati adhaḥ || 17||
yataḥ yataḥ nivarteta vimucyeta tataḥ tataḥ |
eṣaḥ dharmaḥ nṝṇāṃ kṣemaḥ śokamohabhaya apahaḥ || 18||
viṣayeṣu guṇādhyāsāt puṃsaḥ saṅgaḥ tataḥ bhavet |
saṅgāt tatra bhavet kāmaḥ kāmāt eva kaliḥ nṝṇām || 19||
kaleḥ durviṣahaḥ krodhaḥ tamaḥ taṃ anuvartate |
tamasā grasyate puṃsaḥ cetanā vyāpinī drutam || 20||
tayā virahitaḥ sādho jantuḥ śūnyāya kalpate |
tataḥ asya svārthavibhraṃśaḥ mūrcchitasya mṛtasya ca || 21||
viṣayābhiniveśena na ātmānaṃ veda na aparam |
vṛkṣajīvikayā jīvan vyarthaṃ bhastra iva yaḥ śvasan || 22||
phalaśrutiḥ iyaṃ nṝṇāṃ na śreyaḥ rocanaṃ param |
śreyovivakṣayā proktaṃ yathā bhaiṣajyarocanam || 23||
utpatti eva hi kāmeṣu prāṇeṣu svajaneṣu ca |
āsaktamanasaḥ martyā ātmanaḥ anarthahetuṣu || 24||
na tān aviduṣaḥ svārthaṃ bhrāmyataḥ vṛjinādhvani |
kathaṃ yuñjyāt punaḥ teṣu tān tamaḥ viśataḥ budhaḥ || 25||
evaṃ vyavasitaṃ kecit avijñāya kubuddhayaḥ |
phalaśrutiṃ kusumitāṃ na vedajñāḥ vadanti hi || 26||
kāminaḥ kṛpaṇāḥ lubdhāḥ puṣpeṣu phalabuddhayaḥ |
agnimugdhā dhumatāntāḥ svaṃ lokaṃ na vindanti te || 27||
na te māṃ aṅgaḥ jānanti hṛdisthaṃ yaḥ idaṃ yataḥ |
ukthaśastrāḥ hi asutṛpaḥ yathā nīhāracakṣuṣaḥ || 28||
te me mataṃ avijñāya parokṣaṃ viṣayātmakāḥ |
hiṃsāyāṃ yadi rāgaḥ syāt yajñaḥ eva na codanā || 29||
hiṃsāvihārāḥ hi alabdhaiḥ paśubhiḥ svasukhecchayā |
yajante devatāḥ yajñaiḥ pitṛbhūtapatīn khalāḥ || 30||
svapn upamaṃ amuṃ lokaṃ asantaṃ śravaṇapriyam |
āśiṣaḥ hṛdi saṅkalpya tyajanti arthān yathā vaṇik || 31||
rajaḥsattvatamoniṣṭhāḥ rajaḥsattvatamojuṣaḥ |
upāsataḥ indramukhyān devādīn na tathā eva mām || 32||
iṣṭvā iha devatāḥ yajñaiḥ gatvā raṃsyāmahe divi |
tasya antaḥ iha bhūyāsmaḥ mahāśālā mahākulāḥ || 33||
evaṃ puṣpitayā vācā vyākṣiptamanasāṃ nṝṇām |
māninān ca atistabdhānāṃ madvārtā api na rocate || 34||
vedāḥ brahmātmaviṣayāḥ trikāṇḍaviṣayāḥ ime |
parokṣavādāḥ ṛṣayaḥ parokṣaṃ mama ca priyam || 35||
śabdabrahma sudurbodhaṃ prāṇa indriya manomayam |
anantapāraṃ gambhīraṃ durvigāhyaṃ samudravat || 36||
mayā upabṛṃhitaṃ bhūmnā brahmaṇā anantaśaktinā |
bhūteṣu ghoṣarūpeṇa biseṣu ūrṇa iva lakṣyate || 37||
yathā ūrṇanābhiḥ hṛdayāt ūrṇāṃ udvamate mukhāt |
ākāśāt ghoṣavān prāṇaḥ manasā sparśarūpiṇā || 38||
chandomayaḥ amṛtamayaḥ sahasrapadavīṃ prabhuḥ |
oṅkārāt vyañjita sparśa svara uṣma antastha bhūṣitām ||
39||
vicitrabhāṣāvitatāṃ chandobhiḥ catura uttaraiḥ |
anantapārāṃ bṛhatīṃ sṛjati ākṣipate svayam || 40||
gāyatrī uṣṇik anuṣṭup ca bṛhatī paṅktiḥ eva ca |
triṣṭup jagatī aticchandaḥ hi atyaṣṭi atijagat virāṭ || 41||
kiṃ vidhatte kiṃ ācaṣṭe kiṃ anūdya vikalpayet |
iti asyāḥ hṛdayaṃ loke na anyaḥ mat veda kaścana ||42||
māṃ vidhatte abhidhatte māṃ vikalpya apohyate tu aham |
etāvān sarvavedārthaḥ śabdaḥ āsthāya māṃ bhidām |
māyāmātraṃ anūdya ante pratiṣidhya prasīdati || 43||

saṃhitāyāmekādaśaskandhe bhagavadddhavasaṃvāde
vedatrayavibhāganirūpaṇaṃ nāma ekaviṃśo'dhyāyaḥ || 21||
atha dvāviṃśaḥ adhyāyaḥ |
uddhavaḥ uvāca |
kati tattvāni viśveśa saṅkhyātāni ṛṣibhiḥ prabho |
nava ekādaśa pañca trīṇi āttha tvaṃ iha śuśruma || 1||
kecit ṣaḍviṃśatiṃ prāhuḥ apare pañcaviṃśatim |
sapta eke nava ṣaṭ kecit catvāri ekādaśa apare |
kecit saptadaśa prāhuḥ ṣoḍaśa eke trayodaśa || 2||
etāvat tvaṃ hi saṅkhyānāṃ ṛṣayaḥ yat vivakṣayā |
gāyanti pṛthak āyuṣman idaṃ naḥ vaktuṃ arhasi || 3||
śrībhagavān uvāca |
yuktaṃ ca santi sarvatra bhāṣante brāhmaṇāḥ yathā |
māyāṃ madīyāṃ udgṛhya vadatāṃ kiṃ nu durghaṭam || 4||
na etat evaṃ yathā āttha tvaṃ yat ahaṃ vacmi tat tathā |
evaṃ vivadatāṃ hetuṃ śaktayaḥ me duratyayāḥ || 5||
yāsāṃ vyatikarāt āsīt vikalpaḥ vadatāṃ padam |
prāpte śamadame api eti vādastamanu śāmyati || 6||
parasparān anupraveśāt tattvānāṃ puruṣarṣabha |
paurva aparya prasaṅkhyānaṃ yathā vaktuḥ vivakṣitam || 7||
ekasmin api dṛśyante praviṣṭāni itarāṇi ca |
pūrvasmin vā parasmin vā tattve tattvāni sarvaśaḥ || 8||
paurva aparyaṃ ataḥ amīṣāṃ prasaṅkhyānaṃ abhīpsatām |
yathā viviktaṃ yat vaktraṃ gṛhṇīmaḥ yuktisambhavāt || 9||
anādi avidyāyuktasya puruṣasya ātmavedanam |
svataḥ na sambhavāt anyaḥ tattvajñaḥ jñānadaḥ bhavet || 10||
puruṣa īśvarayoḥ atra na vailakṣaṇyaṃ aṇu api |
tat anyakalpanāpārthā jñānaṃ ca prakṛteḥ guṇaḥ || 11||
prakṛtiḥ guṇasāmyaṃ vai prakṛteḥ na ātmanaḥ guṇāḥ |
sattvaṃ rajaḥ tamaḥ iti sthiti utpatti antahetavaḥ || 12||
sattvaṃ jñānaṃ rajaḥ karma tamaḥ ajñānaṃ iha ucyate |
guṇavyatikaraḥ kālaḥ svabhāvaḥ sūtraṃ eva ca || 13||
puruṣaḥ prakṛtiḥ vyaktaṃ ahaṅkāraḥ nabhaḥ anilaḥ |
jyotiḥ āpaḥ kṣitiḥ iti tattvāni uktāni me nava || 14||
śrotraṃ tvak darśanaṃ ghrāṇaḥ jihvā iti jñānaśaktayaḥ |
vāk pāṇi upastha pāyu aṅghriḥ karmāṇyaṅga ubhayaṃ manaḥ || 15||
śabdaḥ sparśaḥ rasaḥ gandhaḥ rūpaṃ ca iti arthajātayaḥ |
gati ukti utsarga śilpāni karma āyatana siddhayaḥ || 16||
sarga ādau prakṛtiḥ hi asya kārya kāraṇa rūpiṇī |
sattva ādibhiḥ guṇaiḥ dhatte puruṣaḥ avyaktaḥ īkṣate || 17||
vyakta ādayaḥ vikurvāṇāḥ dhātavaḥ puruṣa īkṣayā |
labdhavīryāḥ sṛjanti aṇḍaṃ saṃhatāḥ prakṛteḥ balāt || 18||
sapta eva dhātavaḥ iti tatra arthāḥ pañca khādayaḥ |
jñānaṃ ātmā ubhaya ādhāraḥ tataḥ deha indriya āsavaḥ || 19||
ṣaḍ iti atra api bhūtāni pañca ṣaṣṭhaḥ paraḥ pumān |
taiḥ yuktaḥ ātmasambhūtaiḥ sṛṣṭvā idaṃ samupāviśat || 20||
catvāri eva iti tatra api tejaḥ āpaḥ annaṃ ātmanaḥ |
jātāni taiḥ idaṃ jātaṃ janma avayavinaḥ khalu || 21||
saṅkhyāne saptadaśake bhūtamātra indriyāṇi ca |
pañcapañca eka manasā ātmā saptadaśaḥ smṛtaḥ || 22||
tadvat ṣoḍaśasaṅkhyāne ātmā eva manaḥ ucyate |
bhūtendriyāṇi pañca eva manaḥ ātmā trayodaśaḥ || 23||
ekādaśatvaḥ ātmā asau mahābhūtendriyāṇi ca |
aṣṭau prakṛtayaḥ ca eva puruṣaḥ ca nava iti atha || 24||
iti nānā prasaṅkhyānaṃ tattvānāṃ ṛṣibhiḥ kṛtam |
sarvaṃ nyāyyaṃ yuktimatvāt viduṣāṃ kiṃ aśobhanam || 25||
uddhavaḥ uvāca |
prakṛtiḥ puruṣaḥ ca ubhau yadi api ātmavilakṣaṇau |
anyonya apāśrayāt kṛṣṇa dṛśyate na bhidā tayoḥ |
prakṛtau lakṣyate hi ātmā prakṛtiḥ ca tathā ātmani || 26||
evaṃ me puṇḍarīkākṣa mahāntaṃ saṃśayaṃ hṛdi |
chettuṃ arhasi sarvajña vacobhiḥ nayanaipuṇaiḥ || 27||
tvattaḥ jñānaṃ hi jīvānāṃ pramoṣaḥ te atra śaktitaḥ |
tvaṃ eva hi ātma māyāyā gatiṃ vettha na ca aparaḥ || 28||
śrībhagavān uvāca |
prakṛtiḥ puruṣaḥ ca iti vikalpaḥ puruṣarṣabha |
eṣaḥ vaikārikaḥ sargaḥ guṇavyatikarātmakaḥ || 29||
mama aṅga māyā guṇamayī anekadhā
vikalpabuddhīḥ ca guṇaiḥ vidhatte |
vaikārikaḥ trividhaḥ adhyātmaṃ ekam
atha adhidaivaṃ adhibhūtaṃ anyat || 30||
dṛk rūpaṃ ārkaṃ vapuḥ atra randhre
parasparaṃ sidhyati yaḥ svataḥ khe |
ātmā yat eṣaṃ aparaḥ yaḥ ādyaḥ
svayā anubhūtya akhilasiddhasiddhiḥ |
evaṃ tvak ādi śravaṇādi cakṣuḥ
jihva ādi nāsa ādi ca cittayuktam || 31||
yaḥ asau guṇakṣobhakṛtau vikāraḥ
pradhānamūlāt mahataḥ prasūtaḥ |
ahaṃ trivṛt mohavikalpahetuḥ
vaikārikaḥ tāmasaḥ aindriyaḥ ca || 32||
ātmāparijñānamayaḥ vivādaḥ
hi asti iti na asti iti bhidārthaniṣṭhaḥ |
vyarthaḥ api na eva uparameta puṃsāṃ
mattaḥ parāvṛttadhiyāṃ svalokāt || 33||
uddhavaḥ uvāca |
tvattaḥ parāvṛttadhiyaḥ svakṛtaiḥ karmabhiḥ prabho |
ucca avacān yathā dehān gṛhṇanti visṛjanti ca || 34||
tat mama ākhyāhi govinda durvibhāvyaṃ anātmabhiḥ |
na hi etat prāyaśaḥ loke vidvāṃsaḥ santi vañcitāḥ || 35||
śrībhagavān uvāca |
manaḥ karmamayaṃ nṛṇāṃ indriyaiḥ pañcabhiḥ yutam |
lokāt lokaṃ prayāti anyaḥ ātmā tat anuvartate || 36||
dhyāyan manaḥ anuviṣayān dṛṣṭān vā anuśrutān atha |
udyat sīdat karmatantraṃ smṛtiḥ tat anuśāmyati || 37||
viṣaya abhiniveśena na ātmānaṃ yat smaret punaḥ |
jantoḥ vai kasyacit hetoḥ mṛtyuḥ atyantavismṛtiḥ || 38||
janma tu ātmatayā puṃsaḥ sarvabhāvena bhūrida |
viṣaya svīkṛtiṃ prāhuḥ yathā svapnamanorathaḥ || 39||
svapnaṃ manorathaṃ ca itthaṃ prāktanaṃ na smarati asau |
tatra pūrvaṃ iva ātmānaṃ apūrvaṃ ca anupaśyati || 40||
indriya āyana sṛṣṭyā idaṃ traividhyaṃ bhāti vastuni |
bahiḥ antaḥ bhidāhetuḥ janaḥ asat janakṛt yathā || 41||
nityadā hi aṅgaḥ bhūtāni bhavanti na bhavanti ca |
kālena alkṣyavegena sūkṣmatvāt tat na dṛśyate || 42||
yathā arciṣāṃ srotasāṃ ca phalānāṃ vā vanaspateḥ |
tathā eva sarvabhūtānāṃ vayaḥ avasthā ādayaḥ kṛtāḥ || 43||
saḥ ayaṃ dīpaḥ arciṣāṃ yadvat srotasāṃ tat idaṃ jalam |
saḥ ayaṃ pumān iti nṛṇāṃ mṛṣāḥ gīḥ dhīḥ mṛṣā
āyuṣām || 44||
mā svasya karmabījena jāyate saḥ api ayaṃ pumān |
mriyate vāmaraḥ bhrāntyā yathā agniḥ dāru saṃyutaḥ || 45||
niṣekagarbhajanmāni bālyakaumārayauvanam |
vayomadhyaṃ jarā mṛtyuḥ iti avasthāḥ tanoḥ nava || 46||
etāḥ manorathamayīḥ hi anyasya uccāvacāḥ tanūḥ |
guṇasaṅgāt upādatte kvacit kaścit jahāti ca || 47||
ātmanaḥ pitṛputrābhyāṃ anumeyau bhavāpyayau |
na bhavāpyayavastūnāṃ abhijñaḥ dvayalakṣaṇaḥ || 48||
taroḥ bījavipākābhyāṃ yaḥ vidvāt janmasaṃyamau |
taroḥ vilakṣaṇaḥ draṣṭā evaṃ draṣṭā tanoḥ pṛthak || 49||
prakṛteḥ evaṃ ātmānaṃ avivicya abudhaḥ pumān |
tattvena sparśasammūḍhaḥ saṃsāraṃ pratipadyate || 50||
sattvasaṅgāt ṛṣīn devān rajasā asuramānuṣān |
tamasā bhūtatiryaktvaṃ bhrāmitaḥ yāti karmabhiḥ || 51||
nṛtyataḥ gāyataḥ paśyan yathā eva anukaroti tān |
evaṃ buddhiguṇān paśyan anīhaḥ api anukāryate || 52||
yathā ambhasā pracalatā taravaḥ api calāḥ iva |
cakṣuṣā bhrāmyamāṇena dṛśyate bhramati iva bhūḥ || 53||
yathā manorathadhiyaḥ viṣayānubhavaḥ mṛṣā |
svapnadṛṣṭāḥ ca dāśārha tathā saṃsāraḥ ātmanaḥ || 54||
arthe hi avidyamāne api saṃsṛtiḥ na nivartate |
dhyāyataḥ viṣayān asya svapne anartha āgamaḥ yathā || 55||
tasmāt uddhava mā bhuṅkṣva viṣayān asat indriyaiḥ |
ātmā agrahaṇanirbhātaṃ paśya vaikalpikaṃ bhramam || 56||
kṣiptaḥ avamānitaḥ asadbhiḥ pralabdhaḥ asūyitaḥ athavā |
tāḍitaḥ sannibaddhaḥ vā vṛttyā vā parihāpitaḥ || 57||
niṣṭhitaḥ mūtritaḥ bahudhā evaṃ prakampitaḥ |
śreyaskāmaḥ kṛcchragataḥ ātmanā ātmānaṃ uddharet || 58||
uddhavaḥ uvāca |
yathā evaṃ anubuddhyeyaṃ vada naḥ vadatāṃ vara |
suduḥsahaṃ imaṃ manyaḥ ātmani asat atikramam || 59||
viduṣaṃ api viśvātman prakṛtiḥ hi balīyasī |
ṛte tvat dharmaniratān śāntāḥ te caraṇālayān || 60||

dvāviṃśo'dhyāyaḥ || 22||
atha trayoviṃśaḥ adhyāyaḥ |
bādarāyaṇiḥ uvāca |
saḥ evaṃ āśaṃsitaḥ uddhavena
bhāgavatamukhyena dāśārhamukhyaḥ |
sabhājayan bṛtyavacaḥ mukundaḥ
taṃ ābabhāṣe śravaṇīyavīryaḥ || 1||
śrībhagavān uvāca |
barhaspatya saḥ vai na atra sādhuḥ vai durjan īritaiḥ |
duruktaiḥ bhinnaṃ ātmānaṃ yaḥ samādhātuṃ īśvaraḥ || 2||
na tathā tapyate viddhaḥ pumān bāṇaiḥ sumarmagaiḥ |
yathā tudanti marmasthāḥ hi asatāṃ paruṣeṣavaḥ || 3||
kathayanti mahatpuṇyaṃ itihāsaṃ iha uddhava |
taṃ ahaṃ varṇayiṣyāmi nibodha susamāhitaḥ || 4||
kenacit bhikṣuṇā gītaṃ paribhūtena durjanaiḥ |
smaratāḥ dhṛtiyuktena vipākaṃ nijakarmaṇām || 5||
avaniṣu dvijaḥ kaścit āsīt āḍhyatamaḥ śriyā |
vārtāvṛttiḥ kadaryaḥ tu kāmī lubdhaḥ atikopanaḥ || 6||
jñātayaḥ atithayaḥ tasya vāṅmātreṇa api na arcitāḥ |
śūnya avasathaḥ ātmā api kāle kāmaiḥ anarcitaḥ || 7||
duḥśīlasya kadaryasya druhyante putrabāndhavāḥ |
dārā duhitaraḥ bhṛtyāḥ viṣaṇṇāḥ na ācaran priyam || 8||
tasya evaṃ yakṣavittasya cyutasya ubhayalokataḥ |
dharmakāmavihīnasya cukrudhuḥ pañcabhāginaḥ || 9||
tat avadhyāna visrasta puṇya skandhasya bhūrida |
arthaḥ api agacchan nidhanaṃ bahu āyāsa pariśramaḥ || 10||
jñātayaḥ jagṛhuḥ kiñcit kiñcit asyavaḥ uddhava |
daivataḥ kālataḥ kiñcit brahmabandhoḥ nṛpārthivāt || 11||
saḥ evaṃ draviṇe naṣṭe dharmakāmavivarjitaḥ |
upekṣitaḥ ca svajanaiḥ cintāṃ āpa duratyayām || 12||
tasya evaṃ dhyāyataḥ dīrghaṃ naṣṭarāyaḥ tapasvinaḥ |
khidyataḥ bāṣpakaṇṭhasya nirvedaḥ sumahān abhūt || 13||
saḥ ca āha idaṃ aho kaṣṭaṃ vṛthā ātmā me anutāpitaḥ |
na dharmāya na kāmāya yasya artha āyāsaḥ īdṛśaḥ || 14||
prāyeṇa arthāḥ kadaryāṇāṃ na sukhāya kadācana |
iha ca ātmopatāpāya mṛtasya narakāya ca || 15||
yaśaḥ yaśasvināṃ śuddhaṃ ślāghyāḥ ye guṇināṃ guṇāḥ |
lobhaḥ svalpaḥ api tān hanti śvitraḥ rūpaṃ iva ipsitam || 16||
arthasya sādhane siddhaḥ utkarṣe rakṣaṇe vyaye |
nāśa upabhogaḥ āyāsaḥ trāsaḥ cintā bhramaḥ nṛṇām || 17||
steyaṃ hiṃsā anṛtaṃ dambhaḥ kāmaḥ krodhaḥ smayaḥ madaḥ |
bhedaḥ vairaṃ aviśvāsaḥ saṃspardhā vyasanāni ca || 18||
ete pañcadaśān arthāḥ hi arthamūlāḥ matāḥ nṛṇām |
tasmāt anarthaṃ arthākhyaṃ śreyaḥ arthī dūrataḥ tyajet || 19||
bhidyante bhrātaraḥ dārāḥ pitaraḥ suhṛdaḥ tathā |
ekāsnigdhāḥ kākiṇinā sadyaḥ sarve arayaḥ kṛtāḥ || 20||
arthena alpīyasā hi ete saṃrabdhā dīptaṃ anyavaḥ |
tyajanti āśu spṛdhaḥ ghnanti sahasā utsṛjya sauhṛdam ||
21||
labdhvā janma amaraprārthyaṃ mānuṣyaṃ tat dvija agryatām |
tat anādṛtya ye svārthaṃ ghnanti yānti aśubhāṃ gatim ||
22||
svarga apavargayoḥ dvāraṃ prāpya lokaṃ imaṃ pumān |
draviṇe kaḥ anūṣajjeta martyaḥ anarthasya dhāmani || 23||
devarṣi pitṛ bhūtāni jñātīn bandhūn ca bhāginaḥ |
asaṃvibhajya ca ātmānaṃ yakṣavittaḥ patati adhaḥ || 24||
vyarthayā arthehayā vittaṃ pramattasya vayaḥ balam |
kuśalāḥ yena sidhyanti jaraṭhaḥ kiṃ nu sādhaye || 25||
kasmāt saṅkliśyate vidvān vyarthayā arthehayā asakṛt |
kasyacit māyayā nūnaṃ lokaḥ ayaṃ suvimohitaḥ || 26||
kiṃ dhanaiḥ dhanadaiḥ vā kiṃ kāmaiḥ vā kāmadaiḥ uta |
mṛtyunā grasyamānasya karmabhiḥ vā uta janmadaiḥ || 27||
nūnaṃ me bhagavān tuṣṭaḥ sarvadevamayaḥ hariḥ |
yena nītaḥ daśāṃ etāṃ nirvedaḥ ca ātmanaḥ plavaḥ || 28||
saḥ ahaṃ kalau aśeṣeṇa śoṣayihhye aṅgaṃ ātmanaḥ |
apramattaḥ akhilasvārthe yadi syāt siddhaḥ ātmani || 29||
tatra māṃ anumoderan devāḥ tribhuvaneśvarāḥ |
muhūrtena brahmalokaṃ khaṭvāṅgaḥ samasādhayat || 30||
śrībhagavān uvāca |
iti abhipretya manasā hi āvantyaḥ dvijasattamaḥ |
unmucya hṛdayagranthīn śāntaḥ bhikṣuḥ abhūt muniḥ || 31||
saḥ cacāra mahīṃ etāṃ saṃyata ātmendriya anilaḥ |
bhikṣārthaṃ nagara grāmān asaṅgaḥ alakṣitaḥ aviśat || 32||
taṃ vai pravayasaṃ bhikṣuṃ avadhūtaṃ asajjanāḥ |
dṛṣṭvā paryabhavan bhadraḥ bahvībhiḥ paribhūtibhiḥ || 33||
kecit triveṇuṃ jagṛhuḥ eke pātraṃ kamaṇḍalum |
pīṭhaṃ ca eke akṣasūtraṃ ca kanthāṃ cīrāṇi kecana || 34||
pradāya ca punaḥ tāni darśitāni ādaduḥ muneḥ |
annaṃ ca bhaikṣyasampannaṃ bhuñjānasya sarit taṭe || 35||
mūtrayanti ca pāpiṣṭhāḥ ṣṭhīvanti asya ca mūrdhani |
yatavācaṃ vācayanti tāḍayanti na vakti cet || 36||
tarjayanti apare vāgbhiḥ stenaḥ ayaṃ iti vādinaḥ |
badhnanti rajjvā taṃ kecit badhyatāṃ badhyatāṃ iti || 37||
kṣipanti eke avajānantaḥ eṣaḥ dharmadhvajaḥ śaṭhaḥ |
kṣīṇavittaḥ imāṃ vṛttiṃ agrahīt svajana ujjhitaḥ || 38||
aho eṣaḥ mahāsāraḥ dhṛtimān giriḥ āḍiva |
maunena sādhayati arthaṃ bakavat dṛḍhaniścayaḥ || 39||
iti eke vihasanti enaṃ eke durvātayanti ca |
taṃ babandhuḥ nirurudhuḥ yathā krīḍanakaṃ dvijam || 40||
evaṃ saḥ bhautikaṃ duḥkhaṃ daivikaṃ daihikaṃ ca yat |
bhoktavyaṃ ātmanaḥ diṣṭaṃ prāptaṃ prāptaṃ abudhyata || 41||
paribhūtaḥ imāṃ gāthāṃ agāyata narādhamaiḥ |
pātayadbhiḥ svadharmasthaḥ dhṛtiṃ āsthāya sātvikīm || 42||
dvijaḥ uvāca |
na ayaṃ janaḥ me sukhaduḥkhahetuḥ
na devatātmā grahakarmakālāḥ |
manaḥ paraṃ kāraṇaṃ āmananti
saṃsāracakraṃ parivartayet yat || 43||
manaḥ guṇān vai sṛjate balīyaḥ
tataḥ ca karmāṇi vilakṣaṇāni |
śuklāni kṛṣṇāni atha lohitāni
tebhyaḥ savarṇāḥ sṛtayaḥ bhavanti || 44||
anīhaḥ ātmā manasā samīhatā
hiraṇmayaḥ matsakhaḥ udvicaṣṭe |
manaḥ svaliṅgaṃ parigṛhya kāmān
juṣan nibaddhaḥ guṇasaṅgataḥ asau || 45||
dānaṃ svadharmaḥ niyamaḥ yamaḥ ca
śrutaṃ ca karmāṇi ca sadvratāni |
sarve manonigrahalakṣaṇāntāḥ
paraḥ hi yogaḥ manasaḥ samādhi || 46||
samāhitaṃ yasya manaḥ praśāntam
dānādibhiḥ kiṃ vada tasya kṛtyam |
asaṃyataṃ yasya manaḥ vinaśyat
dānādibhiḥ cet aparaṃ kimebhiḥ || 47||
manovaśe anye hi abhavan sma devāḥ
manaḥ ca na anyasya vaśaṃ sameti |
bhīṣmaḥ hi devaḥ sahasaḥ sahīyān
yuñjyāt vaśe taṃ saḥ hi devadevaḥ || 48||
taṃ durjayaṃ śatruṃ asahyavegaṃ
maruntudaṃ tat na vijitya kecit |
kurvanti asat vigrahaṃ atra martyaiḥ
mitrāṇi udāsīna ripūn vimūḍhāḥ || 49||
dehaṃ manomātraṃ imaṃ gṛhītvā
mama ahaṃ iti andha dhiyaḥ manuṣyāḥ |
eṣaḥ ahaṃ anyaḥ ayaṃ iti bhrameṇa
durantapāre tamasi bhramanti || 50||
janaḥ tu hetuḥ sukhaduḥkhayoḥ cet
kiṃ ātmanaḥ ca atra ha bhaumayoḥ tat |
jihvāṃ kvacit sandaśati svadadbhiḥ
tat vedanāyāṃ katamāya kupyet || 51||
duḥkhasya hetuḥ yadi devatāḥ tu
kiṃ ātmanaḥ tatra vikārayoḥ tat |
yat aṅgaṃ aṅgena nihanyate kvacit
krudhyeta kasmai puruṣaḥ svadehe || 52||
ātmā yadi syāt sukhaduḥkhahetuḥ
kiṃ anyataḥ tatra nijasvabhāvaḥ |
na hi ātmanaḥ anyat yadi tat mṛṣā syāt
krudhyeta kasmāt na sukhaṃ na duḥkham || 53||
grahāḥ nimittaṃ sukhaduḥkhayoḥ cet
kiṃ ātmanaḥ ajasya janasya te vai |
grahaiḥ grahasya eva vadanti pīḍām
krudhyeta kasmai puruṣaḥ tataḥ anyaḥ || 54||
karmāḥ tu hetuḥ sukhaduḥkhayoḥ cet
kiṃ ātmanaḥ tat hi jaḍājaḍatve |
dehaḥ tu acitpuruṣaḥ ayaṃ suparṇaḥ
krudhyeta kasmai na hi karmamūlam || 55||
kālaḥ tu hetuḥ sukhaduḥkhayoḥ cet
kiṃ ātmanaḥ tatra tat ātmakaḥ asau |
na agneḥ hi tāpaḥ na himasya tat syāt
krudhyeta kasmai na parasya dvandvam || 56||
na kenacit kva api kathañcana asya
dvandva uparāgaḥ parataḥ parasya |
yathāhamaḥ saṃsṛtirūpiṇaḥ syāt
evaṃ prabuddhaḥ na bibheti bhūtaiḥ || 57||
etāṃ saḥ āsthāya parātmaniṣṭhām
adhyāsitāṃ pūrvatamaiḥ maharṣibhiḥ |
ahaṃ tariṣyāmi durantapāram
tamaḥ mukunda aṅghriniṣevayā eva || 58||
śrībhagavān uvāca |
nirvidya naṣṭadraviṇaḥ gataklamaḥ
pravrajya gāṃ paryaṭamānaḥ ittham |
nirākṛtaḥ asadbhiḥ api svadharmāt
akampitaḥ amuṃ muniḥ āha gāthām || 59||
sukhaduḥkhapradaḥ na anyaḥ puruṣasya ātmavibhramaḥ |
mitra udāsīnaripavaḥ saṃsāraḥ tamasaḥ kṛtaḥ || 60||
tasmāt sarvātmanā tāta nigṛhāṇa mano dhiyā |
mayi āveśitayā yuktaḥ etāvān yogasaṅgrahaḥ || 61||
yaḥ etāṃ bhikṣuṇā gītāṃ brahmaniṣṭhāṃ samāhitaḥ |
dhārayan śrāvayan śruṇvan dvandvaiḥ na eva abhibhūyate || 62||

bikṣugītanirūpaṇaṃ nāma trayoviṃśo'dhyāyaḥ || 23||
atha caturviṃśo'dhyāḥ |
śrībhagavān uvāca |
atha te sampravakṣyāmi sāṅkhyaṃ pūrvaiḥ viniścitam |
yat vijñāya pumān sadyaḥ jahyāt vaikalpikaṃ bhramam || 1||
āsīt jñānaṃ athaḥ hi arthaḥ ekaṃ eva avikalpitam |
yadā vivekanipuṇāḥ ādau kṛtayuge ayuge || 2||
tat māyāphalarūpeṇa kevalaṃ nirvikalpitam |
vāṅmanaḥ agocaraṃ satyaṃ dvidhā samabhavat bṛhat || 3||
tayoḥ ekataraḥ hi arthaḥ prakṛtiḥ sobhayātmikā |
jñānaṃ tu anyataraḥ bhāvaḥ puruṣaḥ saḥ abhidhīyate || 4||
tamaḥ rajaḥ sattvaṃ iti prakṛteḥ abhavan guṇāḥ |
mayā prakṣobhyamāṇāyāḥ puruṣa anumatena ca || 5||
tebhyaḥ samabhavat sūtraṃ mahān sūtreṇa saṃyutaḥ |
tataḥ vikurvataḥ jātaḥ yaḥ ahaṅkāraḥ vimohanaḥ || 6||
vaikārikaḥ taijasaḥ ca tāmasaḥ ca iti ahaṃ trivṛt |
tanmātra indriya manasāṃ kāraṇaṃ cit acit mayaḥ || 7||
arthaḥ tanmātrikāt jajñe tāmasāt indriyāṇi ca |
taijasāt devatāḥ āsan ekādaśa ca vaikṛtāt || 8||
mayā sañcoditāḥ bhāvāḥ sarve saṃhati akāriṇaḥ |
aṇḍaṃ utpādayāmāsuḥ mama āyatanaṃ uttamam || 9||
tasmin ahaṃ samabhavaṃ aṇḍe salilasaṃsthitau |
mama nābhyāṃ abhūt padmaṃ viśvākhyaṃ tatra ca ātmabhūḥ ||
10||
saḥ asṛjat tapasā yuktaḥ rajasā mat anugrahāt |
lokān sapālān viśvātmā bhūḥ bhuvaḥ svaḥ iti tridhā || 11||
devānāṃ okaḥ āsīt svaḥ bhūtānāṃ ca bhuvaḥ padam |
martya ādīnāṃ ca bhūḥ lokaḥ siddhānāṃ tritayāt param ||
12||
adhaḥ asurāṇāṃ nāgānāṃ bhūmeḥ okaḥ asṛjat prabhuḥ |
trilokyāṃ gatayaḥ sarvāḥ karmaṇāṃ triguṇa ātmanām || 13||
yogasya tapasaḥ ca eva nyāsasya gatayaḥ amalāḥ |
mahaḥ janaḥ tapaḥ satyaṃ bhaktiyogasya madgatiḥ || 14||
mayā kālātmanā dhātrā karmayuktaṃ idaṃ jagat |
guṇapravāhaḥ etasmin unmajjati nimajjati || 15||
aṇuḥ bṛhat kṛśaḥ sthūlaḥ yaḥ yaḥ bhāvaḥ prasidhyati |
sarvaḥ api ubhayasaṃyuktaḥ prakṛtyā puruṣeṇa ca || 16||
yaḥ tu yasya ādiḥ antaḥ ca saḥ vai madhyaṃ ca tasya san |
vikāraḥ vyavahārārthaḥ yathā taijasa pārthivāḥ || 17||
yat upādāya pūrvaḥ tu bhāvaḥ vikurute aparam |
ādiḥ antaḥ yadā yasya tat satyaṃ abhidhīyate || 18||
prakṛtiḥ hi asya upādānaṃ ādhāraḥ puruṣaḥ paraḥ |
sataḥ abhivyañjakaḥ kālaḥ brahma tat tritayaṃ tu aham || 19||
sargaḥ pravartate tāvat paurva aparyeṇa nityaśaḥ |
mahān guṇavisarga arthaḥ sthiti antaḥ yāvat īkṣaṇam || 20||
virāṭ mayā āsādyamānaḥ lokakalpavikalpakaḥ |
pañcatvāya viśeṣāya kalpate bhuvanaiḥ saha || 21||
anne pralīyate martyaṃ annaṃ dhānāsu līyate |
dhānāḥ bhūmau pralīyante bhūmiḥ gandhe pralīyate || 22||
apsu pralīyante gandhaḥ āpaḥ ca svaguṇe rase |
līyate jyotiṣi rasaḥ jyotī rūpe pralīyate || 23||
rūpaṃ vāyau saḥ ca sparśe līyate saḥ api ca ambare |
ambaraṃ śabdatanmātraḥ indriyāṇi svayoniṣu || 24||
yoniḥ vaikārike saumya līyate manasi īśvare |
śabdaḥ bhūtādiṃ api eti bhūtādiḥ mahati prabhuḥ || 25||
saḥ līyate mahān sveṣu guṇeṣu guṇavattamaḥ |
te avyakte sampralīyante tatkale līyate avyaye || 26||
kālaḥ māyāmaye jīve jīvaḥ ātmani mayi aje |
ātmā kevalaḥ ātmasthaḥ vikalpa apāya lakṣaṇaḥ || 27||
evaṃ anvīkṣamāṇasya kathaṃ vaikalpikaḥ bhramaḥ |
manasaḥ hṛdi tiṣṭheta vyomni iva arka udaye tamaḥ || 28||
eṣaḥ sāṅkhyavidhiḥ proktaḥ saṃśayagranthibhedanaḥ |
pratiloma anulomābhyāṃ parāvaradṛśā mayā || 29||

prakṛtipuruṣasāṅkhyayogo nāma caturviṃśo'dhyāyaḥ || 24||
atha pañcaviṃśo'dhyāyaḥ |
śrībhagavānuvāca |
guṇānāṃ asamiśrāṇāṃ pumānyena yathā bhavet |
tanme puruṣavarya iadaṃ upadhāraya śaṃsataḥ || 1||
samaḥ damaḥ titikṣā īkṣā tapaḥ satyaṃ dayā smṛtiḥ |
tuṣṭiḥ tyāgaḥ aspṛhā śraddhā hrīḥ dayā ādiḥ svanirvṛtiḥ || 2||
kāmaḥ īhā madaḥ tṛṣṇā stambhaḥ āśīḥ bhidā sukham |
mada utsāhaḥ yaśaḥ prītiḥ hāsyaṃ vīryaṃ bala udyamaḥ || 3||
krodhaḥ lobhaḥ anṛtaṃ hiṃsā yāñcā dambhaḥ klamaḥ kaliḥ |
śokamohau viṣādārtī nidrā āśā bhīḥ anudyamaḥ || 4||
sattvasya rajasaḥ ca etāḥ tamasaḥ ca anumūrvaśaḥ |
vṛttayaḥ varṇitaprāyāḥ sannipātaṃ athaḥ śruṇu || 5||
sannipātaḥ tu ahaṃ iti mama iti uddhava yā matiḥ |
vyavahāraḥ sannipātaḥ manomātra indriyāsubhiḥ || 6||
dharme ca arthe ca kāme ca yadā asau pariniṣṭhitaḥ |
guṇānāṃ sannikarṣaḥ ayaṃ śraddhāḥ atidhanāvahaḥ || 7||
pravṛttilakṣaṇe niṣṭhā pumān yaḥ hi gṛhāśrame |
svadharme ca anutiṣṭheta guṇānāṃ samitiḥ hi sā || 8||
puruṣaṃ sattvasaṃyuktaṃ anumīyāt śama ādibhiḥ |
kāmādibhī rajoyuktaṃ krodhādyaiḥ tamasā yutam || 9||
yadā bhajati māṃ bhaktyā nirapekṣaḥ svakarmabhiḥ |
taṃ sattvaprakṛtiṃ vidyāt puruṣaṃ striyaṃ eva vā || 10||
yadā āśiṣaḥ āśāsya māṃ bhajeta svakarmabhiḥ |
taṃ rajaḥprakṛtiṃ vidyāt hiṃsāṃ āśāsya tāmasam || 11||
sattvaṃ rajaḥ tamaḥ iti guṇāḥ jīvasya na eva me |
cittajā yaiḥ tu bhūtānāṃ sajjamānaḥ nibadhyate || 12||
yadetarau jayet sattvaṃ bhāsvaraṃ viśadaṃ śivam |
tadā sukhena yujyeta dharmajñāna ādibhiḥ pumān || 13||
yadā jayet tamaḥ sattvaṃ rajaḥ saṅgaṃ bhidā calam |
tadā duḥkhena yujyeta karmaṇā yaśasā śriyā || 14||
yadā jayet rajaḥ sattvaṃ tamaḥ mūḍhaḥ layaṃ jaḍam |
yujyeta śokamohābhyāṃ nidrayā hiṃsayā āśayā || 15||
yadā cittaṃ prasīdeta indriyāṇāṃ ca nirvṛtiḥ |
dehe abhayaṃ manosaṅgaṃ tat sattvaṃ viddhi matpadam || 16||
vikurvan kriyayā ca adhīra nirvṛtiḥ ca cetasām |
gātrāsvāsthyaṃ manaḥ bhrāntaṃ rajaḥ etaiḥ niśāmaya || 17||
sīdat cittaṃ vilīyeta cetasaḥ grahaṇe akṣamam |
manaḥ naṣṭaṃ tamaḥ glāniḥ tamaḥ tat upadhāraya || 18||
edhamāne guṇe sattve devānāṃ balaṃ edhate |
asurāṇāṃ ca rajasi tamasi uddhava rakṣasām || 19||
sattvāt jagaraṇaṃ vidyāt rajasā svapnaṃ ādiśet |
prasvāpaṃ tamasā jantoḥ turīyaṃ triṣu santatam || 20||
uparyupari gacchanti sattvena ābrahmaṇaḥ janāḥ |
tamasā adhaḥ adhaḥ āmukhyāt rajasā antaracāriṇaḥ || 21||
sattve pralīnāḥ svaḥ yānti naralokaṃ rajolayāḥ |
tamolayāḥ tu nirayaṃ yānti māṃ eva nirguṇāḥ || 22||
madarpaṇaṃ niṣphalaṃ vā sātvikaṃ nijakarma tat |
rājasaṃ phalasaṅkalpaṃ hiṃsāprāyādi tāmasam || 23||
kaivalyaṃ sātvikaṃ jñānaṃ rajaḥ vaikalpikaṃ ca yat |
prākṛtaṃ tāmasaṃ jñānaṃ manniṣṭhaṃ nirguṇaṃ smṛtam || 24||
vanaṃ tu sātvikaḥ vāsaḥ grāmaḥ rājasaḥ ucyate |
tāmasaṃ dyūtasadanaṃ manniketanaṃ tu nirguṇam || 25||
sātvikaḥ kārakaḥ asaṅgī rāgāndhaḥ rājasaḥ smṛtaḥ |
tāmasaḥ smṛtivibhraṣṭaḥ nirguṇaḥ madapāśrayaḥ || 26||
sāttvikī ādhyātmikī śraddhā karmaśraddhā tu rājasī |
tāmasyadharme yā śraddhā matsevāyāṃ tu nirguṇā || 27||
pathyaṃ pūtaṃ anāyaḥ taṃ āhāryaṃ sāttvikaṃ smṛtam |
rājasaṃ ca indriyapreṣṭhaṃ tāmasaṃ ca ārtida aśuci || 28||
sāttvikaṃ sukhaṃ ātmotthaṃ viṣayotthaṃ tu rājasam |
tāmasaṃ mohadainotthaṃ nirguṇaṃ madapāśrayam || 29||
dravyaṃ deśaḥ phalaṃ kālaḥ jñānaṃ karma ca kārakāḥ |
śraddhā avasthā ākṛtiḥ niṣṭhā traiguṇyaḥ sarvaḥ eva hi ||
30||
sarve guṇamayāḥ bhāvāḥ puruṣa avyakta dhiṣṭhitāḥ || 31||
etāḥ saṃsṛtayaḥ puṃsaḥ guṇakarmanibandhanāḥ |
yena ime nirjitāḥ saumya guṇāḥ jīvena cittajāḥ |
bhaktiyogena manniṣṭhaḥ madbhāvāya prapadyate || 32||
tasmāt ahaṃ imaṃ labdhvā jñānavijñānasambhavam |
guṇasaṅgaṃ vinirdhūya māṃ bhajantu vicakṣaṇāḥ || 33||
niḥsaṅgaḥ māṃ bhajet vidvān apramattaḥ jitendriyaḥ |
rajaḥ tamaḥ ca abhijayet sattvasaṃsevayā muniḥ || 34||
sattvaṃ ca abhijayet yuktaḥ nairapekṣyeṇa śāntadhīḥ |
sampadyate guṇaiḥ muktaḥ jīvaḥ jīvaṃ vihāya mām || 35||
jīvaḥ jīvavinirmuktaḥ guṇaiḥ ca āśayasambhavaiḥ |
mayā eva brahmaṇā pūrṇaḥ na bahiḥ na antaraḥ caret || 36||

guṇanirguṇanirūpaṇaṃ nāma pañcaviṃśo'dhyāyaḥ || 25||
atha ṣaḍviṃśo'dhyāyaḥ |
śrībhagavān uvāca |
mat lakṣaṇaṃ imaṃ kāyaṃ labdhvā maddharmaḥ āsthitaḥ |
ānandaṃ paramātmānaṃ ātmasthaṃ samupaiti mām ||1||
guṇamayyāḥ jīvayonyāḥ vimuktaḥ jñānaniṣṭhayā |
guṇeṣu māyāmātreṣu dṛśyamāneṣu avastutaḥ |
vartamānaḥ api na pumān yujyate avastubhiḥ guṇaiḥ || 2||
saṅgaṃ na kuryāt asatāṃ śiśna udara tṛpāṃ kvacit |
tasya anugataḥ tamasi andhe patati andha anugāndhavat || 3||
ailaḥ samrāṭ imāṃ gāthāṃ agāyata bṛhacchravāḥ |
urvaśī virahāt muhyan nirviṇṇaḥ śokasaṃyame || 4||
tyaktvā ātmānaṃ vrajantīṃ tāṃ nagnaḥ unmattavat nṛpaḥ |
vilapan anvagāt jāye ghore tiṣṭha iti viklavaḥ || 5||
kāmān atṛptaḥ anujuṣan kṣullakān varṣayāminīḥ |
na veda yāntīḥ na ayāntīḥ urvaśī ākṛṣṭaceatanaḥ || 6||
ailaḥ uvāca |
aho me mohavistāraḥ kāmakaṣmalacetasaḥ |
devyāḥ gṛhītakaṇṭhasya na āyuḥkhaṇḍāḥ ime smṛtāḥ || 7||
na ahaṃ veda abhinirmuktaḥ sūryaḥ vā abhyuditaḥ amuyā |
muṣitaḥ varṣapūgānāṃ bata ahāni gatāni uta || 8||
aho me ātmasammohaḥ yena ātmā yoṣitāṃ kṛtaḥ |
krīḍāmṛgaḥ cakravartī naradevaśikhāmaṇiḥ || 9||
saparicchadaṃ ātmānaṃ hitvā tṛṇaṃ iva īśvaram |
yāntīṃ striyaṃ ca anvagamaṃ nagnaḥ unmattavat rudan || 10||
kutaḥ tasya anubhāvaḥ syāt tejaḥ īśatvaṃ eva vā |
yaḥ anvagacchaṃ striyaṃ yāntīṃ kharavat pādatāḍitaḥ || 11||
kiṃ vidyayā kiṃ tapasā kiṃ tyāgena śrutena vā |
kiṃ viviktena maunena strībhiḥ yasya manaḥ hṛtam || 12||
svārthasya akovidaṃ dhiṅ māṃ mūrkhaṃ paṇḍita māninam |
yaḥ ahaṃ īśvaratāṃ prāpya strībhiḥ go kharavat jitaḥ || 13||
sevataḥ varṣapūgāt me urvaśyaḥ adharāsavam |
na tṛpyati ātmabhūḥ kāmaḥ vahniḥ āhutibhiḥ yathā || 14||
puṃścalyā apahṛtaṃ cittaṃ konvanyaḥ mocituṃ prabhuḥ |
ātmārāmeśvaraṃ ṛte bhagavantaṃ adhokṣajam || 15||
bodhitasya api devyā me sūktavākyena durmateḥ |
manogataḥ mahāmohaḥ na apayāti ajitātmanaḥ || 16||
kiṃ etayā naḥ apakṛtaṃ rajjvā vā sarpacetasaḥ |
rajjusvarūpa aviduṣaḥ yaḥ ahaṃ yat ajitendriyaḥ || 17||
kva ayaṃ malomasaḥ kāyaḥ daurgandhi ādi ātmakaḥ aśuciḥ |
kva guṇāḥ saumanasya ādyāḥ hi adhyāsaḥ avidyayā kṛtaḥ || 18||
pitroḥ kiṃ svaṃ nu bhāryāyāḥ svāminaḥ agneḥ śvagṛdhrayoḥ |
kiṃ ātmanaḥ kiṃ suhṛdāṃ iti yaḥ na avasīyate || 19||
tasmin kalevare amedhye tucchaniṣṭhe viṣajjate |
aho subhadraṃ sunasaṃ susmitaṃ ca mukhaṃ striyaḥ || 20||
tvaṅ māṃsa rudhira snāyu medo majjā asthi saṃhatau |
viṇmūtrapūye ramatāṃ kṛmīṇāṃ kiyat antaram || 21||
atha api na upasajjeta strīṣu straiṇeṣu ca arthavit |
viṣaya indriya saṃyogāt manaḥ kṣubhyati na anyathā || 22||
adṛṣṭāt aśrutāt bhāvāt na bhāvaḥ upajāyate |
asamprayuñjataḥ prāṇān śāmyati stimitaṃ manaḥ || 23||
tasmāt saṅgaḥ na kartavyaḥ strīṣu straiṇeṣu ca indriyaiḥ |
viduṣāṃ ca api aviśrabdhaḥ ṣaḍvargaḥ kimu mādṛśām ||
24||
śrībhagavān uvāca |
evaṃ pragāyan nṛpadevadevaḥ
saḥ urvaśīlokaṃ athaḥ vihāya |
ātmānaṃ ātmani avagamya māṃ vai
upāramat jñānavidhūtamohaḥ || 25||
tataḥ duḥsaṅgaṃ utsṛjya satsu sajjeta buddhimān |
santaḥ etasya chindanti manovyāsaṅgamuktibhiḥ || 26||
santaḥ anapekṣāḥ maccittāḥ praśāntāḥ samadarśinaḥ |
nirmamāḥ nirahaṅkārāḥ nirdvandvāḥ niṣparigrahāḥ || 27||
teṣu nityaṃ mahābhāgaḥ mahābhāgeṣu matkathāḥ |
sambhavanti hitā nṝṇāṃ juṣatāṃ prapunanti agham || 28||
tāḥ ye śruṇvanti gāyanti hi anumodanti ca adṛtāḥ |
matparāḥ śraddadhānāḥ ca bhaktiṃ vindanti te mayi || 29||
bhaktiṃ labdhavataḥ sādhoḥ kiṃ anyat avaśiṣyate |
mayi anantaguṇe brahmaṇi ānanda anubhava ātmani || 30||
yathā upaśrayamāṇasya bhagavantaṃ vibhāvasum |
śītaṃ bhayaṃ tamaḥ api eti sādhūn saṃsevataḥ tathā || 31||
nimajjya unmajjyatāṃ ghore bhavābdhau parama ayanam |
santaḥ brahmavidaḥ śāntāḥ nauḥ dṛḍha iva apsu majjatām || 32||
annaṃ hi prāṇināṃ prāṇaḥ ārtānāṃ śaraṇaṃ tu aham |
dharmaḥ vittaṃ nṛṇāṃ pretya santaḥ arvāk bibhyataḥ araṇam ||
33||
santaḥ diśanti cakṣūṃṣi bahiḥ arkaḥ samutthitaḥ |
devatāḥ bāndhavāḥ santaḥ santaḥ ātmā ahaṃ eva ca || 34||
vaitasenaḥ tataḥ api evaṃ urvaśyā lokaniḥspṛhaḥ |
muktasaṅgaḥ mahīṃ etāṃ ātmārāmaḥ cacāra ha || 35||

ailagītaṃ nāma ṣaḍviṃśo'dhyāyaḥ || 26||
atha saptaviṃśo'dhyāyaḥ |
uddhavaḥ uvāca |
kriyāyogaṃ samācakṣva bhavat ārādhanaṃ prabho |
yasmāt tvāṃ ye yathā arcanti sātvatāḥ sātvatarṣabha || 1||
etat vadanti munayaḥ muhuḥ niḥśreyasaṃ nṛṇām |
nāradaḥ bhagavān vyāsaḥ ācāryaḥ aṅgirasaḥ sutaḥ || 2||
niḥsṛtaṃ te mukhāmbhojādyat āha bhagavān ajaḥ |
putrebhyaḥ bhṛgumukhyebhyaḥ devyai ca bhagavān bhavaḥ || 3||
etat vai sarvavarṇānāṃ āśramāṇāṃ ca sammatam |
śreyasāṃ uttamaṃ manye strīśūdrāṇāṃ ca mānada || 4||
etat kamalapatrākṣa karmabandhavimocanam |
bhaktāya ca anuraktāya brūhi viśveśvara īśvara || 5||
śrībhagavān uvāca |
nahi antaḥ anantapārasya karmakāṇḍasya ca uddhava |
saṅkṣiptaṃ varṇayiṣyāmi yathāvat anupūrvaśaḥ || 6||
vaidikaḥ tāntrikaḥ miśraḥ iti me trividhaḥ makhaḥ |
trayāṇāṃ īpsitena eva vidhinā māṃ samarcayet || 7||
yadā svanigamena uktaṃ dvijatvaṃ prāpya pūruṣaḥ |
yathā yajeta māṃ bhaktyā śraddhayā tat nibodha me || 8||
arcāyāṃ sthaṇḍile agnau vā sūrye vā apsu hṛdi dvijaḥ |
dravyeṇa bhaktiyuktaḥ arcet svaguruṃ māṃ amāyayā || 9||
pūrvaṃ snānaṃ prakurvīta dhautadantaḥ aṅgaśuddhaye |
ubhayaiḥ api ca snānaṃ mantraiḥ mṛdgrahaṇādinā || 10||
sandhyā upāsti ādi karmāṇi vedena acoditāni me |
pūjāṃ taiḥ kalpayet samyak saṅkalpaḥ karmapāvanīm || 11||
śailī dārumayī lauhī lepyā lekhyā ca saikatī |
manomayī maṇimayī pratimā aṣṭavidhā smṛtā || 12||
cala acala iti dvividhā pratiṣṭhā jīvamandiram |
udvāsa āvāhane na staḥ sthirāyāṃ uddhava arcane || 13||
asthirāyāṃ vikalpaḥ syāt sthaṇḍile tu bhavet dvayam |
snapanaṃ tu avilepyāyāṃ anyatra parimārjanam || 14||
dravyaiḥ prasiddhyaiḥ mat yāgaḥ pratimādiṣu amāyinaḥ |
bhaktasya ca yathālabdhaiḥ hṛdi bhāvena ca eva hi || 15||
snāna alaṅkaraṇaṃ preṣṭhaṃ arcāyāṃ eva tu uddhava |
sthaṇḍile tattvavinyāsaḥ vahnau ājyaplutaṃ haviḥ || 16||
sūrye ca abhyarhaṇaṃ preṣṭhaṃ salile salila ādibhiḥ |
śraddhayā upāhṛtaṃ preṣṭhaṃ bhaktena mama vāri api || 17||
bhūryapi abhakta upahṛtaṃ na me toṣāya kalpate |
gandhaḥ dhūpaḥ sumanasaḥ dīpaḥ anna ādya ca kiṃ punaḥ || 18||
śuciḥ sambhṛtasambhāraḥ prāk darbhaiḥ kalpita āsanaḥ |
āsīnaḥ prāk udak vā arcet arcāyāṃ atha sammukhaḥ || 19||
kṛtanyāsaḥ kṛtanyāsāṃ madarcāṃ pāṇinā mṛjet |
kalaśaṃ prokṣaṇīyaṃ ca yathāvat upasādhayet || 20||
tat adbhiḥ devayajanaṃ dravyāṇi ātmānaṃ eva ca |
prokṣya pātrāṇi trīṇi adbhiḥ taiḥ taiḥ dravyaiḥ ca sādhayet || 21||
pādya argha ācamanīyārthaṃ trīṇi pātrāṇi daiśikaḥ |
hṛdā śīrṣṇā atha śikhayā gāyatryā ca abhimantrayet ||
22||
piṇḍe vāyu agni saṃśuddhe hṛtpadmasthāṃ parāṃ mama |
aṇvīṃ jīvakalāṃ dhyāyet nāda ante siddhabhāvitām || 23||
tayā ātmabhūtayā piṇḍe vyāpte sampūjya tanmayaḥ |
āvāhya arca ādiṣu sthāpya nyasta aṅgaṃ māṃ prapūjayet ||
24||
pādya upasparśa arhaṇa ādīn upacārān prakalpayet |
dharmādibhiḥ ca navabhiḥ kalpayitvā āsanaṃ mama || 25||
padmaṃ aṣṭadalaṃ tatra karṇikākesara ujjvalam |
ubhābhyāṃ vedatantrābhyāṃ mahyaṃ tu ubhayasiddhaye || 26||
sudarśanaṃ pāñcajanyaṃ gadāsīṣudhanuḥ halān |
musalaṃ kaustubhaṃ mālāṃ śrīvatsaṃ ca anupūjayet || 27||
nandaṃ sunandaṃ garuḍaṃ pracaṇḍaṃ caṇḍaṃ eva ca |
mahābalaṃ balaṃ ca eva kumudaṃ kumudekṣaṇam || 28||
durgāṃ vināyakaṃ vyāsaṃ viṣvaksenaṃ gurūn surān |
sve sve sthāne tu abhimukhān pūjayet prokṣaṇa ādibhiḥ || 29||
candana uśīra karpūra kuṅkuma agaru vāsitaiḥ |
salilaiḥ snāpayet mantraiḥ nityadā vibhave sati || 30||
svarṇagharma anuvākena mahāpuruṣavidyayā |
pauruṣeṇa api sūktena sāmabhīḥ rājanādibhiḥ || 31||
vastra upavīta ābharaṇa patra srak gandha lepanaiḥ |
alaṅkurvīta saprema madbhaktaḥ māṃ yathā ucitam || 32||
pādyaṃ ācamanīyaṃ ca gandhaṃ sumanasaḥ akṣatān |
dhūpa dīpa upahāryāṇi dadyāt me śraddhayā arcakaḥ || 33||
guḍapāyasasarpīṃṣi śaṣkuli āpūpa modakān |
saṃyāva dadhi sūpāṃ ca naivedyaṃ sati kalpayet || 34||
abhyaṅga unmardana ādarśa dantadhau abhiṣecanam |
annadya gīta nṛtyādi parvaṇi syuḥ utānvaham || 35||
vidhinā vihite kuṇḍe mekhalāgartavedibhiḥ |
agniṃ ādhāya paritaḥ samūhet pāṇinā uditam || 36||
paristīrya atha paryukṣet anvādhāya yathāvidhi |
prokṣaṇyā āsādya dravyāṇi prokṣyāgnau bhāvayeta mām || 37||
taptajāmbūnadaprakhyaṃ śaṅkhacakragadāmbujaiḥ |
lasat caturbhujaṃ śāntaṃ padmakiñjalkavāsasam || 38||
sphurat kirīṭa kaṭaka kaṭisūtravara aṅgadam |
śrīvatsavakṣasaṃ bhrājat kaustubhaṃ vanamālinam || 39||
dhyāyan abhyarcya dārūṇi haviṣā abhighṛtāni ca |
prāsya ājyabhāgau āghārau dattvā ca ājyaplutaṃ haviḥ || 40||
juhuyāt mūlamantreṇa ṣoḍaśarca avadānataḥ |
dharmādibhyaḥ yathānyāyaṃ mantraiḥ sviṣṭikṛtaṃ budhaḥ || 41||
abhyarcya atha namaskṛtya pārṣadebhyaḥ baliṃ haret |
mūlamantraṃ japet brahma smaran nārāyaṇa ātmakam || 42||
dattvā ācamanaṃ uccheṣaṃ viṣvaksenāya kalpayet |
mukhavāsaṃ surabhimat tāmbūlādyaṃ atha arhayet || 42||
upagāyan gṛṇan nṛtyan karmāṇi abhinayan mama |
matkathāḥ śrāvayan śruṇvan muhūrtaṃ kṣaṇikaḥ bhavet || 44|
stavaiḥ uccāvacaiḥ stotraiḥ paurāṇaiḥ prakṛtaiḥ api |
stutvā prasīda bhagavan iti vandeta daṇḍavat || 45||
śiraḥ mat pādayoḥ kṛtvā bāhubhyāṃ ca parasparam |
prapannaṃ pāhi māṃ īśa bhītaṃ mṛtyugraha arṇavāt || 46||
iti śeṣāṃ mayā dattāṃ śirasi ādhāya sādaram |
udvāsayet cet udvāsyaṃ jyotiḥ jyotiṣi tat punaḥ || 47||
arcādiṣu yadā yatra śraddhā māṃ tatra ca arcayet |
sarvabhūteṣu ātmani ca sarva ātmā ahaṃ avasthitaḥ || 48||
evaṃ kriyāyogapathaiḥ pumān vaidikatāntrikaiḥ |
arcan ubhayataḥ siddhiṃ mattaḥ vindati abhīpsitām || 49||
madarcāṃ sampratiṣṭhāpya mandiraṃ kārayet dṛḍham |
puṣpa udyānāni ramyāṇi pūjā yātrā utsava āśritān || 50||
pūjādīnāṃ pravāhārthaṃ mahāparvasu atha anvaham |
kṣetrāpaṇapuragrāmān dattvā mat sārṣṭitāṃ iyāt || 51||
pratiṣṭhayā sārvabhaumaṃsadmanā bhuvanatrayam |
pūjādinā brahmalokaṃ tribhiḥ mat sāmyatāṃ iyāt || 52||
māṃ eva nairapekṣyeṇa bhaktiyogena vindati |
bhaktiyogaṃ saḥ labhate evaṃ yaḥ pūjayeta mām || 53||
yaḥ svadattāṃ paraiḥ dattaṃ hareta suraviprayoḥ |
vṛttiṃ saḥ jāyate viḍbhuk varṣāṇāṃ ayutāyutam || 54||
kartuḥ ca sāratheḥ hetoḥ anumodituḥ eva ca |
karmaṇāṃ bhāginaḥ pretya bhūyaḥ bhūyasi tatphalam || 55||

saptaviṃśo'dhyāyaḥ || 27||
atha aṣṭaviṃśaḥ adhyāyaḥ |
śrībhagavān uvāca |
parasvabhāvakarmāṇi na praśaṃset na garhayet |
viśvaṃ ekātmakaṃ paśyan prakṛtyā puruṣeṇa ca || 1||
parasvabhāvakarmāṇi yaḥ praśaṃsati nindati |
saḥ āśu bhraśyate svārthāt asatya abhiniveśataḥ || 2||
taijase nidrayā āpanne piṇḍasthaḥ naṣṭacetanaḥ |
māyāṃ prāpnoti mṛtyuṃ vā tadvat nānārthadṛk pumān || 3||
kiṃ bhadraṃ kiṃ abhadraṃ vā dvaitasya avastunaḥ kiyat |
vācā uditaṃ tat anṛtaṃ manasā dhyātaṃ eva ca || 4||
chāyāpratyāhvayābhāsā hi asantaḥ api arthakāriṇaḥ |
evaṃ dehādayaḥ bhāvāḥ yacchanti āmṛtyutaḥ bhayam || 5||
ātmā eva tat idaṃ viśvaṃ sṛjyate sṛjati prabhuḥ |
trāyate trāti viśvātmā hriyate harati īśvaraḥ || 6||
tasmāt nahi ātmanaḥ anyasmāt anyaḥ bhāvaḥ nirūpitaḥ |
nirūpiteyaṃ trividhā nirmūlā bhātiḥ ātmani |
idaṃ guṇamayaṃ viddhi trividhaṃ māyayā kṛtam || 7||
etat vidvān maduditaṃ jñānavijñānanaipuṇam |
na nindati na ca stauti loke carati sūryavat || 8||
pratyakṣeṇa anumānena nigamena ātmasaṃvidā |
ādi antavat asat jñātvā niḥsaṅgaḥ vicaret iha || 9||
uddhavaḥ uvāca |
na eva ātmanaḥ na dehasya saṃsṛtiḥ draṣṭṛdṛśyayoḥ |
anātmasvadṛśoḥ īśa kasya syāt upalabhyate || 10||
ātmā avyayaḥ aguṇaḥ śuddhaḥ svayañjyotiḥ anāvṛtaḥ |
agnivat dāruvat dehaḥ kasya iha saṃsṛtiḥ || 11||
śrībhagavān uvāca |
yāvat deha indriya prāṇaiḥ ātmanaḥ sannikarṣaṇam |
saṃsāraḥ phalavān tāvat apārthaḥ api avivekinaḥ || 12||

dhyāyataḥ viṣayān asya svapne anartha āgamaḥ yathā || 13||
yathā hi apratibuddhasya prasvāpaḥ bahu anarthabhṛt |
saḥ eva pratibuddhasya na vai mohāya kalpate || 14||
śoka harṣa bhaya krodha lobha moha spṛhādayaḥ |
ahaṅkārasya dṛśyante janma mṛtyuḥ ca na ātmanaḥ || 15||
deha indriya prāṇa manaḥ abhimānaḥ
jīvaḥ antarātmā guṇakarma mūrtiḥ |
sūtraṃ mahān iti urudhā iva gītaḥ
saṃsāraḥ ādhāvati kālatantraḥ || 16||
amūlaṃ etat bahurūpa rūpitaṃ
manovacaḥprāṇaśarīrakarma |
jñānāsinā upāsanayā śitena
chittvā muniḥ gāṃ vicarati atṛṣṇaḥ || 17||
jñānaṃ vivekaḥ nigamaḥ tapaḥ ca
pratyakṣaṃ aitihyaṃ atha anumānam |
ādi antayoḥ asya yat eva kevalam
kālaḥ ca hetuḥ ca tat eva madhye || 18||
yathā hiraṇyaṃ svakṛtaṃ purastāt
paścāt ca sarvasya hiraṇmayasya |
tat eva madhye vyavahāryamāṇam
nānāpadeśaiḥ ahaṃ asya tadvat || 19||
vijñānaṃ etat triyavastaṃ aṅga
guṇatrayaṃ kāraṇa kārya kartṛ |
samanvayena vyatirekataḥ ca
yena eva turyeṇa tat eva satyam || 20||
na yat purastāt uta yat na paścāt
madhye ca tat na vyapadeśamātram |
bhūtaṃ prasiddhaṃ ca pareṇa yadyat
tat eva tat syāt iti me manīṣā || 21||
avidyamānaḥ api avabhāsate yaḥ
vaikārikaḥ rājasasargaḥ eṣaḥ |
brahma svayañjyotiḥ ataḥ vibhāti
brahma indriya artha ātma vikāra citram || 22||
evaṃ sphuṭaṃ brahmavivekahetubhiḥ
parāpavādena viśāradena |
chittvā ātmasandehaṃ upārameta
svānandatuṣṭaḥ akhila kāmukebhyaḥ || 23||
na ātmā vapuḥ pārthivaṃ indriyāṇi
devāḥ hi asuḥ vāyujalaṃ hutāśaḥ |
manaḥ annamātraṃ dhiṣaṇā ca sattvam
ahaṅkṛtiḥ khaṃ kṣitiḥ arthasāmyam || 24||
samāhitaiḥ kaḥ karaṇaiḥ guṇātmabhiḥ
guṇaḥ bhavet matsuviviktadhāmnaḥ |
vikṣipyamāṇaiḥ uta kiṃ na dūṣaṇam
ghanaiḥ upetaiḥ vigataiḥ raveḥ kim || 25||
yathā nabhaḥ vāyu anala ambu bhū guṇaiḥ
gatāgataiḥ vartuguṇaiḥ na sajjate |
tathā akṣaraṃ sattva rajaḥ tamaḥ malaiḥ
ahammateḥ saṃsṛtihetubhiḥ param || 26||
tathāpi saṅgaḥ parivarjanīyaḥ
guṇeṣu māyāraciteṣu tāvat |
madbhaktiyogena dṛḍhena yāvat
rajaḥ nirasyeta manaḥkaṣāyaḥ || 27||
yathā āmayaḥ asādhu cikitsitaḥ nṛṇām
punaḥ punaḥ santudati prarohan |
evaṃ manaḥ apakva kaṣaya karma
kuyoginaṃ vidhyati sarvasaṅgam || 28||
kuyoginaḥ ye vihita antarāyaiḥ
manuṣyabhūtaiḥ tridaśa upasṛṣṭaiḥ |
te prāktana abhyāsabalena bhūyaḥ
yuñjanti yogaṃ na tu karmatantram || 29||
karoti karma kriyate ca jantuḥ
kenāpi asau coditaḥ ānipātāt |
na tatra vidvānprakṛtau sthitaḥ api
nivṛtta tṛṣṇaḥ svasukha anubhūtyā || 30||
tiṣṭhantaṃ āsīnaṃ uta vrajantam
śayānaṃ ukṣantaṃ adantaṃ annam |
svabhāvaṃ anyat kiṃ api ihamānam
ātmānaṃ ātmasthamatiḥ na veda || 31||
yadi sma paśyati asat indriya atha
nānā anumānena viruddhaṃ anyat |
na manyate vastutayā manīṣī
svāpnaṃ yathā utthāya tirodadhānam || 32||
pūrvaṃ gṛhītaṃ guṇakarmacitram
ajñānaṃ ātmani aviviktaṃ aṅga |
nivartate tat punaḥ īkṣayā eva
na gṛhyate na api visṛjya ātmā || 33||
yathā hi bhānoḥ udayaḥ nṛcakṣuṣām
tamaḥ nihanyāt na tu sadvidhatte |
evaṃ samīkṣā nipuṇā satī me
hanyāt tamisraṃ puruṣasya buddheḥ || 34||
eṣaḥ svayañjyotiḥ ajaḥ aprameyaḥ
mahānubhūtiḥ sakalānubhūtiḥ |
ekaḥ advitīyaḥ vacasāṃ virāme
yena īśitā vāk asavaḥ caranti || 35||
etāvān ātmasammohaḥ yat vikalpaḥ tu kevale |
ātman nṛte svamātmānaṃ avalambaḥ na yasya hi ||36||
yat nāma ākṛtibhiḥ grāhyaṃ pañcavarṇaṃ abādhitam |
vyarthena api arthavādaḥ ayaṃ dvayaṃ paṇḍitamāninām || 37||
yoginaḥ apakvayogasya yuñjataḥ kāyaḥ utthitaiḥ |
upasargaiḥ vihanyeta tatra ayaṃ vihitaḥ vidhiḥ || 38||
yogadhāraṇayā kāṃścit āsanaiḥ dhāraṇa anvitaiḥ |
tapomantrauṣadhaiḥ kāṃścit upasargān vinirdahet || 39||
kāṃścit mama anudhyānena nāmasaṅkīrtana ādibhiḥ |
yogeśvara anuvṛttyā vā hanyāt aśubhadān śanaiḥ || 40||
kecit dehaṃ imaṃ dhīrāḥ sukalpaṃ vayasi sthiram |
vidhāya vividha upāyaiḥ atha yuñjanti siddhaye || 41||
na hi tat kuśalāt dṛtyaṃ tat āyāsaḥ hi apārthakaḥ |
antavattvāt śarīrasya phalasya iva vanaspateḥ || 42||
yogaṃ niṣevataḥ nityaṃ kāyaḥ cet kalpatāṃ iyāt |
tat śraddadhyāt na matimān yogaṃ utsṛjya matparaḥ || 43||
yogacaryāṃ imāṃ yogī vicaran mat vyapāśrayaḥ |
na antarāyaiḥ vihanyeta niḥspṛhaḥ svasukhānubhūḥ || 44||

paramārthanirṇayo nāma aṣṭāviṃśo'dhyāyaḥ || 28||
atha ekonatriṃśaḥ adhyāyaḥ |
sudustarāṃ imāṃ manye yogacaryāṃ anātmanaḥ |
yathā añjasā pumān sihyet tat me brūhi añjasā acyuta || 1||
prāyaśaḥ puṇḍarīkākṣa yuñjantaḥ yoginaḥ manaḥ |
viṣīdanti asamādhānāt manonigrahakarśitāḥ || 2||
atha ataḥ ānandadughaṃ padāmbujam
haṃsāḥ śrayeran aravindalocana |
sukhaṃ nu viśveśvara yogakarmabhiḥ
tvat māyayā amī vihatāḥ na māninaḥ || 3||
kiṃ citraṃ acyuta tava etat aśeṣabandhaḥ
dāseṣu ananyaśaraṇeṣu yat ātma sāttvam |
yaḥ arocayatsaha mṛgaiḥ svayaṃ īśvarāṇām
śrīmat kirīṭa taṭa pīḍita pāda pīṭhaḥ || 4||
taṃ tvā akhila ātmadayita īśvaraṃ āśritānām
sarva arthadaṃ svakṛtavit visṛjeta kaḥ nu |
kaḥ vā bhajet kiṃ api vismṛtaye anu bhūtyai
kiṃ vā bhavet na tava pādarajojuṣāṃ naḥ || 5||
na eva upayanti apacitiṃ kavayaḥ tava īśa
brahmāyuṣā api kṛtaṃ ṛdhamudaḥ smarantaḥ |
yaḥ antarbahiḥ tanubhṛtāṃ aśubhaṃ vidhunvan
ācāryacaityavapuṣā svagataṃ vyanakti || 6||
śrīśukaḥ uvāca |
iti uddhavena ati anurakta cetasā
pṛṣṭaḥ jagatkrīḍanakaḥ svaśaktibhiḥ |
gṛhīta mūrtitrayaḥ īśvara īśvaraḥ
jagāda saprema manoharasmitaḥ || 7||
śrībhagavān uvāca |
hanta te kathayiṣyāmi mama dharmān sumaṅgalām |
yān śraddhayā ācaran martyaḥ mṛtyuṃ jayati durjayam || 8||
kuryāt sarvāṇi karmāṇi madarthaṃ śanakaiḥ smaran |
mayi arpita manaḥ cittaḥ mat dharma ātmamanoratiḥ || 9||
deśān puṇyān āśrayeta madbhaktaiḥ sādhubhiḥ śritān |
deva āsura manuṣyeṣu madbhakta ācaritāni ca || 10||
pṛthak satreṇa vā mahyaṃ parvayātrā mahotsavān |
kārayet gītanṛtya ādyaiḥ mahārāja vibhūtibhiḥ || 11||
māṃ eva sarvabhūteṣu bahiḥ antaḥ apāvṛtam |
īkṣeta ātmani ca ātmānaṃ yathā khaṃ amala āśayaḥ || 12||
iti sarvāṇi bhūtāni madbhāvena mahādyute |
sabhājayan manyamānaḥ jñānaṃ kevalaṃ āśritaḥ || 13||
brāhmaṇe pulkase stene brahmaṇye arke sphuliṅgake |
akrūre krūrake ca eva samadṛk paṇḍitaḥ mataḥ || 14||
nareṣu abhīkṣṇaṃ madbhāvaṃ puṃsaḥ bhāvayataḥ acirāt |
spardhā asūyā tiraskārāḥ sāhaṅkārāḥ viyanti hi || 15||
visṛjya smayamānān svān dṛśaṃ vrīḍāṃ ca daihikīm |
praṇamet daṇḍavat bhūmau āśva cāṇḍāla go kharam || 16||
yāvat sarveṣu bhūteṣu madbhāvaḥ na upajāyate |
tāvat evaṃ upāsīta vāṅ mana kāya vṛttibhiḥ || 17||
sarvaṃ brahmātmakaṃ tasya vidyayā ātma manīṣayā |
paripaśyan uparamet sarvataḥ mukta saṃśayaḥ || 18||
ayaṃ hi sarvakalpānāṃ sadhrīcīnaḥ mataḥ mama |
madbhāvaḥ sarvabhūteṣu manovākkāyavṛttibhiḥ || 19||
na hi aṅga upakrame dhvaṃsaḥ maddharmasya uddhava aṇu api |
mayā vyavasitaḥ samyak nirguṇatvāt anāśiṣaḥ || 20||
yaḥ yaḥ mayi pare dharmaḥ kalpyate niṣphalāya cet |
tat āyāsaḥ nirarthaḥ syāt bhayādeḥ iva sattma || 21||
eṣā buddhimatāṃ buddhiḥ manīṣā ca manīṣiṇām |
yat satyaṃ anṛtena iha martyena āpnoti mā amṛtam || 22||
eṣa te abhihitaḥ kṛtsnaḥ brahmavādasya saṅgrahaḥ |
samāsavyāsavidhinā devānāṃ api durgamaḥ || 23||
abhīkṣṇaśaḥ te gaditaṃ jñānaṃ vispaṣṭayuktimat |
etat vijñāya mucyeta puruṣaḥ naṣṭasaṃśayaḥ || 24||
suviviktaṃ tava praśnaṃ mayā etat api dhārayet |
sanātanaṃ brahmaguhyaṃ paraṃ brahma adhigacchati || 25||
yaḥ etat mama bhakteṣu sampradadyāt supuṣkalam |
tasya ahaṃ brahmadāyasya dadāmi ātmānaṃ ātmanā || 26||
yaḥ etat samadhīyīta pavitraṃ paramaṃ śuci |
saḥ pūyeta ahaḥ ahaḥ māṃ jñānadīpena darśayan || 27||
yaḥ etat śraddhayā nityaṃ avyagraḥ śruṇuyāt naraḥ |
mayi bhaktiṃ parāṃ kurvan karmabhiḥ na saḥ badhyate || 28||
api uddhava tvayā brahma sakhe samavadhāritam |
api te vigataḥ mohaḥ śokaḥ ca asau manobhavaḥ || 29||
na etat tvayā dāmbhikāya nāstikāya śaṭhāya ca |
aśuśrūṣoḥ abhaktāya durvinītāya dīyatām || 30||
etaiḥ doṣaiḥ vihīnāya brahmaṇyāya priyāya ca |
sādhave śucaye brūyāt bhaktiḥ syāt śūdra yoṣitām || 31||
na etat vijñāya jijñāsoḥ jñātavyaṃ avaśiṣyate |
pītvā pīyūṣaṃ amṛtaṃ pātavyaṃ na avaśiṣyate || 32||
jñāne karmaṇi yoge ca vārtāyāṃ daṇḍadhāraṇe |
yāvān arthaḥ nṛṇāṃ tāta tāvān te ahaṃ caturvidhaḥ || 33||
martyaḥ yadā tyakta samastakarmā
niveditātmā vicikīrṣitaḥ me |
tadā amṛtatvaṃ pratipadyamānaḥ
mayā ātmabhūyāya ca kalpate vai || 34||
śrīśukaḥ uvāca |
saḥ evaṃ ādarśita yogamārgaḥ
tadā uttama ślokavacaḥ niśamya |
baddha añjaliḥ prīti uparuddha kaṇṭhaḥ
na kiñcit ūceḥ aśru paripluta akṣaḥ || 35||
viṣṭabhya cittaṃ praṇaya avaghūrṇam
dhairyeṇa rājan bahu manyamānaḥ |
kṛtāñjaliḥ prāha yadupravīram
śīrṣṇā spṛśan tat caraṇa aravindam || 36||
uddhavaḥ uvāca |
vidrāvitaḥ moha mahā andhakāraḥ
yaḥ āśritaḥ me tava sannidhānāt |
vibhāvasoḥ kiṃ nu samīpagasya
śītaṃ tamaḥ bhīḥ prabhavanti aja adya || 37||
pratyarpitaḥ me bhavatā anukampinā
bhṛtyāya vijñānamayaḥ pradīpaḥ |
hitvā kṛtajñaḥ tava pādamūlam
kaḥ anyat samīyāt śaraṇaṃ tvadīyam || 38||
vṛkṇaḥ ca me sudṛḍhaḥ snehapāśaḥ
dāśārha vṛṣṇi andhaka sātvateṣu |
prasāritaḥ sṛṣṭivivṛddhaye tvayā
svamāyayā hi ātma subodha hetinā || 39||
namaḥ astu te mahāyogin prapannaṃ anuśādhi mām |
yathā tvat caraṇa ambhoje ratiḥ syāt anapāyinī || 40||
śrībhagavān uvāca |
gaccha uddhava mayā ādiṣṭaḥ badari ākhyaṃ mama āśramam |
tatra mat pāda tīrthode snāna upasparśanaiḥ śuciḥ || 41||
īkṣayā alakanandāyā vidhūta aśeṣa kalmaṣaḥ |
vasānaḥ valkalāni aṅga vanyabhuk sukha niḥspṛhaḥ || 42||
titikṣauḥ dvandvamātrāṇāṃ suśīlaḥ saṃyatendriyaḥ |
śāntaḥ samāhitadhiyā jñānavijñānasaṃyutaḥ || 43||
mattaḥ anuśikṣitaṃ yat te viviktamanubhāvayan |
mayi āveśita vāk cittaḥ maddharma nirataḥ bhava |
ativrajya gatīḥ tisraḥ māṃ eṣyasi tataḥ param || 44||
śrīśukaḥ uvāca |
saḥ evaṃ uktaḥ harimedhasā uddhavaḥ
pradakṣiṇaṃ taṃ parisṛtya pādayoḥ |
śiraḥ nidhāya aśrukalābhiḥ ārdradhīḥ
nyaṣiñcat advandvaparaḥ api upakrame || 45||
sudustyaja sneha viyoga kātaraḥ
na śaknuvan taṃ parihātuṃ āturaḥ |
kṛcchraṃ yayau mūrdhani bhartṛpāduke
bibhran namaskṛtya yayau punaḥ punaḥ || 46||
tataḥ taṃ antarhṛdi sanniveśya
gataḥ mahābhāgavataḥ viśālām |
yathā upadiṣṭāṃ jagat ekabandhunā
tataḥ samāsthāya hareḥ agāt gatim || 47||
yaḥ eatat ānanda samudra sambhṛtam
jñānāmṛtaṃ bhāgavatāya bhāṣitam |
kṛṣṇeṇa yogeśvara sevitāṅghriṇā
sacchraddhayā āsevya jagat vimucyate || 48||
bhavabhaya apahantuṃ jñānavijñānasāram
nigamakṛt upajahe bhṛṅgavat vedasāram |
amṛtaṃ udadhitaḥ ca apāyayat bhṛtyavargān
puruṣaṃ ṛṣabhaṃ ādyaṃ kṛṣṇasañjñaṃ nataḥ asmi || 49||

paramārthaprāptisugamopāyakathanoddhavabadarikāśramapraveśo
nāma ekonatriṃśo'dhyāyaḥ || 29||
atha triṃśaḥ adhyāyaḥ |
rājā uvāca |
tataḥ mahābhāgavate uddhave nirgate vanam |
dvāravatyāṃ kiṃ akarot bhagavān bhūtabhāvanaḥ || 1||
brahmaśāpa upasaṃsṛṣṭe svakule yādavarṣabhaḥ |
preyasīṃ sarvanetrāṇāṃ tanuṃ saḥ kathaṃ atyajat || 2||
pratyākraṣṭuṃ nayanaṃ abalā yatra lagnaṃ na śekuḥ
karṇāviṣṭaṃ na sarati tataḥ yat satāṃ ātmalagnam |
yat śrīḥ vācāṃ janayati ratiṃ kiṃ nu mānaṃ kavīnām
dṛṣṭvā jiṣṇoḥ yudhi rathagataṃ yat ca tat sāmyam
īyuḥ || 3||
ṛṣiḥ uvāca |
divi bhuvi antarikṣe ca mahotpātān samutthitān |
dṛṣṭvā āsīnān sudharmāyāṃ kṛṣṇaḥ prāha yadūn idam || 4||
śrībhagavān uvāca |
ete ghorāḥ mahotpātāḥ dvārvatyāṃ yamaketavaḥ |
muhūrtaṃ api na stheyaṃ atra naḥ yadupuṅgavāḥ || 5||
striyaḥ bālāḥ ca vṛddhāḥ ca śaṅkhoddhāraṃ vrajantvitaḥ |
vayaṃ prabhāsaṃ yāsyāmaḥ yatra pratyak sarasvatī || 6||
tatra abhiṣicya śucaya upoṣya susamāhitāḥ |
devatāḥ pūjayiṣyāmaḥ snapana ālepana arhaṇaiḥ ||7||
brāhmaṇān tu mahābhāgān kṛtasvastyayanā vayam |
go bhū hiraṇya vāsobhiḥ gaja aśvaratha veśmabhiḥ || 8||
vidhiḥ eṣaḥ hi ariṣṭaghnaḥ maṅgala āyanaṃ uttamam |
deva dvija gavāṃ pūjā bhūteṣu paramaḥ bhavaḥ || 9||
iti sarve samākarṇya yaduvṛddhāḥ madhudviṣaḥ |
tathā iti naubhiḥ uttīrya prabhāsaṃ prayayū rathaiḥ || 10||
tasmin bhagavatā ādiṣṭaṃ yadudevena yādavā |
cakruḥ parabhayā bhaktyā sarvaśreya upabṛṃhitam || 11||
tataḥ tasmin mahāpānaṃ papuḥ maireyakaṃ madhu |
diṣṭa vibhraṃśita dhiyaḥ yat dravaiḥ bhraśyate matiḥ || 12||
mahāpāna abhimattānāṃ vīrāṇāṃ dṛptacetasām |
kṛṣṇamāyā vimūḍhānāṃ saṅgharṣaḥ sumahān abhūt || 13||
yuyudhuḥ krodhasaṃrabdhā velāyāṃ ātatāyinaḥ |
dhanubhiḥ asibhiḥ mallaiḥ gadābhiḥ tāṃ ararṣṭibhiḥ || 14||
patatpatākai rathakuñjarādibhiḥ
khara uṣṭra gobhiḥ mahiṣaiḥ naraiḥ api |
mithaḥ sametya aśvataraiḥ sudurmadā
nyahan śarardadbhiḥ iva dvipā vane || 15||
pradyumna sāmbau yudhi rūḍhamatsarau
akrūra bhojau aniruddha sātyakī |
subhadra saṅgrāmajitau sudāruṇau
gadau sumitrā surathau samīyatuḥ || 16||
anye ca ye vai niśaṭha ulmuka ādayaḥ
sahasrajit śatajit bhānu mukhyāḥ |
anyonyaṃ āsādya madāndhakāritā
jaghnuḥ mukundena vimohitā bhṛśam || 17||
dāśārha vṛṣṇi andhaka bhoja sātvatā
madhu arbudā māthuraśūrasenāḥ |
visarjanāḥ kukurāḥ kuntayaḥ ca
mithaḥ tataḥ te atha visṛjya sauhṛdam || 18||
putrāḥ ayudhyan pitṛbhiḥ bhrātṛbhiḥ ca
svastrīya dauhitra pitṛvyamātulaiḥ |
mitrāṇi mitraiḥ suhṛdaḥ suhṛdbhiḥ
jñātīṃstvahan jñātayaḥ eva mūḍhāḥ || 19||
śareṣu kṣīyamāṇeṣu bhajyamāneṣu dhanvasu |
śastreṣu kṣīyamāṇeṣu muṣṭibhiḥ jahruḥ erakāḥ || 20||
tāḥ vajrakalpāḥ hi abhavan parighāḥ muṣṭināḥ bhṛtāḥ |
jaghnuḥ dviṣaḥ taiḥ kṛṣṇena vāryamāṇāḥ tu taṃ ca te || 21||
pratyanīkaṃ manyamānāḥ balabhadraṃ ca mohitāḥ |
hantuṃ kṛtadhiyaḥ rājan āpannāḥ ātatāyinaḥ || 22||
atha tau api saṅkruddhau udyamya kurunandana |
erakā muṣṭi parighau jarantau jaghnatuḥ yudhi || 23||
brahmaśāpa upasṛṣṭānāṃ kṛṣṇamāyāvṛta ātmanām |
spardhākrodhaḥ kṣayaṃ ninye vaiṇavaḥ agniḥ yathā vanam || 24||
evaṃ naṣṭeṣu sarveṣu kuleṣu sveṣu keśavaḥ |
avatāritaḥ bhuvaḥ bhāraḥ iti mene avaśeṣitaḥ || 25||
rāmaḥ samudravelāyāṃ yogaṃ āsthāya pauruṣam |
tat tyāja lokaṃ mānuṣyaṃ saṃyojya ātmānaṃ ātmani || 26||
rāmaniryāṇaṃ ālokya bhagavān devakīsutaḥ |
niṣasāda dharopasthe tūṣṇīṃ āsādya pippalam || 27||
bibhrat caturbhujaṃ rūpaṃ bhrājiṣṇu prabhayā svayā |
diśaḥ vitimārāḥ kurvan vidhūmaḥ iva pāvakaḥ || 28||
śrīvatsāṅkaṃ ghanaśyāmaṃ tapta hāṭaka varcasam |
kauśeya ambara yugmena parivītaṃ sumaṅgalam || 29||
sundara smita vaktra abjaṃ nīla kuntala maṇḍitam |
puṇḍarīka abhirāmākṣaṃ sphuran makara kuṇḍalam || 30||
kaṭisūtra brahmasūtra kirīṭa kaṭaka aṅgadaiḥ |
hāra nūpura mudrābhiḥ kaustubhena virājitam || 31||
vanamālā parītāṅgaṃ mūrtimadbhiḥ nija āyudhaiḥ |
kṛtvā urau dakṣiṇe pādaṃ āsīnaṃ paṅkaja aruṇam || 32||
musalau aśeṣāyaḥ khaṇḍakṛteṣuḥ lubdhakaḥ jarāḥ |
mṛgāsya ākāraṃ tat caraṇaṃ vivyādha mṛgaśaṅkayā || 33||
caturbhujaṃ taṃ puruṣaṃ dṛṣṭvā saḥ kṛta kilbiṣaḥ |
bhītaḥ papāta śirasā pādayoḥ asuradviṣaḥ || 34||
ajānatā kṛtaṃ idaṃ pāpena madhusūdana |
kṣantuṃ arhasi pāpasya uttamaślokaḥ me anagha || 35||
yasya anusmaraṇaṃ nṝṇāṃ ajñāna dhvānta nāśanam |
vadanti tasya te viṣṇo mayā asādhu kṛtaṃ prabho || 36||
tat mā āśu jahi vaikuṇṭha pāpmānaṃ mṛga lubdhakam |
yathā punaḥ ahaṃ tu evaṃ na kuryāṃ sat atikramam || 37||
yasya ātma yoga racitaṃ na viduḥ viriñcaḥ
rudra ādayaḥ asya tanayāḥ patayaḥ girāṃ ye |
tvat māyayā pihita dṛṣṭayaḥ etat añjaḥ
kiṃ tasya te vayaṃ asat gatayaḥ gṛṇīmaḥ || 38||
śrībhagavān uvāca |
mā bhaiḥ jare tvaṃ uttiṣṭha kāmaḥ eṣaḥ kṛtaḥ hi me |
yāhi tvaṃ mat anujñātaḥ svargaṃ sukṛtināṃ padam || 39||
iti ādiṣṭaḥ bhagavatā kṛṣṇena icchā śarīriṇā |
triḥ parikramya taṃ natvā vimānena divaṃ yayau || 40||
dārukaḥ kṛṣṇapadavīṃ anvicchan adhigamyatām |
vāyuṃ tulasikāmodaṃ āghrāya abhimukhaṃ yayau || 41||
taṃ tatra tigmadyubhiḥ āyudhaiḥ vṛtam
hi aśvatthamūle kṛtaketanaṃ patim |
snehaplutātmā nipapāta pādayo
rathāt avaplutya sabāṣpalocanaḥ || 42||
apaśyataḥ tvat caraṇa ambujaṃ prabho
dṛṣṭiḥ praṇaṣṭā tamasi praviṣṭā |
diśaḥ na jāne na labhe ca śāntim
yathā niśāyaṃ uḍupe praṇaṣṭe || 43||
iti bruvate sūte vai rathaḥ garuḍalāñchanaḥ |
khaṃ utpapāta rājendra sāśvadhvajaḥ udīkṣataḥ || 44||
taṃ anvagacchan divyāni viṣṇupraharaṇāni ca |
tena ati vismita ātmānaṃ sūtaṃ āha janārdanaḥ || 45||
gaccha dvāravatīṃ sūta jñātīnāṃ nidhanaṃ mithaḥ |
saṅkarṣaṇasya niryāṇaṃ bandhubhyaḥ brūhi mat daśām || 46||
dvārakāyāṃ ca na stheyaṃ bhavadbhiḥ ca svabandhubhiḥ |
mayā tyaktāṃ yadupurīṃ samudraḥ plāvayiṣyati || 47||
svaṃ svaṃ parigrahaṃ sarve ādāya pitarau ca naḥ |
arjunena āvitāḥ sarva indraprasthaṃ gamiṣyatha || 48||
tvaṃ tu mat dharmaṃ āsthāya jñānaniṣṭhaḥ upekṣakaḥ |
manmāyā racanāṃ etāṃ vijñāya upaśamaṃ vraja || 49||
iti uktaḥ taṃ parikramya namaskṛtya punaḥ punaḥ |
tat pādau śīrṣṇi upādhāya durmanāḥ prayayau purīm || 50||

saṃhitāyāmekādaśaskandhe yadukulasaṅkṣayo nāma
triṃśo'dhyāyaḥ || 30||
atha ekatriṃśaḥ adhyāyaḥ |
śrīśukaḥ uvāca |
atha tatra āgamat brahmā bhavānyā ca samaṃ bhavaḥ |
mahendrapramukhāḥ devāḥ munayaḥ saprajeśvarāḥ || 1||
pitaraḥ siddhagandharvāḥ vidyādhara mahoragāḥ |
cāraṇāḥ yakṣarakṣāṃsi kinnara apsarasaḥ dvijāḥ || 2||
draṣṭukāmāḥ bhagavataḥ nirvāṇaṃ parama utsukāḥ |
gāyantaḥ ca gṛṇantaḥ ca śaureḥ karmāṇi janma ca || 3||
vavarṣuḥ puṣpavarṣāṇi vimāna āvalibhiḥ nabhaḥ |
kurvantaḥ saṅkulaṃ rājan bhaktyā paramayā yutāḥ || 4||
bhagavān pitāmahaṃ vīkṣya vibhūtiḥ ātmanaḥ vibhuḥ |
saṃyojya ātmani ca ātmānaṃ padmanetre nyamīlayat || 5||
lokābhirāmāṃ svatanuṃ dhāraṇā dhyāna maṅgalam |
yogadhāraṇayā āgneyyā adagdhvā dhāma āviśat svakam || 6||
divi dundubhayaḥ neduḥ petuḥ sumanaḥ ca khāt |
satyaṃ dharmaḥ dhṛtiḥ bhūmeḥ kīrtiḥ śrīḥ ca anu taṃ vayuḥ || 7||
deva ādayaḥ brahmamukhyāḥ na viśantaṃ svadhāmani |
avijñātagatiṃ kṛṣṇaṃ dadṛśuḥ ca ativismitāḥ || 8||
saudāmanyāḥ yathā ākāśe yāntyāḥ hitvā abhramaṇḍalam |
gatiḥ na lakṣyate martyaiḥ tathā kṛṣṇasya daivataiḥ || 9||
brahma rudra ādayaḥ te tu dṛṣṭvā yogagatiṃ hareḥ |
vismitāḥ tāṃ praśaṃsantaḥ svaṃ svaṃ lokaṃ yayuḥ tadā || 10||
rājan parasya tanubhṛt jananāpyayehā
māyāviḍambanaṃ avehi yathā naṭasya |
sṛṣṭvā ātmanā idaṃ anuviśya vihṛtya ca ante
saṃhṛtya ca ātma mahinā uparataḥ saḥ āste || 11||
martyena yaḥ gurusutaṃ yamalokanītam
tvāṃ ca ānayat śaraṇadaḥ parama astra dagdham |
jigye antaka antakaṃ api īśaṃ asau avanīśaḥ
kiṃ svāvane svaranayan mṛgayuṃ sadeham || 12||
tathā api aśeśā sthiti sambhava api
ayeṣu ananya hetuḥ yat aśeṣa śaktidhṛk |
na icchat praṇetuṃ vapuḥ atra śeṣitam
martyena kiṃ svasthagatiṃ pradarśayan || 13||
yaḥ etāṃ prātaḥ utthāya kṛṣṇasya padavīṃ parām |
prayataḥ kīrtayet bhaktyā tāṃ eva āpnoti anuttamām || 14||
dārukaḥ dvārakāṃ etya vasudeva ugrasenayoḥ |
patitvā caraṇāvasraiḥ nyaṣiñcat kṛṣṇavicyutaḥ || 15||
kathayāmāsa nidhanaṃ vṛṣṇīnāṃ kṛtsnaśaḥ nṛpa |
tat śrutvā udvigna hṛdayāḥ janāḥ śoka vimūrcchitāḥ || 16||
tatra sma tvaritā jagmuḥ kṛṣṇa viśleṣa vihvalāḥ |
vyasavāḥ śerate yatra jñātayaḥ ghnantaḥ ānanam || 17||
devakī rohiṇī ca eva vasudevaḥ tathā sutau |
kṛṣṇa rāma avapaśyantaḥ śoka ārtāḥ vijahuḥ smṛtim || 18||
prāṇān ca vijahuḥ tatra bhagavat viraha āturāḥ |
upaguhya patīn tāta citāṃ āruruhuḥ striyaḥ || 19||
rāmapatnyaḥ ca tat dehaṃ upaguhya agniṃ āviśan |
vasudevapatnyaḥ tat gātraṃ pradyumna ādīn hareḥ snuṣāḥ |
kṛṣṇapatnyaḥ āviśan agniṃ rukmiṇi ādyāḥ tadātmikāḥ || 20||
arjunaḥ preyasaḥ sakhyuḥ kṛṣṇasya viraha āturaḥ |
ātmānaṃ sāntvayāmāsa kṛṣṇagītaiḥ saduktibhiḥ || 21||
bandhūnāṃ naṣṭagotrāṇāṃ arjunaḥ sāmparāyikam |
hatānāṃ kārayāmāsa yathāvat anupūrvaśaḥ || 22||
dvārakāṃ hariṇā tyaktā samudraḥ aplāvayat kṣaṇāt |
varjayitvā mahārāja śrīmat bhagavat ālayam || 23||
nityaṃ sannihitaḥ tatra bhagavān madhusūdanaḥ |
smṛtyā aśeṣā aśubhaharaṃ sarva maṅgalaṃ amaṅgalam || 24||
strī bāla vṛddhān ādāya hataśeṣān dhanañjayaḥ |
indraprasthaṃ samāveśya vajra tatra abhyaṣecayat || 25||
śrutvā suhṛt vadhaṃ rājan arjunāt te pitāmahāḥ |
tvāṃ tu vaṃśadharaṃ kṛtvā jagmuḥ sarve mahāpatham || 26||
yaḥ etat devadevasya viṣṇoḥ karmāṇi janma ca |
kīrtayet śraddhayā martyaḥ sarvapāpaiḥ pramucyate || 27||
itthaṃ hareḥ bhagavataḥ rucira avatāra
vīryāṇi bālacaritāni ca śantamāni |
anyatra ca iha ca śrutāni gṛṇan manuṣyaḥ
bhaktiṃ parāṃ paramahaṃsagatau labheta || 28||

saṃhitāyāmekādaśaskandhe mausalopākhyānaṃ nāma
ekatriṃśo'dhyāyaḥ || 31||
|| iti uddhavagītā nāma ekādaśaskandhaḥ samāptaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.