📚 Ashtavakra Gita

अष्टावक्र गीता एकादशोऽध्यायः

Chapter 11

✍️ Traditional (authorship not fixed) 📂 Gita 🖋️ Devanagari script 🔢 8 verses 35 views
📄 Download PDF
View: Text in this script too →
🖋️ Script: हिन्दी ▾
Meaning —
अष्टावक्र उवाच ॥
Verse 11-1
भावाभावविकारश्च स्वभावादिति निश्चयी ।
निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति ॥ 11-1॥
bhāvābhāvavikāraśca svabhāvāditi niścayī |
nirvikāro gatakleśaḥ sukhenaivopaśāmyati || 11-1||
Verse 11-2
ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी ।
अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते ॥ 11-2॥
īśvaraḥ sarvanirmātā nehānya iti niścayī |
antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate || 11-2||
Verse 11-3
आपदः सम्पदः काले दैवादेवेति निश्चयी ।
तृप्तः स्वस्थेन्द्रियो नित्यं न वाञ्छति न शोचति ॥ 11-3॥
āpadaḥ sampadaḥ kāle daivādeveti niścayī |
tṛptaḥ svasthendriyo nityaṃ na vāñchati na śocati || 11-3||
Verse 11-4
सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी ।
साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते ॥ 11-4॥
sukhaduḥkhe janmamṛtyū daivādeveti niścayī |
sādhyādarśī nirāyāsaḥ kurvannapi na lipyate || 11-4||
Verse 11-5
चिन्तया जायते दुःखं नान्यथेहेति निश्चयी ।
तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः ॥ 11-5॥
cintayā jāyate duḥkhaṃ nānyatheheti niścayī |
tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ || 11-5||
Verse 11-6
नाहं देहो न मे देहो बोधोऽहमिति निश्चयी ।
कैवल्यमिव सम्प्राप्तो न स्मरत्यकृतं कृतम् ॥ 11-6॥
nāhaṃ deho na me deho bodho'hamiti niścayī |
kaivalyamiva samprāpto na smaratyakṛtaṃ kṛtam || 11-6||
Verse 11-7
आब्रह्मस्तम्बपर्यन्तमहमेवेति निश्चयी ।
निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः ॥ 11-7॥
ābrahmastambaparyantamahameveti niścayī |
nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ || 11-7||
Verse 11-8
नानाश्चर्यमिदं विश्वं न किञ्चिदिति निश्चयी ।
निर्वासनः स्फूर्तिमात्रो न किञ्चिदिव शाम्यति ॥ 11-8॥
nānāścaryamidaṃ viśvaṃ na kiñciditi niścayī |
nirvāsanaḥ sphūrtimātro na kiñcidiva śāmyati || 11-8||
Sanskrit — Devanagari (original)
अष्टावक्र उवाच ॥
भावाभावविकारश्च स्वभावादिति निश्चयी ।
निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति ॥ 11-1॥
ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी ।
अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते ॥ 11-2॥
आपदः सम्पदः काले दैवादेवेति निश्चयी ।
तृप्तः स्वस्थेन्द्रियो नित्यं न वाञ्छति न शोचति ॥ 11-3॥
सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी ।
साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते ॥ 11-4॥
चिन्तया जायते दुःखं नान्यथेहेति निश्चयी ।
तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः ॥ 11-5॥
नाहं देहो न मे देहो बोधोऽहमिति निश्चयी ।
कैवल्यमिव सम्प्राप्तो न स्मरत्यकृतं कृतम् ॥ 11-6॥
आब्रह्मस्तम्बपर्यन्तमहमेवेति निश्चयी ।
निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः ॥ 11-7॥
नानाश्चर्यमिदं विश्वं न किञ्चिदिति निश्चयी ।
निर्वासनः स्फूर्तिमात्रो न किञ्चिदिव शाम्यति ॥ 11-8॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in