श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकोनाशीतितमस्सर्गः ।
निर्गतम्मकराक्षन्तेदृष्टवावानरपुङ्गवाः ।
आप्लुत्यसहसासर्वेयोद्धुकामाव्यवस्थिताः ॥ 1 ॥
ततःप्रवृत्तंसुमहत्तद्युद्धंरोमहर्षणम् ।
निशाचरैःप्लवङ्गानान्देवानान्दानवैरिव ॥ 2 ॥
वृक्षशूलनिपातैश्चशिलापरिघपातनैः ।
अन्योन्यम्मर्दयन्तिस्मतदाकपिनिशाचराः ॥ 3 ॥
शक्तिखडगगदाकुन्तैस्तोमरैश्चनिशाचराः ।
पट्टसैर्भिण्ढिपालैश्चबाणपातैःसमन्ततः ॥ 4 ॥
पाशमुद्गरदण्डैश्चनिखातैश्चापरेस्तथा ।
कदनङ्कपिसिंहानाञ्चक्रुस्तेरजनीचराः ॥ 5 ॥
बाणौघैरर्दिताश्चापिखरपुत्रेणवानराः ।
सम्भ्रान्तमनसस्सर्वेदुद्रुवुर्भयपीडिताः ॥ 6 ॥
तान्दृष्टवाराक्षसास्सर्वेद्रवमाणान्वलीमुखान् ।
नेदुस्तेसिम्हवद्दृष्टाराक्षसाजितकाशिनः ॥ 7 ॥
विद्रवत्सुतदातेषुवानरेषुसमन्ततः ।
रामस्तान्वारमायासशरवर्षेणराक्षसान् ॥ 8 ॥
रितान्राक्षसान्दृष्टवामकराक्षोनिशाचरः ।
क्रोधानलसमाविष्टोवचनञ्चेदमब्रवीत् ॥ 9 ॥
तिष्ठराम मयासार्धन्द्वन्द्वयुद्धन्ददामिते ।
त्याजयिष्यामितेप्राणान् धनुर्मुक्सैशशितैश्शरैः ॥ 10 ॥
यत्तदादण्डकारण्येपितरंहतवान्मम ।
तदग्रतःस्वकर्मस्थन्दृष्टवारोषोऽभिवर्धते ॥ 11 ॥
दह्यन्तेधृशमङ्गानिदुरात्मन्ममराघव ।
यन्मयासि न दृष्टस्त्वन्तस्मिन् कालेमहावने ॥ 12 ॥
दिष्ट्यासिदर्शनंराम ममत्वम्प्राप्तवानिह ।
काङ्क्षितोऽसिक्षुधार्तस्यसिंहस्येवेतरोमृगः ॥ 13 ॥
अद्यमद्बाणवेगेनप्रेतराडिवषयङ्गतः ।
येत्वयानिहताःशूराःसहतैश्चसमेष्यसि ॥ 14 ॥
बहुनात्रकिमुक्तेनशृणुराम वचोमम ।
पश्यन्तुसकलालोकास्त्वा, माञ्चैवरणाजिरे ॥ 15 ॥
अस्त्रैर्वागदयावापिबाहुभ्यांवामहाहवे ।
अभ्यस्तंयेनवाराम तेनैवयुधिवर्तताम् ॥ 16 ॥
मकराक्ष्वचश्श्रुत्वारामोदशरथात्मजः ।
अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम् ॥ 17 ॥
कत्थसेकिंवृथारक्षो बहून्यसदृशानिते ।
न रणेशक्यतेजेतुंविनायुद्धेनवाग्भलात् ॥ 18 ॥
चतुर्दशसहस्राणिरक्षसान्त्वत्पिता च यः ।
त्रिशिरादूषणश्चापिदण्डकेनिहतामया ॥ 19 ॥
स्वाशितास्तवमांसेनगृध्रगोमायुवायसाः ।
भविष्यन्त्यद्यवैपाप तीक्ष्णतुण्डनखाङ्कुराः ॥ 20 ॥
राघवेणैवमुक्तस्तुमकराक्षोमहाबलः ।
बाणौघानमुचत्तस्मैराघवायरणाजिरे ॥ 21 ॥
तान्शरान् शरवर्षेणरामश्चिच्छेदनैकधा ।
निपेतुर्भुवितेछिन्नारुक्मपुङ्खास्सहस्रशः ॥ 22 ॥
तद्युद्धमभवत्तत्रसमेत्यान्योन्यमोजसा ।
खरराक्षसपुत्रस्यसूनोर्धशरथस्य च ॥ 23 ॥
जीमूतयोरिवाकाशेशब्दोज्यातलयोस्तदा ।
धनुर्मुक्तःस्वनोत्कृष्टश्श्रूयते च रणाजिरे ॥ 24 ॥
देवदानवगन्धर्वाःकिन्नराश्चमहोरगाः ।
अन्तरिक्षगतास्सर्वेद्रष्टुकामास्तदद्भुतम् ॥ 25 ॥
विद्धमन्योन्यगात्रेषुद्विगुणंवर्धतेपरम् ।
कृतप्रतिकृतान्योन्यङ्कुरुतान्तौरणाजिरे ॥ 26 ॥
राममुक्तांस्तुबाणौघान् राक्षसस्त्वच्छिनद्रणे ।
रक्षोमुक्तांस्तुरामोवैनैकथाप्राच्छिनच्छरैः ॥ 27 ॥
बाणौघैर्विततास्सर्वादिशश्चप्रदिशस्तथा ।
सञ्छन्नावसुधाचैवसमन्तान्नप्रकाशते ॥ 28 ॥
तःक्रुद्धोमहाबाहुर्धनुच्शिच्छेदरक्षसः ।
अष्टाभिरथनाराचैस्सूतंविव्याधराघवः ॥ 29 ॥
भित्त्वारथंशरैरामोहत्वाआश्वानपातयत् ।
विरथोवसुधास्थश्चमकराक्षोनिशाचरः ॥ 30 ॥
तत्तिष्ठद्वसुधांरक्षश्शूलञ्जग्राहपाणिना ।
त्रासनंसर्वभूतानांयुगान्ताग्निसमप्रभम् ॥ 31 ॥
दुरवापं महच्छूलंरुद्रदत्तम्भयङ्करम् ।
जाज्वल्यमानमाकाशेसंहारास्त्रमिवापरम् ॥ 32 ॥
यन्दृष्टवादेवताःसर्वाभयार्ताविद्रुतादिशः ।
विभ्राम्यतुमहच्छूलम्प्रज्वलन्तन्निशाचरः ॥ 33 ॥
स क्रोधाप्राहिणोत्तस्मैराघवायमहात्मने ।
तमापतन्तञ्ज्वलितङ्खरपुत्रकराच्च्युतम् ॥ 34 ॥
बाणैत्रिभिराकाशेशूलञ्चिच्छेदराघवः ।
सच्छन्नोनैकथाशूलोदिव्यहाटकमण्डितः ॥ 35 ॥
व्यशीर्यतमहोल्केवरामबाणार्दितोभुवि ।
च्छूलन्निहतन्दृष्टवारामेणाक्लिष्टकर्मणा ॥ 36 ॥
साधुसावधितिभूतानिव्याहरन्तिनभोगताः ।
तन्दृष्टवानिहतंशूलम्मकराक्षोनिशाचरः ॥ 37 ॥
मुष्टिमुद्यम्यकाकुत्स्थन्तिष्ठतिष्ठेतिचाब्रवीत् ।
सःतन्दृष्टवाऽपतन्तंवैप्रहस्यरघुनन्दनः ॥ 38 ॥
पावकास्त्रन्ततोरामस्सन्दधेतुशरासने ।
तेनास्त्रणहतंरक्षःकाकुत्थ्सेनतदारणे ॥ 39 ॥
सञ्चिन्नहृदयन्तत्रपपात च ममार च ।
दृष्टवातेराक्षसास्सर्वेमकराक्षस्यपातनम् ॥ 40 ॥
लङ्कामेवप्रधावन्तरामबाणभयार्दिताः ।
दशरथनृपसूनुबाणवेगैःरजनिचरन्निहतङ्खरात्मजन्तम् ।
ददृशुरथदेवताःप्रहृष्टागिरिमववज्रहतङ्क्षितौकीर्णम् ॥ 41 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकोनाशीतितमस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe yuddhakāṇḍam |
atha ekonāśītitamassargaḥ |
nirgatammakarākṣantedṛṣṭavāvānarapuṅgavāḥ |
āplutyasahasāsarveyoddhukāmāvyavasthitāḥ || 1 ||
tataḥpravṛttaṃsumahattadyuddhaṃromaharṣaṇam |
niśācaraiḥplavaṅgānāndevānāndānavairiva || 2 ||
vṛkṣaśūlanipātaiścaśilāparighapātanaiḥ |
anyonyammardayantismatadākapiniśācarāḥ || 3 ||
śaktikhaḍagagadākuntaistomaraiścaniśācarāḥ |
paṭṭasairbhiṇḍhipālaiścabāṇapātaiḥsamantataḥ || 4 ||
pāśamudgaradaṇḍaiścanikhātaiścāparestathā |
kadanaṅkapisiṃhānāñcakrusterajanīcarāḥ || 5 ||
bāṇaughairarditāścāpikharaputreṇavānarāḥ |
sambhrāntamanasassarvedudruvurbhayapīḍitāḥ || 6 ||
tāndṛṣṭavārākṣasāssarvedravamāṇānvalīmukhān |
nedustesimhavaddṛṣṭārākṣasājitakāśinaḥ || 7 ||
vidravatsutadāteṣuvānareṣusamantataḥ |
rāmastānvāramāyāsaśaravarṣeṇarākṣasān || 8 ||
ritānrākṣasāndṛṣṭavāmakarākṣoniśācaraḥ |
krodhānalasamāviṣṭovacanañcedamabravīt || 9 ||
tiṣṭharāma mayāsārdhandvandvayuddhandadāmite |
tyājayiṣyāmiteprāṇān dhanurmuksaiśaśitaiśśaraiḥ || 10 ||
yattadādaṇḍakāraṇyepitaraṃhatavānmama |
tadagrataḥsvakarmasthandṛṣṭavāroṣo'bhivardhate || 11 ||
dahyantedhṛśamaṅgānidurātmanmamarāghava |
yanmayāsi na dṛṣṭastvantasmin kālemahāvane || 12 ||
diṣṭyāsidarśanaṃrāma mamatvamprāptavāniha |
kāṅkṣito'sikṣudhārtasyasiṃhasyevetaromṛgaḥ || 13 ||
adyamadbāṇavegenapretarāḍivaṣayaṅgataḥ |
yetvayānihatāḥśūrāḥsahataiścasameṣyasi || 14 ||
bahunātrakimuktenaśṛṇurāma vacomama |
paśyantusakalālokāstvā, māñcaivaraṇājire || 15 ||
astrairvāgadayāvāpibāhubhyāṃvāmahāhave |
abhyastaṃyenavārāma tenaivayudhivartatām || 16 ||
makarākṣvacaśśrutvārāmodaśarathātmajaḥ |
abravītprahasanvākyamuttarottaravādinam || 17 ||
katthasekiṃvṛthārakṣo bahūnyasadṛśānite |
na raṇeśakyatejetuṃvināyuddhenavāgbhalāt || 18 ||
caturdaśasahasrāṇirakṣasāntvatpitā ca yaḥ |
triśirādūṣaṇaścāpidaṇḍakenihatāmayā || 19 ||
svāśitāstavamāṃsenagṛdhragomāyuvāyasāḥ |
bhaviṣyantyadyavaipāpa tīkṣṇatuṇḍanakhāṅkurāḥ || 20 ||
rāghaveṇaivamuktastumakarākṣomahābalaḥ |
bāṇaughānamucattasmairāghavāyaraṇājire || 21 ||
tānśarān śaravarṣeṇarāmaścicchedanaikadhā |
nipeturbhuvitechinnārukmapuṅkhāssahasraśaḥ || 22 ||
tadyuddhamabhavattatrasametyānyonyamojasā |
khararākṣasaputrasyasūnordhaśarathasya ca || 23 ||
jīmūtayorivākāśeśabdojyātalayostadā |
dhanurmuktaḥsvanotkṛṣṭaśśrūyate ca raṇājire || 24 ||
devadānavagandharvāḥkinnarāścamahoragāḥ |
antarikṣagatāssarvedraṣṭukāmāstadadbhutam || 25 ||
viddhamanyonyagātreṣudviguṇaṃvardhateparam |
kṛtapratikṛtānyonyaṅkurutāntauraṇājire || 26 ||
rāmamuktāṃstubāṇaughān rākṣasastvacchinadraṇe |
rakṣomuktāṃsturāmovainaikathāprācchinaccharaiḥ || 27 ||
bāṇaughairvitatāssarvādiśaścapradiśastathā |
sañchannāvasudhācaivasamantānnaprakāśate || 28 ||
taḥkruddhomahābāhurdhanucśicchedarakṣasaḥ |
aṣṭābhirathanārācaissūtaṃvivyādharāghavaḥ || 29 ||
bhittvārathaṃśarairāmohatvāāśvānapātayat |
virathovasudhāsthaścamakarākṣoniśācaraḥ || 30 ||
tattiṣṭhadvasudhāṃrakṣaśśūlañjagrāhapāṇinā |
trāsanaṃsarvabhūtānāṃyugāntāgnisamaprabham || 31 ||
duravāpaṃ mahacchūlaṃrudradattambhayaṅkaram |
jājvalyamānamākāśesaṃhārāstramivāparam || 32 ||
yandṛṣṭavādevatāḥsarvābhayārtāvidrutādiśaḥ |
vibhrāmyatumahacchūlamprajvalantanniśācaraḥ || 33 ||
sa krodhāprāhiṇottasmairāghavāyamahātmane |
tamāpatantañjvalitaṅkharaputrakarāccyutam || 34 ||
bāṇaitribhirākāśeśūlañcicchedarāghavaḥ |
sacchannonaikathāśūlodivyahāṭakamaṇḍitaḥ || 35 ||
vyaśīryatamaholkevarāmabāṇārditobhuvi |
cchūlannihatandṛṣṭavārāmeṇākliṣṭakarmaṇā || 36 ||
sādhusāvadhitibhūtānivyāharantinabhogatāḥ |
tandṛṣṭavānihataṃśūlammakarākṣoniśācaraḥ || 37 ||
muṣṭimudyamyakākutsthantiṣṭhatiṣṭheticābravīt |
saḥtandṛṣṭavā'patantaṃvaiprahasyaraghunandanaḥ || 38 ||
pāvakāstrantatorāmassandadhetuśarāsane |
tenāstraṇahataṃrakṣaḥkākutthsenatadāraṇe || 39 ||
sañcinnahṛdayantatrapapāta ca mamāra ca |
dṛṣṭavāterākṣasāssarvemakarākṣasyapātanam || 40 ||
laṅkāmevapradhāvantarāmabāṇabhayārditāḥ |
daśarathanṛpasūnubāṇavegaiḥrajanicarannihataṅkharātmajantam |
dadṛśurathadevatāḥprahṛṣṭāgirimavavajrahataṅkṣitaukīrṇam || 41 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye yuddhakāṇḍe ekonāśītitamassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.