श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ षड्विंशस्सर्गः ।
ततश्शोकाभिसन्तप्तं सुग्रीवं क्लिन्नवाससम् ।
शाखामृगमहामात्राः परिवार्योपतस्थिरे ॥ 1 ॥
अभिगम्य महाबाहुं राममक्लिष्टकारिणम् ।
स्थिताः प्राञ्जलयस्सर्वे पितामहमिवर्षयः ॥ 2 ॥
ततः काञ्चनशैलाभ स्तरुणार्कनिभाननः ।
अब्रवीत्प्राञ्जलिर्वाक्यं हनूमान्मारुतात्मजः ॥ 3 ॥
भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् ।
वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो ॥ 4 ॥
भवता समनुज्ञातः प्रविश्य नगरं शुभम् ॥ 5 ॥
संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः ।
स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि ॥ 6 ॥
अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः ।
इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि ॥ 7 ॥
कुरुष्व स्वामिसम्बन्धं वानरान्सम्प्रहर्षय ।
एवमुक्तो हनुमता राघवः परवीरहा ॥ 8 ॥
प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः ।
चतुर्दश समास्सौम्य ग्रामं वा यदि वा पुरम् ॥ 9 ॥
न प्रवेक्ष्यामि हनुमन्पितुर्निर्देशपालकः ।
सुसमृद्धां गुहां रम्यां सुग्रीवो वानरर्षभः ॥ 10 ॥
प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम् ।
एवमुक्त्वा हनूमन्तं रामस्सुग्रीवमब्रवीत् ॥ 11 ॥
वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम् ।
इममप्यङ्गदं वीर यौवराज्येऽभिषेचय ॥ 12 ॥
ज्येष्ठस्य स सुतो ज्येष्ठस्सदृशो विक्रमेण ते ।
अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम् ॥ 13 ॥
पूर्वोऽयं वार्षिको मासः श्रावणस्सलिलागमः ।
प्रवृत्तास्सौम्य चत्वारो मासा वार्षिकसज्ञिकाः ॥ 14 ॥
नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् ।
अस्मिन्वत्स्याम्यहं सौम्य पर्वते सह लक्ष्मणः ॥ 15 ॥
इयं गिरिगुहा रम्या विशाला युक्तमारुता ।
प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ॥ 16 ॥
कार्तिके समनुप्राप्ते त्वं रावणवधे यत ।
एष नस्समयस्सौम्य प्रविश त्वं स्वमालयम् ॥ 17 ॥
अभिषिक्तस्व राज्ये च सुहृदस्सम्प्रहर्षय ।
इति रामाभ्यनुज्ञातस्सुग्रीवो वानराधिपः ॥ 18 ॥
प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् ।
तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् ॥ 19 ॥
अभिवाद्य प्रविष्टानि सर्वतः पर्यवारयन् ।
ततः प्रकृतयस्सर्वा दृष्ट्वा हरिगणेश्वरम् ॥ 20 ॥
प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः ।
सुग्रीवः प्रकृतीस्सर्वास्सम्भाष्योत्थाप्य वीर्यवान् ॥ 21 ॥
भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः ।
प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं प्लवगेश्वरम् ॥ 22 ॥
अभ्यषिञ्चन्त सुहृदस्सहस्राक्षमिवामराः ।
तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम् ॥ 23 ॥
शुक्ले च वालव्यजने हेमदण्डे यशस्करे ।
तथा सर्वाणि रत्नानि सर्वबीजौषधीरपि ॥ 24 ॥
सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च ।
शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् ॥ 25 ॥
सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च ।
चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून् ॥ 26 ॥
अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी ।
दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ ॥ 27 ॥
समालम्भनमादाय रोचनां समनश्शिलाम् ।
आग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश ॥ 28 ॥
ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि ।
रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान् ॥ 29 ॥
ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम् ।
मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः ॥ 30 ॥
ततो हेमप्रतिष्ठाने वरास्तरणसंवृते ।
प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ॥ 31 ॥
प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने ।
नदीनदेभ्यस्संहृत्य तीर्थेभ्यश्च समन्ततः ॥ 32 ॥
आहृत्य च समुद्रेभ्यस्सर्वेभ्यो वानरर्षभाः ।
अपः कनककुम्भेषु निधाय विमलाश्शुभाः ॥ 33 ॥
शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः ।
शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥ 34 ॥
गजो गवाक्षो गवयश्शरभो गन्धमादनः ।
मैन्दश्च द्विविदश्चैव हनुमान्जाम्बवान्नलः ॥ 35 ॥
अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना ।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ 36 ॥
अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः ।
प्रचुक्रुशुर्महात्मानो हृष्टा स्तत्र सहस्रशः ॥ 37 ॥
रामस्य तु वचः कुर्वन्सुग्रीवो हरिपुङ्गवः ।
अङ्गदं सम्परिष्वज्य यौवराज्येऽभ्यषेचयत् ॥ 38 ॥
अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः ।
साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् ॥ 39 ॥
रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः ।
प्रीताश्च तुष्टुवुस्सर्वे तादृशे तत्र वर्तिते ॥ 40 ॥
हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता ।
बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे ॥ 41 ॥
निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः ।
रुमां च भार्यं प्रतिलभ्य वीर्यवा नवाप राज्यं त्रिदशाधिपो यथा ॥ 42 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे षड्विंशस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe kiṣkindhākāṇḍam |
atha ṣaḍviṃśassargaḥ |
tataśśokābhisantaptaṃ sugrīvaṃ klinnavāsasam |
śākhāmṛgamahāmātrāḥ parivāryopatasthire || 1 ||
abhigamya mahābāhuṃ rāmamakliṣṭakāriṇam |
sthitāḥ prāñjalayassarve pitāmahamivarṣayaḥ || 2 ||
tataḥ kāñcanaśailābha staruṇārkanibhānanaḥ |
abravītprāñjalirvākyaṃ hanūmānmārutātmajaḥ || 3 ||
bhavatprasādātsugrīvaḥ pitṛpaitāmahaṃ mahat |
vānarāṇāṃ suduṣprāpaṃ prāpto rājyamidaṃ prabho || 4 ||
bhavatā samanujñātaḥ praviśya nagaraṃ śubham || 5 ||
saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ |
snāto'yaṃ vividhairgandhairauṣadhaiśca yathāvidhi || 6 ||
arcayiṣyati ratnaiśca mālyaiśca tvāṃ viśeṣataḥ |
imāṃ giriguhāṃ ramyāmabhigantumito'rhasi || 7 ||
kuruṣva svāmisambandhaṃ vānarānsampraharṣaya |
evamukto hanumatā rāghavaḥ paravīrahā || 8 ||
pratyuvāca hanūmantaṃ buddhimānvākyakovidaḥ |
caturdaśa samāssaumya grāmaṃ vā yadi vā puram || 9 ||
na pravekṣyāmi hanumanpiturnirdeśapālakaḥ |
susamṛddhāṃ guhāṃ ramyāṃ sugrīvo vānararṣabhaḥ || 10 ||
praviṣṭo vidhivadvīraḥ kṣipraṃ rājye'bhiṣicyatām |
evamuktvā hanūmantaṃ rāmassugrīvamabravīt || 11 ||
vṛttajño vṛttasampannamudārabalavikramam |
imamapyaṅgadaṃ vīra yauvarājye'bhiṣecaya || 12 ||
jyeṣṭhasya sa suto jyeṣṭhassadṛśo vikrameṇa te |
aṅgado'yamadīnātmā yauvarājyasya bhājanam || 13 ||
pūrvo'yaṃ vārṣiko māsaḥ śrāvaṇassalilāgamaḥ |
pravṛttāssaumya catvāro māsā vārṣikasajñikāḥ || 14 ||
nāyamudyogasamayaḥ praviśa tvaṃ purīṃ śubhām |
asminvatsyāmyahaṃ saumya parvate saha lakṣmaṇaḥ || 15 ||
iyaṃ giriguhā ramyā viśālā yuktamārutā |
prabhūtasalilā saumya prabhūtakamalotpalā || 16 ||
kārtike samanuprāpte tvaṃ rāvaṇavadhe yata |
eṣa nassamayassaumya praviśa tvaṃ svamālayam || 17 ||
abhiṣiktasva rājye ca suhṛdassampraharṣaya |
iti rāmābhyanujñātassugrīvo vānarādhipaḥ || 18 ||
praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām |
taṃ vānarasahasrāṇi praviṣṭaṃ vānareśvaram || 19 ||
abhivādya praviṣṭāni sarvataḥ paryavārayan |
tataḥ prakṛtayassarvā dṛṣṭvā harigaṇeśvaram || 20 ||
praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ |
sugrīvaḥ prakṛtīssarvāssambhāṣyotthāpya vīryavān || 21 ||
bhrāturantaḥpuraṃ saumyaṃ praviveśa mahābalaḥ |
praviśya tvabhiniṣkrāntaṃ sugrīvaṃ plavageśvaram || 22 ||
abhyaṣiñcanta suhṛdassahasrākṣamivāmarāḥ |
tasya pāṇḍuramājahruśchatraṃ hemapariṣkṛtam || 23 ||
śukle ca vālavyajane hemadaṇḍe yaśaskare |
tathā sarvāṇi ratnāni sarvabījauṣadhīrapi || 24 ||
sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohānkusumāni ca |
śuklāni caiva vastrāṇi śvetaṃ caivānulepanam || 25 ||
sugandhīni ca mālyāni sthalajānyambujāni ca |
candanāni ca divyāni gandhāṃśca vividhānbahūn || 26 ||
akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī |
dadhi carma ca vaiyāghraṃ vārāhī cāpyupānahau || 27 ||
samālambhanamādāya rocanāṃ samanaśśilām |
āgmustatra muditā varāḥ kanyāstu ṣoḍaśa || 28 ||
tataste vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi |
ratnairvastraiśca bhakṣyaiśca toṣayitvā dvijarṣabhān || 29 ||
tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasam |
mantrapūtena haviṣā hutvā mantravido janāḥ || 30 ||
tato hemapratiṣṭhāne varāstaraṇasaṃvṛte |
prāsādaśikhare ramye citramālyopaśobhite || 31 ||
prāṅmukhaṃ vividhairmantraiḥ sthāpayitvā varāsane |
nadīnadebhyassaṃhṛtya tīrthebhyaśca samantataḥ || 32 ||
āhṛtya ca samudrebhyassarvebhyo vānararṣabhāḥ |
apaḥ kanakakumbheṣu nidhāya vimalāśśubhāḥ || 33 ||
śubhairvṛṣabhaśṛṅgaiśca kalaśaiścāpi kāñcanaiḥ |
śāstradṛṣṭena vidhinā maharṣivihitena ca || 34 ||
gajo gavākṣo gavayaśśarabho gandhamādanaḥ |
maindaśca dvividaścaiva hanumānjāmbavānnalaḥ || 35 ||
abhyaṣiñcanta sugrīvaṃ prasannena sugandhinā |
salilena sahasrākṣaṃ vasavo vāsavaṃ yathā || 36 ||
abhiṣikte tu sugrīve sarve vānarapuṅgavāḥ |
pracukruśurmahātmāno hṛṣṭā statra sahasraśaḥ || 37 ||
rāmasya tu vacaḥ kurvansugrīvo haripuṅgavaḥ |
aṅgadaṃ sampariṣvajya yauvarājye'bhyaṣecayat || 38 ||
aṅgade cābhiṣikte tu sānukrośāḥ plavaṅgamāḥ |
sādhu sādhviti sugrīvaṃ mahātmāno'bhyapūjayan || 39 ||
rāmaṃ caiva mahātmānaṃ lakṣmaṇaṃ ca punaḥ punaḥ |
prītāśca tuṣṭuvussarve tādṛśe tatra vartite || 40 ||
hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā |
babhūva nagarī ramyā kiṣkindhā girigahvare || 41 ||
nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ |
rumāṃ ca bhāryaṃ pratilabhya vīryavā navāpa rājyaṃ tridaśādhipo yathā || 42 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye kiṣkindhākāṇḍe ṣaḍviṃśassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.