3.35 अरण्यकाण्ड - पञ्चत्रिंश सर्गः

3.35 Aranyakanda - Panchatrimsha Sargah

✍️ Valmiki 🖋️ Devanagari script
📄 Download PDF
श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ पञ्चत्रिंशस्सर्गः ।
ततश्शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् ।
सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह ॥ 1 ॥
तत्कार्यमनुगम्याथ यथावदुपलभ्य च ।
दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ॥ 2 ॥
इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः ।
स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह ॥ 3 ॥
यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः ।
सूतं सञ्चोदयामास रथस्संयोज्यतामिति ॥ 4 ॥
एवमुक्तः क्षेणेनैव सारथिर्लघुविक्रमः ।
रथं संयोजयामास तस्याभिमतमुत्तमम् ॥ 5 ॥
काञ्चनं रथमास्थाय कामगं रत्नभूषितम् ।
पिशाचवदनैर्युक्तं खरैः काञ्चनभूषणैः ॥ 6 ॥
मेघप्रतिमनादेन स तेन धनदानुजः ।
राक्षसाधिपतिश्श्रीमान्ययौ नदनदीपतिम् ॥ 7 ॥
स श्वेतवालव्यजनः श्वेतच्छत्रो दशाननः ।
स्निग्धवैदूर्यसङ्काश स्तप्तकाञ्चनकुण्डलः ॥ 8 ॥
विंशद्भुजो दशग्रीवो दर्शनीयपरिच्छदः ।
त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ॥ 9 ॥
कामगं रथमास्थाय शुशुभे राक्षसेश्वरः ।
विद्युन्मण्डलवान्मेघस्सबलाक इवाम्बरे ॥ 10 ॥
स शैलं सागरानूपं वीर्यवानवलोकयन् ।
नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः ॥ 11 ॥
शीतमङ्गलतोयाभिः पद्मिनीभिस्समन्ततः ।
विशालैराश्रमपदैर्वेदिमद्भिस्समावृतम् ॥ 12 ॥
कदल्याढकिसम्बाधं नारिकेलोपशोभितम् ।
सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम् ॥ 13 ॥
नागैस्सुपर्णैर्गन्धैर्वैः किन्नरैश्च सहस्रशः ।
अजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः ॥ 14 ॥
अत्यन्तनियताहारैश्शोभितं परमर्षिभिः ।
जितकामैश्च सिद्धैश्च चारणैरुपशोभितम् ॥ 15 ॥
दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् ।
क्रीडारतिविधिज्ञाभिरप्सरोभिस्सहस्रशः ॥ 16 ॥
सेवितं देवपन्तीभिश्श्रीमतीभिश्श्रियाऽऽवृतम् ।
देवदानवसङ्घैश्च चरितं त्वमृताशिभिः ॥ 17 ॥
हंसक्रौञ्चप्लवाकीर्णं सारसैस्सम्प्रणादितम् ।
वैढूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा ॥ 18 ॥
पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च ।
तूर्यगीताभिजुष्टानि विमानानि समन्ततः ॥ 19 ॥
तपसा जितलोकानां कामगान्यभिसम्पतन् ।
गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः ॥ 20 ॥
निर्यासरसमूलानां चन्दनानां सहस्रशः ।
वनानि पश्यन्सौम्यानि घ्राणतृप्तिकराणि च ॥ 21 ॥
अगरूणां च मुख्यानां वनान्युपवनानि च ।
तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम् ॥ 22 ॥
पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च ।
मुक्तानां च समूहानि शुष्यमाणानि तीरतः ॥ 23 ॥
शङ्खानां प्रसरं चैव प्रवालनिचयं तथा ।
काञ्चनानि च शैलानि राजतानि च सर्वशः ॥ 24 ॥
प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च ।
धनधान्योपपन्नानि स्त्रीरत्नैश्शोभितानि च ॥ 25 ॥
हस्त्यश्वरथगाढानि नगराण्यवलोकयन् ।
तं समं सर्वतस्निग्धं मृदुसंस्पर्शमारुतम् ।
अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् ॥ 26 ॥
तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम् ॥ 27 ॥
समन्ताद्यस्य ताश्शाखाश्शतयोजनमायताः ।
यस्य हस्तिनमादाय महाकायं च कच्छपम् ॥ 28 ॥
भक्षार्थं गरुडश्शाखामाजगाम महाबलः ।
तस्य तां सहसा शाखां भारेण पतगोत्तमः ॥ 29 ॥
सुपर्णः पर्णबहुलां बभञ्ज च महाबलः ।
तत्र वैखानसा माषा वालखिल्या मरीचिपाः ॥ 30 ॥
अजा बभूवुर्धूम्राश्च सङ्गताः परमर्षयः ।
तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् ॥ 31 ॥
जगामादाय वेगेन तौ चोभौ गजकच्छपौ ।
एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् ॥ 32 ॥
निषादविषयं हत्वा शाखया पतगोत्तमः ।
प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ॥ 33 ॥
स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः ।
अमृतानयनार्थं वै चकार मतिमान्मतिम् ॥ 34 ॥
अयोजालानि निर्मथ्य भित्वा रत्नमयं गृहम् ।
महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः ॥ 35 ॥
तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् ।
नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ॥ 36 ॥
तं तु गत्वा परं पारं समुद्रस्य नदीपतेः ।
ददर्शाश्रममेकान्ते रम्ये पुण्ये वनान्तरे ॥ 37 ॥
तत्र कृष्णाजिनधरं जटावल्कलधारिणम् ।
ददर्श नियताहारं मारीचं नाम राक्षसाम् ॥ 38 ॥
स रावणस्समागम्य विधिवत्तेन रक्षसा ।
मारीचेनार्चितो राजा सर्वकामैरमानुषैः ॥ 39 ॥
तं स्वयं पूजयित्वा तु भोजनेनोदकेन च ।
अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥ 40 ॥
कच्चित्सुकुशलं राजन्लङ्कायां राक्षसेश्वर ।
केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः ॥ 41 ॥
एवमुक्तो महातेजा मारीचेन स रावणः ।
ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ॥ 42 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे पञ्चत्रिंशस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe araṇyakāṇḍam |
atha pañcatriṃśassargaḥ |
tataśśūrpaṇakhāvākyaṃ tacchrutvā romaharṣaṇam |
sacivānabhyanujñāya kāryaṃ buddhvā jagāma ha || 1 ||
tatkāryamanugamyātha yathāvadupalabhya ca |
doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam || 2 ||
iti kartavyamityeva kṛtvā niścayamātmanaḥ |
sthirabuddhistato ramyāṃ yānaśālāṃ jagāma ha || 3 ||
yānaśālāṃ tato gatvā pracchanno rākṣasādhipaḥ |
sūtaṃ sañcodayāmāsa rathassaṃyojyatāmiti || 4 ||
evamuktaḥ kṣeṇenaiva sārathirlaghuvikramaḥ |
rathaṃ saṃyojayāmāsa tasyābhimatamuttamam || 5 ||
kāñcanaṃ rathamāsthāya kāmagaṃ ratnabhūṣitam |
piśācavadanairyuktaṃ kharaiḥ kāñcanabhūṣaṇaiḥ || 6 ||
meghapratimanādena sa tena dhanadānujaḥ |
rākṣasādhipatiśśrīmānyayau nadanadīpatim || 7 ||
sa śvetavālavyajanaḥ śvetacchatro daśānanaḥ |
snigdhavaidūryasaṅkāśa staptakāñcanakuṇḍalaḥ || 8 ||
viṃśadbhujo daśagrīvo darśanīyaparicchadaḥ |
tridaśārirmunīndraghno daśaśīrṣa ivādrirāṭ || 9 ||
kāmagaṃ rathamāsthāya śuśubhe rākṣaseśvaraḥ |
vidyunmaṇḍalavānmeghassabalāka ivāmbare || 10 ||
sa śailaṃ sāgarānūpaṃ vīryavānavalokayan |
nānāpuṣpaphalairvṛkṣairanukīrṇaṃ sahasraśaḥ || 11 ||
śītamaṅgalatoyābhiḥ padminībhissamantataḥ |
viśālairāśramapadairvedimadbhissamāvṛtam || 12 ||
kadalyāḍhakisambādhaṃ nārikelopaśobhitam |
sālaistālaistamālaiśca puṣpitaistarubhirvṛtam || 13 ||
nāgaissuparṇairgandhairvaiḥ kinnaraiśca sahasraśaḥ |
ajairvaikhānasairmāṣairvālakhilyairmarīcipaiḥ || 14 ||
atyantaniyatāhāraiśśobhitaṃ paramarṣibhiḥ |
jitakāmaiśca siddhaiśca cāraṇairupaśobhitam || 15 ||
divyābharaṇamālyābhirdivyarūpābhirāvṛtam |
krīḍāratividhijñābhirapsarobhissahasraśaḥ || 16 ||
sevitaṃ devapantībhiśśrīmatībhiśśriyā''vṛtam |
devadānavasaṅghaiśca caritaṃ tvamṛtāśibhiḥ || 17 ||
haṃsakrauñcaplavākīrṇaṃ sārasaissampraṇāditam |
vaiḍhūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā || 18 ||
pāṇḍurāṇi viśālāni divyamālyayutāni ca |
tūryagītābhijuṣṭāni vimānāni samantataḥ || 19 ||
tapasā jitalokānāṃ kāmagānyabhisampatan |
gandharvāpsarasaścaiva dadarśa dhanadānujaḥ || 20 ||
niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ |
vanāni paśyansaumyāni ghrāṇatṛptikarāṇi ca || 21 ||
agarūṇāṃ ca mukhyānāṃ vanānyupavanāni ca |
takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām || 22 ||
puṣpāṇi ca tamālasya gulmāni maricasya ca |
muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ || 23 ||
śaṅkhānāṃ prasaraṃ caiva pravālanicayaṃ tathā |
kāñcanāni ca śailāni rājatāni ca sarvaśaḥ || 24 ||
prasravāṇi manojñāni prasannāni hradāni ca |
dhanadhānyopapannāni strīratnaiśśobhitāni ca || 25 ||
hastyaśvarathagāḍhāni nagarāṇyavalokayan |
taṃ samaṃ sarvatasnigdhaṃ mṛdusaṃsparśamārutam |
anūpaṃ sindhurājasya dadarśa tridivopamam || 26 ||
tatrāpaśyatsa meghābhaṃ nyagrodhamṛṣibhirvṛtam || 27 ||
samantādyasya tāśśākhāśśatayojanamāyatāḥ |
yasya hastinamādāya mahākāyaṃ ca kacchapam || 28 ||
bhakṣārthaṃ garuḍaśśākhāmājagāma mahābalaḥ |
tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ || 29 ||
suparṇaḥ parṇabahulāṃ babhañja ca mahābalaḥ |
tatra vaikhānasā māṣā vālakhilyā marīcipāḥ || 30 ||
ajā babhūvurdhūmrāśca saṅgatāḥ paramarṣayaḥ |
teṣāṃ dayārthaṃ garuḍastāṃ śākhāṃ śatayojanām || 31 ||
jagāmādāya vegena tau cobhau gajakacchapau |
ekapādena dharmātmā bhakṣayitvā tadāmiṣam || 32 ||
niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ |
praharṣamatulaṃ lebhe mokṣayitvā mahāmunīn || 33 ||
sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ |
amṛtānayanārthaṃ vai cakāra matimānmatim || 34 ||
ayojālāni nirmathya bhitvā ratnamayaṃ gṛham |
mahendrabhavanādguptamājahārāmṛtaṃ tataḥ || 35 ||
taṃ maharṣigaṇairjuṣṭaṃ suparṇakṛtalakṣaṇam |
nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ || 36 ||
taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ |
dadarśāśramamekānte ramye puṇye vanāntare || 37 ||
tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam |
dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasām || 38 ||
sa rāvaṇassamāgamya vidhivattena rakṣasā |
mārīcenārcito rājā sarvakāmairamānuṣaiḥ || 39 ||
taṃ svayaṃ pūjayitvā tu bhojanenodakena ca |
arthopahitayā vācā mārīco vākyamabravīt || 40 ||
kaccitsukuśalaṃ rājanlaṅkāyāṃ rākṣaseśvara |
kenārthena punastvaṃ vai tūrṇamevamihāgataḥ || 41 ||
evamukto mahātejā mārīcena sa rāvaṇaḥ |
tataḥ paścādidaṃ vākyamabravīdvākyakovidaḥ || 42 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye araṇyakāṇḍe pañcatriṃśassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in