कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां सप्तमकाण्डे चतुर्थः प्रश्नः - सत्रकर्मनिरूपणं
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
बृह॒स्पति॑रकामयत॒ श्रन्मे॑ दे॒वा दधी॑र॒-न्गच्छे॑य-म्पुरो॒धामिति॒ स ए॒त-ञ्च॑तुर्विग्ंशतिरा॒त्र-म॑पश्य॒-त्तमा-ऽह॑र॒-त्तेना॑यजत॒ ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑ध॒ताग॑च्छ-त्पुरो॒धां-यँ ए॒वं-विँ॒द्वाग्ंस॑-श्चतुर्विग्ंशतिरा॒त्र-मास॑ते॒ श्रदे᳚भ्यो मनु॒ष्या॑ दधते॒ गच्छ॑न्ति पुरो॒धा-ञ्ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं-वाँव ज्योति॑र॒न्तरि॑क्ष॒-ङ्गौर॒सा-वायु॑- [-वायुः॑, इ॒माने॒व] 1
-रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभि पू॒र्व-न्त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं-लोँ॒कम॒भ्यारो॑ह॒न्त्यस॑त्रं॒-वाँ ए॒त-द्यद॑छन्दो॒मं-यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्र-न्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑-म्पृ॒ष्ठानि॑ प॒शवः॑ छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति बृह-द्रथन्त॒राभ्यां᳚-यँन्ती॒यं-वाँव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व [ ] 2
य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं-लोँ॒कं-यँ॑न्ति चतुर्विग्ंशतिरा॒त्रो भ॑वति॒ चतु॑र्विग्ंशतिरर्धमा॒सा-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒र-स्सु॑व॒र्गो लो॒क-स्सं॑वँथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विग्ंशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒स-ङ्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धते ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ 3 ॥
(अ॒सावायु॑ - रा॒भ्यामे॒व - पञ्च॑चत्वारिग्ंशच्च) (अ. 1)
यथा॒ वै म॑नु॒ष्या॑ ए॒व-न्दे॒वा अग्र॑ आस॒-न्ते॑-ऽकामय॒न्ता-ऽव॑र्ति-म्पा॒प्मान॑-म्मृ॒त्यु-म॑प॒हत्य॒ दैवीग्ं॑ स॒ग्ं॒सद॑-ङ्गच्छे॒मेति॒ त ए॒त-ञ्च॑तुर्विग्ंशतिरा॒त्र-म॑पश्य॒-न्तमा-ऽह॑र॒-न्तेना॑यजन्त॒ ततो॒ वै ते-ऽव॑र्ति-म्पा॒प्मान॑-म्मृ॒त्यु-म॑प॒हत्य॒ दैवीग्ं॑ स॒ग्ं॒सद॑मगच्छ॒न्॒. य ए॒वं-विँ॒द्वाग्ंस॑-श्चतुर्विग्ंशतिरा॒त्र-मास॒ते-ऽव॑र्तिमे॒व पा॒प्मान॑-मप॒हत्य॒ श्रिय॑-ङ्गच्छन्ति॒ श्रीर्हि म॑नु॒ष्य॑स्य॒ [श्रीर्हि म॑नु॒ष्य॑स्य, दैवी॑ स॒ग्ं॒स-ज्ज्योति॑-] 4
दैवी॑ स॒ग्ं॒स-ज्ज्योति॑-रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ ष-ड्वा ऋ॒तवः॑ संवँथ्स॒रस्त-म्मासा॑ अर्धमा॒सा ऋ॒तवः॑ प्र॒विश्य॒ दैवीग्ं॑ स॒ग्ं॒सद॑मगच्छ॒न्॒. य ए॒वं-विँ॒द्वाग्ंस॑-श्चतुर्विग्ंशतिरा॒त्रमास॑ते संवँथ्स॒रमे॒व प्र॒विश्य॒ वस्य॑सीग्ं स॒ग्ं॒सद॑-ङ्गच्छन्ति॒ त्रय॑स्त्रयस्त्रि॒ग्ं॒शा अ॒वस्ता᳚-द्भवन्ति॒ त्रय॑स्त्रयस्त्रि॒ग्ं॒शाः प॒रस्ता᳚-त्त्रयस्त्रि॒ग्ं॒शैरे॒वोभ॒यतो ऽव॑र्ति-म्पा॒प्मान॑मप॒हत्य॒ दैवीग्ं॑ स॒ग्ं॒सद॑-म्मद्ध्य॒तो [स॒ग्ं॒सद॑-म्मद्ध्य॒तः, ग॒च्छ॒न्ति॒ पृ॒ष्ठानि॒ हि] 5
ग॑च्छन्ति पृ॒ष्ठानि॒ हि दैवी॑ स॒ग्ं॒सज्जा॒मि वा ए॒त-त्कु॑र्वन्ति॒ य-त्त्रय॑स्त्रयस्त्रि॒ग्ं॒शा अ॒न्वञ्चो॒ मद्ध्ये-ऽनि॑रुक्तो भवति॒ तेनाजा᳚म्यू॒र्ध्वानि॑ पृ॒ष्ठानि॑ भवन्त्यू॒र्ध्वा-श्छ॑न्दो॒मा उ॒भाभ्याग्ं॑ रू॒पाभ्याग्ं॑ सुव॒र्गं-लोँ॒कं-यँ॒न्त्यस॑त्रं॒-वाँ ए॒त-द्यद॑छन्दो॒मं-यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्र-न्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑-म्पृ॒ष्ठानि॑ प॒शव॑- [प॒शवः॑, छ॒न्दो॒मा ओज॑स्ये॒व] 6
-श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति॒ त्रय॑स्त्रयस्त्रि॒ग्ं॒शा अ॒वस्ता᳚-द्भवन्ति॒ त्रय॑स्त्रयस्त्रि॒ग्ं॒शाः प॒रस्ता॒न्मद्ध्ये॑ पृ॒ष्ठान्युरो॒ वै त्र॑यस्त्रि॒ग्ं॒शा आ॒त्मा पृ॒ष्ठान्या॒त्मन॑ ए॒व त-द्यज॑माना॒-श्शर्म॑ नह्य॒न्ते-ऽना᳚र्त्यै बृह-द्रथन्त॒राभ्यां᳚-यँन्ती॒यं-वाँव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व [ताभ्या॑मे॒व, सु॒व॒र्गं-लोँ॒कं-यँ॑न्ति॒] 7
सु॑व॒र्गं-लोँ॒कं-यँ॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं-लोँ॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यं ष॑ड॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर॑ ऋ॒द्ध्वो-त्ति॑ष्ठन्ति त्रि॒वृतो-ऽधि॑ त्रि॒वृत॒मुप॑ यन्ति॒ स्तोमा॑ना॒ग्ं॒ सम्प॑त्त्यै प्रभ॒वाय॒ ज्योति॑रग्निष्टो॒मो भ॑वत्य॒यं-वाँव स क्षयो॒-ऽस्मादे॒व तेन॒ क्षया॒न्न य॑न्ति चतुर्विग्ंशतिरा॒त्रो भ॑वति॒ चतु॑र्विग्ंशतिरर्धमा॒सा-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒र-स्सु॑व॒र्गो लो॒क-स्सं॑वँथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विग्ंशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒स-ङ्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धते ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ 8 ॥
(म॒नु॒ष्य॑स्य - मध्य॒तः - प॒शव॒ - स्ताभ्या॑मे॒व - सं॑वँथ्स॒र - श्चतु॑र्विग्ंशतिश्च) (अ. 2)
ऋ॒क्षा वा इ॒यम॑लो॒मका॑-ऽऽसी॒-थ्सा-ऽका॑मय॒तौष॑धीभि॒-र्वन॒स्पति॑भिः॒ प्र जा॑ये॒येति॒ सैतास्त्रि॒ग्ं॒शत॒ग्ं॒ रात्री॑रपश्य॒-त्ततो॒ वा इ॒यमोष॑धीभि॒-र्वन॒स्पति॑भिः॒ प्राजा॑यत॒ ये प्र॒जाका॑माः प॒शुका॑मा॒-स्स्युस्त ए॒ता आ॑सीर॒-न्प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑रि॒यं-वाँ अ॑क्षुद्ध्य॒-थ्सैतां-विँ॒राज॑मपश्य॒-त्तामा॒त्म-न्धि॒त्वा-ऽन्नाद्य॒मवा॑ ऽरु॒न्धौष॑धी॒- [-ऽरु॒न्धौष॑धीः, वन॒स्पती᳚-न्प्र॒जा-] 9
-र्वन॒स्पती᳚-न्प्र॒जा-म्प॒शू-न्तेना॑वर्धत॒ सा जे॒मान॑-म्महि॒मान॑-मगच्छ॒द्य ए॒वं-विँ॒द्वाग्ंस॑ ए॒ता आस॑ते वि॒राज॑मे॒वा-ऽऽत्म-न्धि॒त्वा-ऽन्नाद्य॒मव॑ रुन्धते॒ वर्ध॑न्ते प्र॒जया॑ प॒शुभि॑र्जे॒मान॑-म्महि॒मान॑-ङ्गच्छन्ति॒ ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ ष-ड्वा ऋ॒तव॒-ष्षट् पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वा-रो॑हन्त्यृ॒तुभिः॑ संवँथ्स॒र-न्ते सं॑वँथ्स॒र ए॒व [ ] 10
प्रति॑ तिष्ठन्ति त्रयस्त्रि॒ग्ं॒शा-त्त्र॑यस्त्रि॒ग्ं॒शमुप॑ यन्ति य॒ज्ञस्य॒ सन्त॑त्या॒ अथो᳚ प्र॒जाप॑ति॒र्वै त्र॑यस्त्रि॒ग्ं॒शः प्र॒जाप॑तिमे॒वा-ऽऽर॑भन्ते॒ प्रति॑ष्ठित्यै त्रिण॒वो भ॑वति॒ विजि॑त्या एकवि॒ग्ं॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वा-ऽऽत्म-न्द॑धते त्रि॒वृद॑ग्नि॒ष्टु-द्भ॑वति पा॒प्मान॑मे॒व तेन॒ निर्द॑ह॒न्ते-ऽथो॒ तेजो॒ वै त्रि॒वृ-त्तेज॑ ए॒वा-ऽऽत्म-न्द॑धते पञ्चद॒श इ॑न्द्रस्तो॒मो भ॑वतीन्द्रि॒य-मे॒वा-ऽव॑ [भ॑वतीन्द्रि॒य-मे॒वा-ऽव॑, रु॒न्ध॒ते॒ स॒प्त॒द॒शो भ॑वत्य॒न्नाद्य॒स्या] 11
रुन्धते सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्या व॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒ग्ं॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वा-ऽऽत्म-न्द॑धते चतुर्वि॒ग्ं॒शो भ॑वति॒ अतु॑र्विग्ंशतिरर्धमा॒सा-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒र-स्सु॑व॒र्गो लो॒क-स्सं॑वँथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॑ ए॒ष वै वि॑षू॒वान् वि॑षू॒वन्तो॑ भवन्ति॒ य ए॒वं-विँ॒द्वाग्ंस॑ ए॒ता आस॑ते चतुर्वि॒ग्ं॒शा-त्पृ॒ष्ठान्युप॑ यन्ति संवँथ्स॒र ए॒व प्र॑ति॒ष्ठाय॑ [ ] 12
दे॒वता॑ अ॒भ्यारो॑हन्ति त्रयस्त्रि॒ग्ं॒शा-त्त्र॑यस्त्रि॒ग्ं॒शमुप॑ यन्ति॒ त्रय॑स्त्रिग्ंश॒द्वै दे॒वता॑ दे॒वता᳚स्वे॒व प्रति॑ तिष्ठन्ति त्रिण॒वो भ॑वती॒मे वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ द्वावे॑कवि॒ग्ं॒शौ भ॑वतः॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वा-ऽऽत्म-न्द॑धते ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒ तस्मा᳚-द्ब॒हवः॑ प्र॒जासु॒ वृषा॑णो॒ यदे॒ते स्तोमा॒ व्यति॑षक्ता॒ भव॑न्ति॒ तस्मा॑दि॒य -मोष॑धीभि॒-र्वन॒स्पति॑भि॒-र्व्यति॑षक्ता॒ [-र्व्यति॑षक्ता, व्यति॑षज्यन्ते] 13
व्यति॑षज्यन्ते प्र॒जया॑ प॒शुभि॒र्य ए॒वं-विँ॒द्वाग्ंस॑ ए॒ता आस॒ते ऽकॢ॑प्ता॒ वा ए॒ते सु॑व॒र्गं-लोँ॒कं-यँ॑न्त्युच्चाव॒चान् हि स्तोमा॑नुप॒यन्ति॒ यदे॒त ऊ॒र्ध्वाः कॢ॒प्ता-स्स्तोमा॒ भव॑न्ति कॢ॒प्ता ए॒व सु॑व॒र्गं-लोँ॒कं-यँ॑न्त्यु॒भयो॑रे॒भ्यो लो॒कयोः᳚ कल्पते त्रि॒ग्ं॒शदे॒तास्त्रि॒ग्ं॒शद॑क्षरा वि॒राडन्नं॑-विँ॒रा-ड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते ऽतिरा॒त्राव॒भितो॑ भवतो॒ ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ 14 ॥
(ओष॑धीः - संवँथ्स॒र ए॒वा - ऽव॑ - प्रति॒ष्ठाय॒ - व्यति॑ष॒क्त्यै - का॒न्नप॑ञ्चा॒शच्च॑) (अ. 3)
प्र॒जाप॑ति-स्सुव॒र्गं-लोँ॒कमै॒-त्त-न्दे॒वा येन॑येन॒ छन्द॒सा-ऽनु॒ प्रायु॑ञ्जत॒ तेन॒ ना-ऽऽप्नु॑व॒-न्त ए॒ता द्वात्रिग्ं॑शत॒ग्ं॒ रात्री॑रपश्य॒-न्द्वात्रिग्ं॑शदक्षरा ऽनु॒ष्टुगा-नु॑ष्टुभः प्र॒जाप॑ति॒-स्स्वेनै॒व छन्द॑सा प्र॒जाप॑ति-मा॒प्त्वा ऽभ्या॒रुह्य॑ सुव॒र्गं-लोँ॒कमा॑य॒न्॒. य ए॒वं-विँ॒द्वाग्ंस॑ ए॒ता आस॑ते॒ द्वात्रिग्ं॑शदे॒ता द्वात्रिग्ं॑शदक्षरा ऽनु॒ष्टुगा-नु॑ष्टुभः प्र॒जाप॑ति॒-स्स्वेनै॒व छन्द॑सा प्र॒जाप॑तिमा॒प्त्वा श्रिय॑-ङ्गच्छन्ति॒ [श्रिय॑-ङ्गच्छन्ति, श्रीर्हि] 15
श्रीर्हि म॑नु॒ष्य॑स्य सुव॒र्गो लो॒को द्वात्रिग्ं॑शदे॒ता द्वात्रिग्ं॑शदक्षरा-ऽनु॒ष्टुग्-वाग॑नु॒ष्टु-फ्सर्वा॑मे॒व वाच॑माप्नुवन्ति॒ सर्वे॑ वा॒चो व॑दि॒तारो॑ भवन्ति॒ सर्वे॒ हि श्रिय॒-ङ्गच्छ॑न्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं-वाँव ज्योति॑र॒न्तरि॑क्ष॒-ङ्गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्व-न्त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं-लोँ॒कम॒भ्यारो॑हन्ति बृह-द्रथन्त॒राभ्यां᳚-यँन्ती॒- [-ँयन्ति, इ॒यं-वाँव] 16
-यं-वाँव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं-लोँ॒कं-यँ॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं-लोँ॒कम॒भ्यारो॑हन्ति॒ ये परा॑चस्त्र्य॒हानु॑प॒यन्ति॑ प्र॒त्य-न्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑. ऋ॒द्ध्वो-त्ति॑ष्ठन्ति॒ द्वात्रिग्ं॑शदे॒तास्तासां॒-याँ स्त्रि॒ग्ं॒श-त्त्रि॒ग्ं॒शद॑क्षरा वि॒राडन्नं॑-विँ॒रा-ड्वि॒राजै॒वा-ऽन्नाद्य॒मव॑ रुन्धते॒ ये द्वे अ॑होरा॒त्रे ए॒व ते उ॒भाभ्याग्ं॑ रू॒पाभ्याग्ं॑ सुव॒र्गं-लोँ॒कं-यँ॑न्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥ 17 ॥
(ग॒च्छ॒न्ति॒ - य॒न्ति॒ - त्रि॒ग्ं॒शद॑क्षरा॒ - द्वाविग्ं॑शतिश्च) (अ. 4)
द्वे वाव दे॑वस॒त्रे द्वा॑दशा॒हश्चै॒व त्र॑यस्त्रिग्ंशद॒हश्च॒ य ए॒वं-विँ॒द्वाग्ंस॑स्त्रयस्त्रिग्ंशद॒हमास॑ते सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विद्ध्य॑ति॒ पापी॑या-न्भवति॒ यदि॒ नाव॒विद्ध्य॑ति स॒दृं-यँ ए॒वं-विँ॒द्वाग्ंस॑स्त्रयस्त्रिग्ं- शद॒हमास॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा-ऽऽ व॑र्तन्ते ऽह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ आ-ऽह॑र॒- [आ-ऽह॑रन्न्, अह॒रेको ऽभ॑ज॒ता-] 18
-न्नह॒रेको ऽभ॑ज॒ता-ह॒रेक॒स्ताभि॒र्वैते प्र॒बाहु॑गार्ध्नुव॒न्॒. य ए॒वं-विँ॒द्वाग्ंस॑स्त्रयस्त्रिग्ंशद॒हमास॑ते॒ सर्व॑ ए॒व प्र॒बाहु॑गृद्ध्नुवन्ति॒ सर्वे॒ ग्राम॑णीय॒-म्प्राप्नु॑वन्ति पञ्चा॒हा भ॑वन्ति॒ पञ्च॒ वा ऋ॒तवः॑ संवँथ्स॒र ऋ॒तुष्वे॒व सं॑वँथ्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्धते॒ त्रीण्या᳚श्वि॒नानि॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒- [इ॒मे लो॒का ए॒षु, ए॒व लो॒केषु॒ प्रति॑] 19
-ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यथो॒ त्रीणि॒ वै य॒ज्ञस्ये᳚न्द्रि॒याणि॒ तान्ये॒वाव॑ रुन्धते विश्व॒जि-द्भ॑वत्य॒न्नाद्य॒स्या व॑रुद्ध्यै॒ सर्व॑पृष्ठो भवति॒ सर्व॑स्या॒भिजि॑त्यै॒ वाग्वै द्वा॑दशा॒हो य-त्पु॒रस्ता᳚-द्द्वादशा॒ह-मु॑पे॒युरना᳚प्तां॒-वाँच॒-मुपे॑यु-रुप॒दासु॑कैषां॒-वाँ-ख्स्या॑-दु॒परि॑ष्टा-द्द्वादशा॒हमुप॑ यन्त्या॒प्तामे॒व वाच॒मुप॑ यन्ति॒ तस्मा॑-दु॒परि॑ष्टा-द्वा॒चा व॑दामो ऽवान्त॒रं- [व॑दामो ऽवान्त॒रम्, वै द॑शरा॒त्रेण॑] 20
-ँवै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ य-द्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व त-द्यज॑माना-स्सृजन्त ए॒ताग्ं ह॒ वा उ॑द॒ङ्क-श्शौ᳚ल्बाय॒न-स्स॒त्रस्यर्धि॑मुवाच॒ य-द्द॑शरा॒त्रो य-द्द॑शरा॒त्रो भव॑ति स॒त्रस्यर्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्ति॑द्र्व्यनी॒का वा ए॒ता रात्र॑यो॒ यज॑माना विश्व॒जि-थ्स॒हाति॑रा॒त्रेण॒ पूर्वा॒-ष्षोड॑श स॒हा ति॑रा॒त्रेणोत्त॑रा॒-ष्षोड॑श॒ य ए॒वं-विँ॒द्वाग्ंस॑स्त्रयस्त्रिग्ंशद॒हमास॑त॒ ऐषा᳚-न्द्व्यनी॒का प्र॒जा जा॑यते ऽतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥ 21 ॥
(अ॒ह॒र॒- न्ने॒ष्व॑ - वान्त॒रग्ं - षोड॑श स॒ह - स॒प्तद॑श च) (अ. 5)
आ॒दि॒त्या अ॑कामयन्त सुव॒र्गं-लोँ॒कमि॑या॒मेति॒ ते सु॑व॒र्गं-लोँ॒क-न्न प्राजा॑न॒न्न सु॑व॒र्गं-लोँ॒कमा॑य॒-न्त ए॒तग्ं ष॑ट्त्रिग्ंशद्रा॒त्र-म॑पश्य॒-न्तमा-ऽह॑र॒-न्तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गं-लोँ॒क-म्प्राजा॑नन्-थ्सुव॒र्गं-लोँ॒कमा॑य॒न्॒. य ए॒वं-विँ॒द्वाग्ंसः॑ षट्त्रिग्ंश-द्रा॒त्रमास॑ते सुव॒र्गमे॒व लोक-म्प्र जा॑नन्ति सुव॒र्गं-लोँ॒कं-यँ॑न्ति॒ ज्योति॑-रतिरा॒त्रो [ज्योति॑-रतिरा॒त्रः, भ॒व॒ति॒ ज्योति॑रे॒व] 22
भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚-द्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै षड॒हा भ॑वन्ति॒ ष-ड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति च॒त्वारो॑ भवन्ति॒ चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्त्यस॑त्रं॒-वाँ ए॒त-द्यद॑छन्दो॒मं-यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्र-न्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑-म्पृ॒ष्ठानि॑ प॒शवः॑ छन्दो॒मा ओज॑स्ये॒व [ ] 23
वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति षट्-त्रिग्ंश-द्रा॒त्रो भ॑वति॒ षट्त्रिग्ं॑शदक्षरा बृह॒ती बार्ह॑ताः प॒शवो॑ बृह॒त्यैव प॒शूनव॑ रुन्धते बृह॒ती छन्द॑सा॒ग्॒ स्वारा᳚ज्यमाश्ञुता-श्ञु॒वते॒ स्वारा᳚ज्यं॒-यँ ए॒वं-विँ॒द्वाग्ंसः॑ षट्त्रिग्ंश-द्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं-यँ॑न्त्यतिरा॒त्राव॒भितो॑ भवत-स्सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ॥ 24 ॥
(अ॒ति॒रा॒त्र - ओज॑स्ये॒व - षट्त्रिग्ं॑शच्च) (अ. 6)
वसि॑ष्ठो ह॒तपु॑त्रो-ऽकामयत वि॒न्देय॑ प्र॒जाम॒भि सा॑दा॒सा-न्भ॑वेय॒मिति॒ स ए॒तमे॑कस्मा-न्नपञ्चा॒श-म॑पश्य॒-त्तमा-ऽह॑र॒-त्तेना॑यजत॒ ततो॒ वै सो-ऽवि॑न्दत प्र॒जाम॒भि सौ॑दा॒सान॑भव॒द्य ए॒वं-विँ॒द्वाग्ंस॑ एकस्मा-न्नपञ्चा॒शमास॑ते वि॒न्दन्ते᳚ प्र॒जाम॒भि भ्रातृ॑व्या-न्भवन्ति॒ त्रय॑स्त्रि॒वृतो᳚-ऽग्निष्टो॒मा भ॑वन्ति॒ वज्र॑स्यै॒व मुख॒ग्ं॒ सग्ग् श्य॑न्ति॒ दश॑ पञ्चद॒शा भ॑वन्ति पञ्चद॒शो वज्रो॒ [वज्रः॑, वज्र॑मे॒व] 25
वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्ति षोडशि॒म॑-द्दश॒ममह॑-र्भवति॒ वज्र॑ ए॒व वी॒र्य॑-न्दधति॒ द्वाद॑श सप्तद॒शा भ॑वन्त्य॒न्नाद्य॒स्या व॑रुद्ध्या॒ अथो॒ प्रैव तैर्जा॑यन्ते॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तव॒-ष्षट् पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तृभिः॑ संवँथ्स॒र-न्ते सं॑वँथ्स॒र ए॒व प्रति॑ तिष्ठन्ति॒ द्वाद॑शैकवि॒ग्ं॒शा भ॑वन्ति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वा-ऽऽत्म- [रुच॑मे॒वा-ऽऽत्मन्न्, द॒ध॒ते॒ ब॒हवः॑ षोड॒शिनो॑] 26
-न्द॑धते ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒ विजि॑त्यै॒ षडा᳚श्वि॒नानि॑ भवन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्यूनातिरि॒क्ता वा ए॒ता रात्र॑य ऊ॒नास्त-द्यदेक॑स्यै॒ न प॑ञ्चा॒शद-ति॑रिक्ता॒स्त-द्य-द्भूय॑सी-र॒ष्टाच॑त्वारिग्ंशत ऊ॒नाच्च॒ खलु॒ वा अति॑रिक्ताच्च प्र॒जाप॑तिः॒ प्राजा॑यत॒ ये प्र॒जाका॑माः प॒शुका॑मा॒-स्स्युस्त ए॒ता आ॑सीर॒-न्प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑र्वैरा॒जो वा ए॒ष य॒ज्ञो यदे॑कस्मा-न्नपञ्चा॒शो य ए॒वं-विँ॒द्वाग्ंस॑ एकस्मा-न्नपञ्चा॒शमास॑ते वि॒राज॑मे॒व ग॑च्छन्त्यन्ना॒दा भ॑वन्त्यति-रा॒त्राव॒भितो॑ भवतो॒-ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ 27 ॥
(वज्र॑ - आ॒त्मन् - प्र॒जया॒ - द्वाविग्ं॑शतिश्च) (अ. 7)
सं॒वँ॒थ्स॒राय॑ दीक्षि॒ष्यमा॑णा एकाष्ट॒काया᳚-न्दीक्षेरन्ने॒षा वै सं॑वँथ्स॒रस्य॒ पत्नी॒ यदे॑काष्ट॒कैतस्यां॒-वाँ ए॒ष ए॒ताग्ं रात्रिं॑-वँसति सा॒क्षादे॒व सं॑वँथ्स॒रमा॒रभ्य॑ दीक्षन्त॒ आर्तं॒-वाँ ए॒ते सं॑वँथ्स॒रस्या॒भि दी᳚क्षन्ते॒ य ए॑काष्ट॒काया॒-न्दीक्ष॒न्ते ऽन्त॑नामानावृ॒तू भ॑वतो॒ व्य॑स्तं॒-वाँ ए॒ते सं॑वँथ्स॒रस्या॒-ऽभि दी᳚क्षन्ते॒ य ए॑काष्ट॒काया॒-न्दीक्ष॒न्ते-ऽन्त॑नामानावृ॒तू भ॑वतः फल्गुनी पूर्णमा॒से दी᳚क्षेर॒-न्मुखं॒-वाँ ए॒त- [ए॒तत्, सं॒वँ॒थ्स॒रस्य॒ य-त्फ॑ल्गुनी-] 28
-थ्सं॑वँथ्स॒रस्य॒ य-त्फ॑ल्गुनी-पूर्णमा॒सो मु॑ख॒त ए॒व सं॑वँथ्स॒रमा॒रभ्य॑ दीक्षन्ते॒ तस्यैकै॒व नि॒र्या य-थ्साम्मे᳚घ्ये विषू॒वान्-थ्स॒पन्द्य॑ते चित्रापूर्णमा॒से दी᳚क्षेर॒-न्मुखं॒-वाँ ए॒त-थ्सं॑वँथ्स॒रस्य॒ यच्चि॑त्रापूर्णमा॒सो मु॑ख॒त ए॒व सं॑वँथ्स॒रमा॒रभ्य॑ दीक्षन्ते॒ तस्य॒ न का च॒न नि॒र्या भ॑वति चतुर॒हे पु॒रस्ता᳚-त्पौर्णमा॒स्यै दी᳚क्षेर॒-न्तेषा॑मेकाष्ट॒काया᳚-ङ्क्र॒य-स्स-म्प॑द्यते॒ तेनै॑काष्ट॒का-न्न छ॒म्ब-ट्कु॑र्वन्ति॒ तेषा᳚- [तेषा᳚म्, पू॒र्व॒प॒क्षे सु॒त्या] 29
-म्पूर्वप॒क्षे सु॒त्या स-म्प॑द्यते पूर्वप॒क्ष-म्मासा॑ अ॒भि स-म्प॑द्यन्ते॒ ते पू᳚र्वप॒क्ष उ-त्ति॑ष्ठन्ति॒ तानु॒त्तिष्ठ॑त॒ ओष॑धयो॒ वन॒स्पत॒यो-ऽनू-त्ति॑ष्ठन्ति॒ तान् क॑ल्या॒णी की॒र्तिरनू-त्ति॑ष्ठ॒त्यरा᳚-थ्सुरि॒मे यज॑माना॒ इति॒ तदनु॒ सर्वे॑ राद्ध्नुवन्ति ॥ 30 ॥
(ए॒त - च्छ॒बण्ट्कु॑र्वन्ति॒ तेषां॒ - चतु॑स्त्रिग्ंशच्च) (अ. 8)
सु॒व॒र्गं-वाँ ए॒ते लो॒कं-यँ॑न्ति॒ ये स॒त्रमु॑प॒यन्त्य॒भीन्ध॑त ए॒व दी॒क्षाभि॑रा॒त्मानग्ग्॑ श्रपयन्त उप॒सद्भि॒-र्द्वाभ्यां॒-लोँमाव॑ द्यन्ति॒ द्वाभ्या॒-न्त्वच॒-न्द्वाभ्या॒मसृ॒-द्द्वाभ्या᳚-म्मा॒ग्ं॒स-न्द्वाभ्या॒मस्थि॒ द्वाभ्या᳚-म्म॒ज्जान॑मा॒त्मद॑क्षिणं॒-वैँ स॒त्रमा॒त्मान॑मे॒व दक्षि॑णा-न्नी॒त्वा सु॑व॒र्गं-लोँ॒कं-यँ॑न्ति॒ शिखा॒मनु॒ प्र व॑पन्त॒ ऋद्ध्या॒ अथो॒ रघी॑याग्ंस-स्सुव॒र्गं-लोँ॒कम॑या॒मेति॑ ॥ 31 ॥
(सु॒व॒र्गं - प॑ञ्चा॒शत्) (अ. 9)
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्यतिरा॒त्रः प॑र॒मो य॑ज्ञक्रतू॒ना-ङ्कस्मा॒-त्त-म्प्र॑थ॒ममुप॑ य॒न्तीत्ये॒तद्वा अ॑ग्निष्टो॒म-म्प्र॑थ॒ममुप॑ य॒न्त्यथो॒क्थ्य॑मथ॑ षोड॒शिन॒-मथा॑तिरा॒त्र-म॑नुपू॒र्वमे॒वैत-द्य॑ज्ञक्र॒तूनु॒पेत्य॒ ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑मे॒वैत-त्पिब॑न्त आसते॒ ज्योति॑ष्टोम-म्प्रथ॒ममुप॑ यन्ति॒ ज्योति॑ष्टोमो॒ वै स्तोमा॑ना॒-म्मुख॑-म्मुख॒त ए॒व स्तोमा॒-न्प्र यु॑ञ्जते॒ ते [ ] 32
सग्ग्स्तु॑ता वि॒राज॑म॒भि स-म्प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒या-ऽऽयु॑रू॒न-स्सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्-वि॒राट्-थ्सु॑व॒र्गमे॒व तेन॑ लो॒कं-यँ॑न्ति रथन्त॒र-न्दिवा॒ भव॑ति रथन्त॒र-न्नक्त॒मित्या॑हु-र्ब्रह्मवा॒दिनः॒ केन॒ तदजा॒मीति॑ सौभ॒र-न्तृ॑तीयसव॒ने ब्र॑ह्मसा॒म-म्बृ॒ह-त्तन्म॑द्ध्य॒तो द॑धति॒ विधृ॑त्यै॒ तेनाजा॑मि ॥ 33 ॥
(त - एका॒न्नप॑ञ्चा॒शच्च॑) (अ. 10)
ज्योति॑ष्टोम-म्प्रथ॒ममुप॑ यन्त्य॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति॒ गोष्टो॑म-न्द्वि॒तीय॒मुप॑ यन्त्य॒न्तरि॑क्ष ए॒व तेन॒ प्रति॑ तिष्ठ॒न्त्यायु॑ष्टोम-न्तृ॒तीय॒मुप॑ यन्त्य॒मुष्मि॑न्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ती॒यं-वाँव ज्योति॑र॒न्तरि॑क्ष॒-ङ्गौर॒सावायु॒-र्यदे॒तान्-थ्स्तोमा॑-नुप॒यन्त्ये॒ष्वे॑व तल्लो॒केषु॑ स॒त्रिणः॑ प्रति॒ तिष्ठ॑न्तो यन्ति॒ ते सग्ग्स्तु॑ता वि॒राज॑- [वि॒राज᳚म्, अ॒भि सम्प॑द्यन्ते॒ द्वे] 34
-म॒भि सम्प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒या-ऽऽयु॑रू॒न-स्सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्-वि॒राडूर्ज॑-मे॒वाव॑ रुन्धते॒ ते न क्षु॒धा ऽऽर्ति॒मार्च्छ॒न्त्यक्षो॑धुका भवन्ति॒ क्षु-थ्स॑बान्धा इव॒ हि स॒त्रिणो᳚ ऽग्निष्टो॒माव॒भितः॑ प्र॒धी तावु॒क्थ्या॑ मद्ध्ये॒ नभ्य॒-न्त-त्तदे॒त-त्प॑रि॒य-द्दे॑वच॒क्रं-यँदे॒तेन॑ [-ँयदे॒तेन॑, ष॒ड॒हेन॒ यन्ति॑] 35
षड॒हेन॒ यन्ति॑ देवच॒क्रमे॒व स॒मारो॑ह॒न्त्यरि॑ष्ट्यै॒ ते स्व॒स्ति सम॑श्ञुवते षड॒हेन॑ यन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्युभ॒यतो᳚ ज्योतिषा यन्त्युभ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो यन्ति॒ द्वौ ष॑ड॒हौ भ॑वत॒स्तानि॒ द्वाद॒शाहा॑नि॒ स-म्प॑द्यन्ते द्वाद॒शो वै पुरु॑षो॒ द्वे स॒क्थ्यौ᳚ द्वौ बा॒हू आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि॒ स्तनौ᳚ द्वाद॒शौ [ ] 36
त-त्पुरु॑ष॒मनु॑ प॒र्याव॑र्तन्ते॒ त्रयः॑ षड॒हा भ॑वन्ति॒ तान्य॒ष्टाद॒शाहा॑नि॒ स-म्प॑द्यन्ते॒ नवा॒न्यानि॒ नवा॒न्यानि॒ नव॒ वै पुरु॑षे प्रा॒णास्त-त्प्रा॒णाननु॑ प॒र्याव॑र्तन्ते च॒त्वारः॑ षड॒हा भ॑वन्ति॒ तानि॒ चतु॑र्विग्ंशति॒रहा॑नि॒ स-म्प॑द्यन्ते॒ चतु॑र्विग्ंशतिरर्धमा॒सा-स्सं॑वँथ्स॒रस्त-थ्सं॑वँथ्स॒रमनु॑ प॒र्याव॑र्त॒न्ते ऽप्र॑तिष्ठित-स्संवँथ्स॒र इति॒ खलु॒ वा आ॑हु॒र्वर्षी॑या-न्प्रति॒ष्ठाया॒ इत्ये॒ताव॒द्वै सं॑वँथ्स॒रस्य॒ ब्राह्म॑णं॒-याँव॑न्मा॒सो मा॒सिमा᳚स्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति ॥ 37 ॥
(वि॒राज॑ - मे॒तेन॑ - द्वाद॒शा - वे॒ताव॒द्वा - अ॒ष्टौ च॑) (अ. 11)
मे॒षस्त्वा॑ पच॒तैर॑वतु॒ लोहि॑तग्रीव॒-श्छागै᳚-श्शल्म॒लिर्वृद्ध्या॑ प॒र्णो ब्रह्म॑णा प्ल॒क्षो मेधे॑न न्य॒ग्रोध॑श्चम॒सैरु॑दु॒बंर॑ ऊ॒र्जा गा॑य॒त्री छन्दो॑भिस्त्रि॒वृ-थ्स्तोमै॒रव॑न्ती॒-स्स्थाव॑न्तीस्त्वा-ऽवन्तु प्रि॒य-न्त्वा᳚ प्रि॒याणां॒-वँर्षि॑ष्ठ॒माप्या॑ना-न्निधी॒ना-न्त्वा॑ निधि॒पतिग्ं॑ हवामहे वसो मम ॥ 38 ॥
(मे॒षः - ष-ट्त्रिग्ं॑शत्) (अ. 12)
कूप्या᳚भ्य॒-स्स्वाहा॒ कूल्या᳚भ्य॒-स्स्वाहा॑ विक॒र्या᳚भ्य॒-स्स्वाहा॑ ऽव॒ट्या᳚भ्य॒-स्स्वाहा॒ खन्या᳚भ्य॒-स्स्वाहा॒ ह्रद्या᳚भ्य॒-स्स्वाहा॒ सूद्या᳚भ्य॒-स्स्वाहा॑ सर॒स्या᳚भ्य॒-स्स्वाहा॑ वैश॒न्तीभ्य॒-स्स्वाहा॑ पल्व॒ल्या᳚भ्य॒-स्स्वाहा॒ वर्ष्या᳚भ्य॒-स्स्वाहा॑ ऽव॒र्ष्याभ्य॒-स्स्वाहा᳚ ह्रा॒दुनी᳚भ्य॒-स्स्वाहा॒ पृष्वा᳚भ्य॒-स्स्वाहा॒ स्यन्द॑मानाभ्य॒-स्स्वाहा᳚ स्थाव॒राभ्य॒-स्स्वाहा॑ नादे॒यीभ्य॒-स्स्वाहा॑ सैन्ध॒वीभ्य॒-स्स्वाहा॑ समु॒द्रिया᳚भ्य॒-स्स्वाहा॒ सर्वा᳚भ्य॒-स्स्वाहा᳚ ॥ 39 ॥
(कूप्या᳚भ्य - श्चत्वारि॒ग्ं॒शत्) (अ. 13)
अ॒द्भ्य-स्स्वाहा॒ वह॑न्तीभ्य॒-स्स्वाहा॑ परि॒वह॑न्तीभ्य॒-स्स्वाहा॑ सम॒न्तं-वँह॑न्तीभ्य॒-स्स्वाहा॒ शीघ्रं॒-वँह॑न्तीभ्य॒-स्स्वाहा॒ शीभं॒-वँह॑न्तीभ्य॒-स्स्वाहो॒ग्रं-वँह॑न्तीभ्य॒-स्स्वाहा॑ भी॒मं-वँह॑न्तीभ्य॒-स्स्वाहा-ऽम्भो᳚भ्य॒-स्स्वाहा॒ नभो᳚भ्य॒-स्स्वाहा॒ महो᳚भ्य॒-स्स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ 40 ॥
(अ॒द्भ्य - एका॒न्नत्रि॒ग्ं॒शत्) (अ. 14)
यो अर्व॑न्त॒-ञ्जिघाग्ं॑सति॒ तम॒भ्य॑मीति॒ वरु॑णः ॥ प॒रो मर्तः॑ प॒र-श्श्वा ॥ अ॒ह-ञ्च॒ त्व-ञ्च॑ वृत्रह॒न्थ्स-म्ब॑भूव स॒निभ्य॒ आ । अ॒रा॒ती॒वा चि॑दद्रि॒वो-ऽनु॑ नौ शूर मग्ंसतै भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यम्महि॒मान॒ग्ं॒ रजाग्ं॑सि । स्वेना॒ हि वृ॒त्रग्ं शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑-विँविद-द्यु॒धा ते᳚ ॥ 41 ॥
(वि॒वि॒द॒-द्- द्वे च॑) (अ. 15)
नमो॒ राज्ञे॒ नमो॒ वरु॑णाय॒ नमो-ऽश्वा॑य॒ नमः॑ प्र॒जाप॑तये॒ नमो-ऽधि॑पत॒ये ऽधि॑पतिर॒स्यधि॑पति-म्मा कु॒र्वधि॑पतिर॒ह-म्प्र॒जाना᳚-म्भूयास॒-म्मा-न्धे॑हि॒ मयि॑ धेह्यु॒पाकृ॑ताय॒ स्वाहा ऽऽल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा᳚ ॥ 42 ॥
(नम॒ - एका॒न्न त्रि॒ग्ं॒शत्) (अ. 16)
म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् । पीव॑स्वतीर्जी॒वध॑न्याः पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृड ॥ या-स्सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ । या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥ या दे॒वेषु॑ त॒नुव॒मैर॑यन्त॒ यासा॒ग्ं॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ । ता अ॒स्मभ्य॒-म्पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र [ ] 43
गो॒ष्ठे रि॑रीहि ॥ प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै᳚र्दे॒वैः पि॒तृभिः॑ संविँदा॒नः । शि॒वा-स्स॒तीरुप॑ नो गो॒ष्ठमा-ऽक॒स्तासां᳚-वँ॒य-म्प्र॒जया॒ सग्ं स॑देम ॥ इ॒ह धृति॒-स्स्वाहे॒ह विधृ॑ति॒-स्स्वाहे॒ह रन्ति॒-स्स्वाहे॒ह रम॑ति॒-स्स्वाहा॑ म॒हीमू॒ षु1 सु॒त्रामा॑णं2 ॥ 44 ॥
(इ॒न्द्रा॒ - ष्टात्रिग्ं॑शच्च) (अ. 17)
किग्ग् स्वि॑दासी-त्पू॒र्वचि॑त्तिः॒ किग्ग् स्वि॑दासी-द्बृ॒हद्वयः॑ । किग्ग् स्वि॑दासी-त्पिशङ्गि॒ला किग्ग् स्वि॑दासी-त्पिलिप्पि॒ला ॥ द्यौरा॑सी-त्पू॒र्वचि॑त्ति॒रश्व॑ आसी-द्बृ॒हद्वयः॑ । रात्रि॑रासी-त्पिशङ्गि॒ला ऽवि॑रासी-त्पिलिप्पि॒ला ॥ क-स्स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुनः॑ । किग्ग् स्वि॑द्धि॒मस्य॑ भेष॒ज-ङ्किग्ग् स्वि॑दा॒वप॑न-म्म॒हत् ॥ सूर्य॑ एका॒की च॑रति [ ] 45
च॒न्द्रमा॑ जायते॒ पुनः॑ । अ॒ग्निर्-हि॒मस्य॑ भेष॒ज-म्भूमि॑रा॒वप॑न-म्म॒हत् ॥ पृ॒च्छामि॑ त्वा॒ पर॒मन्त॑-म्पृथि॒व्याः पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि᳚म् । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं-व्योँ॑म ॥ वेदि॑माहुः॒ पर॒मन्त॑-म्पृथि॒व्या य॒ज्ञमा॑हु॒ र्भुव॑नस्य॒ नाभि᳚म् । सोम॑माहु॒र्वृष्णो॒ अश्व॑स्य॒ रेतो॒ ब्रह्मै॒व वा॒चः प॑र॒मं-व्योँ॑म ॥ 46 ॥
(सूर्य॑ एका॒की च॑रति॒ - षट्च॑त्वारिग्ंशच्च) (अ. 18)
अबें॒ अबां॒ल्यम्बि॑के॒ न मा॑ नयति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ सुभ॑गे॒ काम्पी॑लवासिनि सुव॒र्गे लो॒के स-म्प्रोर्ण्वा॑थाम् । आ-ऽहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ॥ तौ स॒ह च॒तुरः॑ प॒द-स्स-म्प्र सा॑रयावहै ॥ वृषा॑ वाग्ं रेतो॒धा रेतो॑ दधा॒तू-थ्स॒क्थ्यो᳚र्गृ॒द-न्धे᳚ह्य॒ञ्जिमुद॑ञ्जि॒मन्व॑ज । य-स्स्त्री॒णा-ञ्जी॑व॒भोज॑नो॒ य आ॑सा- [य आ॑साम्, बि॒ल॒धाव॑नः ।] 47
-म्बिल॒धाव॑नः । प्रि॒य-स्स्त्री॒णाम॑पी॒च्यः॑ ॥ य आ॑सा-ङ्कृ॒ष्णे लक्ष्म॑णि॒ सर्दि॑गृदि-म्प॒राव॑धीत् ॥ अबें॒ अबां॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ ऊ॒र्ध्वा-मे॑ना॒मुच्छ्र॑यता-द्वेणुभा॒र-ङ्गि॒रावि॑व । अथा᳚स्या॒ मद्ध्य॑मेधताग्ं शी॒ते वाते॑ पु॒नन्नि॑व ॥ अबें॒ अबां॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ यद्ध॑रि॒णी यव॒मत्ति॒ न [ ] 48
पु॒ष्ट-म्प॒शु म॑न्यते । शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ॥ अबें॒ अबां॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ इ॒यं-यँ॒का श॑कुन्ति॒का ऽऽहल॒मिति॒ सर्प॑ति । आह॑त-ङ्ग॒भे पसो॒ नि ज॑ल्गुलीति॒ धाणि॑का ॥ अबें॒ अबां॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ मा॒ता च॑ ते पि॒ता च॒ ते-ऽग्रं॑-वृँ॒क्षस्य॑ रोहतः । 49
प्र सु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तग्ंसयत् ॥ द॒धि॒क्राव्.ण्णो॑ अकारिष-ञ्जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सुर॒भि नो॒ मुखा॑ कर॒-त्प्रण॒ आयूग्ं॑षि तारिषत् ॥ आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से ॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥ तस्मा॒ अर॑-ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ 50 ॥
(आ॒सा॒ - मत्ति॒ न - रो॑हतो॒ - जिन्व॑थ - च॒त्वारि॑ च) (अ. 19)
भूर्भुव॒-स्सुव॒र्वस॑वस्त्वा ऽञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा᳚ ऽञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा, ऽऽदि॒त्यास्त्वा᳚-ऽञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा॒ य-द्वातो॑ अ॒पो अग॑म॒दिन्द्र॑स्य त॒नुव॑-म्प्रि॒याम् । ए॒तग्ग् स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒मा व॑र्तयासि नः ॥ लाजी(3)-ञ्छाची(3)न् यशो॑ म॒माँ(4) । य॒व्यायै॑ ग॒व्याया॑ ए॒त-द्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापते ॥ यु॒ञ्जन्ति॑ ब्र॒द्ध्न-म॑रु॒ष-ञ्चर॑न्त॒-म्परि॑ त॒स्थुषः॑ । रोच॑न्ते रोच॒ना दि॒वि ॥ यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे᳚ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥ के॒तु-ङ्कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚ । समु॒षद्भि॑रजायथाः ॥ 51 ॥
(ब्र॒द्ध्नं - पञ्च॑विग्ंशतिश्च) (अ. 20)
प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहा॑ ऽपा॒नाय॒ स्वाहा॒ स्नाव॑भ्य॒-स्स्वाहा॑ सन्ता॒नेभ्य॒-स्स्वाहा॒ परि॑सन्तानेभ्य॒-स्स्वाहा॒ पर्व॑भ्य॒-स्स्वाहा॑ स॒धान्ने᳚भ्य॒-स्स्वाहा॒ शरी॑रेभ्य॒-स्स्वाहा॑ य॒ज्ञाय॒ स्वाहा॒ दक्षि॑णाभ्य॒-स्स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ 52 ॥
(प्रा॒णाया॒ - ष्टाविग्ं॑शतिः) (अ. 21)
सि॒ताय॒ स्वाहा ऽसि॑ताय॒ स्वाहा॒ ऽभिहि॑ताय॒ स्वाहा ऽन॑भिहिताय॒ स्वाहा॑ यु॒क्ताय॒ स्वाहा ऽयु॑क्ताय॒ स्वाहा॒ सुयु॑क्ताय॒ स्वाहो -द्यु॑क्ताय॒ स्वाहा॒ विमु॑क्ताय॒ स्वाहा॒ प्रमु॑क्ताय॒ स्वाहा॒ वञ्च॑ते॒ स्वाहा॑ परि॒वञ्च॑ते॒ स्वाहा॑ सं॒वँञ्च॑ते॒ स्वाहा॑ ऽनु॒वञ्च॑ते॒ स्वाहो॒--द्वञ्च॑ते॒ स्वाहा॑ य॒ते स्वाहा॒ धाव॑ते॒ स्वाहा॒ तिष्ठ॑ते॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ 53 ॥
(सि॒ताया॒ - ष्टात्रिग्ं॑शत्) (अ. 22)
(बृह॒स्पति॒-श्श्र--द्य॒था वा - ऋ॒क्षा वै - प्र॒जाप॑ति॒र्येन॑येन॒ - द्वे वाव दे॑वस॒त्रे - आ॑दि॒त्या अ॑कामयन्त सुव॒र्गं - ँवसि॑ष्ठः - संवँथ्स॒राय॑ -सुर्व॒र्गं-येँ स॒त्रं - ब्र॑ह्मवा॒दिनो॑-ऽतिरा॒त्रो - ज्योति॑ष्टोमं - मे॒षः - कूप्या᳚भ्यो॒ - ऽद्भ्यो - यो - नमो॑ - मयो॒भूः - किग्ग् स्वि॒द - म्बे॒ - भूः - प्रा॒णाय॑ - सि॒ताय॒ - द्वाविग्ं॑शतिः)
(बृह॒स्पतिः॒ - प्रति॑ तिष्ठन्ति॒ - वै द॑शरा॒त्रेण॑ - सुव॒र्गं - ँयो अर्व॑न्तं॒ - भू - स्त्रिप॑ञ्चा॒शत्)
(बृह॒स्पति॒, स्सर्व॑स्मै॒ स्वाहा᳚)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां सप्तमकाण्डे चतुर्थः प्रश्न-स्समाप्तः ॥
Roman (IAST) Transliteration
kṛṣṇa yajurvedīya taittirīya saṃhitāyāṃ saptamakāṇḍe caturthaḥ praśnaḥ - satrakarmanirūpaṇaṃ
o-nnamaḥ paramātmane, śrī mahāgaṇapataye namaḥ,
śrī gurubhyo namaḥ | ha॒riḥ॒ om ||
bṛha॒spati̭rakāmayata॒ śranmḙ de॒vā dadhī̭ra॒-ngacchḙya-mpuro॒dhāmiti॒ sa e॒ta-ñca̭turvigṃśatirā॒tra-ma̭paśya॒-ttamā-'ha̭ra॒-ttenā̭yajata॒ tato॒ vai tasmai॒ śradde॒vā ada̭dha॒tāga̭ccha-tpuro॒dhāṃ-ya~ e॒vaṃ-vi~॒dvāgṃsa̭-ścaturvigṃśatirā॒tra-māsa̭te॒ śrade᳚bhyo manu॒ṣyā̭ dadhate॒ gaccha̭nti puro॒dhā-ñjyoti॒rgaurāyu॒riti̭ trya॒hā bha̭vantī॒yaṃ-vā~va jyoti̭ra॒ntari̭kṣa॒-ṅgaura॒sā-vāyṷ- [-vāyuḥ̭, i॒māne॒va] 1
-ri॒māne॒va lo॒kāna॒bhyāro̭hantyabhi pū॒rva-ntrya॒hā bha̭vantyabhipū॒rvame॒va sṷva॒rgaṃ-lo~॒kama॒bhyāro̭ha॒ntyasa̭traṃ॒-vā~ e॒ta-dyada̭chando॒maṃ-ya~ccha̭ndo॒mā bhava̭nti॒ tena̭ sa॒tra-nde॒vatā̭ e॒va pṛ॒ṣṭhairava̭ rundhate pa॒śūñcha̭ndo॒mairojo॒ vai vī॒rya̭-mpṛ॒ṣṭhāni̭ pa॒śavaḥ̭ chando॒mā oja̭sye॒va vī॒ryḙ pa॒śuṣu॒ prati̭ tiṣṭhanti bṛha-drathanta॒rābhyāṃ᳚-ya~ntī॒yaṃ-vā~va ra̭thanta॒rama॒sau bṛ॒hadā॒bhyāme॒va [ ] 2
ya॒ntyatho̭ a॒nayo̭re॒va prati̭ tiṣṭhantye॒te vai ya॒jñasyā᳚ñja॒sāya̭nī sru॒tī tābhyā̭me॒va sṷva॒rgaṃ-lo~॒kaṃ-ya~̭nti caturvigṃśatirā॒tro bha̭vati॒ catṷrvigṃśatirardhamā॒sā-ssaṃ̭va~thsa॒ra-ssaṃ̭va~thsa॒ra-ssṷva॒rgo lo॒ka-ssaṃ̭va~thsa॒ra e॒va sṷva॒rge lo॒ke prati̭ tiṣṭha॒ntyatho॒ catṷrvigṃśatyakṣarā gāya॒trī gā̭ya॒trī bra̭hmavarca॒sa-ṅgā̭yatri॒yaiva bra̭hmavarca॒samava̭ rundhate 'tirā॒trāva॒bhito̭ bhavato brahmavarca॒sasya॒ pari̭gṛhītyai || 3 ||
(a॒sāvāyṷ - rā॒bhyāme॒va - pañca̭catvārigṃśacca) (a. 1)
yathā॒ vai ma̭nu॒ṣyā̭ e॒va-nde॒vā agra̭ āsa॒-ntḙ-'kāmaya॒ntā-'va̭rti-mpā॒pmāna̭-mmṛ॒tyu-ma̭pa॒hatya॒ daivīgṃ̭ sa॒gṃ॒sada̭-ṅgacche॒meti॒ ta e॒ta-ñca̭turvigṃśatirā॒tra-ma̭paśya॒-ntamā-'ha̭ra॒-ntenā̭yajanta॒ tato॒ vai te-'va̭rti-mpā॒pmāna̭-mmṛ॒tyu-ma̭pa॒hatya॒ daivīgṃ̭ sa॒gṃ॒sada̭magaccha॒n॒. ya e॒vaṃ-vi~॒dvāgṃsa̭-ścaturvigṃśatirā॒tra-māsa॒te-'va̭rtime॒va pā॒pmāna̭-mapa॒hatya॒ śriya̭-ṅgacchanti॒ śrīrhi ma̭nu॒ṣya̭sya॒ [śrīrhi ma̭nu॒ṣya̭sya, daivī̭ sa॒gṃ॒sa-jjyoti̭-] 4
daivī̭ sa॒gṃ॒sa-jjyoti̭-ratirā॒tro bha̭vati suva॒rgasya̭ lo॒kasyānṷkhyātyai॒ pṛṣṭhyaḥ̭ ṣaḍa॒ho bha̭vati॒ ṣa-ḍvā ṛ॒tavaḥ̭ saṃva~thsa॒rasta-mmāsā̭ ardhamā॒sā ṛ॒tavaḥ̭ pra॒viśya॒ daivīgṃ̭ sa॒gṃ॒sada̭magaccha॒n॒. ya e॒vaṃ-vi~॒dvāgṃsa̭-ścaturvigṃśatirā॒tramāsa̭te saṃva~thsa॒rame॒va pra॒viśya॒ vasya̭sīgṃ sa॒gṃ॒sada̭-ṅgacchanti॒ traya̭strayastri॒gṃ॒śā a॒vastā᳚-dbhavanti॒ traya̭strayastri॒gṃ॒śāḥ pa॒rastā᳚-ttrayastri॒gṃ॒śaire॒vobha॒yato 'va̭rti-mpā॒pmāna̭mapa॒hatya॒ daivīgṃ̭ sa॒gṃ॒sada̭-mmaddhya॒to [sa॒gṃ॒sada̭-mmaddhya॒taḥ, ga॒ccha॒nti॒ pṛ॒ṣṭhāni॒ hi] 5
ga̭cchanti pṛ॒ṣṭhāni॒ hi daivī̭ sa॒gṃ॒sajjā॒mi vā e॒ta-tkṷrvanti॒ ya-ttraya̭strayastri॒gṃ॒śā a॒nvañco॒ maddhye-'ni̭rukto bhavati॒ tenājā᳚myū॒rdhvāni̭ pṛ॒ṣṭhāni̭ bhavantyū॒rdhvā-ścha̭ndo॒mā u॒bhābhyāgṃ̭ rū॒pābhyāgṃ̭ suva॒rgaṃ-lo~॒kaṃ-ya~॒ntyasa̭traṃ॒-vā~ e॒ta-dyada̭chando॒maṃ-ya~ccha̭ndo॒mā bhava̭nti॒ tena̭ sa॒tra-nde॒vatā̭ e॒va pṛ॒ṣṭhairava̭ rundhate pa॒śūñcha̭ndo॒mairojo॒ vai vī॒rya̭-mpṛ॒ṣṭhāni̭ pa॒śava̭- [pa॒śavaḥ̭, cha॒ndo॒mā oja̭sye॒va] 6
-śchando॒mā oja̭sye॒va vī॒ryḙ pa॒śuṣu॒ prati̭ tiṣṭhanti॒ traya̭strayastri॒gṃ॒śā a॒vastā᳚-dbhavanti॒ traya̭strayastri॒gṃ॒śāḥ pa॒rastā॒nmaddhyḙ pṛ॒ṣṭhānyuro॒ vai tra̭yastri॒gṃ॒śā ā॒tmā pṛ॒ṣṭhānyā॒tmana̭ e॒va ta-dyaja̭mānā॒-śśarma̭ nahya॒nte-'nā᳚rtyai bṛha-drathanta॒rābhyāṃ᳚-ya~ntī॒yaṃ-vā~va ra̭thanta॒rama॒sau bṛ॒hadā॒bhyāme॒va ya॒ntyatho̭ a॒nayo̭re॒va prati̭ tiṣṭhantye॒te vai ya॒jñasyā᳚ñja॒sāya̭nī sru॒tī tābhyā̭me॒va [tābhyā̭me॒va, su॒va॒rgaṃ-lo~॒kaṃ-ya~̭nti॒] 7
sṷva॒rgaṃ-lo~॒kaṃ-ya~̭nti॒ parā᳚ñco॒ vā e॒te sṷva॒rgaṃ-lo~॒kama॒bhyāro̭hanti॒ ye pa̭rā॒cīnā̭ni pṛ॒ṣṭhānyṷpa॒yanti̭ pra॒tyaṃ ṣa̭ḍa॒ho bha̭vati pra॒tyava̭rūḍhyā॒ atho॒ prati̭ṣṭhityā u॒bhayo᳚rlo॒kayora̭ ṛ॒ddhvo-tti̭ṣṭhanti tri॒vṛto-'dhi̭ tri॒vṛta॒mupa̭ yanti॒ stomā̭nā॒gṃ॒ sampa̭ttyai prabha॒vāya॒ jyoti̭ragniṣṭo॒mo bha̭vatya॒yaṃ-vā~va sa kṣayo॒-'smāde॒va tena॒ kṣayā॒nna ya̭nti caturvigṃśatirā॒tro bha̭vati॒ catṷrvigṃśatirardhamā॒sā-ssaṃ̭va~thsa॒ra-ssaṃ̭va~thsa॒ra-ssṷva॒rgo lo॒ka-ssaṃ̭va~thsa॒ra e॒va sṷva॒rge lo॒ke prati̭ tiṣṭha॒ntyatho॒ catṷrvigṃśatyakṣarā gāya॒trī gā̭ya॒trī bra̭hmavarca॒sa-ṅgā̭yatri॒yaiva bra̭hmavarca॒samava̭ rundhate 'tirā॒trāva॒bhito̭ bhavato brahmavarca॒sasya॒ pari̭gṛhītyai || 8 ||
(ma॒nu॒ṣya̭sya - madhya॒taḥ - pa॒śava॒ - stābhyā̭me॒va - saṃ̭va~thsa॒ra - ścatṷrvigṃśatiśca) (a. 2)
ṛ॒kṣā vā i॒yama̭lo॒makā̭-''sī॒-thsā-'kā̭maya॒tauṣa̭dhībhi॒-rvana॒spati̭bhiḥ॒ pra jā̭ye॒yeti॒ saitāstri॒gṃ॒śata॒gṃ॒ rātrī̭rapaśya॒-ttato॒ vā i॒yamoṣa̭dhībhi॒-rvana॒spati̭bhiḥ॒ prājā̭yata॒ ye pra॒jākā̭māḥ pa॒śukā̭mā॒-ssyusta e॒tā ā̭sīra॒-npraiva jā̭yante pra॒jayā̭ pa॒śubhi̭ri॒yaṃ-vā~ a̭kṣuddhya॒-thsaitāṃ-vi~॒rāja̭mapaśya॒-ttāmā॒tma-ndhi॒tvā-'nnādya॒mavā̭ 'ru॒ndhauṣa̭dhī॒- [-'ru॒ndhauṣa̭dhīḥ, vana॒spatī᳚-npra॒jā-] 9
-rvana॒spatī᳚-npra॒jā-mpa॒śū-ntenā̭vardhata॒ sā je॒māna̭-mmahi॒māna̭-magaccha॒dya e॒vaṃ-vi~॒dvāgṃsa̭ e॒tā āsa̭te vi॒rāja̭me॒vā-''tma-ndhi॒tvā-'nnādya॒mava̭ rundhate॒ vardha̭nte pra॒jayā̭ pa॒śubhi̭rje॒māna̭-mmahi॒māna̭-ṅgacchanti॒ jyoti̭ratirā॒tro bha̭vati suva॒rgasya̭ lo॒kasyānṷkhyātyai॒ pṛṣṭhyaḥ̭ ṣaḍa॒ho bha̭vati॒ ṣa-ḍvā ṛ॒tava॒-ṣṣaṭ pṛ॒ṣṭhāni̭ pṛ॒ṣṭhaire॒vartūna॒nvā-ro̭hantyṛ॒tubhiḥ̭ saṃva~thsa॒ra-nte saṃ̭va~thsa॒ra e॒va [ ] 10
prati̭ tiṣṭhanti trayastri॒gṃ॒śā-ttra̭yastri॒gṃ॒śamupa̭ yanti ya॒jñasya॒ santa̭tyā॒ atho᳚ pra॒jāpa̭ti॒rvai tra̭yastri॒gṃ॒śaḥ pra॒jāpa̭time॒vā-''ra̭bhante॒ prati̭ṣṭhityai triṇa॒vo bha̭vati॒ viji̭tyā ekavi॒gṃ॒śo bha̭vati॒ prati̭ṣṭhityā॒ atho॒ ruca̭me॒vā-''tma-nda̭dhate tri॒vṛda̭gni॒ṣṭu-dbha̭vati pā॒pmāna̭me॒va tena॒ nirda̭ha॒nte-'tho॒ tejo॒ vai tri॒vṛ-tteja̭ e॒vā-''tma-nda̭dhate pañcada॒śa i̭ndrasto॒mo bha̭vatīndri॒ya-me॒vā-'va̭ [bha̭vatīndri॒ya-me॒vā-'va̭, ru॒ndha॒te॒ sa॒pta॒da॒śo bha̭vatya॒nnādya॒syā] 11
rundhate saptada॒śo bha̭vatya॒nnādya॒syā va̭ruddhyā॒ atho॒ praiva tena̭ jāyanta ekavi॒gṃ॒śo bha̭vati॒ prati̭ṣṭhityā॒ atho॒ ruca̭me॒vā-''tma-nda̭dhate caturvi॒gṃ॒śo bha̭vati॒ atṷrvigṃśatirardhamā॒sā-ssaṃ̭va~thsa॒ra-ssaṃ̭va~thsa॒ra-ssṷva॒rgo lo॒ka-ssaṃ̭va~thsa॒ra e॒va sṷva॒rge lo॒ke prati̭ tiṣṭha॒ntyatho̭ e॒ṣa vai vi̭ṣū॒vān vi̭ṣū॒vanto̭ bhavanti॒ ya e॒vaṃ-vi~॒dvāgṃsa̭ e॒tā āsa̭te caturvi॒gṃ॒śā-tpṛ॒ṣṭhānyupa̭ yanti saṃva~thsa॒ra e॒va pra̭ti॒ṣṭhāya̭ [ ] 12
de॒vatā̭ a॒bhyāro̭hanti trayastri॒gṃ॒śā-ttra̭yastri॒gṃ॒śamupa̭ yanti॒ traya̭strigṃśa॒dvai de॒vatā̭ de॒vatā᳚sve॒va prati̭ tiṣṭhanti triṇa॒vo bha̭vatī॒me vai lo॒kāstri̭ṇa॒va e॒ṣvḙva lo॒keṣu॒ prati̭ tiṣṭhanti॒ dvāvḙkavi॒gṃ॒śau bha̭vataḥ॒ prati̭ṣṭhityā॒ atho॒ ruca̭me॒vā-''tma-nda̭dhate ba॒havaḥ̭ ṣoḍa॒śino̭ bhavanti॒ tasmā᳚-dba॒havaḥ̭ pra॒jāsu॒ vṛṣā̭ṇo॒ yade॒te stomā॒ vyati̭ṣaktā॒ bhava̭nti॒ tasmā̭di॒ya -moṣa̭dhībhi॒-rvana॒spati̭bhi॒-rvyati̭ṣaktā॒ [-rvyati̭ṣaktā, vyati̭ṣajyante] 13
vyati̭ṣajyante pra॒jayā̭ pa॒śubhi॒rya e॒vaṃ-vi~॒dvāgṃsa̭ e॒tā āsa॒te 'kḷ̭ptā॒ vā e॒te sṷva॒rgaṃ-lo~॒kaṃ-ya~̭ntyuccāva॒cān hi stomā̭nupa॒yanti॒ yade॒ta ū॒rdhvāḥ kḷ॒ptā-sstomā॒ bhava̭nti kḷ॒ptā e॒va sṷva॒rgaṃ-lo~॒kaṃ-ya~̭ntyu॒bhayo̭re॒bhyo lo॒kayoḥ᳚ kalpate tri॒gṃ॒śade॒tāstri॒gṃ॒śada̭kṣarā vi॒rāḍannaṃ̭-vi~॒rā-ḍvi॒rājai॒vānnādya॒mava̭ rundhate 'tirā॒trāva॒bhito̭ bhavato॒ 'nnādya̭sya॒ pari̭gṛhītyai || 14 ||
(oṣa̭dhīḥ - saṃva~thsa॒ra e॒vā - 'va̭ - prati॒ṣṭhāya॒ - vyati̭ṣa॒ktyai - kā॒nnapa̭ñcā॒śacca̭) (a. 3)
pra॒jāpa̭ti-ssuva॒rgaṃ-lo~॒kamai॒-tta-nde॒vā yena̭yena॒ chanda॒sā-'nu॒ prāyṷñjata॒ tena॒ nā-''pnṷva॒-nta e॒tā dvātrigṃ̭śata॒gṃ॒ rātrī̭rapaśya॒-ndvātrigṃ̭śadakṣarā 'nu॒ṣṭugā-nṷṣṭubhaḥ pra॒jāpa̭ti॒-ssvenai॒va chanda̭sā pra॒jāpa̭ti-mā॒ptvā 'bhyā॒ruhya̭ suva॒rgaṃ-lo~॒kamā̭ya॒n॒. ya e॒vaṃ-vi~॒dvāgṃsa̭ e॒tā āsa̭te॒ dvātrigṃ̭śade॒tā dvātrigṃ̭śadakṣarā 'nu॒ṣṭugā-nṷṣṭubhaḥ pra॒jāpa̭ti॒-ssvenai॒va chanda̭sā pra॒jāpa̭timā॒ptvā śriya̭-ṅgacchanti॒ [śriya̭-ṅgacchanti, śrīrhi] 15
śrīrhi ma̭nu॒ṣya̭sya suva॒rgo lo॒ko dvātrigṃ̭śade॒tā dvātrigṃ̭śadakṣarā-'nu॒ṣṭug-vāga̭nu॒ṣṭu-phsarvā̭me॒va vāca̭māpnuvanti॒ sarvḙ vā॒co va̭di॒tāro̭ bhavanti॒ sarve॒ hi śriya॒-ṅgaccha̭nti॒ jyoti॒rgaurāyu॒riti̭ trya॒hā bha̭vantī॒yaṃ-vā~va jyoti̭ra॒ntari̭kṣa॒-ṅgaura॒sāvāyṷri॒māne॒va lo॒kāna॒bhyāro̭hantyabhipū॒rva-ntrya॒hā bha̭vantyabhipū॒rvame॒va sṷva॒rgaṃ-lo~॒kama॒bhyāro̭hanti bṛha-drathanta॒rābhyāṃ᳚-ya~ntī॒- [-~yanti, i॒yaṃ-vā~va] 16
-yaṃ-vā~va ra̭thanta॒rama॒sau bṛ॒hadā॒bhyāme॒va ya॒ntyatho̭ a॒nayo̭re॒va prati̭ tiṣṭhantye॒te vai ya॒jñasyā᳚ñja॒sāya̭nī sru॒tī tābhyā̭me॒va sṷva॒rgaṃ-lo~॒kaṃ-ya~̭nti॒ parā᳚ñco॒ vā e॒te sṷva॒rgaṃ-lo~॒kama॒bhyāro̭hanti॒ ye parā̭castrya॒hānṷpa॒yanti̭ pra॒tya-ntrya॒ho bha̭vati pra॒tyava̭rūḍhyā॒ atho॒ prati̭ṣṭhityā u॒bhayo᳚rlo॒kayor̭. ṛ॒ddhvo-tti̭ṣṭhanti॒ dvātrigṃ̭śade॒tāstāsāṃ॒-yā~ stri॒gṃ॒śa-ttri॒gṃ॒śada̭kṣarā vi॒rāḍannaṃ̭-vi~॒rā-ḍvi॒rājai॒vā-'nnādya॒mava̭ rundhate॒ ye dve a̭horā॒tre e॒va te u॒bhābhyāgṃ̭ rū॒pābhyāgṃ̭ suva॒rgaṃ-lo~॒kaṃ-ya~̭ntyatirā॒trāva॒bhito̭ bhavataḥ॒ pari̭gṛhītyai || 17 ||
(ga॒ccha॒nti॒ - ya॒nti॒ - tri॒gṃ॒śada̭kṣarā॒ - dvāvigṃ̭śatiśca) (a. 4)
dve vāva dḙvasa॒tre dvā̭daśā॒haścai॒va tra̭yastrigṃśada॒haśca॒ ya e॒vaṃ-vi~॒dvāgṃsa̭strayastrigṃśada॒hamāsa̭te sā॒kṣāde॒va de॒vatā̭ a॒bhyāro̭hanti॒ yathā॒ khalu॒ vai śreyā̭na॒bhyārṷ̄ḍhaḥ kā॒maya̭te॒ tathā̭ karoti॒ yadya̭va॒viddhya̭ti॒ pāpī̭yā-nbhavati॒ yadi॒ nāva॒viddhya̭ti sa॒dṛṃ-ya~ e॒vaṃ-vi~॒dvāgṃsa̭strayastrigṃ- śada॒hamāsa̭te॒ vi pā॒pmanā॒ bhrātṛ̭vye॒ṇā-'' va̭rtante 'ha॒rbhājo॒ vā e॒tā de॒vā agra॒ ā-'ha̭ra॒- [ā-'ha̭rann, aha॒reko 'bha̭ja॒tā-] 18
-nnaha॒reko 'bha̭ja॒tā-ha॒reka॒stābhi॒rvaite pra॒bāhṷgārdhnuva॒n॒. ya e॒vaṃ-vi~॒dvāgṃsa̭strayastrigṃśada॒hamāsa̭te॒ sarva̭ e॒va pra॒bāhṷgṛddhnuvanti॒ sarve॒ grāma̭ṇīya॒-mprāpnṷvanti pañcā॒hā bha̭vanti॒ pañca॒ vā ṛ॒tavaḥ̭ saṃva~thsa॒ra ṛ॒tuṣve॒va saṃ̭va~thsa॒re prati̭ tiṣṭha॒ntyatho॒ pañcā᳚kṣarā pa॒ṅktiḥ pāṅkto̭ ya॒jño ya॒jñame॒vāva̭ rundhate॒ trīṇyā᳚śvi॒nāni̭ bhavanti॒ traya̭ i॒me lo॒kā e॒- [i॒me lo॒kā e॒ṣu, e॒va lo॒keṣu॒ prati̭] 19
-ṣvḙva lo॒keṣu॒ prati̭ tiṣṭha॒ntyatho॒ trīṇi॒ vai ya॒jñasye᳚ndri॒yāṇi॒ tānye॒vāva̭ rundhate viśva॒ji-dbha̭vatya॒nnādya॒syā va̭ruddhyai॒ sarva̭pṛṣṭho bhavati॒ sarva̭syā॒bhiji̭tyai॒ vāgvai dvā̭daśā॒ho ya-tpu॒rastā᳚-ddvādaśā॒ha-mṷpe॒yuranā᳚ptāṃ॒-vā~ca॒-mupḙyu-rupa॒dāsṷkaiṣāṃ॒-vā~-khsyā̭-du॒pari̭ṣṭā-ddvādaśā॒hamupa̭ yantyā॒ptāme॒va vāca॒mupa̭ yanti॒ tasmā̭-du॒pari̭ṣṭā-dvā॒cā va̭dāmo 'vānta॒raṃ- [va̭dāmo 'vānta॒ram, vai da̭śarā॒treṇa̭] 20
-~vai da̭śarā॒treṇa̭ pra॒jāpa̭tiḥ pra॒jā a̭sṛjata॒ ya-dda̭śarā॒tro bhava̭ti pra॒jā e॒va ta-dyaja̭mānā-ssṛjanta e॒tāgṃ ha॒ vā ṷda॒ṅka-śśau᳚lbāya॒na-ssa॒trasyardhi̭muvāca॒ ya-dda̭śarā॒tro ya-dda̭śarā॒tro bhava̭ti sa॒trasyardhyā॒ atho॒ yade॒va pūrve॒ṣvaha̭ssu॒ vilo̭ma kri॒yate॒ tasyai॒vaiṣā śānti̭drvyanī॒kā vā e॒tā rātra̭yo॒ yaja̭mānā viśva॒ji-thsa॒hāti̭rā॒treṇa॒ pūrvā॒-ṣṣoḍa̭śa sa॒hā ti̭rā॒treṇotta̭rā॒-ṣṣoḍa̭śa॒ ya e॒vaṃ-vi~॒dvāgṃsa̭strayastrigṃśada॒hamāsa̭ta॒ aiṣā᳚-ndvyanī॒kā pra॒jā jā̭yate 'tirā॒trāva॒bhito̭ bhavataḥ॒ pari̭gṛhītyai || 21 ||
(a॒ha॒ra॒- nne॒ṣva̭ - vānta॒ragṃ - ṣoḍa̭śa sa॒ha - sa॒ptada̭śa ca) (a. 5)
ā॒di॒tyā a̭kāmayanta suva॒rgaṃ-lo~॒kami̭yā॒meti॒ te sṷva॒rgaṃ-lo~॒ka-nna prājā̭na॒nna sṷva॒rgaṃ-lo~॒kamā̭ya॒-nta e॒tagṃ ṣa̭ṭtrigṃśadrā॒tra-ma̭paśya॒-ntamā-'ha̭ra॒-ntenā̭yajanta॒ tato॒ vai te sṷva॒rgaṃ-lo~॒ka-mprājā̭nan-thsuva॒rgaṃ-lo~॒kamā̭ya॒n॒. ya e॒vaṃ-vi~॒dvāgṃsaḥ̭ ṣaṭtrigṃśa-drā॒tramāsa̭te suva॒rgame॒va loka-mpra jā̭nanti suva॒rgaṃ-lo~॒kaṃ-ya~̭nti॒ jyoti̭-ratirā॒tro [jyoti̭-ratirā॒traḥ, bha॒va॒ti॒ jyoti̭re॒va] 22
bha̭vati॒ jyoti̭re॒va pu॒rastā᳚-ddadhate suva॒rgasya̭ lo॒kasyānṷkhyātyai ṣaḍa॒hā bha̭vanti॒ ṣa-ḍvā ṛ॒tava̭ ṛ॒tuṣve॒va prati̭ tiṣṭhanti ca॒tvāro̭ bhavanti॒ cata̭sro॒ diśo̭ di॒kṣvḙva prati̭ tiṣṭha॒ntyasa̭traṃ॒-vā~ e॒ta-dyada̭chando॒maṃ-ya~ccha̭ndo॒mā bhava̭nti॒ tena̭ sa॒tra-nde॒vatā̭ e॒va pṛ॒ṣṭhairava̭ rundhate pa॒śūñcha̭ndo॒mairojo॒ vai vī॒rya̭-mpṛ॒ṣṭhāni̭ pa॒śavaḥ̭ chando॒mā oja̭sye॒va [ ] 23
vī॒ryḙ pa॒śuṣu॒ prati̭ tiṣṭhanti ṣaṭ-trigṃśa-drā॒tro bha̭vati॒ ṣaṭtrigṃ̭śadakṣarā bṛha॒tī bārha̭tāḥ pa॒śavo̭ bṛha॒tyaiva pa॒śūnava̭ rundhate bṛha॒tī chanda̭sā॒g॒ svārā᳚jyamāśñutā-śñu॒vate॒ svārā᳚jyaṃ॒-ya~ e॒vaṃ-vi~॒dvāgṃsaḥ̭ ṣaṭtrigṃśa-drā॒tramāsa̭te suva॒rgame॒va lo॒kaṃ-ya~̭ntyatirā॒trāva॒bhito̭ bhavata-ssuva॒rgasya̭ lo॒kasya॒ pari̭gṛhītyai || 24 ||
(a॒ti॒rā॒tra - oja̭sye॒va - ṣaṭtrigṃ̭śacca) (a. 6)
vasi̭ṣṭho ha॒tapṷtro-'kāmayata vi॒ndeya̭ pra॒jāma॒bhi sā̭dā॒sā-nbha̭veya॒miti॒ sa e॒tamḙkasmā-nnapañcā॒śa-ma̭paśya॒-ttamā-'ha̭ra॒-ttenā̭yajata॒ tato॒ vai so-'vi̭ndata pra॒jāma॒bhi saṷdā॒sāna̭bhava॒dya e॒vaṃ-vi~॒dvāgṃsa̭ ekasmā-nnapañcā॒śamāsa̭te vi॒ndante᳚ pra॒jāma॒bhi bhrātṛ̭vyā-nbhavanti॒ traya̭stri॒vṛto᳚-'gniṣṭo॒mā bha̭vanti॒ vajra̭syai॒va mukha॒gṃ॒ sagg śya̭nti॒ daśa̭ pañcada॒śā bha̭vanti pañcada॒śo vajro॒ [vajraḥ̭, vajra̭me॒va] 25
vajra̭me॒va bhrātṛ̭vyebhyaḥ॒ pra ha̭ranti ṣoḍaśi॒ma̭-ddaśa॒mamaha̭-rbhavati॒ vajra̭ e॒va vī॒rya̭-ndadhati॒ dvāda̭śa saptada॒śā bha̭vantya॒nnādya॒syā va̭ruddhyā॒ atho॒ praiva tairjā̭yante॒ pṛṣṭhyaḥ̭ ṣaḍa॒ho bha̭vati॒ ṣaḍvā ṛ॒tava॒-ṣṣaṭ pṛ॒ṣṭhāni̭ pṛ॒ṣṭhaire॒vartūna॒nvāro̭hantyṛ॒tṛbhiḥ̭ saṃva~thsa॒ra-nte saṃ̭va~thsa॒ra e॒va prati̭ tiṣṭhanti॒ dvāda̭śaikavi॒gṃ॒śā bha̭vanti॒ prati̭ṣṭhityā॒ atho॒ ruca̭me॒vā-''tma- [ruca̭me॒vā-''tmann, da॒dha॒te॒ ba॒havaḥ̭ ṣoḍa॒śino̭] 26
-nda̭dhate ba॒havaḥ̭ ṣoḍa॒śino̭ bhavanti॒ viji̭tyai॒ ṣaḍā᳚śvi॒nāni̭ bhavanti॒ ṣaḍvā ṛ॒tava̭ ṛ॒tuṣve॒va prati̭ tiṣṭhantyūnātiri॒ktā vā e॒tā rātra̭ya ū॒nāsta-dyadeka̭syai॒ na pa̭ñcā॒śada-ti̭riktā॒sta-dya-dbhūya̭sī-ra॒ṣṭāca̭tvārigṃśata ū॒nācca॒ khalu॒ vā ati̭riktācca pra॒jāpa̭tiḥ॒ prājā̭yata॒ ye pra॒jākā̭māḥ pa॒śukā̭mā॒-ssyusta e॒tā ā̭sīra॒-npraiva jā̭yante pra॒jayā̭ pa॒śubhi̭rvairā॒jo vā e॒ṣa ya॒jño yadḙkasmā-nnapañcā॒śo ya e॒vaṃ-vi~॒dvāgṃsa̭ ekasmā-nnapañcā॒śamāsa̭te vi॒rāja̭me॒va ga̭cchantyannā॒dā bha̭vantyati-rā॒trāva॒bhito̭ bhavato॒-'nnādya̭sya॒ pari̭gṛhītyai || 27 ||
(vajra̭ - ā॒tman - pra॒jayā॒ - dvāvigṃ̭śatiśca) (a. 7)
saṃ॒va~॒thsa॒rāya̭ dīkṣi॒ṣyamā̭ṇā ekāṣṭa॒kāyā᳚-ndīkṣeranne॒ṣā vai saṃ̭va~thsa॒rasya॒ patnī॒ yadḙkāṣṭa॒kaitasyāṃ॒-vā~ e॒ṣa e॒tāgṃ rātriṃ̭-va~sati sā॒kṣāde॒va saṃ̭va~thsa॒ramā॒rabhya̭ dīkṣanta॒ ārtaṃ॒-vā~ e॒te saṃ̭va~thsa॒rasyā॒bhi dī᳚kṣante॒ ya ḙkāṣṭa॒kāyā॒-ndīkṣa॒nte 'nta̭nāmānāvṛ॒tū bha̭vato॒ vya̭staṃ॒-vā~ e॒te saṃ̭va~thsa॒rasyā॒-'bhi dī᳚kṣante॒ ya ḙkāṣṭa॒kāyā॒-ndīkṣa॒nte-'nta̭nāmānāvṛ॒tū bha̭vataḥ phalgunī pūrṇamā॒se dī᳚kṣera॒-nmukhaṃ॒-vā~ e॒ta- [e॒tat, saṃ॒va~॒thsa॒rasya॒ ya-tpha̭lgunī-] 28
-thsaṃ̭va~thsa॒rasya॒ ya-tpha̭lgunī-pūrṇamā॒so mṷkha॒ta e॒va saṃ̭va~thsa॒ramā॒rabhya̭ dīkṣante॒ tasyaikai॒va ni॒ryā ya-thsāmme᳚ghye viṣū॒vān-thsa॒pandya̭te citrāpūrṇamā॒se dī᳚kṣera॒-nmukhaṃ॒-vā~ e॒ta-thsaṃ̭va~thsa॒rasya॒ yacci̭trāpūrṇamā॒so mṷkha॒ta e॒va saṃ̭va~thsa॒ramā॒rabhya̭ dīkṣante॒ tasya॒ na kā ca॒na ni॒ryā bha̭vati catura॒he pu॒rastā᳚-tpaurṇamā॒syai dī᳚kṣera॒-nteṣā̭mekāṣṭa॒kāyā᳚-ṅkra॒ya-ssa-mpa̭dyate॒ tenai̭kāṣṭa॒kā-nna cha॒mba-ṭkṷrvanti॒ teṣā᳚- [teṣā᳚m, pū॒rva॒pa॒kṣe su॒tyā] 29
-mpūrvapa॒kṣe su॒tyā sa-mpa̭dyate pūrvapa॒kṣa-mmāsā̭ a॒bhi sa-mpa̭dyante॒ te pū᳚rvapa॒kṣa u-tti̭ṣṭhanti॒ tānu॒ttiṣṭha̭ta॒ oṣa̭dhayo॒ vana॒spata॒yo-'nū-tti̭ṣṭhanti॒ tān ka̭lyā॒ṇī kī॒rtiranū-tti̭ṣṭha॒tyarā᳚-thsuri॒me yaja̭mānā॒ iti॒ tadanu॒ sarvḙ rāddhnuvanti || 30 ||
(e॒ta - ccha॒baṇṭkṷrvanti॒ teṣāṃ॒ - catṷstrigṃśacca) (a. 8)
su॒va॒rgaṃ-vā~ e॒te lo॒kaṃ-ya~̭nti॒ ye sa॒tramṷpa॒yantya॒bhīndha̭ta e॒va dī॒kṣābhi̭rā॒tmānagg̭ śrapayanta upa॒sadbhi॒-rdvābhyāṃ॒-lo~māva̭ dyanti॒ dvābhyā॒-ntvaca॒-ndvābhyā॒masṛ॒-ddvābhyā᳚-mmā॒gṃ॒sa-ndvābhyā॒masthi॒ dvābhyā᳚-mma॒jjāna̭mā॒tmada̭kṣiṇaṃ॒-vai~ sa॒tramā॒tmāna̭me॒va dakṣi̭ṇā-nnī॒tvā sṷva॒rgaṃ-lo~॒kaṃ-ya~̭nti॒ śikhā॒manu॒ pra va̭panta॒ ṛddhyā॒ atho॒ raghī̭yāgṃsa-ssuva॒rgaṃ-lo~॒kama̭yā॒meti̭ || 31 ||
(su॒va॒rgaṃ - pa̭ñcā॒śat) (a. 9)
bra॒hma॒vā॒dino̭ vadantyatirā॒traḥ pa̭ra॒mo ya̭jñakratū॒nā-ṅkasmā॒-tta-mpra̭tha॒mamupa̭ ya॒ntītye॒tadvā a̭gniṣṭo॒ma-mpra̭tha॒mamupa̭ ya॒ntyatho॒kthya̭matha̭ ṣoḍa॒śina॒-mathā̭tirā॒tra-ma̭nupū॒rvame॒vaita-dya̭jñakra॒tūnu॒petya॒ tānā॒labhya̭ pari॒gṛhya॒ soma̭me॒vaita-tpiba̭nta āsate॒ jyoti̭ṣṭoma-mpratha॒mamupa̭ yanti॒ jyoti̭ṣṭomo॒ vai stomā̭nā॒-mmukha̭-mmukha॒ta e॒va stomā॒-npra yṷñjate॒ te [ ] 32
saggstṷtā vi॒rāja̭ma॒bhi sa-mpa̭dyante॒ dve carcā॒vati̭ ricyete॒ eka̭yā॒ gaurati̭rikta॒ eka॒yā-''yṷrū॒na-ssṷva॒rgo vai lo॒ko jyoti॒rūrg-vi॒rāṭ-thsṷva॒rgame॒va tena̭ lo॒kaṃ-ya~̭nti rathanta॒ra-ndivā॒ bhava̭ti rathanta॒ra-nnakta॒mityā̭hu-rbrahmavā॒dinaḥ॒ kena॒ tadajā॒mīti̭ saubha॒ra-ntṛ̭tīyasava॒ne bra̭hmasā॒ma-mbṛ॒ha-ttanma̭ddhya॒to da̭dhati॒ vidhṛ̭tyai॒ tenājā̭mi || 33 ||
(ta - ekā॒nnapa̭ñcā॒śacca̭) (a. 10)
jyoti̭ṣṭoma-mpratha॒mamupa̭ yantya॒sminne॒va tena̭ lo॒ke prati̭ tiṣṭhanti॒ goṣṭo̭ma-ndvi॒tīya॒mupa̭ yantya॒ntari̭kṣa e॒va tena॒ prati̭ tiṣṭha॒ntyāyṷṣṭoma-ntṛ॒tīya॒mupa̭ yantya॒muṣmi̭nne॒va tena̭ lo॒ke prati̭ tiṣṭhantī॒yaṃ-vā~va jyoti̭ra॒ntari̭kṣa॒-ṅgaura॒sāvāyu॒-ryade॒tān-thstomā̭-nupa॒yantye॒ṣvḙva tallo॒keṣṷ sa॒triṇaḥ̭ prati॒ tiṣṭha̭nto yanti॒ te saggstṷtā vi॒rāja̭- [vi॒rāja᳚m, a॒bhi sampa̭dyante॒ dve] 34
-ma॒bhi sampa̭dyante॒ dve carcā॒vati̭ ricyete॒ eka̭yā॒ gaurati̭rikta॒ eka॒yā-''yṷrū॒na-ssṷva॒rgo vai lo॒ko jyoti॒rūrg-vi॒rāḍūrja̭-me॒vāva̭ rundhate॒ te na kṣu॒dhā ''rti॒mārccha॒ntyakṣo̭dhukā bhavanti॒ kṣu-thsa̭bāndhā iva॒ hi sa॒triṇo᳚ 'gniṣṭo॒māva॒bhitaḥ̭ pra॒dhī tāvu॒kthyā̭ maddhye॒ nabhya॒-nta-ttade॒ta-tpa̭ri॒ya-ddḙvaca॒kraṃ-ya~de॒tena̭ [-~yade॒tena̭, ṣa॒ḍa॒hena॒ yanti̭] 35
ṣaḍa॒hena॒ yanti̭ devaca॒krame॒va sa॒māro̭ha॒ntyari̭ṣṭyai॒ te sva॒sti sama̭śñuvate ṣaḍa॒hena̭ yanti॒ ṣaḍvā ṛ॒tava̭ ṛ॒tuṣve॒va prati̭ tiṣṭhantyubha॒yato᳚ jyotiṣā yantyubha॒yata̭ e॒va sṷva॒rge lo॒ke pra̭ti॒tiṣṭha̭nto yanti॒ dvau ṣa̭ḍa॒hau bha̭vata॒stāni॒ dvāda॒śāhā̭ni॒ sa-mpa̭dyante dvāda॒śo vai purṷṣo॒ dve sa॒kthyau᳚ dvau bā॒hū ā॒tmā ca॒ śira̭śca ca॒tvāryaṅgā̭ni॒ stanau᳚ dvāda॒śau [ ] 36
ta-tpurṷṣa॒manṷ pa॒ryāva̭rtante॒ trayaḥ̭ ṣaḍa॒hā bha̭vanti॒ tānya॒ṣṭāda॒śāhā̭ni॒ sa-mpa̭dyante॒ navā॒nyāni॒ navā॒nyāni॒ nava॒ vai purṷṣe prā॒ṇāsta-tprā॒ṇānanṷ pa॒ryāva̭rtante ca॒tvāraḥ̭ ṣaḍa॒hā bha̭vanti॒ tāni॒ catṷrvigṃśati॒rahā̭ni॒ sa-mpa̭dyante॒ catṷrvigṃśatirardhamā॒sā-ssaṃ̭va~thsa॒rasta-thsaṃ̭va~thsa॒ramanṷ pa॒ryāva̭rta॒nte 'pra̭tiṣṭhita-ssaṃva~thsa॒ra iti॒ khalu॒ vā ā̭hu॒rvarṣī̭yā-nprati॒ṣṭhāyā॒ itye॒tāva॒dvai saṃ̭va~thsa॒rasya॒ brāhma̭ṇaṃ॒-yā~va̭nmā॒so mā॒simā᳚sye॒va pra̭ti॒tiṣṭha̭nto yanti || 37 ||
(vi॒rāja̭ - me॒tena̭ - dvāda॒śā - ve॒tāva॒dvā - a॒ṣṭau ca̭) (a. 11)
me॒ṣastvā̭ paca॒taira̭vatu॒ lohi̭tagrīva॒-śchāgai᳚-śśalma॒lirvṛddhyā̭ pa॒rṇo brahma̭ṇā pla॒kṣo medhḙna nya॒grodha̭ścama॒sairṷdu॒baṃra̭ ū॒rjā gā̭ya॒trī chando̭bhistri॒vṛ-thstomai॒rava̭ntī॒-ssthāva̭ntīstvā-'vantu pri॒ya-ntvā᳚ pri॒yāṇāṃ॒-va~rṣi̭ṣṭha॒māpyā̭nā-nnidhī॒nā-ntvā̭ nidhi॒patigṃ̭ havāmahe vaso mama || 38 ||
(me॒ṣaḥ - ṣa-ṭtrigṃ̭śat) (a. 12)
kūpyā᳚bhya॒-ssvāhā॒ kūlyā᳚bhya॒-ssvāhā̭ vika॒ryā᳚bhya॒-ssvāhā̭ 'va॒ṭyā᳚bhya॒-ssvāhā॒ khanyā᳚bhya॒-ssvāhā॒ hradyā᳚bhya॒-ssvāhā॒ sūdyā᳚bhya॒-ssvāhā̭ sara॒syā᳚bhya॒-ssvāhā̭ vaiśa॒ntībhya॒-ssvāhā̭ palva॒lyā᳚bhya॒-ssvāhā॒ varṣyā᳚bhya॒-ssvāhā̭ 'va॒rṣyābhya॒-ssvāhā᳚ hrā॒dunī᳚bhya॒-ssvāhā॒ pṛṣvā᳚bhya॒-ssvāhā॒ syanda̭mānābhya॒-ssvāhā᳚ sthāva॒rābhya॒-ssvāhā̭ nāde॒yībhya॒-ssvāhā̭ saindha॒vībhya॒-ssvāhā̭ samu॒driyā᳚bhya॒-ssvāhā॒ sarvā᳚bhya॒-ssvāhā᳚ || 39 ||
(kūpyā᳚bhya - ścatvāri॒gṃ॒śat) (a. 13)
a॒dbhya-ssvāhā॒ vaha̭ntībhya॒-ssvāhā̭ pari॒vaha̭ntībhya॒-ssvāhā̭ sama॒ntaṃ-va~ha̭ntībhya॒-ssvāhā॒ śīghraṃ॒-va~ha̭ntībhya॒-ssvāhā॒ śībhaṃ॒-va~ha̭ntībhya॒-ssvāho॒graṃ-va~ha̭ntībhya॒-ssvāhā̭ bhī॒maṃ-va~ha̭ntībhya॒-ssvāhā-'mbho᳚bhya॒-ssvāhā॒ nabho᳚bhya॒-ssvāhā॒ maho᳚bhya॒-ssvāhā॒ sarva̭smai॒ svāhā᳚ || 40 ||
(a॒dbhya - ekā॒nnatri॒gṃ॒śat) (a. 14)
yo arva̭nta॒-ñjighāgṃ̭sati॒ tama॒bhya̭mīti॒ varṷṇaḥ || pa॒ro martaḥ̭ pa॒ra-śśvā || a॒ha-ñca॒ tva-ñca̭ vṛtraha॒nthsa-mba̭bhūva sa॒nibhya॒ ā | a॒rā॒tī॒vā ci̭dadri॒vo-'nṷ nau śūra magṃsatai bha॒drā indra̭sya rā॒tayaḥ̭ || a॒bhi kratve᳚ndra bhū॒radha॒ jmanna tḙ vivyammahi॒māna॒gṃ॒ rajāgṃ̭si | svenā॒ hi vṛ॒tragṃ śava̭sā ja॒ghantha॒ na śatru॒rantaṃ̭-vi~vida-dyu॒dhā te᳚ || 41 ||
(vi॒vi॒da॒-d- dve ca̭) (a. 15)
namo॒ rājñe॒ namo॒ varṷṇāya॒ namo-'śvā̭ya॒ namaḥ̭ pra॒jāpa̭taye॒ namo-'dhi̭pata॒ye 'dhi̭patira॒syadhi̭pati-mmā ku॒rvadhi̭patira॒ha-mpra॒jānā᳚-mbhūyāsa॒-mmā-ndhḙhi॒ mayi̭ dhehyu॒pākṛ̭tāya॒ svāhā ''la̭bdhāya॒ svāhā̭ hu॒tāya॒ svāhā᳚ || 42 ||
(nama॒ - ekā॒nna tri॒gṃ॒śat) (a. 16)
ma॒yo॒bhūrvāto̭ a॒bhi vā̭tū॒srā ūrja̭svatī॒roṣa̭dhī॒rā ri̭śantām | pīva̭svatīrjī॒vadha̭nyāḥ pibantvava॒sāya̭ pa॒dvatḙ rudra mṛḍa || yā-ssarṷ̄pā॒ virṷ̄pā॒ eka̭rūpā॒ yāsā̭ma॒gniriṣṭyā॒ nāmā̭ni॒ veda̭ | yā aṅgi̭rasa॒stapa̭se॒ha ca॒krustābhyaḥ̭ parjanya॒ mahi॒ śarma̭ yaccha || yā de॒veṣṷ ta॒nuva॒maira̭yanta॒ yāsā॒gṃ॒ somo॒ viśvā̭ rū॒pāṇi॒ veda̭ | tā a॒smabhya॒-mpaya̭sā॒ pinva̭mānāḥ pra॒jāva̭tīrindra [ ] 43
go॒ṣṭhe ri̭rīhi || pra॒jāpa̭ti॒rmahya̭me॒tā rarā̭ṇo॒ viśvai᳚rde॒vaiḥ pi॒tṛbhiḥ̭ saṃvi~dā॒naḥ | śi॒vā-ssa॒tīrupa̭ no go॒ṣṭhamā-'ka॒stāsāṃ᳚-va~॒ya-mpra॒jayā॒ sagṃ sa̭dema || i॒ha dhṛti॒-ssvāhe॒ha vidhṛ̭ti॒-ssvāhe॒ha ranti॒-ssvāhe॒ha rama̭ti॒-ssvāhā̭ ma॒hīmū॒ ṣu1 su॒trāmā̭ṇaṃ2 || 44 ||
(i॒ndrā॒ - ṣṭātrigṃ̭śacca) (a. 17)
kigg svi̭dāsī-tpū॒rvaci̭ttiḥ॒ kigg svi̭dāsī-dbṛ॒hadvayaḥ̭ | kigg svi̭dāsī-tpiśaṅgi॒lā kigg svi̭dāsī-tpilippi॒lā || dyaurā̭sī-tpū॒rvaci̭tti॒raśva̭ āsī-dbṛ॒hadvayaḥ̭ | rātri̭rāsī-tpiśaṅgi॒lā 'vi̭rāsī-tpilippi॒lā || ka-ssvi̭dekā॒kī ca̭rati॒ ka ṷ svijjāyate॒ punaḥ̭ | kigg svi̭ddhi॒masya̭ bheṣa॒ja-ṅkigg svi̭dā॒vapa̭na-mma॒hat || sūrya̭ ekā॒kī ca̭rati [ ] 45
ca॒ndramā̭ jāyate॒ punaḥ̭ | a॒gnir-hi॒masya̭ bheṣa॒ja-mbhūmi̭rā॒vapa̭na-mma॒hat || pṛ॒cchāmi̭ tvā॒ para॒manta̭-mpṛthi॒vyāḥ pṛ॒cchāmi̭ tvā॒ bhuva̭nasya॒ nābhi᳚m | pṛ॒cchāmi̭ tvā॒ vṛṣṇo॒ aśva̭sya॒ retaḥ̭ pṛ॒cchāmi̭ vā॒caḥ pa̭ra॒maṃ-vyo~̭ma || vedi̭māhuḥ॒ para॒manta̭-mpṛthi॒vyā ya॒jñamā̭hu॒ rbhuva̭nasya॒ nābhi᳚m | soma̭māhu॒rvṛṣṇo॒ aśva̭sya॒ reto॒ brahmai॒va vā॒caḥ pa̭ra॒maṃ-vyo~̭ma || 46 ||
(sūrya̭ ekā॒kī ca̭rati॒ - ṣaṭca̭tvārigṃśacca) (a. 18)
abeṃ॒ abāṃ॒lyambi̭ke॒ na mā̭ nayati॒ kaśca॒na | sa॒sastya̭śva॒kaḥ || subha̭ge॒ kāmpī̭lavāsini suva॒rge lo॒ke sa-mprorṇvā̭thām | ā-'hama̭jāni garbha॒dhamā tvama̭jāsi garbha॒dham || tau sa॒ha ca॒turaḥ̭ pa॒da-ssa-mpra sā̭rayāvahai || vṛṣā̭ vāgṃ reto॒dhā reto̭ dadhā॒tū-thsa॒kthyo᳚rgṛ॒da-ndhe᳚hya॒ñjimuda̭ñji॒manva̭ja | ya-sstrī॒ṇā-ñjī̭va॒bhoja̭no॒ ya ā̭sā- [ya ā̭sām, bi॒la॒dhāva̭naḥ |] 47
-mbila॒dhāva̭naḥ | pri॒ya-sstrī॒ṇāma̭pī॒cyaḥ̭ || ya ā̭sā-ṅkṛ॒ṣṇe lakṣma̭ṇi॒ sardi̭gṛdi-mpa॒rāva̭dhīt || abeṃ॒ abāṃ॒lyambi̭ke॒ na mā̭ yabhati॒ kaśca॒na | sa॒sastya̭śva॒kaḥ || ū॒rdhvā-mḙnā॒mucchra̭yatā-dveṇubhā॒ra-ṅgi॒rāvi̭va | athā᳚syā॒ maddhya̭medhatāgṃ śī॒te vātḙ pu॒nanni̭va || abeṃ॒ abāṃ॒lyambi̭ke॒ na mā̭ yabhati॒ kaśca॒na | sa॒sastya̭śva॒kaḥ || yaddha̭ri॒ṇī yava॒matti॒ na [ ] 48
pu॒ṣṭa-mpa॒śu ma̭nyate | śū॒drā yadarya̭jārā॒ na poṣā̭ya dhanāyati || abeṃ॒ abāṃ॒lyambi̭ke॒ na mā̭ yabhati॒ kaśca॒na | sa॒sastya̭śva॒kaḥ || i॒yaṃ-ya~॒kā śa̭kunti॒kā ''hala॒miti॒ sarpa̭ti | āha̭ta-ṅga॒bhe paso॒ ni ja̭lgulīti॒ dhāṇi̭kā || abeṃ॒ abāṃ॒lyambi̭ke॒ na mā̭ yabhati॒ kaśca॒na | sa॒sastya̭śva॒kaḥ || mā॒tā ca̭ te pi॒tā ca॒ te-'graṃ̭-vṛ~॒kṣasya̭ rohataḥ | 49
pra sṷlā॒mīti̭ te pi॒tā ga॒bhe mu॒ṣṭima̭tagṃsayat || da॒dhi॒krāv.ṇṇo̭ akāriṣa-ñji॒ṣṇoraśva̭sya vā॒jinaḥ̭ | sura॒bhi no॒ mukhā̭ kara॒-tpraṇa॒ āyūgṃ̭ṣi tāriṣat || āpo॒ hi ṣṭhā ma̭yo॒bhuva॒stā na̭ ū॒rje da̭dhātana | ma॒heraṇā̭ya॒ cakṣa̭se || yo vaḥ̭ śi॒vata̭mo॒ rasa॒stasya̭ bhājayate॒ha naḥ̭ | u॒śa॒tīri̭va mā॒taraḥ̭ || tasmā॒ ara̭-ṅgamāma vo॒ yasya॒ kṣayā̭ya॒ jinva̭tha | āpo̭ ja॒naya̭thā ca naḥ || 50 ||
(ā॒sā॒ - matti॒ na - ro̭hato॒ - jinva̭tha - ca॒tvāri̭ ca) (a. 19)
bhūrbhuva॒-ssuva॒rvasa̭vastvā 'ñjantu gāya॒treṇa॒ chanda̭sā ru॒drāstvā᳚ 'ñjantu॒ traiṣṭṷbhena॒ chanda̭sā, ''di॒tyāstvā᳚-'ñjantu॒ jāga̭tena॒ chanda̭sā॒ ya-dvāto̭ a॒po aga̭ma॒dindra̭sya ta॒nuva̭-mpri॒yām | e॒tagg sto̭tare॒tena̭ pa॒thā puna॒raśva॒mā va̭rtayāsi naḥ || lājī(3)-ñchācī(3)n yaśo̭ ma॒mā~(4) | ya॒vyāyai̭ ga॒vyāyā̭ e॒ta-ddḙvā॒ anna̭mattai॒tadanna̭maddhi prajāpate || yu॒ñjanti̭ bra॒ddhna-ma̭ru॒ṣa-ñcara̭nta॒-mpari̭ ta॒sthuṣaḥ̭ | roca̭nte roca॒nā di॒vi || yu॒ñjantya̭sya॒ kāmyā॒ harī॒ vipa̭kṣasā॒ rathe᳚ | śoṇā̭ dhṛ॒ṣṇū nṛ॒vāha̭sā || ke॒tu-ṅkṛ॒ṇvanna̭ke॒tave॒ peśo̭ maryā ape॒śase᳚ | samu॒ṣadbhi̭rajāyathāḥ || 51 ||
(bra॒ddhnaṃ - pañca̭vigṃśatiśca) (a. 20)
prā॒ṇāya॒ svāhā᳚ vyā॒nāya॒ svāhā̭ 'pā॒nāya॒ svāhā॒ snāva̭bhya॒-ssvāhā̭ santā॒nebhya॒-ssvāhā॒ pari̭santānebhya॒-ssvāhā॒ parva̭bhya॒-ssvāhā̭ sa॒dhānne᳚bhya॒-ssvāhā॒ śarī̭rebhya॒-ssvāhā̭ ya॒jñāya॒ svāhā॒ dakṣi̭ṇābhya॒-ssvāhā̭ suva॒rgāya॒ svāhā̭ lo॒kāya॒ svāhā॒ sarva̭smai॒ svāhā᳚ || 52 ||
(prā॒ṇāyā॒ - ṣṭāvigṃ̭śatiḥ) (a. 21)
si॒tāya॒ svāhā 'si̭tāya॒ svāhā॒ 'bhihi̭tāya॒ svāhā 'na̭bhihitāya॒ svāhā̭ yu॒ktāya॒ svāhā 'yṷktāya॒ svāhā॒ suyṷktāya॒ svāho -dyṷktāya॒ svāhā॒ vimṷktāya॒ svāhā॒ pramṷktāya॒ svāhā॒ vañca̭te॒ svāhā̭ pari॒vañca̭te॒ svāhā̭ saṃ॒va~ñca̭te॒ svāhā̭ 'nu॒vañca̭te॒ svāho॒--dvañca̭te॒ svāhā̭ ya॒te svāhā॒ dhāva̭te॒ svāhā॒ tiṣṭha̭te॒ svāhā॒ sarva̭smai॒ svāhā᳚ || 53 ||
(si॒tāyā॒ - ṣṭātrigṃ̭śat) (a. 22)
(bṛha॒spati॒-śśra--dya॒thā vā - ṛ॒kṣā vai - pra॒jāpa̭ti॒ryena̭yena॒ - dve vāva dḙvasa॒tre - ā̭di॒tyā a̭kāmayanta suva॒rgaṃ - ~vasi̭ṣṭhaḥ - saṃva~thsa॒rāya̭ -surva॒rgaṃ-ye~ sa॒traṃ - bra̭hmavā॒dino̭-'tirā॒tro - jyoti̭ṣṭomaṃ - me॒ṣaḥ - kūpyā᳚bhyo॒ - 'dbhyo - yo - namo̭ - mayo॒bhūḥ - kigg svi॒da - mbe॒ - bhūḥ - prā॒ṇāya̭ - si॒tāya॒ - dvāvigṃ̭śatiḥ)
(bṛha॒spatiḥ॒ - prati̭ tiṣṭhanti॒ - vai da̭śarā॒treṇa̭ - suva॒rgaṃ - ~yo arva̭ntaṃ॒ - bhū - stripa̭ñcā॒śat)
(bṛha॒spati॒, ssarva̭smai॒ svāhā᳚)
|| hariḥ̭ om ||
|| kṛṣṇa yajurvedīya taittirīya saṃhitāyāṃ saptamakāṇḍe caturthaḥ praśna-ssamāptaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.