Krishna

7.3 - प्रजवं वा एतेन यन्ति - कृष्ण यजुर्वेद तैत्तिरीय संहिता पाठः

7.3 - Prajavam Va Etena Yanti - Krishna Yajurveda Taittiriya Samhita Pathah

✍️ Vedic 🖋️ Devanagari script
📄 Download PDF
कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां सप्तमकाण्डे तृतीयः प्रश्नः - सत्रजातनिरूपणं
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
प्र॒जवं॒-वाँ ए॒तेन॑ यन्ति॒ य-द्द॑श॒ममहः॑ पापाव॒हीयं॒-वाँ ए॒तेन॑ भवन्ति॒ य-द्द॑श॒ममह॒र्यो वै प्र॒जवं॑-यँ॒तामप॑थेन प्रति॒पद्य॑ते॒ य-स्स्था॒णुग्ं हन्ति॒ यो भ्रेष॒-न्न्येति॒ स ही॑यते॒ स यो वै द॑श॒मे-ऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ही॑यते॒ तस्मै॒ य उप॑हताय॒ व्याह॒ तमे॒वान्वा॒रभ्य॒ सम॑श्ञु॒ते-ऽथ॒ यो व्याह॒ स [व्याह॒ सः, ही॑यते॒ तस्मा᳚-द्दश॒मे] 1
ही॑यते॒ तस्मा᳚-द्दश॒मे ऽह॑न्नविवा॒क्य उप॑हताय॒ न व्युच्य॒मथो॒ खल्वा॑हुर्य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वा-स्सु॑व॒र्गं-लोँ॒कमा॑यन् य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒-न्परा॑-ऽभावय॒न्निति॒ य-त्खलु॒ वै य॒ज्ञस्य॒ समृ॑द्ध॒-न्त-द्यज॑मानस्य॒ यद्व्यृ॑द्ध॒-न्तद्भ्रातृ॑व्यस्य॒ स यो वै द॑श॒मे-ऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ए॒वाति॑ रेचयति॒ ते ये बाह्या॑ दृशी॒कव॒- [ये बाह्या॑ दृशी॒कवः॑, स्युस्ते वि] 2
-स्स्युस्ते वि ब्रू॑यु॒र्यदि॒ तत्र॒ न वि॒न्देयु॑-रन्तस्सद॒सा-द्व्युच्यं॒-यँदि॒ तत्र॒ न वि॒न्देयु॑-र्गृ॒हप॑तिना॒ व्युच्य॒-न्तद्व्युच्य॑-मे॒वाथ॒ वा ए॒त-थ्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भि-स्स्तु॑वन्त॒यं-वैँ सर्प॑तो॒ राज्ञी॒ यद्वा अ॒स्या-ङ्कि-ञ्चार्च॑न्ति॒ यदा॑नृ॒चु-स्तेने॒यग्ं स॑र्परा॒ज्ञी ते यदे॒व कि-ञ्च॑ वा॒चा ऽऽनृ॒चुर्य-द॒तो-ऽद्ध्य॑र्चि॒तार॒- [-द॒तो-ऽद्ध्य॑र्चि॒तारः॑, तदु॒भय॑-मा॒प्त्वा] 3
-स्तदु॒भय॑-मा॒प्त्वा ऽव॒रुद्ध्यो-त्ति॑ष्ठा॒मेति॒ ताभि॒र्मन॑सा स्तुवते॒ न वा इ॒माम॑श्वर॒थो ना-ऽश्व॑तरीर॒थ-स्स॒द्यः पर्या᳚प्तुमर्​हति॒ मनो॒ वा इ॒माग्ं स॒द्यः पर्या᳚प्तुमर्​हति॒ मनः॒ परि॑भवितु॒मथ॒ ब्रह्म॑ वदन्ति॒ परि॑मिता॒ वा ऋचः॒ परि॑मितानि॒ सामा॑नि॒ परि॑मितानि॒ यजू॒ग्॒ष्यथै॒तस्यै॒वान्तो॒ नास्ति॒ य-द्ब्रह्म॒ त-त्प्र॑तिगृण॒त आ च॑क्षीत॒ स प्र॑तिग॒रः ॥ 4 ॥
(व्याह॒ स - दृ॑शी॒कवो᳚ - ऽर्चि॒तारः॒ - स - एक॑-ञ्च) (अ. 1)
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ कि-न्द्वा॑दशा॒हस्य॑ प्रथ॒मेना-ऽह्न॒र्त्विजां॒-यँज॑मानो वृङ्क्त॒ इति॒ तेज॑ इन्द्रि॒य-मिति॒ कि-न्द्वि॒तीये॒नेति॑ प्रा॒णा-न॒न्नाद्य॒-मिति॒ कि-न्तृ॒तीये॒नेति॒ त्रीनि॒मान् ँलो॒का-निति॒ कि-ञ्च॑तु॒र्थेनेति॒ चतु॑ष्पदः प॒शू-निति॒ कि-म्प॑ञ्च॒मेनेति॒ पञ्चा᳚क्षरा-म्प॒ङ्क्ति-मिति॒ किग्ं ष॒ष्ठेनेति॒ ष-डृ॒तूनिति॒ किग्ं स॑प्त॒मेनेति॑ स॒प्तप॑दा॒ग्ं॒ शक्व॑री॒मिति॒ [शक्व॑री॒मिति॑, कि-म॑ष्ट॒मेनेत्य॒ष्टाक्ष॑रा-] 5
कि-म॑ष्ट॒मेनेत्य॒ष्टाक्ष॑रा-ङ्गाय॒त्री-मिति॒ कि-न्न॑व॒मेनेति॑ त्रि॒वृत॒ग्ग्॒ स्तोम॒-मिति॒ कि-न्द॑श॒मेनेति॒ दशा᳚क्षरां-विँ॒राज॒मिति॒ किमे॑काद॒शेनेत्येका॑दशाक्षरा-न्त्रि॒ष्टुभ॒-मिति॒ कि-न्द्वा॑द॒शेनेति॒ द्वाद॑शाक्षरा॒-ञ्जग॑ती॒-मित्ये॒ताव॒द्वा अ॑स्ति॒ याव॑-दे॒त-द्याव॑-दे॒वा-ऽस्ति॒ त-दे॑षां-वृँङ्क्ते ॥ 6 ॥
(शक्व॑री॒मित्ये - क॑चत्वारिग्ंशच्च) (अ. 2)
ए॒ष वा आ॒प्तो द्वा॑दशा॒हो य-त्त्र॑योदशरा॒त्र-स्स॑मा॒नग्ग्​ ह्ये॑तदह॒र्य-त्प्रा॑य॒णीय॑श्चोदय॒नीय॑श्च॒ त्र्य॑तिरात्रो भवति॒ त्रय॑ इ॒मे लो॒का ए॒षां-लोँ॒काना॒माप्त्यै᳚ प्रा॒णो वै प्र॑थ॒मो॑-ऽतिरा॒त्रो व्या॒नो द्वि॒तीयो॑ ऽपा॒नस्तृ॒तीयः॑ प्राणापानो-दा॒नेष्वे॒वा-ऽन्नाद्ये॒ प्रति॑ तिष्ठन्ति॒ सर्व॒-मायु॑-र्यन्ति॒ य ए॒वं ँवि॒द्वाग्ंस॑-स्त्रयोदशरा॒त्र-मास॑ते॒ तदा॑हु॒-र्वाग्वा ए॒षा वित॑ता॒ [वित॑ता, य-द्द्वा॑दशा॒हस्तां-] 7
य-द्द्वा॑दशा॒हस्तां-विँच्छि॑न्द्यु॒-र्यन्मद्ध्ये॑ ऽतिरा॒त्र-ङ्कु॒र्यु-रु॑प॒दासु॑का गृ॒हप॑ते॒-र्वा-ख्स्या॑-दु॒परि॑ष्टा-च्छन्दो॒माना᳚-म्महाव्र॒त-ङ्कु॑र्वन्ति॒ सन्त॑ता-मे॒व वाच॒-मव॑ रुन्ध॒ते-ऽनु॑पदासुका गृ॒हप॑ते॒-र्वाग्-भ॑वति प॒शवो॒ वै छ॑न्दो॒मा अन्न॑-म्महाव्र॒तं-यँदु॒परि॑ष्टा-च्छन्दो॒माना᳚-म्महाव्र॒त-ङ्कु॒र्वन्ति॑ प॒शुषु॑ चै॒वान्नाद्ये॑ च॒ प्रति॑ तिष्ठन्ति ॥ 8 ॥
(वित॑ता॒ - त्रिच॑त्वारिग्ंशच्च) (अ. 3)
आ॒दि॒त्या अ॑कामयन्तो॒-भयो᳚र्लो॒कयोर्॑ ऋद्ध्नुया॒मेति॒ त ए॒त-ञ्च॑तुर्दशरा॒त्र- म॑पश्य॒-न्तमा-ऽह॑र॒-न्तेना॑यजन्त॒ ततो॒ वै त उ॒भयो᳚-र्लो॒कयो॑-रार्ध्नुवन्न॒स्मिग्ग्​श्चा॒-मुष्मिग्ग्॑श्च॒ य ए॒वं-विँ॒द्वाग्ंस॑-श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयोर्॑. ऋद्ध्नुवन्त्य॒स्मिग्ग्​श्चा॒-मुष्मिग्ग्॑श्च चतुर्दशरा॒त्रो भ॑वति स॒प्त ग्रा॒म्या ओष॑धय-स्स॒प्ता-ऽऽर॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्यै॒ य-त्प॑रा॒चीना॑नि पृ॒ष्ठानि॒ [पृ॒ष्ठानि॑, भव॑न्त्य॒मु-] 9
भव॑न्त्य॒मु-मे॒व तै-र्लो॒क-म॒भि ज॑यन्ति॒ य-त्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒म-मे॒व तै-र्लो॒क-म॒भि ज॑यन्ति त्रयस्त्रि॒ग्ं॒शौ म॑द्ध्य॒त-स्स्तोमौ॑ भवत॒-स्साम्रा᳚ज्यमे॒व ग॑च्छन्त्यधिरा॒जौ भ॑वतो-ऽधिरा॒जा ए॒व स॑मा॒नाना᳚-म्भवन्त्यतिरा॒त्रा-व॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥ 10 ॥
(पृ॒ष्ठानि॒ - चतु॑स्त्रिग्ंशच्च) (अ. 4)
प्र॒जाप॑ति-स्सुव॒र्गं-लोँ॒कमै॒-त्त-न्दे॒वा अन्वा॑य॒-न्ताना॑दि॒त्याश्च॑ प॒शव॒श्चा-ऽन्वा॑य॒-न्ते दे॒वा अ॑ब्रुव॒न्॒. या-न्प॒शू-नु॒पाजी॑विष्म॒ त इ॒मे᳚ ऽन्वाग्म॒-न्निति॒ तेभ्य॑ ए॒त-ञ्च॑तुर्दशरा॒त्र-म्प्रत्यौ॑ह॒-न्त आ॑दि॒त्याः पृ॒ष्ठै-स्सु॑व॒र्गं-लोँ॒कमा-ऽरो॑ह-न्त्र्य॒हाभ्या॑-म॒स्मिन् ँलो॒के प॒शू-न्प्रत्यौ॑ह-न्पृ॒ष्ठै-रा॑दि॒त्या अ॒मुष्मि॑न् ँलो॒क आर्ध्नु॑व-न्त्र्य॒हाभ्या॑-म॒स्मि- [आर्ध्नु॑व-न्त्र्य॒हाभ्या॑-म॒स्मिन्न्, लो॒के प॒शवो॒] 11
ँल्लो॒के प॒शवो॒ य ए॒वं-विँ॒द्वाग्ंस॑-श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयोर्॑ ऋद्ध्नुवन्त्य॒स्मिग्ग्​श्चा॒-मुष्मिग्ग्॑श्च पृ॒ष्ठै-रे॒वा-ऽमुष्मि॑न् ँलो॒क ऋ॑द्ध्नु॒वन्ति॑ त्र्य॒हाभ्या॑-म॒स्मिन् ँलो॒के ज्योति॒-र्गौरायु॒-रिति॑ त्र्य॒हो भ॑वती॒यं-वाँव ज्योति॑-र॒न्तरि॑क्ष॒-ङ्गौ-र॒सा-वायु॑-रि॒मा-ने॒व लो॒का-न॒भ्यारो॑हन्ति॒ य-द॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधग्ग्​ स्या॒न्मद्ध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौ- [सविवध॒त्वाय॑, ओजो॒ वै] 12
-जो॒ वै वी॒र्य॑-म्पृ॒ष्ठान्योज॑ ए॒व वी॒र्य॑-म्मद्ध्य॒तो द॑धते बृह-द्रथन्त॒राभ्यां᳚-यँन्ती॒यं-वाँव र॑थन्त॒र-म॒सौ बृ॒ह-दा॒भ्या-मे॒व य॒न्त्यथो॑ अ॒नयो॑-रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚-ऽञ्ज॒साय॑नी स्रु॒ती ताभ्या॑-मे॒व सु॑व॒र्गं-लोँ॒कं-यँ॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं-लोँ॒क-म॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्य-न्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚-र्लो॒कयोर्॑ ऋ॒द्ध्वो-त्ति॑ष्ठन्ति॒ चतु॑र्दशै॒ता-स्तासां॒-याँ दश॒ दशा᳚क्षरा वि॒राडन्नं॑-विँ॒रा-ड्वि॒राजै॒वा-ऽन्नाद्य॒-मव॑ रुन्धते॒ याश्चत॑स्र॒-श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्रा-व॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥ 13 ॥
(आर्ध्नु॑व-न्त्र्य॒हाभ्या॑म॒स्मिन्थ् - स॑विवध॒त्वाय॒ - प्रति॑ष्ठत्या॒ - एक॑त्रिग्ंशच्च) (अ. 5)
इन्द्रो॒ वै स॒दृ-न्दे॒वता॑भिरासी॒-थ्स न व्या॒वृत॑मगच्छ॒-थ्स प्र॒जाप॑ति॒मुपा॑धाव॒-त्तस्मा॑ ए॒त-म्प॑ञ्चदशरा॒त्र-म्प्राय॑च्छ॒-त्तमा-ऽह॑र॒-त्तेना॑यजत॒ ततो॒ वै सो᳚-ऽन्याभि॑-र्दे॒वता॑भि-र्व्या॒वृत॑-मगच्छ॒द्य ए॒वं-विँ॒द्वाग्ंसः॑ पञ्चदशरा॒त्र-मास॑ते व्या॒वृत॑-मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छन्ति॒ ज्योति॒-र्गौरायु॒-रिति॑ त्र्य॒हो भ॑वती॒यं-वाँव ज्योति॑-र॒न्तरि॑क्ष॒- [ज्योति॑-र॒न्तरि॑क्षम्, ] 14
-ङ्गौ-र॒सा-वायु॑-रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यस॑त्रं॒-वाँ ए॒तद्य-द॑छन्दो॒मं-यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्र-न्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शू-ञ्छ॑न्दो॒मै-रोजो॒ वआवै वी॒र्य॑-म्पृ॒ष्ठानि॑ प॒शवः॑ छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति पञ्चदशरा॒त्रो भ॑वति पञ्चद॒शो वज्रो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्त्यतिरा॒त्रा-व॒भितो॑ भवत इन्द्रि॒यस्य॒ परि॑गृहीत्यै ॥ 15 ॥
(अ॒न्तरि॑क्ष-मिन्द्रि॒यस्यै-क॑ञ्च) (अ. 6)
इन्द्रो॒ वै शि॑थि॒ल इ॒वा-ऽप्र॑तिष्ठित आसी॒-थ्सो-ऽसु॑रेभ्यो-ऽबिभे॒-थ्स प्र॒जाप॑ति॒मुपा॑-ऽधाव॒-त्तस्मा॑ ए॒त-म्प॑ञ्चदशरा॒त्रं-वँज्र॒-म्प्राय॑च्छ॒-त्तेनासु॑रा-न्परा॒भाव्य॑ वि॒जित्य॒ श्रिय॑मगच्छदग्नि॒ष्टुता॑ पा॒प्मान॒-न्निर॑दहत पञ्चदशरा॒त्रेणौजो॒ बल॑मिन्द्रि॒यं-वीँ॒र्य॑मा॒त्मन्न॑धत्त॒ य ए॒वं-विँ॒द्वाग्ंसः॑ पञ्चदशरा॒त्रमास॑ते॒ भ्रातृ॑व्याने॒व प॑रा॒भाव्य॑ वि॒जित्य॒ श्रिय॑-ङ्गच्छन्त्यग्नि॒ष्टुता॑ पा॒प्मान॒-न्नि- [पा॒प्मान॒-न्निः, द॒ह॒न्ते॒ प॒ञ्च॒द॒श॒रा॒त्रेणौजो॒] 16
-र्द॑हन्ते पञ्चदशरा॒त्रेणौजो॒ बल॑-मिन्द्रि॒यं-वीँ॒र्य॑-मा॒त्म-न्द॑धत ए॒ता ए॒व प॑श॒व्याः᳚ पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यो-ऽर्धमास॒श-स्सं॑​वँथ्स॒र आ᳚प्यते सं​वँथ्स॒र-म्प॒शवो-ऽनु॒ प्र जा॑यन्ते॒ तस्मा᳚-त्पश॒व्या॑ ए॒ता ए॒व सु॑व॒र्ग्याः᳚ पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यो-ऽर्धमास॒श-स्सं॑​वँथ्स॒र आ᳚प्यते सं​वँथ्स॒र-स्सु॑व॒र्गो लो॒कस्तस्मा᳚-थ्सुव॒र्ग्या᳚ ज्योति॒-र्गौरायु॒-रिति॑ त्र्य॒हो भ॑वती॒यं-वाँव ज्योति॑-र॒न्तरि॑क्ष॒- [-र॒न्तरि॑क्षम्, गौ-र॒सावायु॑-] 17
-ङ्गौ-र॒सावायु॑-रि॒मा-ने॒व लो॒का-न॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधग्ग्​ स्या॒न्मद्ध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्य॑-म्पृ॒ष्ठान्योज॑ ए॒व वी॒र्य॑-म्मद्ध्य॒तो द॑धते बृह-द्रथन्त॒राभ्यां᳚-यँन्ती॒यं-वाँव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं-लोँ॒कं- [सु॑व॒र्गं-लोँ॒कम्, य॒न्ति॒ परा᳚ञ्चो॒ वा ए॒ते] 18
-ँय॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं-लोँ॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्य-न्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑ ऋ॒द्ध्वो-त्ति॑ष्ठन्ति॒ पञ्च॑दशै॒तास्तासां॒-याँ दश॒ दशा᳚क्षरा वि॒राडन्नं॑-विँ॒रा-ड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते॒ याः पञ्च॒ पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒ना-म्परि॑गृहीत्यै ॥ 19 ॥
(ग॒च्छ॒न्त्य॒ग्नि॒ष्टुता॑ पा॒प्मान॒-न्नि-र॒न्तरि॑क्षं - ँलो॒कं - प्र॒जायै॒ - द्वे च॑) (अ. 7)
प्र॒जाप॑ति-रकामयतान्ना॒द-स्स्या॒मिति॒ स ए॒तग्ं स॑प्तदशरा॒त्र-म॑पश्य॒-त्तमा-ऽह॑र॒-त्तेना॑यजत॒ ततो॒ वै सो᳚-ऽन्ना॒दो॑-ऽभव॒द्य ए॒वं-विँ॒द्वाग्ंसः॑ सप्तदश-रा॒त्रमास॑ते ऽन्ना॒दा ए॒व भ॑वन्ति पञ्चा॒हो भ॑वति॒ पञ्च॒ वा ऋ॒तवः॑ सं​वँथ्स॒र ऋ॒तुष्वे॒व सं॑​वँथ्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वा-ऽव॑ रुन्ध॒ते ऽस॑त्रं॒-वाँ ए॒त- [ए॒तत्, यद॑छन्दो॒मं-यँच्छ॑न्दो॒मा] 20
-द्यद॑छन्दो॒मं-यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्र-न्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑-म्पृ॒ष्ठानि॑ प॒शवः॑ छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति सप्तदशरा॒त्रो भ॑वति सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ अतिरा॒त्राव॒भितो॑ भवतो॒-ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ 21 ॥
(ए॒तथ् - स॒प्तत्रिग्ं॑शच्च) (अ. 8)
सा वि॒रा-ड्वि॒क्रम्या॑तिष्ठ॒-द्ब्रह्म॑णा दे॒वेष्वन्ने॒ना-सु॑रेषु॒ ते दे॒वा अ॑कामयन्तो॒भय॒ग्ं॒ सं-वृँ॑ञ्जीमहि॒ ब्रह्म॒ चान्न॒-ञ्चेति॒ त ए॒ता विग्ं॑श॒तिग्ं रात्री॑रपश्य॒-न्ततो॒ वै त उ॒भय॒ग्ं॒ सम॑वृञ्जत॒ ब्रह्म॒ चान्न॑-ञ्च ब्रह्मवर्च॒सिनो᳚-ऽन्ना॒दा अ॑भव॒न्॒. य ए॒वं-विँ॒द्वाग्ंस॑ ए॒ता आस॑त उ॒भय॑मे॒व सं-वृँ॑ञ्जते॒ ब्रह्म॒ चा-ऽन्न॑-ञ्च [ब्रह्म॒ चा-ऽन्न॑-ञ्च, ब्र॒ह्म॒व॒र्च॒सिनो᳚-ऽन्ना॒दा] 22
ब्रह्मवर्च॒सिनो᳚-ऽन्ना॒दा भ॑वन्ति॒ द्वे वा ए॒ते वि॒राजौ॒ तयो॑रे॒व नाना॒ प्रति॑ तिष्ठन्ति वि॒ग्ं॒शो वै पुरु॑षो॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॒ यावा॑ने॒व पुरु॑ष॒स्त-मा॒प्त्वो-त्ति॑ष्ठन्ति॒ ज्योति॒-र्गौ-रायु॒-रिति॑ त्र्य॒हा भ॑वन्ती॒यं-वाँव ज्योति॑-र॒न्तरि॑क्ष॒-ङ्गौ-र॒सा-वायु॑-रि॒माने॒व लो॒का-न॒भ्यारो॑हन्त्यभिपू॒र्व-न्त्र्य॒हा भ॑वन्त्यभिपू॒र्व-मे॒व सु॑व॒र्ग- [सु॑व॒र्गम्, लो॒क-म॒भ्यारो॑हन्ति॒] 23
-ँल्लो॒क-म॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधग्ग्​ स्या॒न्मद्ध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्य॑-म्पृ॒ष्ठान्योज॑ ए॒व वी॒र्य॑-म्मद्ध्य॒तो द॑धते बृह-द्रथन्त॒राभ्यां᳚-यँन्ती॒यं-वाँव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं-लोँ॒कं-यँ॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं ँलो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्य-न्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑. ऋ॒द्ध्वो-त्ति॑ष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒स-स्या॒न्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ 24 ॥
(वृ॒ञ्ज॒ते॒ ब्रह्म॒ चा-न्न॑-ञ्च - सुव॒र्ग - मे॒ते सु॑व॒र्गं - त्रयो॑विग्ंशतिश्च) (अ. 9)
अ॒सावा॑दि॒त्यो᳚-ऽस्मिन् ँलो॒क आ॑सी॒-त्त-न्दे॒वाः पृ॒ष्ठैः प॑रि॒गृह्य॑ सुव॒र्गं-लोँ॒कम॑गमय॒-न्परै॑र॒वस्ता॒-त्पर्य॑गृह्ण-न्दिवाकी॒र्त्ये॑न सुव॒र्गे लो॒के प्रत्य॑स्थापय॒-न्परैः᳚ प॒रस्ता॒-त्पर्य॑गृह्ण-न्पृ॒ष्ठैरु॒पावा॑रोह॒न्​थ्स वा अ॒सावा॑दि॒त्यो॑-ऽमुष्मि॑न् ँलो॒के परै॑रुभ॒यतः॒ परि॑गृहीतो॒ य-त्पृ॒ष्ठानि॒ भव॑न्ति सुव॒र्गमे॒व तैर्लो॒कं-यँज॑माना यन्ति॒ परै॑र॒वस्ता॒-त्परि॑ गृह्णन्ति दिवाकी॒र्त्ये॑न [दिवाकी॒र्त्ये॑न, सु॒व॒र्गे लो॒के प्रति॑] 25
सुव॒र्गे लो॒के प्रति॑ तिष्ठन्ति॒ परैः᳚ प॒रस्ता॒-त्परि॑ गृह्णन्ति पृ॒ष्ठैरु॒पाव॑रोहन्ति॒ य-त्परे॑ प॒रस्ता॒न्न स्युः परा᳚ञ्च-स्सुव॒र्गा-ल्लो॒कान्निष्प॑द्येर॒न्॒. यद॒वस्ता॒न्न स्युः प्र॒जा निर्द॑हेयुर॒भितो॑ दिवाकी॒र्त्य॑-म्पर॑स्सामानो भवन्ति सुव॒र्ग ए॒वैना᳚-​ल्लोँ॒क उ॑भ॒यतः॒ परि॑ गृह्णन्ति॒ यज॑माना॒ वै दि॑वाकी॒र्त्यग्ं॑ सं​वँथ्स॒रः पर॑स्सामानो॒-ऽभितो॑ दिवाकी॒र्त्य॑-म्पर॑स्सामानो भवन्ति सं​वँथ्स॒र ए॒वोभ॒यतः॒ [ए॒वोभ॒यतः॑, प्रति॑ तिष्ठन्ति] 26
प्रति॑ तिष्ठन्ति पृ॒ष्ठं-वैँ दि॑वाकी॒र्त्य॑-म्पा॒र्​श्वे पर॑स्सामानो॒ ऽभितो॑ दिवाकी॒र्त्य॑-म्पर॑स्सामानो भवन्ति॒ तस्मा॑द॒भितः॑ पृ॒ष्ठ-म्पा॒र्​श्वे भूयि॑ष्ठा॒ ग्रहा॑ गृह्यन्ते॒ भूयि॑ष्ठग्ं शस्यते य॒ज्ञस्यै॒व तन्म॑द्ध्य॒तो ग्र॒न्थि-ङ्ग्र॑थ्न॒न्त्यवि॑स्रग्ंसाय स॒प्त गृ॑ह्यन्ते स॒प्त वै शी॑र्​ष॒ण्याः᳚ प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधति॒ य-त्प॑रा॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्त्य॒मुमे॒व तै-र्लो॒कम॒भ्यारो॑हन्ति॒ यदि॒मं-लोँ॒क-न्न [यदि॒मं-लोँ॒क-न्न, प्र॒त्य॒व॒-रोहे॑यु॒-रुद्वा॒] 27
प्र॑त्यव॒-रोहे॑यु॒-रुद्वा॒ माद्ये॑यु॒र्यज॑मानाः॒ प्र वा॑ मीयेर॒न्॒. य-त्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒म-मे॒व तैर्लो॒क-म्प्र॒त्यव॑रोह॒न्त्यथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒न्त्यनु॑न्मादा॒येन्द्रो॒ वा अप्र॑तिष्ठित आसी॒-थ्स प्र॒जाप॑ति॒-मुपा॑धाव॒-त्तस्मा॑ ए॒त-मे॑कविग्ंशतिरा॒त्र-म्प्राय॑च्छ॒-त्तमा-ऽह॑र॒-त्तेना॑यजत॒ ततो॒ वै स प्रत्य॑तिष्ठ॒द्ये ब॑हुया॒जिनो ऽप्र॑तिष्ठिता॒- [ ऽप्र॑तिष्ठिताः, स्युस्त ए॑कविग्ंशति-] 28
-स्स्युस्त ए॑कविग्ंशति-रा॒त्र-मा॑सीर॒-न्द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒-स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कवि॒ग्ं॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑था पू॒र्व-म्प्रति॑ तिष्ठन्त्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ स प्र॒जाप॑ति॒-मुपा॑धाव॒-त्तस्मा॑ ए॒तमे॑कविग्ंशतिरा॒त्र-म्प्राय॑च्छ॒-त्तमा-ऽह॑र॒-त्तेना॑यजत॒ ततो॒ वै सो॑ ऽरोचत॒ य ए॒वं-विँ॒द्वाग्ंस॑ एकविग्ंशतिरा॒त्र-मास॑ते॒ रोच॑न्त ए॒वैक॑विग्ंशतिरा॒त्रो भ॑वति॒ रुग्वा ए॑कवि॒ग्ं॒शो रुच॑मे॒व ग॑च्छ॒न्त्यथो᳚ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कवि॒ग्ं॒शो॑ ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ 29 ॥
(गृ॒ह्ण॒न्ति॒ दि॒वा॒की॒र्त्ये॑नै॒ - वोभ॒यतो॒ - ना - प्र॑तिष्ठिता॒ - आस॑त॒ - एक॑विग्ंशतिश्च) (अ. 10)
अ॒र्वां-यँ॒ज्ञ-स्स-ङ्क्रा॑मत्व॒मुष्मा॒-दधि॒ माम॒भि । ऋषी॑णां॒-यः ँपु॒रोहि॑तः ॥ निर्दे॑व॒-न्निर्वी॑र-ङ्कृ॒त्वा विष्क॑न्ध॒-न्तस्मि॑न् हीयतां॒-योँ᳚-ऽस्मा-न्द्वेष्टि॑ । शरी॑रं-यँज्ञशम॒ल-ङ्कुसी॑द॒-न्तस्मिन्᳚थ्सीदतु॒ यो᳚-ऽस्मा-न्द्वेष्टि॑ ॥ यज्ञ॑ य॒ज्ञस्य॒ य-त्तेज॒स्तेन॒ सङ्क्रा॑म॒ माम॒भि । ब्रा॒ह्म॒णा-नृ॒त्विजो॑ दे॒वान् य॒ज्ञस्य॒ तप॑सा ते सवा॒हमा हु॑वे ॥ इ॒ष्टेन॑ प॒क्वमुप॑ [प॒क्वमुप॑, ते॒ हु॒वे॒ स॒वा॒-ऽहम् ।] 30
ते हुवे सवा॒-ऽहम् । स-न्ते॑ वृञ्जे सुकृ॒तग्ं स-म्प्र॒जा-म्प॒शून् ॥ प्रै॒षान्-थ्सा॑मिधे॒नी-रा॑घा॒रा-वाज्य॑भागा॒वा-श्रु॑त-म्प्र॒त्याश्रु॑त॒मा शृ॑णामि ते । प्र॒या॒जा॒नू॒या॒जान्-थ्स्वि॑ष्ट॒कृत॒-मिडा॑-मा॒शिष॒ आ वृ॑ञ्जे॒ सुवः॑ ॥ अ॒ग्निनेन्द्रे॑ण॒ सोमे॑न॒ सर॑स्वत्या॒ विष्णु॑ना दे॒वता॑भिः । या॒ज्या॒नु॒वा॒क्या᳚भ्या॒-मुप॑ ते हुवे सवा॒हं-यँ॒ज्ञमा द॑दे ते॒ वष॑ट्कृतम् ॥ स्तु॒तग्ं श॒स्त्र-म्प्र॑तिग॒र-ङ्ग्रह॒-मिडा॑-मा॒शिष॒ [मा॒शिषः॑, आ वृ॑ञ्जे॒ सुवः॑ ।] 31
आ वृ॑ञ्जे॒ सुवः॑ । प॒त्नी॒सं॒​याँ॒जा-नुप॑ ते हुवे सवा॒हग्ं स॑मिष्टय॒जु-रा द॑दे॒ तव॑ ॥ प॒शून्-थ्सु॒त-म्पु॑रो॒डाशा॒न्-थ्सव॑ना॒न्योत य॒ज्ञम् । दे॒वान्-थ्सेन्द्रा॒नुप॑ ते हुवे सवा॒ह-म॒ग्निमु॑खा॒न्-थ्सोम॑वतो॒ ये च॒ विश्वे᳚ ॥ 32 ॥
(उप॒ - ग्रह॒मिडा॑मा॒शिषो॒ - द्वात्रिग्ं॑शच्च) (अ. 11)
भू॒त-म्भव्य॑-म्भवि॒ष्यद्वष॒ट्-थ्स्वाहा॒ नम॒ ऋ-ख्साम॒ यजु॒र्वष॒ट्-थ्स्वाहा॒ नमो॑ गाय॒त्री त्रि॒ष्टु-ब्जग॑ती॒ वष॒ट्-थ्स्वाहा॒ नमः॑ पृथि॒व्य॑न्तरि॑क्ष॒-न्द्यौ र्वष॒ट्-थ्स्वाहा॒ नमो॒ ऽग्निर्वा॒यु-स्सूर्यो॒ वष॒ट्-थ्स्वाहा॒ नमः॑ प्रा॒णो-व्या॒नो॑-ऽपा॒नो वष॒ट्-थ्स्वाहा॒ नमो ऽन्न॑-ङ्कृ॒षि-र्वृष्टि॒-र्वष॒ट्-थ्स्वाहा॒ नमः॑ पि॒तापु॒त्रः पौत्रो॒ वष॒ट्-थ्स्वाहा॒ नमो॒ भूर्भुव॒-स्सुव॒ र्वष॒ट्-थ्स्वाहा॒ नमः॑ ॥ 33 ॥
(भुव॑ - श्च॒त्वारि॑ च) (अ. 12)
आ मे॑ गृ॒हा भ॑व॒न्त्वा प्र॒जा म॒ आ मा॑ य॒ज्ञो वि॑शतु वी॒र्या॑वान् । आपो॑ दे॒वीर्य॒ज्ञिया॒ मा-ऽऽवि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥ आ मे॒ ग्रहो॑ भव॒त्वा पु॑रो॒रु-ख्स्तु॑तश॒स्त्रे मा ऽऽ वि॑शताग्ं स॒मीची᳚ । आ॒दि॒त्या रु॒द्रा वस॑वो मे सद॒स्या᳚-स्स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥ आ मा᳚-ऽग्निष्टो॒मो वि॑शतू॒ क्थ्य॑श्चातिरा॒त्रो मा-ऽऽ वि॑शत्वापिशर्व॒रः । ति॒रोअ॑ह्निया मा॒ सुहु॑ता॒ आ वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥ 34 ॥
(अ॒ग्नि॒ष्टो॒मो वि॑शत्व॒ - ष्टाद॑श च) (अ. 13)
अ॒ग्निना॒ तपो-ऽन्व॑भव-द्वा॒चा ब्रह्म॑ म॒णिना॑ रू॒पाणीन्द्रे॑ण दे॒वान् वाते॑न प्रा॒णान्-थ्सूर्ये॑ण॒ द्या-ञ्च॒न्द्रम॑सा॒ नक्ष॑त्राणि य॒मेन॑ पि॒तॄ-न्राज्ञा॑ मनु॒ष्या᳚-न्फ॒लेन॑ नादे॒यान॑जग॒रेण॑ स॒र्पान् व्या॒घ्रेणा॑-ऽऽर॒ण्या-न्प॒शूञ्छ्ये॒नेन॑ पत॒त्रिणो॒ वृष्णा-ऽश्वा॑नृष॒भेण॒ गा ब॒स्तेना॒जा वृ॒ष्णिना-ऽवी᳚र्व्री॒हिणा-ऽन्ना॑नि॒ यवे॒नौष॑धीर्न्य॒ग्रोधे॑न॒ वन॒स्पती॑नुदु॒बंरे॒णोर्ज॑-ङ्गायत्रि॒या छन्दाग्ं॑सि त्रि॒वृता॒ स्तोमा᳚-न्ब्राह्म॒णेन॒ वाच᳚म् ॥ 35 ॥
(ब्रा॒ह्म॒णेनै - क॑-ञ्च) (अ. 14)
स्वाहा॒-ऽऽधिमाधी॑ताय॒ स्वाहा॒ स्वाहा-ऽऽधी॑त॒-म्मन॑से॒ स्वाहा॒ स्वाहा॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा॒ काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहा ऽदि॑त्यै॒ स्वाहा ऽदि॑त्यै म॒ह्यै᳚ स्वाहा-ऽदि॑त्यै सुमृडी॒कायै॒ स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै᳚ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहा॑ पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहा॒ त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहा॒ विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ 36 ॥
(पु॒रु॒रूपा॑य॒ स्वाहा॒ - दश॑ च) (अ. 15)
द॒द्भ्य-स्स्वाहा॒ हनू᳚भ्या॒ग्॒ स्वाहोष्ठा᳚भ्या॒ग्॒ स्वाहा॒ मुखा॑य॒ स्वाहा॒ नासि॑काभ्या॒ग्॒ स्वाहा॒ ऽक्षीभ्या॒ग्॒ स्वाहा॒ कर्णा᳚भ्या॒ग्॒ स्वाहा॑ पा॒र इ॒क्षवो॑-ऽवा॒र्ये᳚भ्यः॒ पक्ष्म॑भ्य॒-स्स्वाहा॑ ऽवा॒र इ॒क्षवः॑ पा॒र्ये᳚भ्यः॒ पक्ष्म॑भ्य॒-स्स्वाहा॑ शी॒र्​ष्णे स्वाहा᳚ भ्रू॒भ्याग्​ स्वाहा॑ ल॒लाटा॑य॒ स्वाहा॑ मू॒र्ध्ने स्वाहा॑ म॒स्तिष्का॑य॒ स्वाहा॒ केशे᳚भ्य॒-स्स्वाहा॒ वहा॑य॒ स्वाहा᳚ ग्री॒वाभ्य॒-स्स्वाहा᳚ स्क॒न्धेभ्य॒-स्स्वाहा॒ कीक॑साभ्य॒-स्स्वाहा॑ पृ॒ष्टीभ्य॒-स्स्वाहा॑ पाज॒स्या॑य॒ स्वाहा॑ पा॒र्​श्वाभ्या॒ग्॒ स्वाहा- [ ] 37
-ऽग्ंसा᳚भ्या॒ग्॒ स्वाहा॑ दो॒षभ्या॒ग्॒ स्वाहा॑ बा॒हुभ्या॒ग्॒ स्वाहा॒ जङ्घा᳚भ्या॒ग्॒ स्वाहा॒ श्रोणी᳚भ्या॒ग्॒ स्वाहो॒रुभ्या॒ग्॒ स्वाहा᳚ ऽष्ठी॒वद्भ्या॒ग्॒ स्वाहा॒ जङ्घा᳚भ्या॒ग्॒ स्वाहा॑ भ॒सदे॒ स्वाहा॑ शिख॒ण्डेभ्य॒-स्स्वाहा॑ वाल॒धाना॑य॒ स्वाहा॒ ऽऽण्डाभ्या॒ग्॒ स्वाहा॒ शेपा॑य॒ स्वाहा॒ रेत॑से॒ स्वाहा᳚ प्र॒जाभ्य॒-स्स्वाहा᳚ प्र॒जन॑नाय॒ स्वाहा॑ प॒द्भ्य-स्स्वाहा॑ श॒फेभ्य॒-स्स्वाहा॒ लोम॑भ्य॒-स्स्वाहा᳚ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॑ मा॒ग्ं॒साय॒ स्वाहा॒ स्नाव॑भ्य॒-स्स्वाहा॒ ऽस्थभ्य॒-स्स्वाहा॑ म॒ज्जभ्य॒-स्स्वाहा ऽङ्गे᳚भ्य॒-स्स्वाहा॒ ऽऽत्मने॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ 38 ॥
(पा॒र्​श्वाभ्या॒ग्॒ स्वाहा॑ - म॒ज्जभ्य॒-स्स्वाहा॒ - षट् च॑) (अ. 16)
अ॒ञ्ज्ये॒ताय॒ स्वाहा᳚ ऽञ्जिस॒क्थाय॒ स्वाहा॑ शिति॒पदे॒ स्वाहा॒ शिति॑ककुदे॒ स्वाहा॑ शिति॒रन्ध्रा॑य॒ स्वाहा॑ शितिपृ॒ष्ठाय॒ स्वाहा॑ शि॒त्यग्ंसा॑य॒ स्वाहा॑ पुष्प॒कर्णा॑य॒ स्वाहा॑ शि॒त्योष्ठा॑य॒ स्वाहा॑ शिति॒भ्रवे॒ स्वाहा॒ शिति॑भसदे॒ स्वाहा᳚ श्वे॒तानू॑काशाय॒ स्वाहा॒ ऽञ्जये॒ स्वाहा॑ ल॒लामा॑य॒ स्वाहा ऽसि॑तज्ञवे॒ स्वाहा॑ कृष्णै॒ताय॒ स्वाहा॑ रोहितै॒ताय॒ स्वाहा॑ ऽरुणै॒ताय॒ स्वाहे॒दृशा॑य॒ स्वाहा॑ की॒दृशा॑य॒ स्वाहा॑ ता॒दृशा॑य॒ स्वाहा॑ स॒दृशा॑य॒ स्वाहा॒ विस॑दृशाय॒ स्वाहा॒ सुस॑दृशाय॒ स्वाहा॑ रू॒पाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ 39 ॥
(रू॒पाय॒ स्वाहा॒ - द्वे च॑ ) (अ. 17)
कृ॒ष्णाय॒ स्वाहा᳚ श्वे॒ताय॒ स्वाहा॑ पि॒शङ्गा॑य॒ स्वाहा॑ सा॒रङ्गा॑य॒ स्वाहा॑ ऽरु॒णाय॒ स्वाहा॑ गौ॒राय॒ स्वाहा॑ ब॒भ्रवे॒ स्वाहा॑ नकु॒लाय॒ स्वाहा॒ रोहि॑ताय॒ स्वाहा॒ शोणा॑य॒ स्वाहा᳚ श्या॒वाय॒ स्वाहा᳚ श्या॒माय॒ स्वाहा॑ पाक॒लाय॒ स्वाहा॑ सुरू॒पाय॒ स्वाहा ऽनु॑रूपाय॒ स्वाहा॒ विरू॑पाय॒ स्वाहा॒ सरू॑पाय॒ स्वाहा॒ प्रति॑रूपाय॒ स्वाहा॑ श॒बला॑य॒ स्वाहा॑ कम॒लाय॒ स्वाहा॒ पृश्ञ॑ये॒ स्वाहा॑ पृश्ञिस॒क्थाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ 40 ॥
(कृ॒ष्णाय॒ - षट्च॑त्वारिग्ंशत्) (अ. 18)
ओष॑धीभ्य॒-स्स्वाहा॒ मूले᳚भ्य॒-स्स्वाहा॒ तूले᳚भ्य॒-स्स्वाहा॒ काण्डे᳚भ्य॒-स्स्वाहा॒ वल्​शे᳚भ्य॒-स्स्वाहा॒ पुष्पे᳚भ्य॒-स्स्वाहा॒ फले᳚भ्य॒-स्स्वाहा॑ गृही॒तेभ्य॒-स्स्वाहा ऽगृ॑हीतेभ्य॒-स्स्वाहा ऽव॑पन्नेभ्य॒-स्स्वाहा॒ शया॑नेभ्य॒-स्स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ 41 ॥
(ओष॑धीभ्य॒ - श्चतु॑र्विग्ंशतिः) (अ. 19)
वन॒स्पति॑भ्य॒-स्स्वाहा॒ मूले᳚भ्य॒-स्स्वाहा॒ तूले᳚भ्य॒-स्स्वाहा॒ स्कन्धो᳚भ्य॒-स्स्वाहा॒ शाखा᳚भ्य॒-स्स्वाहा॑ प॒र्णेभ्य॒-स्स्वाहा॒ पुष्पे᳚भ्य॒-स्स्वाहा॒ फले᳚भ्य॒-स्स्वाहा॑ गृही॒तेभ्य॒-स्स्वाहा ऽगृ॑हीतेभ्य॒-स्स्वाहा ऽव॑पन्नेभ्य॒-स्स्वाहा॒ शया॑नेभ्य॒-स्स्वाहा॑ शि॒ष्टाय॒ स्वाहा ऽति॑शिष्टाय॒ स्वाहा॒ परि॑शिष्टाय॒ स्वाहा॒ सग्ंशि॑ष्टाय॒ स्वाहो-च्छि॑ष्टाय॒ स्वाहा॑ रि॒क्ताय॒ स्वाहा ऽरि॑क्ताय॒ स्वाहा॒ प्ररि॑क्ताय॒ स्वाहा॒ सग्ंरि॑क्ताय॒ स्वाहो -द्रि॑क्ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ 42 ॥
(वन॒स्पति॑भ्यः॒ - षट् च॑त्वारिग्ंशत्) (अ. 20)
(प्र॒जवं॑ - ब्रह्मवा॒दिनः॒ कि - मे॒ष वा आ॒प्त - आ॑दि॒त्या उ॒भयोः᳚ - प्र॒जाप॑ति॒रन्वा॑य॒ -न्निन्द्रो॒ वै स॒दृं - मिन्द्रो॒ वै शि॑थि॒लः - प्र॒जाप॑तिरकामयता ऽन्ना॒दः - सा वि॒राड॒ - सावा॑दि॒त्यो᳚ - ऽर्वां - भू॒त - मा मे॒ - ऽग्निना॒ -स्वाहा॒-ऽऽधिन् - द॒द्भ्यो᳚-ऽ - ञ्ज्ये॒ताय॑ - कृ॒ष्णा - यौष॑धीभ्यो॒ - वन॒स्पति॑भ्यो - विग्ंश॒तिः)
(प्र॒जवं॑ - प्र॒जाप॑ति॒ - र्यद॑छन्दो॒मं - ते॑ हुवे सवा॒-ऽह - मोष॑धीभ्यो॒ - द्विच॑त्वारिग्ंशत्)
(प्र॒जव॒ग्ं॒, सर्व॑स्मै॒ स्वाहा᳚)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां सप्तमकाण्डे तृतीयः प्रश्न-स्समाप्तः ॥
Roman (IAST) Transliteration
kṛṣṇa yajurvedīya taittirīya saṃhitāyāṃ saptamakāṇḍe tṛtīyaḥ praśnaḥ - satrajātanirūpaṇaṃ
o-nnamaḥ paramātmane, śrī mahāgaṇapataye namaḥ,
śrī gurubhyo namaḥ | ha॒riḥ॒ om ||
pra॒javaṃ॒-vā~ e॒tena̭ yanti॒ ya-dda̭śa॒mamahaḥ̭ pāpāva॒hīyaṃ॒-vā~ e॒tena̭ bhavanti॒ ya-dda̭śa॒mamaha॒ryo vai pra॒javaṃ̭-ya~॒tāmapa̭thena prati॒padya̭te॒ ya-ssthā॒ṇugṃ hanti॒ yo bhreṣa॒-nnyeti॒ sa hī̭yate॒ sa yo vai da̭śa॒me-'ha̭nnavivā॒kya ṷpaha॒nyate॒ sa hī̭yate॒ tasmai॒ ya upa̭hatāya॒ vyāha॒ tame॒vānvā॒rabhya॒ sama̭śñu॒te-'tha॒ yo vyāha॒ sa [vyāha॒ saḥ, hī̭yate॒ tasmā᳚-ddaśa॒me] 1
hī̭yate॒ tasmā᳚-ddaśa॒me 'ha̭nnavivā॒kya upa̭hatāya॒ na vyucya॒matho॒ khalvā̭hurya॒jñasya॒ vai samṛ̭ddhena de॒vā-ssṷva॒rgaṃ-lo~॒kamā̭yan ya॒jñasya॒ vyṛ̭ddhe॒nāsṷrā॒-nparā̭-'bhāvaya॒nniti॒ ya-tkhalu॒ vai ya॒jñasya॒ samṛ̭ddha॒-nta-dyaja̭mānasya॒ yadvyṛ̭ddha॒-ntadbhrātṛ̭vyasya॒ sa yo vai da̭śa॒me-'ha̭nnavivā॒kya ṷpaha॒nyate॒ sa e॒vāti̭ recayati॒ te ye bāhyā̭ dṛśī॒kava॒- [ye bāhyā̭ dṛśī॒kavaḥ̭, syuste vi] 2
-ssyuste vi brṷ̄yu॒ryadi॒ tatra॒ na vi॒ndeyṷ-rantassada॒sā-dvyucyaṃ॒-ya~di॒ tatra॒ na vi॒ndeyṷ-rgṛ॒hapa̭tinā॒ vyucya॒-ntadvyucya̭-me॒vātha॒ vā e॒ta-thsa̭rparā॒jñiyā̭ ṛ॒gbhi-sstṷvanta॒yaṃ-vai~ sarpa̭to॒ rājñī॒ yadvā a॒syā-ṅki-ñcārca̭nti॒ yadā̭nṛ॒cu-stene॒yagṃ sa̭rparā॒jñī te yade॒va ki-ñca̭ vā॒cā ''nṛ॒curya-da॒to-'ddhya̭rci॒tāra॒- [-da॒to-'ddhya̭rci॒tāraḥ̭, tadu॒bhaya̭-mā॒ptvā] 3
-stadu॒bhaya̭-mā॒ptvā 'va॒ruddhyo-tti̭ṣṭhā॒meti॒ tābhi॒rmana̭sā stuvate॒ na vā i॒māma̭śvara॒tho nā-'śva̭tarīra॒tha-ssa॒dyaḥ paryā᳚ptumar​hati॒ mano॒ vā i॒māgṃ sa॒dyaḥ paryā᳚ptumar​hati॒ manaḥ॒ pari̭bhavitu॒matha॒ brahma̭ vadanti॒ pari̭mitā॒ vā ṛcaḥ॒ pari̭mitāni॒ sāmā̭ni॒ pari̭mitāni॒ yajū॒g॒ṣyathai॒tasyai॒vānto॒ nāsti॒ ya-dbrahma॒ ta-tpra̭tigṛṇa॒ta ā ca̭kṣīta॒ sa pra̭tiga॒raḥ || 4 ||
(vyāha॒ sa - dṛ̭śī॒kavo᳚ - 'rci॒tāraḥ॒ - sa - eka̭-ñca) (a. 1)
bra॒hma॒vā॒dino̭ vadanti॒ ki-ndvā̭daśā॒hasya̭ pratha॒menā-'hna॒rtvijāṃ॒-ya~ja̭māno vṛṅkta॒ iti॒ teja̭ indri॒ya-miti॒ ki-ndvi॒tīye॒neti̭ prā॒ṇā-na॒nnādya॒-miti॒ ki-ntṛ॒tīye॒neti॒ trīni॒mān ~lo॒kā-niti॒ ki-ñca̭tu॒rtheneti॒ catṷṣpadaḥ pa॒śū-niti॒ ki-mpa̭ñca॒meneti॒ pañcā᳚kṣarā-mpa॒ṅkti-miti॒ kigṃ ṣa॒ṣṭheneti॒ ṣa-ḍṛ॒tūniti॒ kigṃ sa̭pta॒meneti̭ sa॒ptapa̭dā॒gṃ॒ śakva̭rī॒miti॒ [śakva̭rī॒miti̭, ki-ma̭ṣṭa॒menetya॒ṣṭākṣa̭rā-] 5
ki-ma̭ṣṭa॒menetya॒ṣṭākṣa̭rā-ṅgāya॒trī-miti॒ ki-nna̭va॒meneti̭ tri॒vṛta॒gg॒ stoma॒-miti॒ ki-nda̭śa॒meneti॒ daśā᳚kṣarāṃ-vi~॒rāja॒miti॒ kimḙkāda॒śenetyekā̭daśākṣarā-ntri॒ṣṭubha॒-miti॒ ki-ndvā̭da॒śeneti॒ dvāda̭śākṣarā॒-ñjaga̭tī॒-mitye॒tāva॒dvā a̭sti॒ yāva̭-de॒ta-dyāva̭-de॒vā-'sti॒ ta-dḙṣāṃ-vṛ~ṅkte || 6 ||
(śakva̭rī॒mitye - ka̭catvārigṃśacca) (a. 2)
e॒ṣa vā ā॒pto dvā̭daśā॒ho ya-ttra̭yodaśarā॒tra-ssa̭mā॒nagg​ hyḙtadaha॒rya-tprā̭ya॒ṇīya̭ścodaya॒nīya̭śca॒ trya̭tirātro bhavati॒ traya̭ i॒me lo॒kā e॒ṣāṃ-lo~॒kānā॒māptyai᳚ prā॒ṇo vai pra̭tha॒mo̭-'tirā॒tro vyā॒no dvi॒tīyo̭ 'pā॒nastṛ॒tīyaḥ̭ prāṇāpāno-dā॒neṣve॒vā-'nnādye॒ prati̭ tiṣṭhanti॒ sarva॒-māyṷ-ryanti॒ ya e॒vaṃ ~vi॒dvāgṃsa̭-strayodaśarā॒tra-māsa̭te॒ tadā̭hu॒-rvāgvā e॒ṣā vita̭tā॒ [vita̭tā, ya-ddvā̭daśā॒hastāṃ-] 7
ya-ddvā̭daśā॒hastāṃ-vi~cchi̭ndyu॒-ryanmaddhyḙ 'tirā॒tra-ṅku॒ryu-rṷpa॒dāsṷkā gṛ॒hapa̭te॒-rvā-khsyā̭-du॒pari̭ṣṭā-cchando॒mānā᳚-mmahāvra॒ta-ṅkṷrvanti॒ santa̭tā-me॒va vāca॒-mava̭ rundha॒te-'nṷpadāsukā gṛ॒hapa̭te॒-rvāg-bha̭vati pa॒śavo॒ vai cha̭ndo॒mā anna̭-mmahāvra॒taṃ-ya~du॒pari̭ṣṭā-cchando॒mānā᳚-mmahāvra॒ta-ṅku॒rvanti̭ pa॒śuṣṷ cai॒vānnādyḙ ca॒ prati̭ tiṣṭhanti || 8 ||
(vita̭tā॒ - trica̭tvārigṃśacca) (a. 3)
ā॒di॒tyā a̭kāmayanto॒-bhayo᳚rlo॒kayor̭ ṛddhnuyā॒meti॒ ta e॒ta-ñca̭turdaśarā॒tra- ma̭paśya॒-ntamā-'ha̭ra॒-ntenā̭yajanta॒ tato॒ vai ta u॒bhayo᳚-rlo॒kayo̭-rārdhnuvanna॒smigg​ścā॒-muṣmigg̭śca॒ ya e॒vaṃ-vi~॒dvāgṃsa̭-ścaturdaśarā॒tramāsa̭ta u॒bhayo̭re॒va lo॒kayor̭. ṛddhnuvantya॒smigg​ścā॒-muṣmigg̭śca caturdaśarā॒tro bha̭vati sa॒pta grā॒myā oṣa̭dhaya-ssa॒ptā-''ra॒ṇyā u॒bhayī̭ṣā॒mava̭ruddhyai॒ ya-tpa̭rā॒cīnā̭ni pṛ॒ṣṭhāni॒ [pṛ॒ṣṭhāni̭, bhava̭ntya॒mu-] 9
bhava̭ntya॒mu-me॒va tai-rlo॒ka-ma॒bhi ja̭yanti॒ ya-tpra̭tī॒cīnā̭ni pṛ॒ṣṭhāni॒ bhava̭ntī॒ma-me॒va tai-rlo॒ka-ma॒bhi ja̭yanti trayastri॒gṃ॒śau ma̭ddhya॒ta-sstomaṷ bhavata॒-ssāmrā᳚jyame॒va ga̭cchantyadhirā॒jau bha̭vato-'dhirā॒jā e॒va sa̭mā॒nānā᳚-mbhavantyatirā॒trā-va॒bhito̭ bhavataḥ॒ pari̭gṛhītyai || 10 ||
(pṛ॒ṣṭhāni॒ - catṷstrigṃśacca) (a. 4)
pra॒jāpa̭ti-ssuva॒rgaṃ-lo~॒kamai॒-tta-nde॒vā anvā̭ya॒-ntānā̭di॒tyāśca̭ pa॒śava॒ścā-'nvā̭ya॒-nte de॒vā a̭bruva॒n॒. yā-npa॒śū-nu॒pājī̭viṣma॒ ta i॒me᳚ 'nvāgma॒-nniti॒ tebhya̭ e॒ta-ñca̭turdaśarā॒tra-mpratyaṷha॒-nta ā̭di॒tyāḥ pṛ॒ṣṭhai-ssṷva॒rgaṃ-lo~॒kamā-'ro̭ha-ntrya॒hābhyā̭-ma॒smin ~lo॒ke pa॒śū-npratyaṷha-npṛ॒ṣṭhai-rā̭di॒tyā a॒muṣmi̭n ~lo॒ka ārdhnṷva-ntrya॒hābhyā̭-ma॒smi- [ārdhnṷva-ntrya॒hābhyā̭-ma॒sminn, lo॒ke pa॒śavo॒] 11
~llo॒ke pa॒śavo॒ ya e॒vaṃ-vi~॒dvāgṃsa̭-ścaturdaśarā॒tramāsa̭ta u॒bhayo̭re॒va lo॒kayor̭ ṛddhnuvantya॒smigg​ścā॒-muṣmigg̭śca pṛ॒ṣṭhai-re॒vā-'muṣmi̭n ~lo॒ka ṛ̭ddhnu॒vanti̭ trya॒hābhyā̭-ma॒smin ~lo॒ke jyoti॒-rgaurāyu॒-riti̭ trya॒ho bha̭vatī॒yaṃ-vā~va jyoti̭-ra॒ntari̭kṣa॒-ṅgau-ra॒sā-vāyṷ-ri॒mā-ne॒va lo॒kā-na॒bhyāro̭hanti॒ ya-da॒nyataḥ̭ pṛ॒ṣṭhāni॒ syurvivi̭vadhagg​ syā॒nmaddhyḙ pṛ॒ṣṭhāni̭ bhavanti savivadha॒tvāyau- [savivadha॒tvāya̭, ojo॒ vai] 12
-jo॒ vai vī॒rya̭-mpṛ॒ṣṭhānyoja̭ e॒va vī॒rya̭-mmaddhya॒to da̭dhate bṛha-drathanta॒rābhyāṃ᳚-ya~ntī॒yaṃ-vā~va ra̭thanta॒ra-ma॒sau bṛ॒ha-dā॒bhyā-me॒va ya॒ntyatho̭ a॒nayo̭-re॒va prati̭ tiṣṭhantye॒te vai ya॒jñasyā᳚-'ñja॒sāya̭nī sru॒tī tābhyā̭-me॒va sṷva॒rgaṃ-lo~॒kaṃ-ya~̭nti॒ parā᳚ñco॒ vā e॒te sṷva॒rgaṃ-lo~॒ka-ma॒bhyāro̭hanti॒ ye pa̭rā॒cīnā̭ni pṛ॒ṣṭhānyṷpa॒yanti̭ pra॒tya-ntrya॒ho bha̭vati pra॒tyava̭rūḍhyā॒ atho॒ prati̭ṣṭhityā u॒bhayo᳚-rlo॒kayor̭ ṛ॒ddhvo-tti̭ṣṭhanti॒ catṷrdaśai॒tā-stāsāṃ॒-yā~ daśa॒ daśā᳚kṣarā vi॒rāḍannaṃ̭-vi~॒rā-ḍvi॒rājai॒vā-'nnādya॒-mava̭ rundhate॒ yāścata̭sra॒-ścata̭sro॒ diśo̭ di॒kṣvḙva prati̭ tiṣṭhantyatirā॒trā-va॒bhito̭ bhavataḥ॒ pari̭gṛhītyai || 13 ||
(ārdhnṷva-ntrya॒hābhyā̭ma॒sminth - sa̭vivadha॒tvāya॒ - prati̭ṣṭhatyā॒ - eka̭trigṃśacca) (a. 5)
indro॒ vai sa॒dṛ-nde॒vatā̭bhirāsī॒-thsa na vyā॒vṛta̭magaccha॒-thsa pra॒jāpa̭ti॒mupā̭dhāva॒-ttasmā̭ e॒ta-mpa̭ñcadaśarā॒tra-mprāya̭ccha॒-ttamā-'ha̭ra॒-ttenā̭yajata॒ tato॒ vai so᳚-'nyābhi̭-rde॒vatā̭bhi-rvyā॒vṛta̭-magaccha॒dya e॒vaṃ-vi~॒dvāgṃsaḥ̭ pañcadaśarā॒tra-māsa̭te vyā॒vṛta̭-me॒va pā॒pmanā॒ bhrātṛ̭vyeṇa gacchanti॒ jyoti॒-rgaurāyu॒-riti̭ trya॒ho bha̭vatī॒yaṃ-vā~va jyoti̭-ra॒ntari̭kṣa॒- [jyoti̭-ra॒ntari̭kṣam, ] 14
-ṅgau-ra॒sā-vāyṷ-re॒ṣvḙva lo॒keṣu॒ prati̭ tiṣṭha॒ntyasa̭traṃ॒-vā~ e॒tadya-da̭chando॒maṃ-ya~ccha̭ndo॒mā bhava̭nti॒ tena̭ sa॒tra-nde॒vatā̭ e॒va pṛ॒ṣṭhairava̭ rundhate pa॒śū-ñcha̭ndo॒mai-rojo॒ vaāvai vī॒rya̭-mpṛ॒ṣṭhāni̭ pa॒śavaḥ̭ chando॒mā oja̭sye॒va vī॒ryḙ pa॒śuṣu॒ prati̭ tiṣṭhanti pañcadaśarā॒tro bha̭vati pañcada॒śo vajro॒ vajra̭me॒va bhrātṛ̭vyebhyaḥ॒ pra ha̭rantyatirā॒trā-va॒bhito̭ bhavata indri॒yasya॒ pari̭gṛhītyai || 15 ||
(a॒ntari̭kṣa-mindri॒yasyai-ka̭ñca) (a. 6)
indro॒ vai śi̭thi॒la i॒vā-'pra̭tiṣṭhita āsī॒-thso-'sṷrebhyo-'bibhe॒-thsa pra॒jāpa̭ti॒mupā̭-'dhāva॒-ttasmā̭ e॒ta-mpa̭ñcadaśarā॒traṃ-va~jra॒-mprāya̭ccha॒-ttenāsṷrā-nparā॒bhāvya̭ vi॒jitya॒ śriya̭magacchadagni॒ṣṭutā̭ pā॒pmāna॒-nnira̭dahata pañcadaśarā॒treṇaujo॒ bala̭mindri॒yaṃ-vī~॒rya̭mā॒tmanna̭dhatta॒ ya e॒vaṃ-vi~॒dvāgṃsaḥ̭ pañcadaśarā॒tramāsa̭te॒ bhrātṛ̭vyāne॒va pa̭rā॒bhāvya̭ vi॒jitya॒ śriya̭-ṅgacchantyagni॒ṣṭutā̭ pā॒pmāna॒-nni- [pā॒pmāna॒-nniḥ, da॒ha॒nte॒ pa॒ñca॒da॒śa॒rā॒treṇaujo॒] 16
-rda̭hante pañcadaśarā॒treṇaujo॒ bala̭-mindri॒yaṃ-vī~॒rya̭-mā॒tma-nda̭dhata e॒tā e॒va pa̭śa॒vyāḥ᳚ pañca̭daśa॒ vā a̭rdhamā॒sasya॒ rātra̭yo-'rdhamāsa॒śa-ssaṃ̭​va~thsa॒ra ā᳚pyate saṃ​va~thsa॒ra-mpa॒śavo-'nu॒ pra jā̭yante॒ tasmā᳚-tpaśa॒vyā̭ e॒tā e॒va sṷva॒rgyāḥ᳚ pañca̭daśa॒ vā a̭rdhamā॒sasya॒ rātra̭yo-'rdhamāsa॒śa-ssaṃ̭​va~thsa॒ra ā᳚pyate saṃ​va~thsa॒ra-ssṷva॒rgo lo॒kastasmā᳚-thsuva॒rgyā᳚ jyoti॒-rgaurāyu॒-riti̭ trya॒ho bha̭vatī॒yaṃ-vā~va jyoti̭-ra॒ntari̭kṣa॒- [-ra॒ntari̭kṣam, gau-ra॒sāvāyṷ-] 17
-ṅgau-ra॒sāvāyṷ-ri॒mā-ne॒va lo॒kā-na॒bhyāro̭hanti॒ yada॒nyataḥ̭ pṛ॒ṣṭhāni॒ syurvivi̭vadhagg​ syā॒nmaddhyḙ pṛ॒ṣṭhāni̭ bhavanti savivadha॒tvāyaujo॒ vai vī॒rya̭-mpṛ॒ṣṭhānyoja̭ e॒va vī॒rya̭-mmaddhya॒to da̭dhate bṛha-drathanta॒rābhyāṃ᳚-ya~ntī॒yaṃ-vā~va ra̭thanta॒rama॒sau bṛ॒hadā॒bhyāme॒va ya॒ntyatho̭ a॒nayo̭re॒va prati̭ tiṣṭhantye॒te vai ya॒jñasyā᳚ñja॒sāya̭nī sru॒tī tābhyā̭me॒va sṷva॒rgaṃ-lo~॒kaṃ- [sṷva॒rgaṃ-lo~॒kam, ya॒nti॒ parā᳚ñco॒ vā e॒te] 18
-~ya̭nti॒ parā᳚ñco॒ vā e॒te sṷva॒rgaṃ-lo~॒kama॒bhyāro̭hanti॒ ye pa̭rā॒cīnā̭ni pṛ॒ṣṭhānyṷpa॒yanti̭ pra॒tya-ntrya॒ho bha̭vati pra॒tyava̭rūḍhyā॒ atho॒ prati̭ṣṭhityā u॒bhayo᳚rlo॒kayor̭ ṛ॒ddhvo-tti̭ṣṭhanti॒ pañca̭daśai॒tāstāsāṃ॒-yā~ daśa॒ daśā᳚kṣarā vi॒rāḍannaṃ̭-vi~॒rā-ḍvi॒rājai॒vānnādya॒mava̭ rundhate॒ yāḥ pañca॒ pañca॒ diśo̭ di॒kṣvḙva prati̭ tiṣṭhantyatirā॒trāva॒bhito̭ bhavata indri॒yasya̭ vī॒rya̭sya pra॒jāyai̭ paśū॒nā-mpari̭gṛhītyai || 19 ||
(ga॒ccha॒ntya॒gni॒ṣṭutā̭ pā॒pmāna॒-nni-ra॒ntari̭kṣaṃ - ~lo॒kaṃ - pra॒jāyai॒ - dve ca̭) (a. 7)
pra॒jāpa̭ti-rakāmayatānnā॒da-ssyā॒miti॒ sa e॒tagṃ sa̭ptadaśarā॒tra-ma̭paśya॒-ttamā-'ha̭ra॒-ttenā̭yajata॒ tato॒ vai so᳚-'nnā॒do̭-'bhava॒dya e॒vaṃ-vi~॒dvāgṃsaḥ̭ saptadaśa-rā॒tramāsa̭te 'nnā॒dā e॒va bha̭vanti pañcā॒ho bha̭vati॒ pañca॒ vā ṛ॒tavaḥ̭ saṃ​va~thsa॒ra ṛ॒tuṣve॒va saṃ̭​va~thsa॒re prati̭ tiṣṭha॒ntyatho॒ pañcā᳚kṣarā pa॒ṅktiḥ pāṅkto̭ ya॒jño ya॒jñame॒vā-'va̭ rundha॒te 'sa̭traṃ॒-vā~ e॒ta- [e॒tat, yada̭chando॒maṃ-ya~ccha̭ndo॒mā] 20
-dyada̭chando॒maṃ-ya~ccha̭ndo॒mā bhava̭nti॒ tena̭ sa॒tra-nde॒vatā̭ e॒va pṛ॒ṣṭhairava̭ rundhate pa॒śūñcha̭ndo॒mairojo॒ vai vī॒rya̭-mpṛ॒ṣṭhāni̭ pa॒śavaḥ̭ chando॒mā oja̭sye॒va vī॒ryḙ pa॒śuṣu॒ prati̭ tiṣṭhanti saptadaśarā॒tro bha̭vati saptada॒śaḥ pra॒jāpa̭tiḥ pra॒jāpa̭te॒rāptyā̭ atirā॒trāva॒bhito̭ bhavato॒-'nnādya̭sya॒ pari̭gṛhītyai || 21 ||
(e॒tath - sa॒ptatrigṃ̭śacca) (a. 8)
sā vi॒rā-ḍvi॒kramyā̭tiṣṭha॒-dbrahma̭ṇā de॒veṣvanne॒nā-sṷreṣu॒ te de॒vā a̭kāmayanto॒bhaya॒gṃ॒ saṃ-vṛ~̭ñjīmahi॒ brahma॒ cānna॒-ñceti॒ ta e॒tā vigṃ̭śa॒tigṃ rātrī̭rapaśya॒-ntato॒ vai ta u॒bhaya॒gṃ॒ sama̭vṛñjata॒ brahma॒ cānna̭-ñca brahmavarca॒sino᳚-'nnā॒dā a̭bhava॒n॒. ya e॒vaṃ-vi~॒dvāgṃsa̭ e॒tā āsa̭ta u॒bhaya̭me॒va saṃ-vṛ~̭ñjate॒ brahma॒ cā-'nna̭-ñca [brahma॒ cā-'nna̭-ñca, bra॒hma॒va॒rca॒sino᳚-'nnā॒dā] 22
brahmavarca॒sino᳚-'nnā॒dā bha̭vanti॒ dve vā e॒te vi॒rājau॒ tayo̭re॒va nānā॒ prati̭ tiṣṭhanti vi॒gṃ॒śo vai purṷṣo॒ daśa॒ hastyā̭ a॒ṅgula̭yo॒ daśa॒ padyā॒ yāvā̭ne॒va purṷṣa॒sta-mā॒ptvo-tti̭ṣṭhanti॒ jyoti॒-rgau-rāyu॒-riti̭ trya॒hā bha̭vantī॒yaṃ-vā~va jyoti̭-ra॒ntari̭kṣa॒-ṅgau-ra॒sā-vāyṷ-ri॒māne॒va lo॒kā-na॒bhyāro̭hantyabhipū॒rva-ntrya॒hā bha̭vantyabhipū॒rva-me॒va sṷva॒rga- [sṷva॒rgam, lo॒ka-ma॒bhyāro̭hanti॒] 23
-~llo॒ka-ma॒bhyāro̭hanti॒ yada॒nyataḥ̭ pṛ॒ṣṭhāni॒ syurvivi̭vadhagg​ syā॒nmaddhyḙ pṛ॒ṣṭhāni̭ bhavanti savivadha॒tvāyaujo॒ vai vī॒rya̭-mpṛ॒ṣṭhānyoja̭ e॒va vī॒rya̭-mmaddhya॒to da̭dhate bṛha-drathanta॒rābhyāṃ᳚-ya~ntī॒yaṃ-vā~va ra̭thanta॒rama॒sau bṛ॒hadā॒bhyāme॒va ya॒ntyatho̭ a॒nayo̭re॒va prati̭ tiṣṭhantye॒te vai ya॒jñasyā᳚ñja॒sāya̭nī sru॒tī tābhyā̭me॒va sṷva॒rgaṃ-lo~॒kaṃ-ya~̭nti॒ parā᳚ñco॒ vā e॒te sṷva॒rgaṃ ~lo॒kama॒bhyāro̭hanti॒ ye pa̭rā॒cīnā̭ni pṛ॒ṣṭhānyṷpa॒yanti̭ pra॒tya-ntrya॒ho bha̭vati pra॒tyava̭rūḍhyā॒ atho॒ prati̭ṣṭhityā u॒bhayo᳚rlo॒kayor̭. ṛ॒ddhvo-tti̭ṣṭhantyatirā॒trāva॒bhito̭ bhavato brahmavarca॒sa-syā॒nnādya̭sya॒ pari̭gṛhītyai || 24 ||
(vṛ॒ñja॒te॒ brahma॒ cā-nna̭-ñca - suva॒rga - me॒te sṷva॒rgaṃ - trayo̭vigṃśatiśca) (a. 9)
a॒sāvā̭di॒tyo᳚-'smin ~lo॒ka ā̭sī॒-tta-nde॒vāḥ pṛ॒ṣṭhaiḥ pa̭ri॒gṛhya̭ suva॒rgaṃ-lo~॒kama̭gamaya॒-nparai̭ra॒vastā॒-tparya̭gṛhṇa-ndivākī॒rtyḙna suva॒rge lo॒ke pratya̭sthāpaya॒-nparaiḥ᳚ pa॒rastā॒-tparya̭gṛhṇa-npṛ॒ṣṭhairu॒pāvā̭roha॒n​thsa vā a॒sāvā̭di॒tyo̭-'muṣmi̭n ~lo॒ke parai̭rubha॒yataḥ॒ pari̭gṛhīto॒ ya-tpṛ॒ṣṭhāni॒ bhava̭nti suva॒rgame॒va tairlo॒kaṃ-ya~ja̭mānā yanti॒ parai̭ra॒vastā॒-tpari̭ gṛhṇanti divākī॒rtyḙna [divākī॒rtyḙna, su॒va॒rge lo॒ke prati̭] 25
suva॒rge lo॒ke prati̭ tiṣṭhanti॒ paraiḥ᳚ pa॒rastā॒-tpari̭ gṛhṇanti pṛ॒ṣṭhairu॒pāva̭rohanti॒ ya-tparḙ pa॒rastā॒nna syuḥ parā᳚ñca-ssuva॒rgā-llo॒kānniṣpa̭dyera॒n॒. yada॒vastā॒nna syuḥ pra॒jā nirda̭heyura॒bhito̭ divākī॒rtya̭-mpara̭ssāmāno bhavanti suva॒rga e॒vainā᳚-​llo~॒ka ṷbha॒yataḥ॒ pari̭ gṛhṇanti॒ yaja̭mānā॒ vai di̭vākī॒rtyagṃ̭ saṃ​va~thsa॒raḥ para̭ssāmāno॒-'bhito̭ divākī॒rtya̭-mpara̭ssāmāno bhavanti saṃ​va~thsa॒ra e॒vobha॒yataḥ॒ [e॒vobha॒yataḥ̭, prati̭ tiṣṭhanti] 26
prati̭ tiṣṭhanti pṛ॒ṣṭhaṃ-vai~ di̭vākī॒rtya̭-mpā॒r​śve para̭ssāmāno॒ 'bhito̭ divākī॒rtya̭-mpara̭ssāmāno bhavanti॒ tasmā̭da॒bhitaḥ̭ pṛ॒ṣṭha-mpā॒r​śve bhūyi̭ṣṭhā॒ grahā̭ gṛhyante॒ bhūyi̭ṣṭhagṃ śasyate ya॒jñasyai॒va tanma̭ddhya॒to gra॒nthi-ṅgra̭thna॒ntyavi̭sragṃsāya sa॒pta gṛ̭hyante sa॒pta vai śī̭r​ṣa॒ṇyāḥ᳚ prā॒ṇāḥ prā॒ṇāne॒va yaja̭māneṣu dadhati॒ ya-tpa̭rā॒cīnā̭ni pṛ॒ṣṭhāni॒ bhava̭ntya॒mume॒va tai-rlo॒kama॒bhyāro̭hanti॒ yadi॒maṃ-lo~॒ka-nna [yadi॒maṃ-lo~॒ka-nna, pra॒tya॒va॒-rohḙyu॒-rudvā॒] 27
pra̭tyava॒-rohḙyu॒-rudvā॒ mādyḙyu॒ryaja̭mānāḥ॒ pra vā̭ mīyera॒n॒. ya-tpra̭tī॒cīnā̭ni pṛ॒ṣṭhāni॒ bhava̭ntī॒ma-me॒va tairlo॒ka-mpra॒tyava̭roha॒ntyatho̭ a॒sminne॒va lo॒ke prati̭ tiṣṭha॒ntyanṷnmādā॒yendro॒ vā apra̭tiṣṭhita āsī॒-thsa pra॒jāpa̭ti॒-mupā̭dhāva॒-ttasmā̭ e॒ta-mḙkavigṃśatirā॒tra-mprāya̭ccha॒-ttamā-'ha̭ra॒-ttenā̭yajata॒ tato॒ vai sa pratya̭tiṣṭha॒dye ba̭huyā॒jino 'pra̭tiṣṭhitā॒- [ 'pra̭tiṣṭhitāḥ, syusta ḙkavigṃśati-] 28
-ssyusta ḙkavigṃśati-rā॒tra-mā̭sīra॒-ndvāda̭śa॒ māsāḥ॒ pañca॒rtava॒-straya̭ i॒me lo॒kā a॒sāvā̭di॒tya ḙkavi॒gṃ॒śa e॒tāva̭nto॒ vai dḙvalo॒kāsteṣve॒va ya̭thā pū॒rva-mprati̭ tiṣṭhantya॒sāvā̭di॒tyo na vya̭rocata॒ sa pra॒jāpa̭ti॒-mupā̭dhāva॒-ttasmā̭ e॒tamḙkavigṃśatirā॒tra-mprāya̭ccha॒-ttamā-'ha̭ra॒-ttenā̭yajata॒ tato॒ vai so̭ 'rocata॒ ya e॒vaṃ-vi~॒dvāgṃsa̭ ekavigṃśatirā॒tra-māsa̭te॒ roca̭nta e॒vaika̭vigṃśatirā॒tro bha̭vati॒ rugvā ḙkavi॒gṃ॒śo ruca̭me॒va ga̭ccha॒ntyatho᳚ prati॒ṣṭhāme॒va pra̭ti॒ṣṭhā hyḙkavi॒gṃ॒śo̭ 'tirā॒trāva॒bhito̭ bhavato brahmavarca॒sasya॒ pari̭gṛhītyai || 29 ||
(gṛ॒hṇa॒nti॒ di॒vā॒kī॒rtyḙnai॒ - vobha॒yato॒ - nā - pra̭tiṣṭhitā॒ - āsa̭ta॒ - eka̭vigṃśatiśca) (a. 10)
a॒rvāṃ-ya~॒jña-ssa-ṅkrā̭matva॒muṣmā॒-dadhi॒ māma॒bhi | ṛṣī̭ṇāṃ॒-yaḥ ~pu॒rohi̭taḥ || nirdḙva॒-nnirvī̭ra-ṅkṛ॒tvā viṣka̭ndha॒-ntasmi̭n hīyatāṃ॒-yo~᳚-'smā-ndveṣṭi̭ | śarī̭raṃ-ya~jñaśama॒la-ṅkusī̭da॒-ntasmin᳚thsīdatu॒ yo᳚-'smā-ndveṣṭi̭ || yajña̭ ya॒jñasya॒ ya-tteja॒stena॒ saṅkrā̭ma॒ māma॒bhi | brā॒hma॒ṇā-nṛ॒tvijo̭ de॒vān ya॒jñasya॒ tapa̭sā te savā॒hamā hṷve || i॒ṣṭena̭ pa॒kvamupa̭ [pa॒kvamupa̭, te॒ hu॒ve॒ sa॒vā॒-'ham |] 30
te huve savā॒-'ham | sa-ntḙ vṛñje sukṛ॒tagṃ sa-mpra॒jā-mpa॒śūn || prai॒ṣān-thsā̭midhe॒nī-rā̭ghā॒rā-vājya̭bhāgā॒vā-śrṷta-mpra॒tyāśrṷta॒mā śṛ̭ṇāmi te | pra॒yā॒jā॒nū॒yā॒jān-thsvi̭ṣṭa॒kṛta॒-miḍā̭-mā॒śiṣa॒ ā vṛ̭ñje॒ suvaḥ̭ || a॒gninendrḙṇa॒ somḙna॒ sara̭svatyā॒ viṣṇṷnā de॒vatā̭bhiḥ | yā॒jyā॒nu॒vā॒kyā᳚bhyā॒-mupa̭ te huve savā॒haṃ-ya~॒jñamā da̭de te॒ vaṣa̭ṭkṛtam || stu॒tagṃ śa॒stra-mpra̭tiga॒ra-ṅgraha॒-miḍā̭-mā॒śiṣa॒ [mā॒śiṣaḥ̭, ā vṛ̭ñje॒ suvaḥ̭ |] 31
ā vṛ̭ñje॒ suvaḥ̭ | pa॒tnī॒saṃ॒​yā~॒jā-nupa̭ te huve savā॒hagṃ sa̭miṣṭaya॒ju-rā da̭de॒ tava̭ || pa॒śūn-thsu॒ta-mpṷro॒ḍāśā॒n-thsava̭nā॒nyota ya॒jñam | de॒vān-thsendrā॒nupa̭ te huve savā॒ha-ma॒gnimṷkhā॒n-thsoma̭vato॒ ye ca॒ viśve᳚ || 32 ||
(upa॒ - graha॒miḍā̭mā॒śiṣo॒ - dvātrigṃ̭śacca) (a. 11)
bhū॒ta-mbhavya̭-mbhavi॒ṣyadvaṣa॒ṭ-thsvāhā॒ nama॒ ṛ-khsāma॒ yaju॒rvaṣa॒ṭ-thsvāhā॒ namo̭ gāya॒trī tri॒ṣṭu-bjaga̭tī॒ vaṣa॒ṭ-thsvāhā॒ namaḥ̭ pṛthi॒vya̭ntari̭kṣa॒-ndyau rvaṣa॒ṭ-thsvāhā॒ namo॒ 'gnirvā॒yu-ssūryo॒ vaṣa॒ṭ-thsvāhā॒ namaḥ̭ prā॒ṇo-vyā॒no̭-'pā॒no vaṣa॒ṭ-thsvāhā॒ namo 'nna̭-ṅkṛ॒ṣi-rvṛṣṭi॒-rvaṣa॒ṭ-thsvāhā॒ namaḥ̭ pi॒tāpu॒traḥ pautro॒ vaṣa॒ṭ-thsvāhā॒ namo॒ bhūrbhuva॒-ssuva॒ rvaṣa॒ṭ-thsvāhā॒ namaḥ̭ || 33 ||
(bhuva̭ - śca॒tvāri̭ ca) (a. 12)
ā mḙ gṛ॒hā bha̭va॒ntvā pra॒jā ma॒ ā mā̭ ya॒jño vi̭śatu vī॒ryā̭vān | āpo̭ de॒vīrya॒jñiyā॒ mā-''vi̭śantu sa॒hasra̭sya mā bhū॒mā mā pra hā̭sīt || ā me॒ graho̭ bhava॒tvā pṷro॒ru-khstṷtaśa॒stre mā '' vi̭śatāgṃ sa॒mīcī᳚ | ā॒di॒tyā ru॒drā vasa̭vo me sada॒syā᳚-ssa॒hasra̭sya mā bhū॒mā mā pra hā̭sīt || ā mā᳚-'gniṣṭo॒mo vi̭śatū॒ kthya̭ścātirā॒tro mā-'' vi̭śatvāpiśarva॒raḥ | ti॒roa̭hniyā mā॒ suhṷtā॒ ā vi̭śantu sa॒hasra̭sya mā bhū॒mā mā pra hā̭sīt || 34 ||
(a॒gni॒ṣṭo॒mo vi̭śatva॒ - ṣṭāda̭śa ca) (a. 13)
a॒gninā॒ tapo-'nva̭bhava-dvā॒cā brahma̭ ma॒ṇinā̭ rū॒pāṇīndrḙṇa de॒vān vātḙna prā॒ṇān-thsūryḙṇa॒ dyā-ñca॒ndrama̭sā॒ nakṣa̭trāṇi ya॒mena̭ pi॒tṝ-nrājñā̭ manu॒ṣyā᳚-npha॒lena̭ nāde॒yāna̭jaga॒reṇa̭ sa॒rpān vyā॒ghreṇā̭-''ra॒ṇyā-npa॒śūñchye॒nena̭ pata॒triṇo॒ vṛṣṇā-'śvā̭nṛṣa॒bheṇa॒ gā ba॒stenā॒jā vṛ॒ṣṇinā-'vī᳚rvrī॒hiṇā-'nnā̭ni॒ yave॒nauṣa̭dhīrnya॒grodhḙna॒ vana॒spatī̭nudu॒baṃre॒ṇorja̭-ṅgāyatri॒yā chandāgṃ̭si tri॒vṛtā॒ stomā᳚-nbrāhma॒ṇena॒ vāca᳚m || 35 ||
(brā॒hma॒ṇenai - ka̭-ñca) (a. 14)
svāhā॒-''dhimādhī̭tāya॒ svāhā॒ svāhā-''dhī̭ta॒-mmana̭se॒ svāhā॒ svāhā॒ manaḥ̭ pra॒jāpa̭taye॒ svāhā॒ kāya॒ svāhā॒ kasmai॒ svāhā̭ kata॒masmai॒ svāhā 'di̭tyai॒ svāhā 'di̭tyai ma॒hyai᳚ svāhā-'di̭tyai sumṛḍī॒kāyai॒ svāhā॒ sara̭svatyai॒ svāhā॒ sara̭svatyai bṛha॒tyai᳚ svāhā॒ sara̭svatyai pāva॒kāyai॒ svāhā̭ pū॒ṣṇe svāhā̭ pū॒ṣṇe pra̭pa॒thyā̭ya॒ svāhā̭ pū॒ṣṇe na॒randhi̭ṣāya॒ svāhā॒ tvaṣṭre॒ svāhā॒ tvaṣṭrḙ tu॒rīpā̭ya॒ svāhā॒ tvaṣṭrḙ puru॒rūpā̭ya॒ svāhā॒ viṣṇa̭ve॒ svāhā॒ viṣṇa̭ve nikhurya॒pāya॒ svāhā॒ viṣṇa̭ve nibhūya॒pāya॒ svāhā॒ sarva̭smai॒ svāhā᳚ || 36 ||
(pu॒ru॒rūpā̭ya॒ svāhā॒ - daśa̭ ca) (a. 15)
da॒dbhya-ssvāhā॒ hanū᳚bhyā॒g॒ svāhoṣṭhā᳚bhyā॒g॒ svāhā॒ mukhā̭ya॒ svāhā॒ nāsi̭kābhyā॒g॒ svāhā॒ 'kṣībhyā॒g॒ svāhā॒ karṇā᳚bhyā॒g॒ svāhā̭ pā॒ra i॒kṣavo̭-'vā॒rye᳚bhyaḥ॒ pakṣma̭bhya॒-ssvāhā̭ 'vā॒ra i॒kṣavaḥ̭ pā॒rye᳚bhyaḥ॒ pakṣma̭bhya॒-ssvāhā̭ śī॒r​ṣṇe svāhā᳚ bhrū॒bhyāg​ svāhā̭ la॒lāṭā̭ya॒ svāhā̭ mū॒rdhne svāhā̭ ma॒stiṣkā̭ya॒ svāhā॒ keśe᳚bhya॒-ssvāhā॒ vahā̭ya॒ svāhā᳚ grī॒vābhya॒-ssvāhā᳚ ska॒ndhebhya॒-ssvāhā॒ kīka̭sābhya॒-ssvāhā̭ pṛ॒ṣṭībhya॒-ssvāhā̭ pāja॒syā̭ya॒ svāhā̭ pā॒r​śvābhyā॒g॒ svāhā- [ ] 37
-'gṃsā᳚bhyā॒g॒ svāhā̭ do॒ṣabhyā॒g॒ svāhā̭ bā॒hubhyā॒g॒ svāhā॒ jaṅghā᳚bhyā॒g॒ svāhā॒ śroṇī᳚bhyā॒g॒ svāho॒rubhyā॒g॒ svāhā᳚ 'ṣṭhī॒vadbhyā॒g॒ svāhā॒ jaṅghā᳚bhyā॒g॒ svāhā̭ bha॒sade॒ svāhā̭ śikha॒ṇḍebhya॒-ssvāhā̭ vāla॒dhānā̭ya॒ svāhā॒ ''ṇḍābhyā॒g॒ svāhā॒ śepā̭ya॒ svāhā॒ reta̭se॒ svāhā᳚ pra॒jābhya॒-ssvāhā᳚ pra॒jana̭nāya॒ svāhā̭ pa॒dbhya-ssvāhā̭ śa॒phebhya॒-ssvāhā॒ loma̭bhya॒-ssvāhā᳚ tva॒ce svāhā॒ lohi̭tāya॒ svāhā̭ mā॒gṃ॒sāya॒ svāhā॒ snāva̭bhya॒-ssvāhā॒ 'sthabhya॒-ssvāhā̭ ma॒jjabhya॒-ssvāhā 'ṅge᳚bhya॒-ssvāhā॒ ''tmane॒ svāhā॒ sarva̭smai॒ svāhā᳚ || 38 ||
(pā॒r​śvābhyā॒g॒ svāhā̭ - ma॒jjabhya॒-ssvāhā॒ - ṣaṭ ca̭) (a. 16)
a॒ñjye॒tāya॒ svāhā᳚ 'ñjisa॒kthāya॒ svāhā̭ śiti॒pade॒ svāhā॒ śiti̭kakude॒ svāhā̭ śiti॒randhrā̭ya॒ svāhā̭ śitipṛ॒ṣṭhāya॒ svāhā̭ śi॒tyagṃsā̭ya॒ svāhā̭ puṣpa॒karṇā̭ya॒ svāhā̭ śi॒tyoṣṭhā̭ya॒ svāhā̭ śiti॒bhrave॒ svāhā॒ śiti̭bhasade॒ svāhā᳚ śve॒tānṷ̄kāśāya॒ svāhā॒ 'ñjaye॒ svāhā̭ la॒lāmā̭ya॒ svāhā 'si̭tajñave॒ svāhā̭ kṛṣṇai॒tāya॒ svāhā̭ rohitai॒tāya॒ svāhā̭ 'ruṇai॒tāya॒ svāhe॒dṛśā̭ya॒ svāhā̭ kī॒dṛśā̭ya॒ svāhā̭ tā॒dṛśā̭ya॒ svāhā̭ sa॒dṛśā̭ya॒ svāhā॒ visa̭dṛśāya॒ svāhā॒ susa̭dṛśāya॒ svāhā̭ rū॒pāya॒ svāhā॒ sarva̭smai॒ svāhā᳚ || 39 ||
(rū॒pāya॒ svāhā॒ - dve ca̭ ) (a. 17)
kṛ॒ṣṇāya॒ svāhā᳚ śve॒tāya॒ svāhā̭ pi॒śaṅgā̭ya॒ svāhā̭ sā॒raṅgā̭ya॒ svāhā̭ 'ru॒ṇāya॒ svāhā̭ gau॒rāya॒ svāhā̭ ba॒bhrave॒ svāhā̭ naku॒lāya॒ svāhā॒ rohi̭tāya॒ svāhā॒ śoṇā̭ya॒ svāhā᳚ śyā॒vāya॒ svāhā᳚ śyā॒māya॒ svāhā̭ pāka॒lāya॒ svāhā̭ surū॒pāya॒ svāhā 'nṷrūpāya॒ svāhā॒ virṷ̄pāya॒ svāhā॒ sarṷ̄pāya॒ svāhā॒ prati̭rūpāya॒ svāhā̭ śa॒balā̭ya॒ svāhā̭ kama॒lāya॒ svāhā॒ pṛśña̭ye॒ svāhā̭ pṛśñisa॒kthāya॒ svāhā॒ sarva̭smai॒ svāhā᳚ || 40 ||
(kṛ॒ṣṇāya॒ - ṣaṭca̭tvārigṃśat) (a. 18)
oṣa̭dhībhya॒-ssvāhā॒ mūle᳚bhya॒-ssvāhā॒ tūle᳚bhya॒-ssvāhā॒ kāṇḍe᳚bhya॒-ssvāhā॒ val​śe᳚bhya॒-ssvāhā॒ puṣpe᳚bhya॒-ssvāhā॒ phale᳚bhya॒-ssvāhā̭ gṛhī॒tebhya॒-ssvāhā 'gṛ̭hītebhya॒-ssvāhā 'va̭pannebhya॒-ssvāhā॒ śayā̭nebhya॒-ssvāhā॒ sarva̭smai॒ svāhā᳚ || 41 ||
(oṣa̭dhībhya॒ - ścatṷrvigṃśatiḥ) (a. 19)
vana॒spati̭bhya॒-ssvāhā॒ mūle᳚bhya॒-ssvāhā॒ tūle᳚bhya॒-ssvāhā॒ skandho᳚bhya॒-ssvāhā॒ śākhā᳚bhya॒-ssvāhā̭ pa॒rṇebhya॒-ssvāhā॒ puṣpe᳚bhya॒-ssvāhā॒ phale᳚bhya॒-ssvāhā̭ gṛhī॒tebhya॒-ssvāhā 'gṛ̭hītebhya॒-ssvāhā 'va̭pannebhya॒-ssvāhā॒ śayā̭nebhya॒-ssvāhā̭ śi॒ṣṭāya॒ svāhā 'ti̭śiṣṭāya॒ svāhā॒ pari̭śiṣṭāya॒ svāhā॒ sagṃśi̭ṣṭāya॒ svāho-cchi̭ṣṭāya॒ svāhā̭ ri॒ktāya॒ svāhā 'ri̭ktāya॒ svāhā॒ prari̭ktāya॒ svāhā॒ sagṃri̭ktāya॒ svāho -dri̭ktāya॒ svāhā॒ sarva̭smai॒ svāhā᳚ || 42 ||
(vana॒spati̭bhyaḥ॒ - ṣaṭ ca̭tvārigṃśat) (a. 20)
(pra॒javaṃ̭ - brahmavā॒dinaḥ॒ ki - me॒ṣa vā ā॒pta - ā̭di॒tyā u॒bhayoḥ᳚ - pra॒jāpa̭ti॒ranvā̭ya॒ -nnindro॒ vai sa॒dṛṃ - mindro॒ vai śi̭thi॒laḥ - pra॒jāpa̭tirakāmayatā 'nnā॒daḥ - sā vi॒rāḍa॒ - sāvā̭di॒tyo᳚ - 'rvāṃ - bhū॒ta - mā me॒ - 'gninā॒ -svāhā॒-''dhin - da॒dbhyo᳚-' - ñjye॒tāya̭ - kṛ॒ṣṇā - yauṣa̭dhībhyo॒ - vana॒spati̭bhyo - vigṃśa॒tiḥ)
(pra॒javaṃ̭ - pra॒jāpa̭ti॒ - ryada̭chando॒maṃ - tḙ huve savā॒-'ha - moṣa̭dhībhyo॒ - dvica̭tvārigṃśat)
(pra॒java॒gṃ॒, sarva̭smai॒ svāhā᳚)
|| hariḥ̭ om ||
|| kṛṣṇa yajurvedīya taittirīya saṃhitāyāṃ saptamakāṇḍe tṛtīyaḥ praśna-ssamāptaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in