कैलासशिखरे रम्ये गौरी पप्रच्छ शङ्करम् ।
ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः ॥ 1 ॥
त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः ।
नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥ 2 ॥
आश्चर्यमिदमत्यन्तं जायते मम शङ्कर ।
तत्प्राणेश महाप्राज्ञ संशयं छिन्धि मे प्रभो ॥ 3 ॥
श्रीमहादेव उवाच-
धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे ।
रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥ 4 ॥
स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि ।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ 5 ॥
दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् ।
इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥ 6 ॥
धनरत्नौघमाणिक्यं तुरङ्गं च गजादिकम् ।
ददाति स्मरणादेव महामोक्षप्रदायकम् ॥ 7 ॥
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वावहिता प्रिये ।
योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः ॥ 8 ॥
संसारसागरोत्तारकारणाय नृणां सदा ।
श्रीरङ्गादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥ 9 ॥
ततो लोका महामूढा विष्णुभक्तिविवर्जिताः ।
निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥ 10 ॥
निरञ्जनो निराकारो भक्तानां प्रीतिकामदः ।
बृन्दावनविहाराय गोपालं रूपमुद्वहन् ॥ 11 ॥
मुरलीवादनाधारी राधायै प्रीतिमावहन् ।
अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः ॥ 12 ॥
श्रीकृष्णचन्द्रो भगवान् नन्दगोपवरोद्यतः ।
धरणीरूपिणी माता यशोदा नन्दगेहिनी ॥ 13 ॥
द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः ।
ब्रह्मणाऽभ्यर्थितो देवो देवैरपि सुरेश्वरः ॥ 14 ॥
जातोऽवन्यां च मुदितो मुरलीवाचनेच्छया ।
श्रिया सार्धं वचः कृत्वा ततो जातो महीतले ॥ 15 ॥
संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् ।
एतज्ज्योतिरहं वन्द्यं चिन्तयामि सनातनम् ॥ 16 ॥
गौरतेजो विना यस्तु श्यामतेजस्समर्चयेत् ।
जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे ॥ 17 ॥
स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः ।
एतैर्दोषैर्विलिप्येत तेजोभेदान्महीश्वरि ॥ 18 ॥
तस्माज्ज्योतिरभूद्द्वेधा राधामाधवरूपकम् ।
तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥ 19 ॥
दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले ।
ततः पृष्टवती राधा सन्देहं भेदमात्मनः ॥ 20 ॥
निरञ्जनात्समुत्पन्नं मायातीतं जगन्मयम् ।
श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥ 21 ॥
ततो नारदतस्सर्वं विरला वैष्णवास्तथा ।
कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥ 22 ॥
शठाय कृपणायाथ डाम्भिकाय सुरेश्वरि ।
ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥ 23 ॥
ॐ अस्य श्रीगोपालसहस्रनामस्तोत्र महामन्त्रस्य श्रीनारद ऋषिः, अनुष्टुप् छन्दः, श्रीगोपालो देवता, कामो बीजं, माया शक्तिः, चन्द्रः कीलकं, श्रीकृष्णचन्द्र भक्तिरूपफलप्राप्तये श्रीगोपालसहस्रनामस्तोत्रजपे विनियोगः ।
ॐ ऐं क्लीं बीजं, श्रीं ह्रीं शक्तिः, श्री बृन्दावननिवासः कीलकं, श्रीराधाप्रियं परं ब्रह्मेति मन्त्रः, धर्मादि चतुर्विध पुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।
न्यासः ।
ॐ नारद ऋषये नमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
श्रीगोपालदेवतायै नमः हृदये ।
क्लीं कीलकाय नमः नाभौ ।
ह्रीं शक्तये नमः गुह्ये ।
श्रीं कीलकाय नमः फालयोः ।
ॐ क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा इति मूलमन्त्रः ।
करन्यासः ।
ॐ क्लां अङ्गुष्ठाभ्यां नमः ।
ॐ क्लीं तर्जनीभ्यां नमः ।
ॐ क्लूं मध्यमाभ्यां नमः ।
ॐ क्लैं अनामिकाभ्यां नमः ।
ॐ क्लौं कनिष्ठिकाभ्यां नमः ।
ॐ क्लः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः ।
ॐ क्लां हृदयाय नमः ।
ॐ क्लीं शिरसे स्वाहा ।
ॐ क्लूं शिखायै वषट् ।
ॐ क्लैं कवचाय हुम् ।
ॐ क्लौं नेत्रत्रयाय वौषट् ।
ॐ क्लः अस्त्राय फट् ।
मूलमन्त्रन्यासः ।
क्लीं अङ्गुष्ठाभ्यां नमः ।
कृष्णाय तर्जनीभ्यां नमः ।
गोविन्दाय मध्यमाभ्यां नमः ।
गोपीजन अनामिकाभ्यां नमः ।
वल्लभाय कनिष्ठिकाभ्यां नमः ।
स्वाहा करतलकरपृष्ठाभ्यां नमः ।
क्लीं हृदयाय नमः ।
कृष्णाय शिरसे स्वाहा ।
गोविन्दाय शिखायै वषट् ।
गोपीजन कवचाय हुम् ।
वल्लभाय नेत्रत्रयाय वौषट् ।
स्वाहा अस्त्राय फट् ।
ध्यानम् ।
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥ 1 ॥
कस्तूरीतिलकं ललाटफलके वक्षस्स्थले कौस्तुभं
नासाग्रे वरमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ 2 ॥
ॐ क्लीं देवः कामदेवः कामबीजशिरोमणिः ।
श्रीगोपालो महीपालो वेदवेदाङ्गपारगः ॥ 1 ॥
कृष्णः कमलपत्राक्षः पुण्डरीकः सनातनः ।
गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतोमुखः ॥ 2 ॥
आदिकर्ता महाकर्ता महाकालः प्रतापवान् ।
जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥ 3 ॥
मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान् ।
नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥ 4 ॥
गोकुलेशो महाचन्द्रः शर्वरीप्रियकारकः ।
कमलामुखलोलाक्षः पुण्डरीकः शुभावहः ॥ 5 ॥
दुर्वासाः कपिलो भौमः सिन्धुसागरसङ्गमः ।
गोविन्दो गोपतिर्गोत्रः कालिन्दीप्रेमपूरकः ॥ 6 ॥
गोपस्वामी गोकुलेन्द्रः गोवर्धनवरप्रदः ।
नन्दादिगोकुलत्राता दाता दारिद्र्यभञ्जनः ॥ 7 ॥
सर्वमङ्गलदाता च सर्वकामवरप्रदः ।
आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥ 8 ॥
गजगामी गजोद्धारी कामी कामकलानिधिः ।
कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥ 9 ॥
मालाकारः कृपाकारः कोकिलस्वरभूषणः ।
रामो नीलाम्बरो देही हली द्विविदमर्दनः ॥ 10 ॥
सहस्राक्षपुरीभेत्ता महामारीविनाशनः ।
शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥ 11 ॥
कुमारीवरदायी च वरेण्यो मीनकेतनः ।
नरो नारायणो धीरो धरापतिरुदारधीः ॥ 12 ॥
श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा ।
बृन्दापतिः कुलं ग्रामी धाम ब्रह्मसनातनः ॥ 13 ॥
रेवतीरमणो रामः प्रियश्चञ्चललोचनः ।
रामायणशरीरश्च रामो रामः श्रियःपतिः ॥ 14 ॥
शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः ।
राधाराधयिताराधी राधाचित्तप्रमोदकः ॥ 15 ॥
राधारतिसुखोपेतो राधामोहनतत्परः ।
राधावशीकरो राधाहृदयाम्भोजषट्पदः ॥ 16 ॥
राधालिङ्गनसम्मोदो राधानर्तनकौतुकः ।
राधासञ्जातसम्प्रीतो राधाकामफलप्रदः ॥ 17 ॥
बृन्दापतिः कोकनिधिः कोकशोकविनाशनः ।
चन्द्रापतिश्चन्द्रपतिश्चण्डकोदण्डभञ्जनः ॥ 18 ॥
रामो दाशरथी रामो भृगुवंशसमुद्भवः ।
आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः ॥ 19 ॥
वृषभानुभवो भावी काश्यपिः करुणानिधिः ।
कोलाहलो हलो हाली हली हलधरप्रियः ॥ 20 ॥
राधामुखाब्जमार्ताण्डो भास्करो रविजो विधुः ।
विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥ 21 ॥
रोहिणीहृदयानन्दी वसुदेवात्मजो बलिः ।
नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥ 22 ॥
नागो जवाम्भो विरुदो वीरहा वरदो बली ।
गोपदो विजयी विद्वान् शिपिविष्टः सनातनः ॥ 23 ॥
परशुरामवचोग्राही वरग्राही सृगालहा ।
दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥ 24 ॥
वीरपत्नीयशस्त्राता जराव्याधिविघातकः ।
द्वारकावासतत्त्वज्ञो हुताशनवरप्रदः ॥ 25 ॥
यमुनावेगसंहारी नीलाम्बरधरः प्रभुः ।
विभुः शरासनो धन्वी गणेशो गणनायकः ॥ 26 ॥
लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशकः ।
वामनो वामनीभूतो वमनो वमनारुहः ॥ 27 ॥
यशोदानन्दनः कर्ता यमलार्जुनमुक्तिदः ।
उलूखली महामानो दामबद्धाह्वयी शमी ॥ 28 ॥
भक्तानुकारी भगवान् केशवोऽचलधारकः ।
केशिहा मधुहा मोही वृषासुरविघातकः ॥ 29 ॥
अघासुरविघाती च पूतनामोक्षदायकः ।
कुब्जाविनोदी भगवान् कंसमृत्युर्महामुखी ॥ 30 ॥
अश्वमेधो वाजपेयो गोमेधो नरमेधवान् ।
कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥ 31 ॥
रविकोटिप्रतीकाशो वायुकोटिमहाबलः ।
ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥ 32 ॥
कमली कमलाक्षश्च कमलामुखलोलुपः ।
कमलाव्रतधारी च कमलाभः पुरन्दरः ॥ 33 ॥
सौभाग्याधिकचित्तश्च महामायी मदोत्कटः ।
ताटकारिः सुरत्राता मारीचक्षोभकारकः ॥ 34 ॥
विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः ।
लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥ 35 ॥
सीतानन्दकरो रामो वीरो वारिधिबन्धनः ।
खरदूषणसंहारी साकेतपुरवासवान् ॥ 36 ॥
चन्द्रावलिपतिः कूलः केशिकंसवधोऽमरः ।
माधवो मधुहा माध्वी माध्वीको माधवी विभुः ॥ 37 ॥
मुञ्जाटवीगाहमानो धेनुकारिर्दशात्मजः ।
वंशीवटविहारी च गोवर्धनवनाश्रयः ॥ 38 ॥
तथा तालवनोद्देशी भाण्डीरवनशङ्करः ।
तृणावर्तकृपाकारी वृषभानुसुतापतिः ॥ 39 ॥
राधाप्राणसमो राधावदनाब्जमधूत्कटः ।
गोपीरञ्जनदैवज्ञः लीलाकमलपूजितः ॥ 40 ॥
क्रीडाकमलसन्दोहो गोपिकाप्रीतिरञ्जनः ।
रञ्जको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥ 41 ॥
कामः कामारिभक्तश्च पुराणपुरुषः कविः ।
नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥ 42 ॥
अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः ।
ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥ 43 ॥
पद्मनाभः सुरज्येष्ठो ब्रह्मा रुद्रोऽहिभूषितः ।
गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रहिः ॥ 44 ॥
गणाश्रयो गणाध्यक्षो क्रोडीकृतजगत्त्रयः ।
यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी ॥ 45 ॥
भ्रमरः कुन्तली कुन्तीसुतरक्षी महामनाः ।
यमुनावरदाता च काश्यपस्य वरप्रदः ॥ 46 ॥
शङ्खचूडवधोद्दामो गोपीरक्षणतत्परः ।
पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥ 47 ॥
फाल्गुणः फल्गुनसखो विराधवधकारकः ।
रुक्मिणीप्राणनाथश्च सत्यभामाप्रियङ्करः ॥ 48 ॥
कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः ।
अङ्कुशो भूसुरो भावो भामको भ्रामको हरिः ॥ 49 ॥
सरलः शाश्वतो वीरो यदुवंशशिवात्मकः ।
प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥ 50 ॥
महाधनो महावीरो वनमालाविभूषणः ।
तुलसीदामशोभाढ्यो जालन्धरविनाशनः ॥ 51 ॥
सूरः सूर्यो मृकण्डुश्च भास्वरो विश्वपूजितः ।
रविस्तमोहा वह्निश्च बाडबो बडबानलः ॥ 52 ॥
दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः ।
गोपीनाथो महीनाथो बृन्दानाथोऽवरोधकः ॥ 53 ॥
प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोमतिः ।
गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥ 54 ॥
कावेरी नर्मदा तापी गण्डकी सरयू रजः ।
राजसस्तामसस्सत्त्वी सर्वाङ्गी सर्वलोचनः ॥ 55 ॥
सुधामयोऽमृतमयो योगिनां वल्लभः शिवः ।
बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥ 56 ॥
वंशी वंशधरो लोको विलोको मोहनाशनः ।
रवरावो रवो रावो वलो वालो वलाहकः ॥ 57 ॥
शिवो रुद्रो नलो नीलो लाङ्गली लाङ्गलाश्रयः ।
पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥ 58 ॥
मोहिनीमोहनो मायी महामायो महासुखी ।
वृषो वृषाकपिः कालः कालीदमनकारकः ॥ 59 ॥
कुब्जाभाग्यप्रदो वीरो रजकक्षयकारकः ।
कोमलो वारुणी राजा जलजो जलधारकः ॥ 60 ॥
हारकः सर्वपापघ्नः परमेष्ठी पितामहः ।
खड्गधारी कृपाकारी राधारमणसुन्दरः ॥ 61 ॥
द्वादशारण्यसम्भोगी शेषनागफणालयः ।
कामः श्यामः सुखश्रीदः श्रीपतिः श्रीनिधिः कृतिः ॥ 62 ॥
हरिर्हरो नरो नारो नरोत्तम इषुप्रियः ।
गोपालचित्तहर्ता च कर्ता संसारतारकः ॥ 63 ॥
आदिदेवो महादेवो गौरीगुरुरनाश्रयः ।
साधुर्मधुर्विधुर्धाता त्राताऽक्रूरपरायणः ॥ 64 ॥
रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः ।
वनं वनी वनाध्यक्षो महावन्द्यो महामुनिः ॥ 65 ॥
स्यमन्तकमणिप्राज्ञः विज्ञो विघ्नविघातकः ।
गोवर्धनो वर्धनीयो वर्धनी वर्धनप्रियः ॥ 66 ॥
वार्धन्यो वर्धनो वर्धी वर्धिष्णस्तु सुखप्रियः ।
वर्धितो वर्धको वृद्धो बृन्दारकजनप्रियः ॥ 67 ॥
गोपालरमणीभर्ता साम्बकुष्ठविनाशनः ।
रुक्मिणीहरणप्रेमा प्रेमी चन्द्रावलीपतिः ॥ 68 ॥
श्रीकर्ता विश्वभर्ता च नारायण नरो बली ।
गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥ 69 ॥
व्यासो नारायणो दिव्यो भव्यो भावुकधारकः ।
श्वःश्रेयसं शिवं भद्रं भावुकं भवुकं शुभम् ॥ 70 ॥
शुभात्मकः शुभः शास्ता प्रशस्तो मेघनादहा ।
ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥ 71 ॥
कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः ।
कृष्णः कामी सदा कृष्णः समस्तप्रियकारकः ॥ 72 ॥
नन्दो नन्दी महानन्दी मादी मादनकः किली ।
मीली हिली गिली गोली गोलो गोलालयो गुली ॥ 73 ॥
गुग्गुली मारकी शाखी वटः पिप्पलकः कृती ।
म्लेच्छहा कालहर्ता च यशोदा यश एव च ॥ 74 ॥
अच्युतः केशवो विष्णुः हरिः सत्यो जनार्दनः ।
हंसो नारायणो नीलो लीनो भक्तिपरायणः ॥ 75 ॥
जानकीवल्लभो रामो विरामो विषनाशनः ।
सिंहभानुर्महाभानु-र्वीरभानुर्महोदधिः ॥ 76 ॥
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।
गोकुलानन्दकारी च प्रतिज्ञापरिपालकः ॥ 77 ॥
सदारामः कृपारामो महारामो धनुर्धरः ।
पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥ 78 ॥
कमलाश्वतरो रामो रामायणप्रवर्तकः ।
द्यौर्दिवो दिवसो दिव्यो भव्यो भागी भयापहः ॥ 79 ॥
पार्वतीभाग्यसहितो भर्ता लक्ष्मीसहायवान् । [विलासवान्]
विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥ 80 ॥
सुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तकः ।
यमो यमारिर्यमनो यमी यामविघातकः ॥ 81 ॥
वंशुली पांशुली पांसुः पाण्डुरर्जुनवल्लभः ।
ललिता चन्द्रिकामाला माली मालाम्बुजाश्रयः ॥ 82 ॥
अम्बुजाक्षो महायक्षो दक्षश्चिन्तामणिप्रभुः ।
मणिर्दिनमणिश्चैव केदारो बदरीश्रयः ॥ 83 ॥
बदरीवनसम्प्रीतो व्यासः सत्यवतीसुतः ।
अमरारिनिहन्ता च सुधासिन्धुविधूदयः ॥ 84 ॥
चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः ।
श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥ 85 ॥
श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः ।
वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥ 86 ॥
नारायणः परं धाम देवदेवो महेश्वरः ।
चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥ 87 ॥
भगवान् सर्वभूतेशो गोपालः सर्वपालकः ।
अनन्तो निर्गुणो नित्यो निर्विकल्पो निरञ्जनः ॥ 88 ॥
निराधारो निराकारो निराभासो निराश्रयः ।
पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥ 89 ॥
क्षणावनिः सार्वभौमो वैकुण्ठो भक्तवत्सलः ।
विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥ 90 ॥
देवकीगर्भसम्भूतो यशोदावत्सलो हरिः ।
शिवः सङ्कर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥ 91 ॥
अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः ।
निर्वाणनायको नित्यो नीलजीमूतसन्निभः ॥ 92 ॥
कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः ।
हृषीकेशः पीतवासा वसुदेवप्रियात्मजः ॥ 93 ॥
नन्दगोपकुमारार्यो नवनीताशनो विभुः ।
पुराणः पुरुषश्रेष्ठः शङ्खपाणिः सुविक्रमः ॥ 94 ॥
अनिरुद्धश्चक्रधरः शार्ङ्गपाणिश्चतुर्भुजः ।
गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः ॥ 95 ॥
बृन्दावनचरः शौरिर्वेणुवाद्यविशारदः ।
तृणावर्तान्तको भीमसाहसो बहुविक्रमः ॥ 96 ॥
शकटासुरसंहारी बकासुरविनाशनः ।
धेनुकासुरसंहारी पूतनारिर्नृकेसरी ॥ 97 ॥
पितामहो गुरुस्साक्षी प्रत्यगात्मा सदाशिवः ।
अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्धनः ॥ 98 ॥
धन्यो मान्यो भवो भावो धीरः शान्तो जगद्गुरुः ।
अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवसंस्तुतः ॥ 99 ॥
क्षीराब्धिशयनो धाता लक्ष्मीवान् लक्ष्मणाग्रजः ।
धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥ 100 ॥
लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः ।
कोटिमन्मथसौन्दर्यो जगन्मोहनविग्रहः ॥ 101 ॥
मन्दस्मिततनुर्गोपगोपिकापरिवेष्टितः ।
फुल्लारविन्दनयनश्चाणूरान्ध्रनिषूदनः ॥ 102 ॥
इन्दीवरदलश्यामो बर्हिबर्हावतंसकः ।
मुरलीनिनदाह्लादो दिव्यमालाम्बरावृतः ॥ 103 ॥
सुकपोलयुगः सुभ्रूयुगलः सुललाटकम् ।
कम्बुग्रीवो विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥ 104 ॥
पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः ।
कलङ्करहितः शुद्धो दुष्टशत्रुनिबर्हणः ॥ 105 ॥
किरीटकुण्डलधरः कटकाङ्गदमण्डितः ।
मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥ 106 ॥
मञ्जीररञ्जितपदः सर्वाभरणभूषितः ।
विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥ 107 ॥
गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः ।
समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥ 108 ॥
यमुनातीरसञ्चारी राधामन्मथवैभवः ।
गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥ 109 ॥
शृङ्गारमूर्तिः श्रीधामा तारको मूलकारणम् ।
सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥ 110 ॥
नरकासुरसंहारी मुरारिर्वैरिमर्दनः ।
आदितेयप्रियो दैत्यभीकरो यदुशेखरः ॥ 111 ॥
जरासन्धकुलध्वंसी कंसारातिः सुविक्रमः ।
पुण्यश्लोकः कीर्तनीयो यादवेन्द्रो जगन्नुतः ॥ 112 ॥
रुक्मिणीरमणः सत्यभामाजाम्बवतीप्रियः ।
मित्रविन्दानाग्नजितीलक्ष्मणासमुपासितः ॥ 113 ॥
सुधाकरकुले जातोऽनन्तः प्रबलविक्रमः ।
सर्वसौभाग्यसम्पन्नो द्वारकापट्टणस्थितः ॥ 114 ॥
भद्रासूर्यसुतानाथो लीलामानुषविग्रहः ।
सहस्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥ 115 ॥
वेदान्तवेद्यः संवेद्यो वैद्यो ब्रह्माण्डनायकः ।
गोवर्धनधरो नाथः सर्वजीवदयापरः ॥ 116 ॥
मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः ।
सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥ 117 ॥
षड्गुणैश्वर्यसम्पन्नः पूर्णकामो धुरन्धरः ।
महानुभावः कैवल्यदायको लोकनायकः ॥ 118 ॥
आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः ।
असमानः समस्तात्मा शरणागतवत्सलः ॥ 119 ॥
उत्पत्तिस्थितिसंहारकारणं सर्वकारणम् ।
गम्भीरः सर्वभावज्ञः सच्चिदानन्दविग्रहः ॥ 120 ॥
विष्वक्सेनः सत्यसन्धः सत्यवाक् सत्यविक्रमः ।
सत्यव्रतः सत्यरतः सत्यधर्मपरायणः ॥ 121 ॥
आपन्नार्तिप्रशमनः द्रौपदीमानरक्षकः ।
कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥ 122 ॥
भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः ।
दमघोषसुतद्वेषी बाणबाहुविखण्डनः ॥ 123 ॥
भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः ।
कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः ॥ 124 ॥
नारसिंहो महावीरः स्तम्भजातो महाबलः ।
प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥ 125 ॥
उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः ।
गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः ॥ 126 ॥
शेषपर्यङ्कशयनो वैनतेयरथो जयी ।
अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः ॥ 127 ॥
योगीश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः ।
योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥ 128 ॥
नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः ।
सुषुम्नामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥ 129 ॥
देहेन्द्रियमनःप्राणसाक्षी चेतःप्रसादकः ।
सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥ 130 ॥
तत्त्वत्रयात्मकोऽव्यक्तः कुण्डली समुपाश्रितः ।
ब्रह्मण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥ 131 ॥
श्रीनिवासः सदानन्दो विश्वमूर्तिर्महाप्रभुः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ 132 ॥
समस्तभुवनाधारः समस्तप्राणरक्षकः ।
समस्तस्सर्वभावज्ञो गोपिकाप्राणवल्लभः ॥ 133 ॥
नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमङ्गलम् ।
व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥ 134 ॥
पूर्णानन्दघनीभूतो गोपवेषधरो हरिः ।
कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥ 135 ॥
गोपाङ्गनावृतोऽनन्तो बृन्दावनसमाश्रयः ।
वेणुनादरतः श्रेष्ठो देवानां हितकारकः ॥ 136 ॥
जलक्रीडासमासक्तो नवनीतस्य तस्करः ।
गोपालकामिनीजारश्चोरजारशिखामणिः ॥ 137 ॥
परञ्ज्योतिः पराकाशः परावासः परिस्फुटः ।
अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥ 138 ॥
सप्तकोटिमहामन्त्रशेखरो देवशेखरः ।
विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥ 139 ॥
भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः ।
भक्तदारिद्र्यशमनो भक्तानां प्रीतिदायकः ॥ 140 ॥
भक्ताधीनमनाः पूज्यो भक्तलोकशिवङ्करः ।
भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तकः ॥ 141 ॥
अपारकरुणासिन्धुर्भगवान् भक्ततत्परः ॥ 142 ॥
[इति श्रीराधिकानाथ नाम्नां साहस्रमीरितम् । ]
स्मरणात्पापराशीनां खण्डनं मृत्युनाशनम् ॥ 1 ॥
वैष्णवानां प्रियकरं महादारिद्र्यनाशनम् ।
ब्रह्महत्यासुरापानं परस्त्रीगमनं तथा ॥ 2 ॥
परद्रव्यापहरणं परद्वेषसमन्वितम् ।
मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥ 3 ॥
सहस्रनामपठनात्सर्वे नश्यन्ति तत्क्षणात् ।
महादारिद्र्ययुक्तो वै वैष्णवो विष्णुभक्तिमान् ॥ 4 ॥
कार्तिक्यां यः पठेद्रात्रौ शतमष्टोत्तरं क्रमात् ।
पीताम्बरधरो धीमान् सुगन्धी पुष्पचन्दनैः ॥ 5 ॥
पुस्तकं पूजयित्वा च नैवेद्यादिभिरेव च ।
राधाध्यानाङ्कितो धीरो वनमालाविभूषितः ॥ 6 ॥
शतमष्टोत्तरं देवि पठेन्नामसहस्रकम् ।
चैत्रे कृष्णे च शुक्ले च कुहूसङ्क्रान्तिवासरे ॥ 7 ॥
पठितव्यं प्रयत्नेन त्रैलोक्यं मोहयेत् क्षणात् ।
तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥ 8 ॥
रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे ।
ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥ 9 ॥
पठेन्नामसहस्रं च ततः सिद्धिः प्रजायते ।
महानिशायां सततं वैष्णवो यः पठेत्सदा ॥ 10 ॥
देशान्तरगता लक्ष्मीः समायाति न संशयः ।
त्रैलोक्ये तु महादेवि सुन्दर्यः काममोहिताः ॥ 11 ॥
मुग्धाः स्वयं समायान्ति वैष्णवं च भजन्ति ताः ।
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ 12 ॥
गर्भिणी जनयेत्पुत्रं कन्या विन्दति सत्पतिम् ।
राजानो वशतां यान्ति किं पुनः क्षुद्रमानुषाः ॥ 13 ॥
सहस्रनामश्रवणात् पठनात् पूजनात् प्रिये ।
धारणात् सर्वमाप्नोति वैष्णवो नात्र संशयः ॥ 14 ॥
वंशीवटे चान्यवटे तथा पिप्पलकेऽथ वा ।
कदम्बपादपतले श्रीगोपालस्य सन्निधौ ॥ 15 ॥
यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम् ।
कृष्णेनोक्तं राधिकायै तया प्रोक्तं पुरा शिवे ॥ 16 ॥
नारदाय मया प्रोक्तं नारदेन प्रकाशितम् ।
मया तव वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥ 17 ॥
गोपनीयं प्रयत्नेन न प्रकाश्यं कदाचन ।
शठाय पापिने चैव लम्पटाय विशेषतः ॥ 18 ॥
न दातव्यं न दातव्यं न दातव्यं कदाचन ।
देयं शान्ताय शिष्याय विष्णुभक्तिरताय च ॥ 19 ॥
गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च ।
अश्वमेधसहस्रस्य फलं पाठे भवेद्ध्रुवम् ॥ 20 ॥
मोहनं स्तम्भनं चैव मारणोच्चाटनादिकम् ।
यद्यद्वाञ्छति चित्तेन तत्तत्प्राप्नोति वैष्णवः ॥ 21 ॥
एकादश्यां नरः स्नात्वा सुगन्धद्रव्यतैलकैः ।
आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥ 22 ॥
ततः प्रारम्भकर्तासौ सर्वं प्राप्नोति मानवः ।
शतावृत्त सहस्रं च यः पठेद्वैष्णवो जनः ॥ 23 ॥
श्रीबृन्दावनचन्द्रस्य प्रसादात्सर्वमाप्नुयात् ।
यद्गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥ 24 ॥
न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित् ।
सर्पादिभूतयक्षाद्या नश्यन्ते नात्र संशयः ॥ 25 ॥
श्रीगोपालो महादेवि वसेत्तस्य गृहे सदा ।
यद्गृहे च सहस्रं च नाम्नां तिष्ठति पूजितम् ॥ 26 ॥
इति श्रीसम्मोहनतन्त्रे हरगौरीसंवादे श्रीगोपाल सहस्रनामस्तोत्रम् ।
Roman (IAST) Transliteration
kailāsaśikhare ramye gaurī papraccha śaṅkaram |
brahmāṇḍākhilanāthastvaṃ sṛṣṭisaṃhārakārakaḥ || 1 ||
tvameva pūjyase lokairbrahmaviṣṇusurādibhiḥ |
nityaṃ paṭhasi deveśa kasya stotraṃ maheśvara || 2 ||
āścaryamidamatyantaṃ jāyate mama śaṅkara |
tatprāṇeśa mahāprājña saṃśayaṃ chindhi me prabho || 3 ||
śrīmahādeva uvāca-
dhanyāsi kṛtapuṇyāsi pārvati prāṇavallabhe |
rahasyātirahasyaṃ ca yatpṛcchasi varānane || 4 ||
strīsvabhāvānmahādevi punastvaṃ paripṛcchasi |
gopanīyaṃ gopanīyaṃ gopanīyaṃ prayatnataḥ || 5 ||
datte ca siddhihāniḥ syāttasmādyatnena gopayet |
idaṃ rahasyaṃ paramaṃ puruṣārthapradāyakam || 6 ||
dhanaratnaughamāṇikyaṃ turaṅgaṃ ca gajādikam |
dadāti smaraṇādeva mahāmokṣapradāyakam || 7 ||
tatte'haṃ sampravakṣyāmi śṛṇuṣvāvahitā priye |
yo'sau nirañjano devaścitsvarūpī janārdanaḥ || 8 ||
saṃsārasāgarottārakāraṇāya nṛṇāṃ sadā |
śrīraṅgādikarūpeṇa trailokyaṃ vyāpya tiṣṭhati || 9 ||
tato lokā mahāmūḍhā viṣṇubhaktivivarjitāḥ |
niścayaṃ nādhigacchanti punarnārāyaṇo hariḥ || 10 ||
nirañjano nirākāro bhaktānāṃ prītikāmadaḥ |
bṛndāvanavihārāya gopālaṃ rūpamudvahan || 11 ||
muralīvādanādhārī rādhāyai prītimāvahan |
aṃśāṃśebhyaḥ samunmīlya pūrṇarūpakalāyutaḥ || 12 ||
śrīkṛṣṇacandro bhagavān nandagopavarodyataḥ |
dharaṇīrūpiṇī mātā yaśodā nandagehinī || 13 ||
dvābhyāṃ prayācito nātho devakyāṃ vasudevataḥ |
brahmaṇā'bhyarthito devo devairapi sureśvaraḥ || 14 ||
jāto'vanyāṃ ca mudito muralīvācanecchayā |
śriyā sārdhaṃ vacaḥ kṛtvā tato jāto mahītale || 15 ||
saṃsārasārasarvasvaṃ śyāmalaṃ mahadujjvalam |
etajjyotirahaṃ vandyaṃ cintayāmi sanātanam || 16 ||
gauratejo vinā yastu śyāmatejassamarcayet |
japedvā dhyāyate vāpi sa bhavetpātakī śive || 17 ||
sa brahmahā surāpī ca svarṇasteyī ca pañcamaḥ |
etairdoṣairvilipyeta tejobhedānmahīśvari || 18 ||
tasmājjyotirabhūddvedhā rādhāmādhavarūpakam |
tasmādidaṃ mahādevi gopālenaiva bhāṣitam || 19 ||
durvāsaso munermohe kārtikyāṃ rāsamaṇḍale |
tataḥ pṛṣṭavatī rādhā sandehaṃ bhedamātmanaḥ || 20 ||
nirañjanātsamutpannaṃ māyātītaṃ jaganmayam |
śrīkṛṣṇena tataḥ proktaṃ rādhāyai nāradāya ca || 21 ||
tato nāradatassarvaṃ viralā vaiṣṇavāstathā |
kalau jānanti deveśi gopanīyaṃ prayatnataḥ || 22 ||
śaṭhāya kṛpaṇāyātha ḍāmbhikāya sureśvari |
brahmahatyāmavāpnoti tasmādyatnena gopayet || 23 ||
oṃ asya śrīgopālasahasranāmastotra mahāmantrasya śrīnārada ṛṣiḥ, anuṣṭup chandaḥ, śrīgopālo devatā, kāmo bījaṃ, māyā śaktiḥ, candraḥ kīlakaṃ, śrīkṛṣṇacandra bhaktirūpaphalaprāptaye śrīgopālasahasranāmastotrajape viniyogaḥ |
oṃ aiṃ klīṃ bījaṃ, śrīṃ hrīṃ śaktiḥ, śrī bṛndāvananivāsaḥ kīlakaṃ, śrīrādhāpriyaṃ paraṃ brahmeti mantraḥ, dharmādi caturvidha puruṣārthasiddhyarthe jape viniyogaḥ |
nyāsaḥ |
oṃ nārada ṛṣaye namaḥ śirasi |
anuṣṭup chandase namaḥ mukhe |
śrīgopāladevatāyai namaḥ hṛdaye |
klīṃ kīlakāya namaḥ nābhau |
hrīṃ śaktaye namaḥ guhye |
śrīṃ kīlakāya namaḥ phālayoḥ |
oṃ klīṃ kṛṣṇāya govindāya gopījanavallabhāya svāhā iti mūlamantraḥ |
karanyāsaḥ |
oṃ klāṃ aṅguṣṭhābhyāṃ namaḥ |
oṃ klīṃ tarjanībhyāṃ namaḥ |
oṃ klūṃ madhyamābhyāṃ namaḥ |
oṃ klaiṃ anāmikābhyāṃ namaḥ |
oṃ klauṃ kaniṣṭhikābhyāṃ namaḥ |
oṃ klaḥ karatalakarapṛṣṭhābhyāṃ namaḥ |
hṛdayādinyāsaḥ |
oṃ klāṃ hṛdayāya namaḥ |
oṃ klīṃ śirase svāhā |
oṃ klūṃ śikhāyai vaṣaṭ |
oṃ klaiṃ kavacāya hum |
oṃ klauṃ netratrayāya vauṣaṭ |
oṃ klaḥ astrāya phaṭ |
mūlamantranyāsaḥ |
klīṃ aṅguṣṭhābhyāṃ namaḥ |
kṛṣṇāya tarjanībhyāṃ namaḥ |
govindāya madhyamābhyāṃ namaḥ |
gopījana anāmikābhyāṃ namaḥ |
vallabhāya kaniṣṭhikābhyāṃ namaḥ |
svāhā karatalakarapṛṣṭhābhyāṃ namaḥ |
klīṃ hṛdayāya namaḥ |
kṛṣṇāya śirase svāhā |
govindāya śikhāyai vaṣaṭ |
gopījana kavacāya hum |
vallabhāya netratrayāya vauṣaṭ |
svāhā astrāya phaṭ |
dhyānam |
phullendīvarakāntiminduvadanaṃ barhāvataṃsapriyaṃ
śrīvatsāṅkamudārakaustubhadharaṃ pītāmbaraṃ sundaram |
gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ
govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje || 1 ||
kastūrītilakaṃ lalāṭaphalake vakṣassthale kaustubhaṃ
nāsāgre varamauktikaṃ karatale veṇuṃ kare kaṅkaṇam |
sarvāṅge haricandanaṃ ca kalayan kaṇṭhe ca muktāvaliṃ
gopastrīpariveṣṭito vijayate gopālacūḍāmaṇiḥ || 2 ||
oṃ klīṃ devaḥ kāmadevaḥ kāmabījaśiromaṇiḥ |
śrīgopālo mahīpālo vedavedāṅgapāragaḥ || 1 ||
kṛṣṇaḥ kamalapatrākṣaḥ puṇḍarīkaḥ sanātanaḥ |
gopatirbhūpatiḥ śāstā prahartā viśvatomukhaḥ || 2 ||
ādikartā mahākartā mahākālaḥ pratāpavān |
jagajjīvo jagaddhātā jagadbhartā jagadvasuḥ || 3 ||
matsyo bhīmaḥ kuhūbhartā hartā vārāhamūrtimān |
nārāyaṇo hṛṣīkeśo govindo garuḍadhvajaḥ || 4 ||
gokuleśo mahācandraḥ śarvarīpriyakārakaḥ |
kamalāmukhalolākṣaḥ puṇḍarīkaḥ śubhāvahaḥ || 5 ||
durvāsāḥ kapilo bhaumaḥ sindhusāgarasaṅgamaḥ |
govindo gopatirgotraḥ kālindīpremapūrakaḥ || 6 ||
gopasvāmī gokulendraḥ govardhanavarapradaḥ |
nandādigokulatrātā dātā dāridryabhañjanaḥ || 7 ||
sarvamaṅgaladātā ca sarvakāmavarapradaḥ |
ādikartā mahībhartā sarvasāgarasindhujaḥ || 8 ||
gajagāmī gajoddhārī kāmī kāmakalānidhiḥ |
kalaṅkarahitaścandro bimbāsyo bimbasattamaḥ || 9 ||
mālākāraḥ kṛpākāraḥ kokilasvarabhūṣaṇaḥ |
rāmo nīlāmbaro dehī halī dvividamardanaḥ || 10 ||
sahasrākṣapurībhettā mahāmārīvināśanaḥ |
śivaḥ śivatamo bhettā balārātiprapūjakaḥ || 11 ||
kumārīvaradāyī ca vareṇyo mīnaketanaḥ |
naro nārāyaṇo dhīro dharāpatirudāradhīḥ || 12 ||
śrīpatiḥ śrīnidhiḥ śrīmān māpatiḥ pratirājahā |
bṛndāpatiḥ kulaṃ grāmī dhāma brahmasanātanaḥ || 13 ||
revatīramaṇo rāmaḥ priyaścañcalalocanaḥ |
rāmāyaṇaśarīraśca rāmo rāmaḥ śriyaḥpatiḥ || 14 ||
śarvaraḥ śarvarī śarvaḥ sarvatra śubhadāyakaḥ |
rādhārādhayitārādhī rādhācittapramodakaḥ || 15 ||
rādhāratisukhopeto rādhāmohanatatparaḥ |
rādhāvaśīkaro rādhāhṛdayāmbhojaṣaṭpadaḥ || 16 ||
rādhāliṅganasammodo rādhānartanakautukaḥ |
rādhāsañjātasamprīto rādhākāmaphalapradaḥ || 17 ||
bṛndāpatiḥ kokanidhiḥ kokaśokavināśanaḥ |
candrāpatiścandrapatiścaṇḍakodaṇḍabhañjanaḥ || 18 ||
rāmo dāśarathī rāmo bhṛguvaṃśasamudbhavaḥ |
ātmārāmo jitakrodho moho mohāndhabhañjanaḥ || 19 ||
vṛṣabhānubhavo bhāvī kāśyapiḥ karuṇānidhiḥ |
kolāhalo halo hālī halī haladharapriyaḥ || 20 ||
rādhāmukhābjamārtāṇḍo bhāskaro ravijo vidhuḥ |
vidhirvidhātā varuṇo vāruṇo vāruṇīpriyaḥ || 21 ||
rohiṇīhṛdayānandī vasudevātmajo baliḥ |
nīlāmbaro rauhiṇeyo jarāsandhavadho'malaḥ || 22 ||
nāgo javāmbho virudo vīrahā varado balī |
gopado vijayī vidvān śipiviṣṭaḥ sanātanaḥ || 23 ||
paraśurāmavacogrāhī varagrāhī sṛgālahā |
damaghoṣopadeṣṭā ca rathagrāhī sudarśanaḥ || 24 ||
vīrapatnīyaśastrātā jarāvyādhivighātakaḥ |
dvārakāvāsatattvajño hutāśanavarapradaḥ || 25 ||
yamunāvegasaṃhārī nīlāmbaradharaḥ prabhuḥ |
vibhuḥ śarāsano dhanvī gaṇeśo gaṇanāyakaḥ || 26 ||
lakṣmaṇo lakṣaṇo lakṣyo rakṣovaṃśavināśakaḥ |
vāmano vāmanībhūto vamano vamanāruhaḥ || 27 ||
yaśodānandanaḥ kartā yamalārjunamuktidaḥ |
ulūkhalī mahāmāno dāmabaddhāhvayī śamī || 28 ||
bhaktānukārī bhagavān keśavo'caladhārakaḥ |
keśihā madhuhā mohī vṛṣāsuravighātakaḥ || 29 ||
aghāsuravighātī ca pūtanāmokṣadāyakaḥ |
kubjāvinodī bhagavān kaṃsamṛtyurmahāmukhī || 30 ||
aśvamedho vājapeyo gomedho naramedhavān |
kandarpakoṭilāvaṇyaścandrakoṭisuśītalaḥ || 31 ||
ravikoṭipratīkāśo vāyukoṭimahābalaḥ |
brahmā brahmāṇḍakartā ca kamalāvāñchitapradaḥ || 32 ||
kamalī kamalākṣaśca kamalāmukhalolupaḥ |
kamalāvratadhārī ca kamalābhaḥ purandaraḥ || 33 ||
saubhāgyādhikacittaśca mahāmāyī madotkaṭaḥ |
tāṭakāriḥ suratrātā mārīcakṣobhakārakaḥ || 34 ||
viśvāmitrapriyo dānto rāmo rājīvalocanaḥ |
laṅkādhipakuladhvaṃsī vibhīṣaṇavarapradaḥ || 35 ||
sītānandakaro rāmo vīro vāridhibandhanaḥ |
kharadūṣaṇasaṃhārī sāketapuravāsavān || 36 ||
candrāvalipatiḥ kūlaḥ keśikaṃsavadho'maraḥ |
mādhavo madhuhā mādhvī mādhvīko mādhavī vibhuḥ || 37 ||
muñjāṭavīgāhamāno dhenukārirdaśātmajaḥ |
vaṃśīvaṭavihārī ca govardhanavanāśrayaḥ || 38 ||
tathā tālavanoddeśī bhāṇḍīravanaśaṅkaraḥ |
tṛṇāvartakṛpākārī vṛṣabhānusutāpatiḥ || 39 ||
rādhāprāṇasamo rādhāvadanābjamadhūtkaṭaḥ |
gopīrañjanadaivajñaḥ līlākamalapūjitaḥ || 40 ||
krīḍākamalasandoho gopikāprītirañjanaḥ |
rañjako rañjano raṅgo raṅgī raṅgamahīruhaḥ || 41 ||
kāmaḥ kāmāribhaktaśca purāṇapuruṣaḥ kaviḥ |
nārado devalo bhīmo bālo bālamukhāmbujaḥ || 42 ||
ambujo brahmasākṣī ca yogī dattavaro muniḥ |
ṛṣabhaḥ parvato grāmo nadīpavanavallabhaḥ || 43 ||
padmanābhaḥ surajyeṣṭho brahmā rudro'hibhūṣitaḥ |
gaṇānāṃ trāṇakartā ca gaṇeśo grahilo grahiḥ || 44 ||
gaṇāśrayo gaṇādhyakṣo kroḍīkṛtajagattrayaḥ |
yādavendro dvārakendro mathurāvallabho dhurī || 45 ||
bhramaraḥ kuntalī kuntīsutarakṣī mahāmanāḥ |
yamunāvaradātā ca kāśyapasya varapradaḥ || 46 ||
śaṅkhacūḍavadhoddāmo gopīrakṣaṇatatparaḥ |
pāñcajanyakaro rāmī trirāmī vanajo jayaḥ || 47 ||
phālguṇaḥ phalgunasakho virādhavadhakārakaḥ |
rukmiṇīprāṇanāthaśca satyabhāmāpriyaṅkaraḥ || 48 ||
kalpavṛkṣo mahāvṛkṣo dānavṛkṣo mahāphalaḥ |
aṅkuśo bhūsuro bhāvo bhāmako bhrāmako hariḥ || 49 ||
saralaḥ śāśvato vīro yaduvaṃśaśivātmakaḥ |
pradyumno balakartā ca prahartā daityahā prabhuḥ || 50 ||
mahādhano mahāvīro vanamālāvibhūṣaṇaḥ |
tulasīdāmaśobhāḍhyo jālandharavināśanaḥ || 51 ||
sūraḥ sūryo mṛkaṇḍuśca bhāsvaro viśvapūjitaḥ |
ravistamohā vahniśca bāḍabo baḍabānalaḥ || 52 ||
daityadarpavināśī ca garuḍo garuḍāgrajaḥ |
gopīnātho mahīnātho bṛndānātho'varodhakaḥ || 53 ||
prapañcī pañcarūpaśca latāgulmaśca gomatiḥ |
gaṅgā ca yamunārūpo godā vetravatī tathā || 54 ||
kāverī narmadā tāpī gaṇḍakī sarayū rajaḥ |
rājasastāmasassattvī sarvāṅgī sarvalocanaḥ || 55 ||
sudhāmayo'mṛtamayo yogināṃ vallabhaḥ śivaḥ |
buddho buddhimatāṃ śreṣṭho viṣṇurjiṣṇuḥ śacīpatiḥ || 56 ||
vaṃśī vaṃśadharo loko viloko mohanāśanaḥ |
ravarāvo ravo rāvo valo vālo valāhakaḥ || 57 ||
śivo rudro nalo nīlo lāṅgalī lāṅgalāśrayaḥ |
pāradaḥ pāvano haṃso haṃsārūḍho jagatpatiḥ || 58 ||
mohinīmohano māyī mahāmāyo mahāsukhī |
vṛṣo vṛṣākapiḥ kālaḥ kālīdamanakārakaḥ || 59 ||
kubjābhāgyaprado vīro rajakakṣayakārakaḥ |
komalo vāruṇī rājā jalajo jaladhārakaḥ || 60 ||
hārakaḥ sarvapāpaghnaḥ parameṣṭhī pitāmahaḥ |
khaḍgadhārī kṛpākārī rādhāramaṇasundaraḥ || 61 ||
dvādaśāraṇyasambhogī śeṣanāgaphaṇālayaḥ |
kāmaḥ śyāmaḥ sukhaśrīdaḥ śrīpatiḥ śrīnidhiḥ kṛtiḥ || 62 ||
harirharo naro nāro narottama iṣupriyaḥ |
gopālacittahartā ca kartā saṃsāratārakaḥ || 63 ||
ādidevo mahādevo gaurīgururanāśrayaḥ |
sādhurmadhurvidhurdhātā trātā'krūraparāyaṇaḥ || 64 ||
rolambī ca hayagrīvo vānarārirvanāśrayaḥ |
vanaṃ vanī vanādhyakṣo mahāvandyo mahāmuniḥ || 65 ||
syamantakamaṇiprājñaḥ vijño vighnavighātakaḥ |
govardhano vardhanīyo vardhanī vardhanapriyaḥ || 66 ||
vārdhanyo vardhano vardhī vardhiṣṇastu sukhapriyaḥ |
vardhito vardhako vṛddho bṛndārakajanapriyaḥ || 67 ||
gopālaramaṇībhartā sāmbakuṣṭhavināśanaḥ |
rukmiṇīharaṇapremā premī candrāvalīpatiḥ || 68 ||
śrīkartā viśvabhartā ca nārāyaṇa naro balī |
gaṇo gaṇapatiścaiva dattātreyo mahāmuniḥ || 69 ||
vyāso nārāyaṇo divyo bhavyo bhāvukadhārakaḥ |
śvaḥśreyasaṃ śivaṃ bhadraṃ bhāvukaṃ bhavukaṃ śubham || 70 ||
śubhātmakaḥ śubhaḥ śāstā praśasto meghanādahā |
brahmaṇyadevo dīnānāmuddhārakaraṇakṣamaḥ || 71 ||
kṛṣṇaḥ kamalapatrākṣaḥ kṛṣṇaḥ kamalalocanaḥ |
kṛṣṇaḥ kāmī sadā kṛṣṇaḥ samastapriyakārakaḥ || 72 ||
nando nandī mahānandī mādī mādanakaḥ kilī |
mīlī hilī gilī golī golo golālayo gulī || 73 ||
guggulī mārakī śākhī vaṭaḥ pippalakaḥ kṛtī |
mlecchahā kālahartā ca yaśodā yaśa eva ca || 74 ||
acyutaḥ keśavo viṣṇuḥ hariḥ satyo janārdanaḥ |
haṃso nārāyaṇo nīlo līno bhaktiparāyaṇaḥ || 75 ||
jānakīvallabho rāmo virāmo viṣanāśanaḥ |
siṃhabhānurmahābhānu-rvīrabhānurmahodadhiḥ || 76 ||
samudro'bdhirakūpāraḥ pārāvāraḥ saritpatiḥ |
gokulānandakārī ca pratijñāparipālakaḥ || 77 ||
sadārāmaḥ kṛpārāmo mahārāmo dhanurdharaḥ |
parvataḥ parvatākāro gayo geyo dvijapriyaḥ || 78 ||
kamalāśvataro rāmo rāmāyaṇapravartakaḥ |
dyaurdivo divaso divyo bhavyo bhāgī bhayāpahaḥ || 79 ||
pārvatībhāgyasahito bhartā lakṣmīsahāyavān | [vilāsavān]
vilāsī sāhasī sarvī garvī garvitalocanaḥ || 80 ||
surārirlokadharmajño jīvano jīvanāntakaḥ |
yamo yamāriryamano yamī yāmavighātakaḥ || 81 ||
vaṃśulī pāṃśulī pāṃsuḥ pāṇḍurarjunavallabhaḥ |
lalitā candrikāmālā mālī mālāmbujāśrayaḥ || 82 ||
ambujākṣo mahāyakṣo dakṣaścintāmaṇiprabhuḥ |
maṇirdinamaṇiścaiva kedāro badarīśrayaḥ || 83 ||
badarīvanasamprīto vyāsaḥ satyavatīsutaḥ |
amarārinihantā ca sudhāsindhuvidhūdayaḥ || 84 ||
candro raviḥ śivaḥ śūlī cakrī caiva gadādharaḥ |
śrīkartā śrīpatiḥ śrīdaḥ śrīdevo devakīsutaḥ || 85 ||
śrīpatiḥ puṇḍarīkākṣaḥ padmanābho jagatpatiḥ |
vāsudevo'prameyātmā keśavo garuḍadhvajaḥ || 86 ||
nārāyaṇaḥ paraṃ dhāma devadevo maheśvaraḥ |
cakrapāṇiḥ kalāpūrṇo vedavedyo dayānidhiḥ || 87 ||
bhagavān sarvabhūteśo gopālaḥ sarvapālakaḥ |
ananto nirguṇo nityo nirvikalpo nirañjanaḥ || 88 ||
nirādhāro nirākāro nirābhāso nirāśrayaḥ |
puruṣaḥ praṇavātīto mukundaḥ parameśvaraḥ || 89 ||
kṣaṇāvaniḥ sārvabhaumo vaikuṇṭho bhaktavatsalaḥ |
viṣṇurdāmodaraḥ kṛṣṇo mādhavo mathurāpatiḥ || 90 ||
devakīgarbhasambhūto yaśodāvatsalo hariḥ |
śivaḥ saṅkarṣaṇaḥ śambhurbhūtanātho divaspatiḥ || 91 ||
avyayaḥ sarvadharmajño nirmalo nirupadravaḥ |
nirvāṇanāyako nityo nīlajīmūtasannibhaḥ || 92 ||
kalākṣayaśca sarvajñaḥ kamalārūpatatparaḥ |
hṛṣīkeśaḥ pītavāsā vasudevapriyātmajaḥ || 93 ||
nandagopakumārāryo navanītāśano vibhuḥ |
purāṇaḥ puruṣaśreṣṭhaḥ śaṅkhapāṇiḥ suvikramaḥ || 94 ||
aniruddhaścakradharaḥ śārṅgapāṇiścaturbhujaḥ |
gadādharaḥ surārtighno govindo nandakāyudhaḥ || 95 ||
bṛndāvanacaraḥ śaurirveṇuvādyaviśāradaḥ |
tṛṇāvartāntako bhīmasāhaso bahuvikramaḥ || 96 ||
śakaṭāsurasaṃhārī bakāsuravināśanaḥ |
dhenukāsurasaṃhārī pūtanārirnṛkesarī || 97 ||
pitāmaho gurussākṣī pratyagātmā sadāśivaḥ |
aprameyaḥ prabhuḥ prājño'pratarkyaḥ svapnavardhanaḥ || 98 ||
dhanyo mānyo bhavo bhāvo dhīraḥ śānto jagadguruḥ |
antaryāmīśvaro divyo daivajño devasaṃstutaḥ || 99 ||
kṣīrābdhiśayano dhātā lakṣmīvān lakṣmaṇāgrajaḥ |
dhātrīpatirameyātmā candraśekharapūjitaḥ || 100 ||
lokasākṣī jagaccakṣuḥ puṇyacāritrakīrtanaḥ |
koṭimanmathasaundaryo jaganmohanavigrahaḥ || 101 ||
mandasmitatanurgopagopikāpariveṣṭitaḥ |
phullāravindanayanaścāṇūrāndhraniṣūdanaḥ || 102 ||
indīvaradalaśyāmo barhibarhāvataṃsakaḥ |
muralīninadāhlādo divyamālāmbarāvṛtaḥ || 103 ||
sukapolayugaḥ subhrūyugalaḥ sulalāṭakam |
kambugrīvo viśālākṣo lakṣmīvāñchubhalakṣaṇaḥ || 104 ||
pīnavakṣāścaturbāhuścaturmūrtistrivikramaḥ |
kalaṅkarahitaḥ śuddho duṣṭaśatrunibarhaṇaḥ || 105 ||
kirīṭakuṇḍaladharaḥ kaṭakāṅgadamaṇḍitaḥ |
mudrikābharaṇopetaḥ kaṭisūtravirājitaḥ || 106 ||
mañjīrarañjitapadaḥ sarvābharaṇabhūṣitaḥ |
vinyastapādayugalo divyamaṅgalavigrahaḥ || 107 ||
gopikānayanānandaḥ pūrṇacandranibhānanaḥ |
samastajagadānandaḥ sundaro lokanandanaḥ || 108 ||
yamunātīrasañcārī rādhāmanmathavaibhavaḥ |
gopanārīpriyo dānto gopīvastrāpahārakaḥ || 109 ||
śṛṅgāramūrtiḥ śrīdhāmā tārako mūlakāraṇam |
sṛṣṭisaṃrakṣaṇopāyaḥ krūrāsuravibhañjanaḥ || 110 ||
narakāsurasaṃhārī murārirvairimardanaḥ |
āditeyapriyo daityabhīkaro yaduśekharaḥ || 111 ||
jarāsandhakuladhvaṃsī kaṃsārātiḥ suvikramaḥ |
puṇyaślokaḥ kīrtanīyo yādavendro jagannutaḥ || 112 ||
rukmiṇīramaṇaḥ satyabhāmājāmbavatīpriyaḥ |
mitravindānāgnajitīlakṣmaṇāsamupāsitaḥ || 113 ||
sudhākarakule jāto'nantaḥ prabalavikramaḥ |
sarvasaubhāgyasampanno dvārakāpaṭṭaṇasthitaḥ || 114 ||
bhadrāsūryasutānātho līlāmānuṣavigrahaḥ |
sahasraṣoḍaśastrīśo bhogamokṣaikadāyakaḥ || 115 ||
vedāntavedyaḥ saṃvedyo vaidyo brahmāṇḍanāyakaḥ |
govardhanadharo nāthaḥ sarvajīvadayāparaḥ || 116 ||
mūrtimān sarvabhūtātmā ārtatrāṇaparāyaṇaḥ |
sarvajñaḥ sarvasulabhaḥ sarvaśāstraviśāradaḥ || 117 ||
ṣaḍguṇaiśvaryasampannaḥ pūrṇakāmo dhurandharaḥ |
mahānubhāvaḥ kaivalyadāyako lokanāyakaḥ || 118 ||
ādimadhyāntarahitaḥ śuddhasāttvikavigrahaḥ |
asamānaḥ samastātmā śaraṇāgatavatsalaḥ || 119 ||
utpattisthitisaṃhārakāraṇaṃ sarvakāraṇam |
gambhīraḥ sarvabhāvajñaḥ saccidānandavigrahaḥ || 120 ||
viṣvaksenaḥ satyasandhaḥ satyavāk satyavikramaḥ |
satyavrataḥ satyarataḥ satyadharmaparāyaṇaḥ || 121 ||
āpannārtipraśamanaḥ draupadīmānarakṣakaḥ |
kandarpajanakaḥ prājño jagannāṭakavaibhavaḥ || 122 ||
bhaktivaśyo guṇātītaḥ sarvaiśvaryapradāyakaḥ |
damaghoṣasutadveṣī bāṇabāhuvikhaṇḍanaḥ || 123 ||
bhīṣmabhaktiprado divyaḥ kauravānvayanāśanaḥ |
kaunteyapriyabandhuśca pārthasyandanasārathiḥ || 124 ||
nārasiṃho mahāvīraḥ stambhajāto mahābalaḥ |
prahlādavaradaḥ satyo devapūjyo'bhayaṅkaraḥ || 125 ||
upendra indrāvarajo vāmano balibandhanaḥ |
gajendravaradaḥ svāmī sarvadevanamaskṛtaḥ || 126 ||
śeṣaparyaṅkaśayano vainateyaratho jayī |
avyāhatabalaiśvaryasampannaḥ pūrṇamānasaḥ || 127 ||
yogīśvareśvaraḥ sākṣī kṣetrajño jñānadāyakaḥ |
yogihṛtpaṅkajāvāso yogamāyāsamanvitaḥ || 128 ||
nādabindukalātītaścaturvargaphalapradaḥ |
suṣumnāmārgasañcārī dehasyāntarasaṃsthitaḥ || 129 ||
dehendriyamanaḥprāṇasākṣī cetaḥprasādakaḥ |
sūkṣmaḥ sarvagato dehī jñānadarpaṇagocaraḥ || 130 ||
tattvatrayātmako'vyaktaḥ kuṇḍalī samupāśritaḥ |
brahmaṇyaḥ sarvadharmajñaḥ śānto dānto gataklamaḥ || 131 ||
śrīnivāsaḥ sadānando viśvamūrtirmahāprabhuḥ |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 132 ||
samastabhuvanādhāraḥ samastaprāṇarakṣakaḥ |
samastassarvabhāvajño gopikāprāṇavallabhaḥ || 133 ||
nityotsavo nityasaukhyo nityaśrīrnityamaṅgalam |
vyūhārcito jagannāthaḥ śrīvaikuṇṭhapurādhipaḥ || 134 ||
pūrṇānandaghanībhūto gopaveṣadharo hariḥ |
kalāpakusumaśyāmaḥ komalaḥ śāntavigrahaḥ || 135 ||
gopāṅganāvṛto'nanto bṛndāvanasamāśrayaḥ |
veṇunādarataḥ śreṣṭho devānāṃ hitakārakaḥ || 136 ||
jalakrīḍāsamāsakto navanītasya taskaraḥ |
gopālakāminījāraścorajāraśikhāmaṇiḥ || 137 ||
parañjyotiḥ parākāśaḥ parāvāsaḥ parisphuṭaḥ |
aṣṭādaśākṣaro mantro vyāpako lokapāvanaḥ || 138 ||
saptakoṭimahāmantraśekharo devaśekharaḥ |
vijñānajñānasandhānastejorāśirjagatpatiḥ || 139 ||
bhaktalokaprasannātmā bhaktamandāravigrahaḥ |
bhaktadāridryaśamano bhaktānāṃ prītidāyakaḥ || 140 ||
bhaktādhīnamanāḥ pūjyo bhaktalokaśivaṅkaraḥ |
bhaktābhīṣṭapradaḥ sarvabhaktāghaughanikṛntakaḥ || 141 ||
apārakaruṇāsindhurbhagavān bhaktatatparaḥ || 142 ||
[iti śrīrādhikānātha nāmnāṃ sāhasramīritam | ]
smaraṇātpāparāśīnāṃ khaṇḍanaṃ mṛtyunāśanam || 1 ||
vaiṣṇavānāṃ priyakaraṃ mahādāridryanāśanam |
brahmahatyāsurāpānaṃ parastrīgamanaṃ tathā || 2 ||
paradravyāpaharaṇaṃ paradveṣasamanvitam |
mānasaṃ vācikaṃ kāyaṃ yatpāpaṃ pāpasambhavam || 3 ||
sahasranāmapaṭhanātsarve naśyanti tatkṣaṇāt |
mahādāridryayukto vai vaiṣṇavo viṣṇubhaktimān || 4 ||
kārtikyāṃ yaḥ paṭhedrātrau śatamaṣṭottaraṃ kramāt |
pītāmbaradharo dhīmān sugandhī puṣpacandanaiḥ || 5 ||
pustakaṃ pūjayitvā ca naivedyādibhireva ca |
rādhādhyānāṅkito dhīro vanamālāvibhūṣitaḥ || 6 ||
śatamaṣṭottaraṃ devi paṭhennāmasahasrakam |
caitre kṛṣṇe ca śukle ca kuhūsaṅkrāntivāsare || 7 ||
paṭhitavyaṃ prayatnena trailokyaṃ mohayet kṣaṇāt |
tulasīmālayā yukto vaiṣṇavo bhaktitatparaḥ || 8 ||
ravivāre ca śukre ca dvādaśyāṃ śrāddhavāsare |
brāhmaṇaṃ pūjayitvā ca bhojayitvā vidhānataḥ || 9 ||
paṭhennāmasahasraṃ ca tataḥ siddhiḥ prajāyate |
mahāniśāyāṃ satataṃ vaiṣṇavo yaḥ paṭhetsadā || 10 ||
deśāntaragatā lakṣmīḥ samāyāti na saṃśayaḥ |
trailokye tu mahādevi sundaryaḥ kāmamohitāḥ || 11 ||
mugdhāḥ svayaṃ samāyānti vaiṣṇavaṃ ca bhajanti tāḥ |
rogī rogātpramucyeta baddho mucyeta bandhanāt || 12 ||
garbhiṇī janayetputraṃ kanyā vindati satpatim |
rājāno vaśatāṃ yānti kiṃ punaḥ kṣudramānuṣāḥ || 13 ||
sahasranāmaśravaṇāt paṭhanāt pūjanāt priye |
dhāraṇāt sarvamāpnoti vaiṣṇavo nātra saṃśayaḥ || 14 ||
vaṃśīvaṭe cānyavaṭe tathā pippalake'tha vā |
kadambapādapatale śrīgopālasya sannidhau || 15 ||
yaḥ paṭhedvaiṣṇavo nityaṃ sa yāti harimandiram |
kṛṣṇenoktaṃ rādhikāyai tayā proktaṃ purā śive || 16 ||
nāradāya mayā proktaṃ nāradena prakāśitam |
mayā tava varārohe proktametatsudurlabham || 17 ||
gopanīyaṃ prayatnena na prakāśyaṃ kadācana |
śaṭhāya pāpine caiva lampaṭāya viśeṣataḥ || 18 ||
na dātavyaṃ na dātavyaṃ na dātavyaṃ kadācana |
deyaṃ śāntāya śiṣyāya viṣṇubhaktiratāya ca || 19 ||
godānabrahmayajñādervājapeyaśatasya ca |
aśvamedhasahasrasya phalaṃ pāṭhe bhaveddhruvam || 20 ||
mohanaṃ stambhanaṃ caiva māraṇoccāṭanādikam |
yadyadvāñchati cittena tattatprāpnoti vaiṣṇavaḥ || 21 ||
ekādaśyāṃ naraḥ snātvā sugandhadravyatailakaiḥ |
āhāraṃ brāhmaṇe dattvā dakṣiṇāṃ svarṇabhūṣaṇam || 22 ||
tataḥ prārambhakartāsau sarvaṃ prāpnoti mānavaḥ |
śatāvṛtta sahasraṃ ca yaḥ paṭhedvaiṣṇavo janaḥ || 23 ||
śrībṛndāvanacandrasya prasādātsarvamāpnuyāt |
yadgṛhe pustakaṃ devi pūjitaṃ caiva tiṣṭhati || 24 ||
na mārī na ca durbhikṣaṃ nopasargabhayaṃ kvacit |
sarpādibhūtayakṣādyā naśyante nātra saṃśayaḥ || 25 ||
śrīgopālo mahādevi vasettasya gṛhe sadā |
yadgṛhe ca sahasraṃ ca nāmnāṃ tiṣṭhati pūjitam || 26 ||
iti śrīsammohanatantre haragaurīsaṃvāde śrīgopāla sahasranāmastotram |
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.