अथ दशमोऽध्यायः ।
श्रीभगवान् उवाच ।
मया उदितेषु अवहितः स्वधर्मेषु मदाश्रयः ।
वर्णाश्रमकुल आचारं अकामात्मा समाचरेत् ॥ 1॥
अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् ।
गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् ॥ 2॥
सुप्तस्य विषयालोकः ध्यायतः वा मनोरथः ।
नानामकत्वात् विफलः तथा भेदात्मदीः गुणैः ॥ 3॥
निवृत्तं कर्म सेवेत प्रवृत्तं मत्परः त्यजेत् ।
जिज्ञासायां सम्प्रवृत्तः न अद्रियेत् कर्म चोदनाम् ॥ 4॥
यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् ।
मदभिज्ञं गुरं शान्तं उपासीत मदात्मकम् ॥ 5॥
अमान्यमत्सरः दक्षः निर्ममः दृढसौहृदः ।
असत्वरः अर्थजिज्ञासुः अनसूयौः अमोघवाक् ॥ 6॥
जायापत्यगृहक्षेत्रस्वजनद्रविण आदिषु ।
उदासीनः समं पश्यन् सर्वेषु अर्थं इव आत्मनः ॥ 7॥
विलक्षणः स्थूलसूक्ष्मात् देहात् आत्मेक्षिता स्वदृक् ।
यथाग्निः दारुणः दाह्यात् दाहकः अन्यः प्रकाशकः ॥ 8॥
निरोध उत्पत्ति अणु बृहन् नानात्वं तत्कृतान् गुणान् ।
अन्तः प्रविष्टः आधत्तः एवं देहगुणान् परः ॥ 9॥
यः असौ गुणैः विरचितः देहः अयं पुरुषस्य हि ।
संसारः तत् निबन्धः अयं पुंसः विद्यात् छिदात्मनः ॥ 10॥
तस्मात् जिज्ञासया आत्मानं आत्मस्थं परम् ।
सङ्गम्य निरसेत् एतत् वस्तुबुद्धिं यथाक्रमम् ॥ 11॥
आचार्यः अरणिः आद्यः स्यात् अन्तेवासि उत्तर अरणिः ।
तत् सन्धानं प्रवचनं विद्या सन्धिः सुखावहः ॥ 12॥
वैशारदी सा अतिविशुद्धबुद्धिः
धुनोति मायां गुणसम्प्रसूताम् ।
गुणान् च सन्दह्य यत् आत्मं एतत्
स्वयं च शाम्यति असमिद् यथा अग्निः ॥ 13॥
अथ एषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः ।
नानात्वं अथ नित्यत्वं लोककालागम आत्मनाम् ॥ 14॥
मन्यसे सर्वभावानां संस्था हि औत्पत्तिकी यथा ।
तत् तत् आकृतिभेदेन जायते भिद्यते च धीः ॥ 15॥
एवं अपि अङ्ग सर्वेषां देहिनां देहयोगतः ।
काल अवयवतः सन्ति भावा जन्मादयोः असकृत् ॥ 16॥
अत्र अपि कर्मणां कर्तुः अस्वातन्त्र्यं च लक्ष्यते ।
भोक्तुः च दुःखसुखयोः कः अन्वर्थः विवशं भजेत् ॥ 17॥
न देहिनां सुखं किञ्चित् विद्यते विदुषां अपि ।
तथा च दुःखं मूढानां वृथा अहङ्करणं परम् ॥ 18॥
यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः ।
ते अपि अद्धा न विदुः योगं मृत्युः न प्रभवेत् यथा ॥ 19॥
कः अन्वर्थः सुखयति एनं कामः वा मृत्युः अन्तिके ।
आघातं नीयमानस्य वध्यसि एव न तुष्टिदः ॥ 20॥
श्रुतं च दृष्टवत् दुष्टं स्पर्धा असूया अत्ययव्ययैः ।
बहु अन्तराय कामत्वात् कृषिवत् च अपि निष्फलम् ॥ 21॥
अन्तरायैः अविहतः यदि धर्मः स्वनुष्ठितः ।
तेनापि निर्जितं स्थानं यथा गच्छति तत् श्रुणु ॥ 22॥
इष्त्वा इह देवताः यज्ञैः स्वर्लोकं याति याज्ञिकः ।
भुञ्जीत देववत् तत्र भोगान् दिव्यान् निज अर्जितान् ॥ 23॥
स्वपुण्य उपचिते शुभ्रे विमानः उपगीयते ।
गन्धर्वैः विहरन्मध्ये देवीनां हृद्यवेषधृक् ॥ 24॥
स्त्रीभिः कामगयानेन किङ्किणीजालमालिना ।
क्रीडन् न वेद आत्मपातं सुराक्रीडेषु निर्वृतः ॥ 25॥
तावत् प्रमोदते स्वर्गे यावत् पुण्यं समाप्यते ।
क्षीणपुण्यः पतति अर्वाक् अनिच्छन् कालचालितः ॥ 26॥
यदि अधर्मरतः सङ्गात् असतां वा अजितेन्द्रियः ।
कामात्मा कृपणः लुब्धः स्त्रैणः भूतविहिंसकः ॥ 27॥
पशून् अविधिना आलभ्य प्रेतभूतगणान् यजन् ।
नरकान् अवशः जन्तुः गत्वा याति उल्बणं तमः ॥ 28॥
कर्माणि दुःख उदर्काणि कुर्वन् देहेन तैः पुनः ।
देहं आभजते तत्र किं सुखं मर्त्यधर्मिणः ॥ 29॥
लोकानां लोक पालानां मद्भयं कल्पजीविनाम् ।
ब्रह्मणः अपि भयं मत्तः द्विपराधपर आयुषः ॥ 30॥
गुणाः सृजन्ति कर्माणि गुणः अनुसृजते गुणान् ।
जीवः तु गुणसंयुक्तः भुङ्क्ते कर्मफलानि असौ ॥ 31॥
यावत् स्यात् गुणवैषम्यं तावत् नानात्वं आत्मनः ।
नानात्वं आत्मनः यावत् पारतन्त्र्यं तदा एव हि ॥ 32॥
यावत् अस्य अस्वतन्त्रत्वं तावत् ईश्वरतः भयम् ।
यः एतत् समुपासीरन् ते मुह्यन्ति शुचार्पिताः ॥ 33॥
कालः आत्मा आगमः लोकः स्वभावः धर्मः एव च ।
इति मां बहुधा प्राहुः गुणव्यतिकरे सति ॥ 34॥
उद्धवः उवाच ।
गुणेषु वर्तमानः अपि देहजेषु अनपावृताः ।
गुणैः न बध्यते देही बध्यते वा कथं विभो ॥ 35॥
कथं वर्तेत विहरेत् कैः वा ज्ञायेत लक्षणैः ।
किं भुञ्जीत उत विसृजेत् शयीत आसीत याति वा ॥ 36॥
एतत् अच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर ।
नित्यमुक्तः नित्यबद्धः एकः एव इति मे भ्रमः ॥ 37॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
दशमोऽध्यायः ॥
Roman (IAST) Transliteration
atha daśamo'dhyāyaḥ |
śrībhagavān uvāca |
mayā uditeṣu avahitaḥ svadharmeṣu madāśrayaḥ |
varṇāśramakula ācāraṃ akāmātmā samācaret || 1||
anvīkṣeta viśuddhātmā dehināṃ viṣayātmanām |
guṇeṣu tattvadhyānena sarvārambhaviparyayam || 2||
suptasya viṣayālokaḥ dhyāyataḥ vā manorathaḥ |
nānāmakatvāt viphalaḥ tathā bhedātmadīḥ guṇaiḥ || 3||
nivṛttaṃ karma seveta pravṛttaṃ matparaḥ tyajet |
jijñāsāyāṃ sampravṛttaḥ na adriyet karma codanām || 4||
yamānabhīkṣṇaṃ seveta niyamān matparaḥ kvacit |
madabhijñaṃ guraṃ śāntaṃ upāsīta madātmakam || 5||
amānyamatsaraḥ dakṣaḥ nirmamaḥ dṛḍhasauhṛdaḥ |
asatvaraḥ arthajijñāsuḥ anasūyauḥ amoghavāk || 6||
jāyāpatyagṛhakṣetrasvajanadraviṇa ādiṣu |
udāsīnaḥ samaṃ paśyan sarveṣu arthaṃ iva ātmanaḥ || 7||
vilakṣaṇaḥ sthūlasūkṣmāt dehāt ātmekṣitā svadṛk |
yathāgniḥ dāruṇaḥ dāhyāt dāhakaḥ anyaḥ prakāśakaḥ || 8||
nirodha utpatti aṇu bṛhan nānātvaṃ tatkṛtān guṇān |
antaḥ praviṣṭaḥ ādhattaḥ evaṃ dehaguṇān paraḥ || 9||
yaḥ asau guṇaiḥ viracitaḥ dehaḥ ayaṃ puruṣasya hi |
saṃsāraḥ tat nibandhaḥ ayaṃ puṃsaḥ vidyāt chidātmanaḥ || 10||
tasmāt jijñāsayā ātmānaṃ ātmasthaṃ param |
saṅgamya niraset etat vastubuddhiṃ yathākramam || 11||
ācāryaḥ araṇiḥ ādyaḥ syāt antevāsi uttara araṇiḥ |
tat sandhānaṃ pravacanaṃ vidyā sandhiḥ sukhāvahaḥ || 12||
vaiśāradī sā ativiśuddhabuddhiḥ
dhunoti māyāṃ guṇasamprasūtām |
guṇān ca sandahya yat ātmaṃ etat
svayaṃ ca śāmyati asamid yathā agniḥ || 13||
atha eṣāṃ karmakartṝṇāṃ bhoktṝṇāṃ sukhaduḥkhayoḥ |
nānātvaṃ atha nityatvaṃ lokakālāgama ātmanām || 14||
manyase sarvabhāvānāṃ saṃsthā hi autpattikī yathā |
tat tat ākṛtibhedena jāyate bhidyate ca dhīḥ || 15||
evaṃ api aṅga sarveṣāṃ dehināṃ dehayogataḥ |
kāla avayavataḥ santi bhāvā janmādayoḥ asakṛt || 16||
atra api karmaṇāṃ kartuḥ asvātantryaṃ ca lakṣyate |
bhoktuḥ ca duḥkhasukhayoḥ kaḥ anvarthaḥ vivaśaṃ bhajet || 17||
na dehināṃ sukhaṃ kiñcit vidyate viduṣāṃ api |
tathā ca duḥkhaṃ mūḍhānāṃ vṛthā ahaṅkaraṇaṃ param || 18||
yadi prāptiṃ vighātaṃ ca jānanti sukhaduḥkhayoḥ |
te api addhā na viduḥ yogaṃ mṛtyuḥ na prabhavet yathā || 19||
kaḥ anvarthaḥ sukhayati enaṃ kāmaḥ vā mṛtyuḥ antike |
āghātaṃ nīyamānasya vadhyasi eva na tuṣṭidaḥ || 20||
śrutaṃ ca dṛṣṭavat duṣṭaṃ spardhā asūyā atyayavyayaiḥ |
bahu antarāya kāmatvāt kṛṣivat ca api niṣphalam || 21||
antarāyaiḥ avihataḥ yadi dharmaḥ svanuṣṭhitaḥ |
tenāpi nirjitaṃ sthānaṃ yathā gacchati tat śruṇu || 22||
iṣtvā iha devatāḥ yajñaiḥ svarlokaṃ yāti yājñikaḥ |
bhuñjīta devavat tatra bhogān divyān nija arjitān || 23||
svapuṇya upacite śubhre vimānaḥ upagīyate |
gandharvaiḥ viharanmadhye devīnāṃ hṛdyaveṣadhṛk || 24||
strībhiḥ kāmagayānena kiṅkiṇījālamālinā |
krīḍan na veda ātmapātaṃ surākrīḍeṣu nirvṛtaḥ || 25||
tāvat pramodate svarge yāvat puṇyaṃ samāpyate |
kṣīṇapuṇyaḥ patati arvāk anicchan kālacālitaḥ || 26||
yadi adharmarataḥ saṅgāt asatāṃ vā ajitendriyaḥ |
kāmātmā kṛpaṇaḥ lubdhaḥ straiṇaḥ bhūtavihiṃsakaḥ || 27||
paśūn avidhinā ālabhya pretabhūtagaṇān yajan |
narakān avaśaḥ jantuḥ gatvā yāti ulbaṇaṃ tamaḥ || 28||
karmāṇi duḥkha udarkāṇi kurvan dehena taiḥ punaḥ |
dehaṃ ābhajate tatra kiṃ sukhaṃ martyadharmiṇaḥ || 29||
lokānāṃ loka pālānāṃ madbhayaṃ kalpajīvinām |
brahmaṇaḥ api bhayaṃ mattaḥ dviparādhapara āyuṣaḥ || 30||
guṇāḥ sṛjanti karmāṇi guṇaḥ anusṛjate guṇān |
jīvaḥ tu guṇasaṃyuktaḥ bhuṅkte karmaphalāni asau || 31||
yāvat syāt guṇavaiṣamyaṃ tāvat nānātvaṃ ātmanaḥ |
nānātvaṃ ātmanaḥ yāvat pāratantryaṃ tadā eva hi || 32||
yāvat asya asvatantratvaṃ tāvat īśvarataḥ bhayam |
yaḥ etat samupāsīran te muhyanti śucārpitāḥ || 33||
kālaḥ ātmā āgamaḥ lokaḥ svabhāvaḥ dharmaḥ eva ca |
iti māṃ bahudhā prāhuḥ guṇavyatikare sati || 34||
uddhavaḥ uvāca |
guṇeṣu vartamānaḥ api dehajeṣu anapāvṛtāḥ |
guṇaiḥ na badhyate dehī badhyate vā kathaṃ vibho || 35||
kathaṃ varteta viharet kaiḥ vā jñāyeta lakṣaṇaiḥ |
kiṃ bhuñjīta uta visṛjet śayīta āsīta yāti vā || 36||
etat acyuta me brūhi praśnaṃ praśnavidāṃ vara |
nityamuktaḥ nityabaddhaḥ ekaḥ eva iti me bhramaḥ || 37||
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ
saṃhitāyāmekādaśaskandhe bhagavaduddhavasaṃvāde
daśamo'dhyāyaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.