Krishna

1.5 - देवासुराः संयत्ता आसन्न् - कृष्ण यजुर्वेद तैत्तिरीय संहिता पाठः

1.5 - Devasurah Samyatta Asann - Krishna Yajurveda Taittiriya Samhita Pathah

🖋️ Devanagari script
📄 Download PDF
कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे पञ्चमः प्रश्नः - पुनराधानं
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
दे॒वा॒सु॒रा-स्सं​यँ॑त्ता आस॒न्ते दे॒वा वि॑ज॒यमु॑प॒यन्तो॒ ऽग्नौ वा॒मं-वँसु॒ स-न्न्य॑दधते॒दमु॑ नो भविष्यति॒ यदि॑ नो जे॒ष्यन्तीति॒ तद॒ग्निर्न्य॑कामयत॒ तेनापा᳚क्राम॒-त्तद्दे॒वा वि॒जित्या॑व॒रुरु॑थ्समाना॒ अन्वा॑य॒-न्तद॑स्य॒ सह॒सा-ऽऽदि॑थ्सन्त॒ सो॑ ऽरोदी॒द्यदरो॑दी॒-त्त-द्रु॒द्रस्य॑ रुद्र॒त्वं-यँदश्व्रशी॑यत॒ त- [तत्, र॒ज॒तग्ं] 1
द्र॑ज॒तग्ं हिर॑ण्यमभव॒-त्तस्मा᳚-द्रज॒तग्ं हिर॑ण्य-मदक्षि॒ण्य-म॑श्रु॒जग्ं हि यो ब॒र्॒हिषि॒ ददा॑ति पु॒रा-ऽस्य॑ सं​वँथ्स॒रा-द्गृ॒हे रु॑दन्ति॒ तस्मा᳚-द्ब॒र्॒हिषि॒ न देय॒ग्ं॒ सो᳚-ऽग्निर॑ब्रवी-द्भा॒ग्य॑सा॒न्यथ॑ व इ॒दमिति॑ पुनरा॒धेय॑-न्ते॒ केव॑ल॒मित्य॑ब्रुव-न्नृ॒द्ध्नव॒-त्खलु॒ स इत्य॑ब्रवी॒द्यो म॑द्देव॒त्य॑-म॒ग्नि-मा॒दधा॑ता॒ इति॒ त-म्पू॒षा-ऽऽध॑त्त॒ तेन॑ [ ] 2
पू॒षा-ऽऽर्ध्नो॒-त्तस्मा᳚-त्पौ॒ष्णाः प॒शव॑ उच्यन्ते॒ त-न्त्वष्टा-ऽऽध॑त्त॒ तेन॒ त्वष्टा᳚-ऽऽर्ध्नो॒-त्तस्मा᳚-त्त्वा॒ष्ट्राः प॒शव॑ उच्यन्ते॒ त-म्मनु॒रा-ऽध॑त्त॒ तेन॒ मनु॑रा॒र्ध्नो॒-त्तस्मा᳚न्मान॒व्यः॑ प्र॒जा उ॑च्यन्ते॒ त-न्धा॒ता-ऽऽध॑त्त॒ तेन॑ धा॒ता-ऽऽर्ध्नो᳚-थ्सं​वँथ्स॒रो वै धा॒ता तस्मा᳚-थ्सं​वँथ्स॒र-म्प्र॒जाः प॒शवो-ऽनु॒ प्र जा॑यन्ते॒ य ए॒व-म्पु॑नरा॒धेय॒स्यर्धिं॒-वेँद॒- [ए॒व-म्पु॑नरा॒धेय॒स्यर्धिं॒-वेँद॑, ऋ॒ध्नोत्ये॒व] 3
-र्ध्नोत्ये॒व यो᳚-ऽस्यै॒व-म्ब॒न्धुतां॒-वेँद॒ बन्धु॑मा-न्भवति भाग॒धेयं॒-वाँ अ॒ग्निराहि॑त इ॒च्छमा॑नः प्र॒जा-म्प॒शून् यज॑मान॒स्योप॑ दोद्रावो॒द्वास्य॒ पुन॒रा द॑धीत भाग॒धेये॑नै॒वैन॒ग्ं॒ सम॑र्धय॒त्यथो॒ शान्ति॑रे॒वास्यै॒षा पुन॑र्वस्वो॒रा द॑धीतै॒तद्वै पु॑नरा॒धेय॑स्य॒ नक्ष॑त्रं॒-यँ-त्पुन॑र्वसू॒ स्वाया॑मे॒वैन॑-न्दे॒वता॑यामा॒धाय॑ ब्रह्मवर्च॒सी भ॑वति द॒र्भै रा द॑धा॒त्यया॑तयामत्वाय द॒र्भैरा द॑धात्य॒द्भ्य ए॒वैन॒मोष॑धीभ्यो ऽव॒रुद्ध्या ऽऽध॑त्ते॒ पञ्च॑कपालः पुरो॒डाशो॑ भवति॒ पञ्च॒ वा ऋ॒तव॑ ऋ॒तुभ्य॑ ए॒वैन॑मव॒रुद्ध्या ऽऽध॑त्ते ॥ 4 ॥
(अशी॑यत॒ तत्- तेन॒-वेद॑- द॒र्भैः पञ्च॑विग्ंशतिश्च) (अ. 1)
परा॒ वा ए॒ष य॒ज्ञ-म्प॒शून् व॑पति॒ यो᳚-ऽग्निमु॑द्वा॒सय॑ते॒ पञ्च॑कपालः पुरो॒डाशो॑ भवति॒ पाङ्क्तो॑ य॒ज्ञः पाङ्क्ताः᳚ प॒शवो॑ य॒ज्ञमे॒व प॒शूनव॑ रुन्धे वीर॒हा वा ए॒ष दे॒वानां॒-योँ᳚-ऽग्निमु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवः॑ पु॒रा-ऽन्न॑मक्ष-न्प॒ङ्क्त्यो॑ याज्यानुवा॒क्या॑ भवन्ति॒ पाङ्क्तो॑ य॒ज्ञः पाङ्क्तः॒ पुरु॑षो दे॒वाने॒व वी॒र-न्नि॑रव॒दाया॒ग्नि-म्पुन॒रा [पुन॒रा, ध॒त्ते॒ श॒ताक्ष॑रा भवन्ति] 5
ध॑त्ते श॒ताक्ष॑रा भवन्ति श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति॒ यद्वा अ॒ग्निराहि॑तो॒ नर्ध्यते॒ ज्यायो॑ भाग॒धेय॑-न्निका॒मय॑मानो॒ यदा᳚ग्ने॒यग्ं सर्व॒-म्भव॑ति॒ सैवास्यर्धि॒-स्सं-वाँ ए॒तस्य॑ गृ॒हे वाक् सृ॑ज्यते॒ यो᳚-ऽग्निमु॑द्वा॒सय॑ते॒ स वाच॒ग्ं॒ सग्ंसृ॑ष्टां॒-यँज॑मान ईश्व॒रो-ऽनु॒ परा॑भवितो॒-र्विभ॑क्तयो भवन्ति वा॒चो विधृ॑त्यै॒ यज॑मान॒स्या-ऽप॑राभावाय॒ [-ऽप॑राभावाय, विभ॑क्ति-ङ्करोति॒] 6
विभ॑क्ति-ङ्करोति॒ ब्रह्मै॒व तद॑करुपा॒ग्ं॒शु य॑जति॒ यथा॑ वा॒मं-वँसु॑ विविदा॒नो गूह॑ति ता॒दृगे॒व तद॒ग्नि-म्प्रति॑ स्विष्ट॒कृत॒-न्निरा॑ह॒ यथा॑ वा॒मं-वँसु॑ विविदा॒नः प्र॑का॒श-ञ्जिग॑मिषति ता॒दृगे॒व तद्विभ॑क्तिमु॒क्त्वा प्र॑या॒जेन॒ वष॑ट्करोत्या॒यत॑नादे॒व नैति॒ यज॑मानो॒ वै पु॑रो॒डाशः॑ प॒शव॑ ए॒ते आहु॑ती॒ यद॒भितः॑ पुरो॒डाश॑मे॒ते आहु॑ती [ ] 7
जु॒होति॒ यज॑मानमे॒वोभ॒यतः॑ प॒शुभिः॒ परि॑ गृह्णाति कृ॒तय॑जु॒-स्सम्भृ॑तसम्भार॒ इत्या॑हु॒र्न स॒म्भृत्या᳚-स्सम्भा॒रा न यजुः॑ कर्त॒व्य॑मित्यथो॒ खलु॑ स॒म्भृत्या॑ ए॒व स॑म्भा॒राः क॑र्त॒व्यं॑-यँजु॑-र्य॒ज्ञस्य॒ समृ॑द्ध्यै पुनर्निष्कृ॒तो रथो॒ दक्षि॑णा पुनरुथ्स्यू॒तं-वाँसः॑ पुनरुथ्सृ॒ष्टो॑-ऽन॒ड्वा-न्पु॑नरा॒धेय॑स्य॒ समृ॑द्ध्यै स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्य॑ग्निहो॒त्र-ञ्जु॑होति॒ यत्र॑यत्रै॒वास्य॒ न्य॑क्त॒-न्तत॑ [न्य॑क्त॒-न्ततः॑, ए॒वैन॒मव॑ रुन्धे] 8
ए॒वैन॒मव॑ रुन्धे वीर॒हा वा ए॒ष दे॒वानां॒-योँ᳚-ऽग्निमु॑द्वा॒सय॑ते॒ तस्य॒ वरु॑ण ए॒वर्ण॒यादा᳚ग्निवारु॒ण-मेका॑दशकपाल॒मनु॒ निर्व॑पे॒द्य-ञ्चै॒व हन्ति॒ यश्चा᳚स्यर्ण॒यात्तौ भा॑ग॒धेये॑न प्रीणाति॒ ना-ऽऽर्ति॒मार्च्छ॑ति॒ यज॑मानः ॥ 9 ॥
(आ-ऽप॑राभावाय-पुरो॒डाश॑मे॒ते-आहु॑ती॒-ततः॒ -षटत्रिग्ं॑शच्च) (अ. 2)
भूमि॑-र्भू॒म्ना द्यौ-र्व॑रि॒णा-ऽन्तरि॑क्ष-म्महि॒त्वा । उ॒पस्थे॑ ते देव्यदिते॒ ऽग्निम॑न्ना॒दम॒न्नाद्या॒या-ऽऽद॑धे ॥ आ-ऽय-ङ्गौः पृश्ञि॑रक्रमी॒दस॑न-न्मा॒तर॒-म्पुनः॑ । पि॒तर॑-ञ्च प्र॒यन्-थ्सुवः॑ ॥ त्रि॒ग्ं॒शद्धाम॒ वि रा॑जति॒ वा-क्प॑त॒ङ्गाय॑ शिश्रिये । प्रत्य॑स्य वह॒ द्युभिः॑ ॥ अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना । व्य॑ख्य-न्महि॒ष-स्सुवः॑ ॥ यत्त्वा᳚ [ ] 10
क्रु॒द्धः प॑रो॒वप॑ म॒न्युना॒ यदव॑र्त्या । सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वीमनु॑ दद्ध्व॒से । आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥ मनो॒ ज्योति॑-र्जुषता॒माज्यं॒-विँच्छि॑न्नं-यँ॒ज्ञग्ं समि॒म-न्द॑धातु । बृह॒स्पति॑स्तनुतामि॒म-न्नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ॥ स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा-स्स॒प्त- [जि॒ह्वा-स्स॒प्त, ऋष॑य-स्स॒प्त धाम॑] 11
-र्​ष॑य-स्स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्रा᳚-स्सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ ॥ पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षा-ऽऽयु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ॥ स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वफ्स्नि॑या वि॒श्वत॒स्परि॑ ॥ लेक॒-स्सले॑क-स्सु॒लेक॒स्ते न॑ आदि॒त्या आज्य॑-ञ्जुषा॒णा वि॑यन्तु॒ केत॒-स्सके॑त-स्सु॒केत॒स्ते न॑ आदि॒त्या आज्य॑-ञ्जुषा॒णा वि॑यन्तु॒ विव॑स्वा॒ग्ं॒ अदि॑ति॒-र्देव॑जूति॒स्ते न॑ आदि॒त्या आज्य॑-ञ्जुषा॒णा वि॑यन्तु ॥ 12 ॥
(त्वा॒-जि॒ह्वा-स्स॒प्त-सु॒केत॒स्ते न॒-स्त्रयो॑दश च ) (अ. 3)
भूमि॑-र्भू॒म्ना द्यौ-र्व॑रि॒णेत्या॑हा॒-ऽऽशिषै॒वैन॒मा ध॑त्ते स॒र्पा वै जीर्य॑न्तो ऽमन्यन्त॒ स ए॒त-ङ्क॑स॒र्णीरः॑ काद्रवे॒यो मन्त्र॑मपश्य॒-त्ततो॒ वै ते जी॒र्णास्त॒नूरपा᳚घ्नत सर्परा॒ज्ञिया॑ ऋ॒ग्भि-र्गार्​ह॑पत्य॒मा द॑धाति पुनर्न॒वमे॒वैन॑म॒जर॑-ङ्कृ॒त्वा ऽऽध॒त्ते-ऽथो॑ पू॒तमे॒व पृ॑थि॒वीम॒न्नाद्य॒-न्नोपा॑-ऽनम॒थ्सैत- [नोपा॑-ऽनम॒थ्सैतम्, मन्त्र॑मपश्य॒-त्ततो॒ वै] 13
-म्मन्त्र॑मपश्य॒-त्ततो॒ वै ताम॒न्नाद्य॒-मुपा॑नम॒द्यथ् -स॑र्परा॒ज्ञिया॑ ऋ॒ग्भि-र्गार्​ह॑पत्य-मा॒दधा᳚त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॑ अ॒स्यामे॒वैन॒-म्प्रति॑ष्ठित॒मा ध॑त्ते॒ यत्त्वा᳚ क्रु॒द्धः प॑रो॒वपेत्या॒हाप॑ह्नुत ए॒वास्मै॒ त-त्पुन॒स्त्वोद्दी॑पयाम॒सीत्या॑ह॒ समि॑न्ध ए॒वैनं॒-यँत्ते॑ म॒न्युप॑रोप्त॒स्येत्या॑ह दे॒वता॑भिरे॒वै- [दे॒वता॑भिरे॒व, ए॒न॒ग्ं॒ स-म्भ॑रति॒ वि वा] 14
-न॒ग्ं॒ स-म्भ॑रति॒ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒ यो᳚-ऽग्निमु॑द्वा॒सय॑ते॒ बृह॒स्पति॑वत्य॒र्चोप॑ तिष्ठते॒ ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पति॒-र्ब्रह्म॑णै॒व य॒ज्ञग्ं स-न्द॑धाति॒ विच्छि॑न्नं-यँ॒ज्ञग्ं समि॒म-न्द॑धा॒त्वित्या॑ह॒ सन्त॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह स॒न्तत्यै॒व य॒ज्ञ-न्दे॒वेभ्यो-ऽनु॑ दिशति स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा [जि॒ह्वाः, इत्या॑ह] 15
इत्या॑ह स॒प्तस॑प्त॒ वै स॑प्त॒धा-ऽग्नेः प्रि॒यास्त॒नुव॒स्ता ए॒वाव॑ रुन्धे॒ पुन॑रू॒र्जा स॒ह र॒य्येत्य॒भितः॑ पुरो॒डाश॒माहु॑ती जुहोति॒ यज॑मानमे॒वोर्जा च॑ र॒य्या चो॑भ॒यतः॒ परि॑ गृह्णात्यादि॒त्या वा अ॒स्माल्लो॒काद॒मुं-लोँ॒कमा॑य॒-न्ते॑-ऽमुष्मि॑न् ँलो॒के व्य॑तृष्य॒-न्त इ॒मं-लोँ॒क-म्पुन॑रभ्य॒वेत्या॒ ऽग्निमा॒धायै॒-तान्. होमा॑नजुहवु॒स्त आ᳚र्ध्नुव॒-न्ते सु॑व॒र्गं-लोँ॒कमा॑य॒न्॒. यः प॑रा॒चीन॑-म्पुनरा॒धेया॑द॒ग्निमा॒दधी॑त॒ स ए॒तान्. होमा᳚न् जुहुया॒द्यामे॒वा-ऽऽदि॒त्या ऋद्धि॒मार्ध्नु॑व॒-न्तामे॒वर्ध्नो॑ति ॥ 16 ॥
(सैतं-दे॒वता॑भिरे॒व-जि॒ह्वा-ए॒तान्-पञ्च॑विग्ंशतिश्च ) (अ. 4)
उ॒प॒प्र॒यन्तो॑ अद्ध्व॒र-म्मन्त्रं॑-वोँचेमा॒ग्नये᳚ । आ॒रे अ॒स्मे च॑ शृण्व॒ते ॥ अ॒स्य प्र॒त्नामनु॒ द्युतग्ं॑ शु॒क्र-न्दु॑दुह्रे॒ अह्र॑यः । पयः॑ सहस्र॒सामृषि᳚म् ॥ अ॒ग्नि-र्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाग्ं रेताग्ं॑सि जिन्वति ॥ अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्॒ होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ ॥ यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं-विँ॒भुवं॑-विँ॒शेवि॑शे ॥ उ॒भा वा॑मिन्द्राग्नी आहु॒वद्ध्या॑ [आहु॒वद्ध्यै᳚, उ॒भा] 17
उ॒भा राध॑स-स्स॒ह मा॑द॒यद्ध्यै᳚ । उ॒भा दा॒तारा॑वि॒षाग्ं र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥ अ॒य-न्ते॒ योनि॑र्-ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । त-ञ्जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥ अग्न॒ आयूग्ं॑षि पवस॒ आ सु॒वोर्ज॒मिष॑-ञ्च नः । आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य᳚म् । दध॒त्पोषग्ं॑ र॒यि- [र॒यिम्, म्मयि॑ ।] 18
-म्मयि॑ ॥ अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया᳚ । आ दे॒वान्. व॑क्षि॒ यक्षि॑ च ॥ स नः॑ पावक दीदि॒वो-ऽग्ने॑ दे॒वाग्ं इ॒हा ऽऽव॑ह । उप॑ य॒ज्ञग्ं ह॒विश्च॑ नः ॥ अ॒ग्नि-श्शुचि॑व्रततम॒-श्शुचि॒-र्विप्र॒-श्शुचिः॑ क॒विः । शुची॑ रोचत॒ आहु॑तः ॥ उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योतीग्॑ष्य॒र्चयः॑ ॥ आ॒यु॒र्दा अ॑ग्ने॒-ऽस्यायु॑र्मे [अ॑ग्ने॒-ऽस्यायु॑र्मे, दे॒हि॒ व॒र्चो॒दा] 19
देहि वर्चो॒दा अ॑ग्ने-ऽसि॒ वर्चो॑ मे देहि तनू॒पा अ॑ग्ने-ऽसि त॒नुव॑-म्मे पा॒ह्यग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒न-न्तन्म॒ आ पृ॑ण॒ चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒येन्धा॑नास्त्वा श॒तग्ं हिमा᳚ द्यु॒मन्त॒-स्समि॑धीमहि॒ वय॑स्वन्तो वय॒स्कृतं॒-यँश॑स्वन्तो यश॒स्कृतग्ं॑ सु॒वीरा॑सो॒ अदा᳚भ्यम् । अग्ने॑ सपत्न॒दम्भ॑नं॒-वँर्​षि॑ष्ठे॒ अधि॒ नाके᳚ ॥ स-न्त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सा ऽगथा॒-स्समृषी॑णाग्​ स्तु॒तेन॒ स-म्प्रि॒येण॒ धाम्ना᳚ । त्वम॑ग्ने॒ सूर्य॑वर्चा असि॒ स-म्मामायु॑षा॒ वर्च॑सा प्र॒जया॑ सृज ॥ 20 ॥
(आ॒हु॒वद्ध्यै॒-पोषग्ं॑ र॒यिं-मे॒-वर्च॑सा-स॒प्तद॑श च ) (अ. 5)
स-म्प॑श्यामि प्र॒जा अ॒ह-मिड॑प्रजसो मान॒वीः । सर्वा॑ भवन्तु नो गृ॒हे । अम्भ॒-स्स्थाम्भो॑ वो भक्षीय॒ महः॑ स्थ॒ महो॑ वो भक्षीय॒ सहः॑ स्थ॒ सहो॑ वो भक्षी॒योर्ज॒-स्स्थोर्जं॑-वोँ भक्षीय॒ रेव॑ती॒ रम॑द्ध्व-म॒स्मिन् ँलो॒के᳚-ऽस्मि-न्गो॒ष्ठे᳚-ऽस्मिन् क्षये॒-ऽस्मिन् योना॑वि॒हैव स्ते॒तो मा-ऽप॑ गात ब॒ह्वीर्मे॑ भूयास्त [भूयास्त, स॒ग्ं॒हि॒ता-ऽसि॑] 21
सग्ंहि॒ता-ऽसि॑ विश्वरू॒पीरा मो॒र्जा वि॒शा ऽऽगौ॑प॒त्येना ऽऽरा॒यस्पोषे॑ण सहस्रपो॒षं-वः॑ ँपुष्यास॒-म्मयि॑ वो॒ रायः॑ श्रयन्ताम् ॥ उप॑ त्वा-ऽग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् । नमो॒ भर॑न्त॒ एम॑सि ॥ राज॑न्तमद्ध्व॒राणा᳚-ङ्गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मान॒ग्ग्॒ स्वे दमे᳚ ॥ स नः॑ पि॒तेव॑ सू॒नवे-ऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा न-स्स्व॒स्तये᳚ ॥ अग्ने॒ [अग्ने᳚, त्व-न्नो॒ अन्त॑मः ।] 22
त्व-न्नो॒ अन्त॑मः । उ॒त त्रा॒ता शि॒वो भ॑व वरू॒त्थ्यः॑ ॥ त-न्त्वा॑ शोचिष्ठ दीदिवः । सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥ वसु॑र॒ग्नि-र्वसु॑श्रवाः । अच्छा॑ नक्षि द्यु॒मत्त॑मो र॒यि-न्दाः᳚ ॥ ऊ॒र्जा वः॑ पश्याम्यू॒र्जा मा॑ पश्यत रा॒यस्पोषे॑ण वः पश्यामि रा॒यस्पोषे॑ण मा पश्य॒तेडा᳚-स्स्थ मधु॒कृतः॑ स्यो॒ना मा ऽऽवि॑श॒तेरा॒ मदः॑ । स॒ह॒स्र॒पो॒षं-वः॑ ँपुष्यास॒- [पुष्यास॒म्, मयि॑] 23
म्मयि॑ वो॒ रायः॑ श्रयन्ताम् ॥ तथ्स॑वि॒तु-र्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योनः॑ प्रचो॒दया᳚त् ॥ सो॒मान॒ग्ग्॒ स्वर॑ण-ङ्कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒-यँ औ॑शि॒जम् ॥ क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे᳚ ॥ उपो॒पेन्नु म॑घव॒-न्भुय॒ इन्नु ते॒ दान॑-न्दे॒वस्य॑ पृच्यते ॥ परि॑ त्वा-ऽग्ने॒ पुरं॑-वँ॒यं-विँप्रग्ं॑ सहस्य धीमहि ॥ धृ॒षद्व॑र्ण-न्दि॒वेदि॑वे भे॒त्तार॑-म्भङ्गु॒राव॑तः ॥ अग्ने॑ गृहपते सुगृहप॒तिर॒ह-न्त्वया॑ गृ॒हप॑तिना भूयासग्ं सुगृहप॒तिर्मया॒ त्व-ङ्गृ॒हप॑तिना भूया-श्श॒तग्ं हिमा॒स्तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒-न्तामा॒शिष॒मा शा॑से॒-ऽमुष्मै॒ ज्योति॑ष्मतीम् ॥ 24 ॥
(भू॒या॒स्त॒-स्व॒स्तये-ऽग्ने॑-पुष्यासं-धृ॒षद्व॑र्ण॒-मेका॒न्नत्रि॒ग्ं॒शच्च॑ ) (अ. 6)
अय॑ज्ञो॒ वा ए॒ष यो॑-ऽसा॒मोप॑प्र॒यन्तो॑ अद्ध्व॒रमित्या॑ह॒ स्तोम॑मे॒वास्मै॑ युन॒क्त्युपेत्या॑ह प्र॒जा वै प॒शव॒ उपे॒मं-लोँ॒क-म्प्र॒जामे॒व प॒शूनि॒मं-लोँ॒कमुपै᳚त्य॒स्य प्र॒त्नामनु॒ द्युत॒मित्या॑ह सुव॒र्गो वै लो॒कः प्र॒त्न-स्सु॑व॒र्गमे॒व लो॒कग्ं स॒मारो॑हत्य॒ग्नि-र्मू॒र्धा दि॒वः क॒कुदित्या॑ह मू॒र्धान॑- [मू॒र्धान᳚म्, ए॒वैनग्ं॑] 25
मे॒वैनग्ं॑ समा॒नाना᳚-ङ्करो॒त्यथो॑ देवलो॒कादे॒व म॑नुष्यलो॒के प्रति॑ तिष्ठत्य॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒रित्या॑ह॒ मुख्य॑मे॒वैन॑-ङ्करोत्यु॒भा वा॑मिन्द्राग्नी आहु॒वद्ध्या॒ इत्या॒हौजो॒ बल॑मे॒वाव॑ रुन्धे॒ ऽय-न्ते॒ योनि॑र्-ऋ॒त्विय॒ इत्या॑ह प॒शवो॒ वै र॒यिः प॒शूने॒वाव॑ रुन्धे ष॒ड्भिरुप॑ तिष्ठते॒ षड्वा [षड्वै, ऋ॒तव॑ ऋ॒तुष्वे॒व] 26
ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति ष॒ड्भिरुत्त॑राभि॒रुप॑ तिष्ठते॒ द्वाद॑श॒ स-म्प॑द्यन्ते॒ द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒र-स्सं॑ँवथ्स॒र ए॒व प्रति॑ तिष्ठति॒ यथा॒ वै पुरु॒षो-ऽश्वो॒ गौ-र्जीर्य॑त्ये॒व-म॒ग्निराहि॑तो जीर्यति सं​वँथ्स॒रस्य॑ प॒रस्ता॑दाग्निपावमा॒नीभि॒-रुप॑ तिष्ठते पुनर्न॒व-मे॒वैन॑-म॒जर॑-ङ्करो॒त्यथो॑ पु॒नात्ये॒वोप॑ तिष्ठते॒ योग॑ ए॒वास्यै॒ष उप॑ तिष्ठते॒ [उप॑ तिष्ठते, दम॑ ए॒वास्यै॒ष] 27
दम॑ ए॒वास्यै॒ष उप॑ तिष्ठते याच्ञैवा-ऽस्यै॒षोप॑ तिष्ठते॒ यथा॒ पापी॑या॒ञ्छ्रेय॑स आ॒हृत्य॑ नम॒स्यति॑ ता॒दृगे॒व तदा॑यु॒र्दा अ॑ग्ने॒-ऽस्यायु॑र्मे दे॒हीत्या॑हा-ऽऽयु॒र्दा ह्ये॑ष व॑र्चो॒दा अ॑ग्ने-ऽसि॒ वर्चो॑ मे दे॒हीत्या॑ह वर्चो॒दा ह्ये॑ष त॑नू॒पा अ॑ग्ने-ऽसि त॒नुव॑-म्मे पा॒हीत्या॑ह [पा॒हीत्या॑ह, त॒नू॒पा] 28
तनू॒पा ह्ये॑षो-ऽग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒न-न्तन्म॒ आ पृ॒णेत्या॑ह॒ यन्मे᳚ प्र॒जायै॑ पशू॒नामू॒न-न्तन्म॒ आ पू॑र॒येति॒ वावैतदा॑ह॒ चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒येत्या॑ह॒ रात्रि॒-र्वै चि॒त्राव॑सु॒रव्यु॑ष्ट्यै॒ वा ए॒तस्यै॑ पु॒रा ब्रा᳚ह्म॒णा अ॑भैषु॒-र्व्यु॑ष्टिमे॒वाव॑ रुन्ध॒ इन्धा॑नास्त्वा श॒तग्ं [श॒तम्, हिमा॒ इत्या॑ह] 29
हिमा॒ इत्या॑ह श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठत्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म॒ वै दे॒वा असु॑राणाग्ं शतत॒र्॒हाग्​ स्तृग्ं॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीं-यँज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अछ॑म्बट्कार॒ग्ं॒ स-न्त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सा-ऽगथा॒ इत्या॑है॒तत्त्वमसी॒दम॒ह-म्भू॑यास॒मिति॒ वावैतदा॑ह॒ त्वम॑ग्ने॒ सूर्य॑वर्चा अ॒सीत्या॑हा॒-ऽऽशिष॑मे॒वैतामा शा᳚स्ते ॥ 30 ॥
(मू॒र्धान॒ग्ं॒-षड्वा-ए॒ष उप॑ तिष्ठते-पा॒हीत्या॑ह-श॒त-म॒हग्ं षोड॑श च) (अ. 7)
स-म्प॑श्यामि प्र॒जा अ॒हमित्या॑ह॒ याव॑न्त ए॒व ग्रा॒म्याः प॒शव॒स्ताने॒वाव॑ रु॒न्धे-ऽम्भ॒-स्स्थाम्भो॑ वो भक्षी॒येत्या॒हाम्भो॒ ह्ये॑ता महः॑ स्थ॒ महो॑ वो भक्षी॒येत्या॑ह॒ महो॒ ह्ये॑ता-स्सहः॑ स्थ॒ सहो॑ वो भक्षी॒येत्या॑ह॒ सहो॒ ह्ये॑ता ऊर्ज॒-स्स्थोर्जं॑-वोँ भक्षी॒ये- [भक्षी॒येति॑, आ॒होर्जो॒ ह्ये॑ता] 31
-त्या॒होर्जो॒ ह्ये॑ता रेव॑ती॒ रम॑द्ध्व॒मित्या॑ह प॒शवो॒ वै रे॒वतीः᳚ प॒शूने॒वात्म-न्र॑मयत इ॒हैव स्ते॒तो मा-ऽप॑ गा॒तेत्या॑ह ध्रु॒वा ए॒वैना॒ अन॑पगाः कुरुत इष्टक॒चिद्वा अ॒न्यो᳚-ऽग्निः प॑शु॒चिद॒न्य-स्सग्ं॑हि॒तासि॑ विश्वरू॒पीरिति॑ व॒थ्सम॒भि मृ॑श॒त्युपै॒वैन॑-न्धत्ते पशु॒चित॑मेन-ङ्कुरुते॒ प्र [ ] 32
वा ए॒षो᳚-ऽस्माल्लो॒काच्च्य॑वते॒ य आ॑हव॒नीय॑-मुप॒तिष्ठ॑ते॒ गार्​ह॑पत्य॒मुप॑ तिष्ठते॒ ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒त्यथो॒ गार्​ह॑पत्यायै॒व नि ह्नु॑ते गाय॒त्रीभि॒रुप॑ तिष्ठते॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒वात्म-न्ध॒त्ते-ऽथो॒ यदे॒त-न्तृ॒चम॒न्वाह॒ सन्त॑त्यै॒ गार्​ह॑पत्यं॒-वाँ अनु॑ द्वि॒पादो॑ वी॒राः प्र जा॑यन्ते॒ य ए॒वं-विँ॒द्वा-न्द्वि॒पदा॑भि॒-र्गार्​ह॑पत्य-मुप॒तिष्ठ॑त॒ [मुप॒तिष्ठ॑ते, आ-ऽस्य॑] 33
आ-ऽस्य॑ वी॒रो जा॑यत ऊ॒र्जा वः॑ पश्याम्यू॒र्जा मा॑ पश्य॒तेत्या॑हा॒ ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ तथ्स॑वि॒तु-र्वरे᳚ण्य॒मित्या॑ह॒ प्रसू᳚त्यै सो॒मान॒ग्ग्॒ स्वर॑ण॒मित्या॑ह सोमपी॒थमे॒वाव॑ रुन्धे कृणु॒हि ब्र॑ह्मणस्पत॒ इत्या॑ह ब्रह्मवर्च॒समे॒वाव॑ रुन्धे क॒दा च॒न स्त॒रीर॒सीत्या॑ह॒ न स्त॒रीग्ं रात्रिं॑-वँसति॒ [रात्रिं॑-वँसति, य ए॒वं] 34
य ए॒वं-विँ॒द्वान॒ग्नि-मु॑प॒तिष्ठ॑ते॒ परि॑ त्वा-ऽग्ने॒ पुरं॑-वँ॒यमित्या॑ह परि॒धिमे॒वैत-म्परि॑ दधा॒त्यस्क॑न्दा॒याग्ने॑ गृहपत॒ इत्या॑ह यथाय॒जुरे॒वैतच्छ॒तग्ं हिमा॒ इत्या॑ह श॒त-न्त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैन॑-ङ्करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्रो-ऽजा॑त॒-स्स्या-त्ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒ ऽमुष्मै॒ ज्योति॑ष्मती॒ मिति॑ ब्रूया॒द्यस्य॑ पु॒त्रो जा॒त-स्स्या-त्तेज॑ ए॒वास्मि॑-न्ब्रह्मवर्च॒स-न्द॑धाति ॥ 35 ॥
(ऊर्जं॑-वोँ भक्षी॒येति॒ - प्र -गार्​ह॑पत्यमुप॒तिष्ठ॑ते -वसति॒-ज्योति॑ष्मती॒ - मेका॒न्नत्रि॒ग्ं॒शच्च॑) (अ. 8)
अ॒ग्नि॒हो॒त्र-ञ्जु॑होति॒ यदे॒व कि-ञ्च॒ यज॑मानस्य॒ स्व-न्तस्यै॒व तद्रेतः॑ सिञ्चति प्र॒जन॑ने प्र॒जन॑न॒ग्ं॒ हि वा अ॒ग्निरथौष॑धी॒रन्त॑गता दहति॒ तास्ततो॒ भूय॑सीः॒ प्र जा॑यन्ते॒ यथ्सा॒य-ञ्जु॒होति॒ रेत॑ ए॒व तथ्सि॑ञ्चति॒ प्रैव प्रा॑त॒स्तने॑न जनयति॒ तद्रेतः॑ सि॒क्त-न्न त्वष्ट्रा-ऽवि॑कृत॒-म्प्रजा॑यते याव॒च्छो वै रेत॑स-स्सि॒क्तस्य॒ [रेत॑स-स्सि॒क्तस्य॑, त्वष्टा॑ रू॒पाणि॑] 36
त्वष्टा॑ रू॒पाणि॑ विक॒रोति॑ ताव॒च्छो वै तत्प्र जा॑यत ए॒ष वै दैव्य॒स्त्वष्टा॒ यो यज॑ते ब॒ह्वीभि॒रुप॑ तिष्ठते॒ रेत॑स ए॒व सि॒क्तस्य॑ बहु॒शो रू॒पाणि॒ वि क॑रोति॒ स प्रैव जा॑यते॒ श्वस्श्वो॒ भूया᳚-न्भवति॒ य ए॒वं ँवि॒द्वान॒ग्निमु॑प॒तिष्ठ॒ते ऽह॑र्दे॒वाना॒मासी॒-द्- रात्रि॒रसु॑राणा॒-न्ते-ऽसु॑रा॒ यद्दे॒वानां᳚-विँ॒त्तं ँवेद्य॒मासी॒त्तेन॑ स॒ह [ ] 37
रात्रि॒-म्प्रा-ऽवि॑श॒न्ते दे॒वा ही॒ना अ॑मन्यन्त॒ ते॑-ऽपश्यन्नाग्ने॒यी रात्रि॑राग्ने॒याः प॒शव॑ इ॒ममे॒वाग्निग्ग्​ स्त॑वाम॒ स नः॑ स्तु॒तः प॒शू-न्पुन॑र्दास्य॒तीति॒ ते᳚-ऽग्निम॑स्तुव॒न्-थ्स ए᳚भ्य-स्स्तु॒तो रात्रि॑या॒ अद्ध्यह॑र॒भि प॒शून्निरा᳚र्ज॒त्ते दे॒वाः प॒शून् वि॒त्त्वा कामाग्ं॑ अकुर्वत॒ य ए॒वं-विँ॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते पशु॒मा-न्भ॑व- [पशु॒मा-न्भ॑वति, आ॒दि॒त्यो] 38
-त्यादि॒त्यो वा अ॒स्माल्लो॒काद॒मुं-लोँ॒कमै॒थ्सो॑-ऽमुं-लोँ॒क-ङ्ग॒त्वा पुन॑रि॒मं-लोँ॒कम॒भ्य॑द्ध्याय॒-थ्स इ॒मं-लोँ॒कमा॒गत्य॑ मृ॒त्योर॑बिभेन्मृ॒त्युसं॑​युँत इव॒ ह्य॑यं-लोँ॒क-स्सो॑-ऽमन्यते॒म-मे॒वाग्निग्ग्​ स्त॑वानि॒ स मा᳚ स्तु॒त-स्सु॑व॒र्गं-लोँ॒क-ङ्ग॑मयिष्य॒तीति॒ सो᳚-ऽग्निम॑स्तौ॒-थ्स ए॑नग्ग्​ स्तु॒त-स्सु॑व॒र्गं-लोँ॒कम॑गमय॒द्य [लो॒कम॑गमय॒द्यः, ए॒वं-विँ॒द्वान॒ग्नि-] 39
ए॒वं-विँ॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ सर्व॒मायु॑रेत्य॒भि वा ए॒षो᳚-ऽग्नी आ रो॑हति॒ य ए॑नावुप॒तिष्ठ॑ते॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ नक्त॒मुप॑ तिष्ठते॒ न प्रा॒त-स्सग्ं हि नक्तं॑-व्रँ॒तानि॑ सृ॒ज्यन्ते॑ स॒ह श्रेयाग्॑श्च॒ पापी॑याग्​श्चासाते॒ ज्योति॒र्वा अ॒ग्निस्तमो॒ रात्रि॒र्य- [रात्रि॒र्यत्, नक्त॑मुप॒तिष्ठ॑ते॒] 40
-न्नक्त॑मुप॒तिष्ठ॑ते॒ ज्योति॑षै॒व तम॑स्तरत्युप॒स्थेयो॒ ऽग्नी(3)-र्नोप॒स्थेया(3) इत्या॑हु-र्मनु॒ष्या॑येन्न्वै यो-ऽह॑रहरा॒हृत्या-ऽथै॑नं॒-याँच॑ति॒ स इन्न्वै तमुपा᳚र्च्छ॒त्यथ॒ को दे॒वानह॑रहर्याचिष्य॒तीति॒ तस्मा॒न्नोप॒स्थेयो ऽथो॒ खल्वा॑हुरा॒शिषे॒ वै कं-यँज॑मानो यजत॒ इत्ये॒षा खलु॒ वा [खलु॒ वै, आहि॑ताग्ने-] 41
आहि॑ताग्ने रा॒शी-र्यद॒ग्निमु॑प॒तिष्ठ॑ते॒ तस्मा॑दुप॒स्थेयः॑ प्र॒जाप॑तिः प॒शून॑सृजत॒ ते सृ॒ष्टा अ॑होरा॒त्रे प्रा-ऽवि॑श॒-न्ताञ्छन्दो॑भि॒-रन्व॑॑विन्द॒-द्यच्छन्दो॑भि-रुप॒तिष्ठ॑ते॒ स्वमे॒व तदन्वि॑च्छति॒ न तत्र॑ जा॒म्य॑स्तीत्या॑हु॒र्यो-ऽह॑रहरुप॒ तिष्ठ॑त॒ इति॒ यो वा अ॒ग्नि-म्प्र॒त्यङ्ङु॑प॒ तिष्ठ॑ते॒ प्रत्ये॑नमोषति॒ यः परां॒-विँष्व॑-म्प्र॒जया॑ प॒शुभि॑ रेति॒ कवा॑तिर्यङ्ङि॒वोप॑ तिष्ठेत॒ नैन॑-म्प्र॒त्योष॑ति॒ न विष्व॑-म्प्र॒जया॑ प॒शुभि॑रेति ॥ 42 ॥
(सि॒क्तस्य॑-स॒ह-भ॑वति॒-यो-यत्-खलु॒ वै-प॒शुभि॒-स्त्रयो॑दश च) (अ. 9)
मम॒ नाम॑ प्रथ॒म-ञ्जा॑तवेदः पि॒ता मा॒ता च॑ दधतु॒र्यदग्रे᳚ । तत्त्व-म्बि॑भृहि॒ पुन॒रा मदैतो॒स्तवा॒ह-न्नाम॑ बिभराण्यग्ने ॥ मम॒ नाम॒ तव॑ च जातवेदो॒ वास॑सी इव वि॒वसा॑नौ॒ ये चरा॑वः । आयु॑षे॒ त्व-ञ्जी॒वसे॑ व॒यं-यँ॑थाय॒थं-विँ परि॑ दधावहै॒ पुन॒स्ते ॥ नमो॒-ऽग्नये ऽप्र॑तिविद्धाय॒ नमो-ऽना॑धृष्टाय॒ नमः॑ स॒म्राजे᳚ । अषा॑ढो [अषा॑ढः, अ॒ग्निर्बृ॒हद्व॑या] 43
अ॒ग्निर्बृ॒हद्व॑या विश्व॒जि-थ्सह॑न्त्य॒-श्श्रेष्ठो॑ गन्ध॒र्वः । त्वत्पि॑तारो अग्ने दे॒वा-स्त्वामा॑हुतय॒-स्त्वद्वि॑वाचनाः । स-म्मामायु॑षा॒ स-ङ्गौ॑प॒त्येन॒ सुहि॑ते मा धाः ॥ अ॒यम॒ग्नि-श्श्रेष्ठ॑तमो॒ ऽय-म्भग॑वत्तमो॒ ऽयग्ं स॑हस्र॒सात॑मः । अ॒स्मा अ॑स्तु सु॒वीर्य᳚म् ॥ मनो॒ ज्योति॑-र्जुषता॒माज्यं॒ ँविच्छि॑न्नं-यँ॒ज्ञग्ं समि॒म-न्द॑धातु । या इ॒ष्टा उ॒षसो॑ नि॒म्रुच॑श्च॒ ता-स्स-न्द॑धामि ह॒विषा॑ घृ॒तेन॑ ॥ पय॑स्वती॒रोष॑धयः॒- [पय॑स्वती॒रोष॑धयः, पय॑स्व-] 44
पय॑स्वद्वी॒रुधा॒-म्पयः॑ । अ॒पा-म्पय॑सो॒ यत्पय॒स्तेन॒ मामि॑न्द्र॒ सग्ं सृ॑ज ॥ अग्ने᳚ व्रतपते व्र॒त-ञ्च॑रिष्यामि॒ तच्छ॑केय॒-न्तन्मे॑ राद्ध्यताम् ॥ अ॒ग्निग्ं होता॑रमि॒ह तग्ं हु॑वे दे॒वान्. य॒ज्ञिया॑नि॒ह यान्. हवा॑महे ॥ आ य॑न्तु दे॒वा-स्सु॑मन॒स्यमा॑ना वि॒यन्तु॑ दे॒वा ह॒विषो॑ मे अ॒स्य ॥ कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ यानि॑ घ॒र्मे क॒पाला᳚न्युपचि॒न्वन्ति॑ [ ] 45
वे॒धसः॑ । पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू वि मु॑ञ्चताम् ॥अभि॑न्नो घ॒र्मो जी॒रदा॑नु॒र्यत॒ आत्त॒स्तद॑ग॒-न्पुनः॑ । इ॒द्ध्मो वेदिः॑ परि॒धय॑श्च॒ सर्वे॑ य॒ज्ञस्या-ऽऽयु॒रनु॒ स-ञ्च॑रन्ति ॥ त्रय॑स्त्रिग्ंश॒-त्तन्त॑वो॒ ये वि॑तत्नि॒रे य इ॒मं-यँ॒ज्ञग्ग्​ स्व॒धया॒ दद॑न्ते॒ तेषा᳚-ञ्छि॒न्न-म्प्रत्ये॒त-द्द॑धामि॒ स्वाहा॑ घ॒र्मो दे॒वाग्ं अप्ये॑तु ॥ 46 ॥
(अषा॑ढ॒-ओष॑धय-उपचि॒न्वन्ति॒-पञ्च॑चत्वारिग्ंशच्च) (अ. 10)
वै॒श्वा॒न॒रो न॑ ऊ॒त्या-ऽऽ प्र या॑तु परा॒वतः॑ । अ॒ग्निरु॒क्थेन॒ वाह॑सा ॥ ऋ॒तावा॑नं-वैँश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति᳚म् । अज॑स्र-ङ्घ॒र्ममी॑महे ॥ वै॒श्वा॒न॒रस्य॑ द॒ग्ं॒सना᳚भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्य॑या क॒विः । उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्नि-र्द्यावा॑पृथि॒वी भूरि॑रेतसा ॥ पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्या-म्पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश । वै॒श्वा॒न॒र-स्सह॑सा पृ॒ष्टो अ॒ग्नि-स्सनो॒ दिवा॒ स- [दिवा॒ सः, रि॒षः पा॑तु॒ नक्त᳚म् ।] 47
रि॒षः पा॑तु॒ नक्त᳚म् ॥ जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शु-न्न गो॒पा इर्यः॒ परि॑ज्मा । वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुं-यूँ॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ॥ त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः । त्व-न्दे॒वाग्ं अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥ अ॒स्माक॑मग्ने म॒घव॑थ्सु धार॒याना॑मि क्ष॒त्रम॒जरग्ं॑ सु॒वीर्य᳚म् । व॒य-ञ्ज॑येम श॒तिनग्ं॑ सह॒स्रिणं॒-वैँश्वा॑नर॒ [वैश्वा॑नर, वाज॑मग्ने॒] 48
वाज॑मग्ने॒ तवो॒तिभिः॑ ॥ वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हिक॒-म्भुव॑नाना-मभि॒श्रीः । इ॒तो जा॒तो विश्व॑मि॒दं-विँ च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥ अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाग्ं॑सि शिश्रथः कृ॒तानि॑ ॥ उदु॑त्त॒मं-वँ॑रुण॒ पाश॑म॒स्मदवा॑-ऽध॒मं-विँम॑द्ध्य॒मग्ग्​ श्र॑थाय । अथा॑ व॒यमा॑दित्य [ ] 49
व्र॒ते तवा-ऽना॑गसो॒ अदि॑तये स्याम ॥ द॒धि॒क्राव्.ण्णो॑ अकारिष-ञ्जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ॥ सु॒र॒भिनो॒ मुखा॑ कर॒-त्प्रण॒ आयूग्ं॑षि तारिषत् ॥ आ द॑धि॒क्रा-श्शव॑स॒ पञ्च॑ कृ॒ष्टी-स्सूर्य॑ इव॒ ज्योति॑षा॒-ऽपस्त॑तान । स॒ह॒स्र॒सा-श्श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मद्ध्वा॒ समि॒मा वचाग्ं॑सि । अ॒ग्नि-र्मू॒र्धा, भुवः॑ । मरु॑तो॒ यद्ध॑वो दि॒व-स्सु॑म्ना॒यन्तो॒ हवा॑महे । आ तू न॒ [आ तू नः॑, उप॑ गन्तन ।] 50
उप॑ गन्तन ॥ या व॒-श्शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्य॒-न्तानि॑ मरुतो॒ वि य॑न्त र॒यि-न्नो॑ धत्त वृषण-स्सु॒वीर᳚म् ॥ अदि॑ति-र्न उरुष्य॒त्वदि॑ति॒-श्शर्म॑ यच्छतु । अदि॑तिः पा॒त्वग्ंह॑सः ॥ म॒हीमू॒षु मा॒तरग्ं॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम । तु॒वि॒क्ष॒त्रा-म॒जर॑न्ती-मुरू॒चीग्ं सु॒शर्मा॑ण॒मदि॑तिग्ं सु॒प्रणी॑तिम् ॥ सु॒त्रामा॑ण-म्पृथि॒वी-न्द्याम॑ने॒हसग्ं॑ सु॒शर्मा॑ण॒ मदि॑तिग्ं सु॒प्रणी॑तिम् । दैवी॒-न्नावग्ग्॑ स्वरि॒त्रा-मना॑गस॒-मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये᳚ ॥ इ॒माग्ं सु नाव॒मा-ऽरु॑हग्ं श॒तारि॑त्राग्ं श॒तस्फ्या᳚म् । अच्छि॑द्रा-म्पारयि॒ष्णुम् ॥ 51 ॥
(दिवा॒ स-स॑ह॒स्रिणं॒-वैँश्वा॑नरा-दित्य॒- तू नो ॑- ऽने॒हसग्ं॑ सु॒शर्मा॑ण॒-मेका॒न्नविग्ं॑श॒तिश्च॑ ) (अ. 11)
(दे॒वा॒सु॒राः-परा॒-भूमि॒-र्भूमि॑-रुपप्र॒यन्तः॒-स-म्प॑श्या॒-म्यय॑ज्ञः॒- स-म्प॑श्या - म्यग्निहो॒त्रं - मम॒ नाम॑-वैश्वान॒र-एका॑दश । )
(दे॒वा॒सु॒राः-क्रु॒द्धः-स-म्प॑श्यामि॒-स-म्प॑श्यामि॒-नक्त॒-मुप॑गन्त॒-नैक॑पञ्चा॒शत् । )
(दे॒वा॒सु॒राः, पा॑रयि॒ष्णुम्)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे पञ्चमः प्रश्न-स्समाप्तः ॥
Roman (IAST) Transliteration
kṛṣṇa yajurvedīya taittirīya saṃhitāyā-mprathamakāṇḍe pañcamaḥ praśnaḥ - punarādhānaṃ
o-nnamaḥ paramātmane, śrī mahāgaṇapataye namaḥ,
śrī gurubhyo namaḥ | ha॒riḥ॒ om ||
de॒vā॒su॒rā-ssaṃ​ya~̭ttā āsa॒nte de॒vā vi̭ja॒yamṷpa॒yanto॒ 'gnau vā॒maṃ-va~su॒ sa-nnya̭dadhate॒damṷ no bhaviṣyati॒ yadi̭ no je॒ṣyantīti॒ tada॒gnirnya̭kāmayata॒ tenāpā᳚krāma॒-ttadde॒vā vi॒jityā̭va॒rurṷthsamānā॒ anvā̭ya॒-ntada̭sya॒ saha॒sā-''di̭thsanta॒ so̭ 'rodī॒dyadaro̭dī॒-tta-dru॒drasya̭ rudra॒tvaṃ-ya~daśvraśī̭yata॒ ta- [tat, ra॒ja॒tagṃ] 1
dra̭ja॒tagṃ hira̭ṇyamabhava॒-ttasmā᳚-draja॒tagṃ hira̭ṇya-madakṣi॒ṇya-ma̭śru॒jagṃ hi yo ba॒r॒hiṣi॒ dadā̭ti pu॒rā-'sya̭ saṃ​va~thsa॒rā-dgṛ॒he rṷdanti॒ tasmā᳚-dba॒r॒hiṣi॒ na deya॒gṃ॒ so᳚-'gnira̭bravī-dbhā॒gya̭sā॒nyatha̭ va i॒damiti̭ punarā॒dheya̭-nte॒ keva̭la॒mitya̭bruva-nnṛ॒ddhnava॒-tkhalu॒ sa itya̭bravī॒dyo ma̭ddeva॒tya̭-ma॒gni-mā॒dadhā̭tā॒ iti॒ ta-mpū॒ṣā-''dha̭tta॒ tena̭ [ ] 2
pū॒ṣā-''rdhno॒-ttasmā᳚-tpau॒ṣṇāḥ pa॒śava̭ ucyante॒ ta-ntvaṣṭā-''dha̭tta॒ tena॒ tvaṣṭā᳚-''rdhno॒-ttasmā᳚-ttvā॒ṣṭrāḥ pa॒śava̭ ucyante॒ ta-mmanu॒rā-'dha̭tta॒ tena॒ manṷrā॒rdhno॒-ttasmā᳚nmāna॒vyaḥ̭ pra॒jā ṷcyante॒ ta-ndhā॒tā-''dha̭tta॒ tena̭ dhā॒tā-''rdhno᳚-thsaṃ​va~thsa॒ro vai dhā॒tā tasmā᳚-thsaṃ​va~thsa॒ra-mpra॒jāḥ pa॒śavo-'nu॒ pra jā̭yante॒ ya e॒va-mpṷnarā॒dheya॒syardhiṃ॒-ve~da॒- [e॒va-mpṷnarā॒dheya॒syardhiṃ॒-ve~da̭, ṛ॒dhnotye॒va] 3
-rdhnotye॒va yo᳚-'syai॒va-mba॒ndhutāṃ॒-ve~da॒ bandhṷmā-nbhavati bhāga॒dheyaṃ॒-vā~ a॒gnirāhi̭ta i॒cchamā̭naḥ pra॒jā-mpa॒śūn yaja̭māna॒syopa̭ dodrāvo॒dvāsya॒ puna॒rā da̭dhīta bhāga॒dheyḙnai॒vaina॒gṃ॒ sama̭rdhaya॒tyatho॒ śānti̭re॒vāsyai॒ṣā puna̭rvasvo॒rā da̭dhītai॒tadvai pṷnarā॒dheya̭sya॒ nakṣa̭traṃ॒-ya~-tpuna̭rvasū॒ svāyā̭me॒vaina̭-nde॒vatā̭yāmā॒dhāya̭ brahmavarca॒sī bha̭vati da॒rbhai rā da̭dhā॒tyayā̭tayāmatvāya da॒rbhairā da̭dhātya॒dbhya e॒vaina॒moṣa̭dhībhyo 'va॒ruddhyā ''dha̭tte॒ pañca̭kapālaḥ puro॒ḍāśo̭ bhavati॒ pañca॒ vā ṛ॒tava̭ ṛ॒tubhya̭ e॒vaina̭mava॒ruddhyā ''dha̭tte || 4 ||
(aśī̭yata॒ tat- tena॒-veda̭- da॒rbhaiḥ pañca̭vigṃśatiśca) (a. 1)
parā॒ vā e॒ṣa ya॒jña-mpa॒śūn va̭pati॒ yo᳚-'gnimṷdvā॒saya̭te॒ pañca̭kapālaḥ puro॒ḍāśo̭ bhavati॒ pāṅkto̭ ya॒jñaḥ pāṅktāḥ᳚ pa॒śavo̭ ya॒jñame॒va pa॒śūnava̭ rundhe vīra॒hā vā e॒ṣa de॒vānāṃ॒-yo~᳚-'gnimṷdvā॒saya̭te॒ na vā e॒tasya̭ brāhma॒ṇā ṛ̭tā॒yavaḥ̭ pu॒rā-'nna̭makṣa-npa॒ṅktyo̭ yājyānuvā॒kyā̭ bhavanti॒ pāṅkto̭ ya॒jñaḥ pāṅktaḥ॒ purṷṣo de॒vāne॒va vī॒ra-nni̭rava॒dāyā॒gni-mpuna॒rā [puna॒rā, dha॒tte॒ śa॒tākṣa̭rā bhavanti] 5
dha̭tte śa॒tākṣa̭rā bhavanti śa॒tāyuḥ॒ purṷṣa-śśa॒tendri̭ya॒ āyṷṣye॒vendri॒ye prati̭ tiṣṭhati॒ yadvā a॒gnirāhi̭to॒ nardhyate॒ jyāyo̭ bhāga॒dheya̭-nnikā॒maya̭māno॒ yadā᳚gne॒yagṃ sarva॒-mbhava̭ti॒ saivāsyardhi॒-ssaṃ-vā~ e॒tasya̭ gṛ॒he vāk sṛ̭jyate॒ yo᳚-'gnimṷdvā॒saya̭te॒ sa vāca॒gṃ॒ sagṃsṛ̭ṣṭāṃ॒-ya~ja̭māna īśva॒ro-'nu॒ parā̭bhavito॒-rvibha̭ktayo bhavanti vā॒co vidhṛ̭tyai॒ yaja̭māna॒syā-'pa̭rābhāvāya॒ [-'pa̭rābhāvāya, vibha̭kti-ṅkaroti॒] 6
vibha̭kti-ṅkaroti॒ brahmai॒va tada̭karupā॒gṃ॒śu ya̭jati॒ yathā̭ vā॒maṃ-va~sṷ vividā॒no gūha̭ti tā॒dṛge॒va tada॒gni-mprati̭ sviṣṭa॒kṛta॒-nnirā̭ha॒ yathā̭ vā॒maṃ-va~sṷ vividā॒naḥ pra̭kā॒śa-ñjiga̭miṣati tā॒dṛge॒va tadvibha̭ktimu॒ktvā pra̭yā॒jena॒ vaṣa̭ṭkarotyā॒yata̭nāde॒va naiti॒ yaja̭māno॒ vai pṷro॒ḍāśaḥ̭ pa॒śava̭ e॒te āhṷtī॒ yada॒bhitaḥ̭ puro॒ḍāśa̭me॒te āhṷtī [ ] 7
ju॒hoti॒ yaja̭māname॒vobha॒yataḥ̭ pa॒śubhiḥ॒ pari̭ gṛhṇāti kṛ॒taya̭ju॒-ssambhṛ̭tasambhāra॒ ityā̭hu॒rna sa॒mbhṛtyā᳚-ssambhā॒rā na yajuḥ̭ karta॒vya̭mityatho॒ khalṷ sa॒mbhṛtyā̭ e॒va sa̭mbhā॒rāḥ ka̭rta॒vyaṃ̭-ya~jṷ-rya॒jñasya॒ samṛ̭ddhyai punarniṣkṛ॒to ratho॒ dakṣi̭ṇā punaruthsyū॒taṃ-vā~saḥ̭ punaruthsṛ॒ṣṭo̭-'na॒ḍvā-npṷnarā॒dheya̭sya॒ samṛ̭ddhyai sa॒pta tḙ agne sa॒midhaḥ̭ sa॒pta ji॒hvā itya̭gniho॒tra-ñjṷhoti॒ yatra̭yatrai॒vāsya॒ nya̭kta॒-ntata̭ [nya̭kta॒-ntataḥ̭, e॒vaina॒mava̭ rundhe] 8
e॒vaina॒mava̭ rundhe vīra॒hā vā e॒ṣa de॒vānāṃ॒-yo~᳚-'gnimṷdvā॒saya̭te॒ tasya॒ varṷṇa e॒varṇa॒yādā᳚gnivāru॒ṇa-mekā̭daśakapāla॒manu॒ nirva̭pe॒dya-ñcai॒va hanti॒ yaścā᳚syarṇa॒yāttau bhā̭ga॒dheyḙna prīṇāti॒ nā-''rti॒mārccha̭ti॒ yaja̭mānaḥ || 9 ||
(ā-'pa̭rābhāvāya-puro॒ḍāśa̭me॒te-āhṷtī॒-tataḥ॒ -ṣaṭatrigṃ̭śacca) (a. 2)
bhūmi̭-rbhū॒mnā dyau-rva̭ri॒ṇā-'ntari̭kṣa-mmahi॒tvā | u॒pasthḙ te devyadite॒ 'gnima̭nnā॒dama॒nnādyā॒yā-''da̭dhe || ā-'ya-ṅgauḥ pṛśñi̭rakramī॒dasa̭na-nmā॒tara॒-mpunaḥ̭ | pi॒tara̭-ñca pra॒yan-thsuvaḥ̭ || tri॒gṃ॒śaddhāma॒ vi rā̭jati॒ vā-kpa̭ta॒ṅgāya̭ śiśriye | pratya̭sya vaha॒ dyubhiḥ̭ || a॒sya prā॒ṇāda̭pāna॒tya̭ntaśca̭rati roca॒nā | vya̭khya-nmahi॒ṣa-ssuvaḥ̭ || yattvā᳚ [ ] 10
kru॒ddhaḥ pa̭ro॒vapa̭ ma॒nyunā॒ yadava̭rtyā | su॒kalpa̭magne॒ tattava॒ puna॒stvoddī̭payāmasi ||yattḙ ma॒nyupa̭roptasya pṛthi॒vīmanṷ daddhva॒se | ā॒di॒tyā viśve॒ tadde॒vā vasa̭vaśca sa॒mābha̭rann || mano॒ jyoti̭-rjuṣatā॒mājyaṃ॒-vi~cchi̭nnaṃ-ya~॒jñagṃ sami॒ma-nda̭dhātu | bṛha॒spati̭stanutāmi॒ma-nno॒ viśvḙ de॒vā i॒ha mā̭dayantām || sa॒pta tḙ agne sa॒midhaḥ̭ sa॒pta ji॒hvā-ssa॒pta- [ji॒hvā-ssa॒pta, ṛṣa̭ya-ssa॒pta dhāma̭] 11
-r​ṣa̭ya-ssa॒pta dhāma̭ pri॒yāṇi̭ | sa॒pta hotrā᳚-ssapta॒dhā tvā̭ yajanti sa॒pta yonī॒rā pṛ̭ṇasvā ghṛ॒tena̭ || puna̭rū॒rjā ni va̭rtasva॒ puna̭ragna i॒ṣā-''yṷṣā | puna̭rnaḥ pāhi vi॒śvataḥ̭ || sa॒ha ra॒yyā ni va̭rta॒svāgne॒ pinva̭sva॒ dhāra̭yā | vi॒śvaphsni̭yā vi॒śvata॒spari̭ || leka॒-ssalḙka-ssu॒leka॒ste na̭ ādi॒tyā ājya̭-ñjuṣā॒ṇā vi̭yantu॒ keta॒-ssakḙta-ssu॒keta॒ste na̭ ādi॒tyā ājya̭-ñjuṣā॒ṇā vi̭yantu॒ viva̭svā॒gṃ॒ adi̭ti॒-rdeva̭jūti॒ste na̭ ādi॒tyā ājya̭-ñjuṣā॒ṇā vi̭yantu || 12 ||
(tvā॒-ji॒hvā-ssa॒pta-su॒keta॒ste na॒-strayo̭daśa ca ) (a. 3)
bhūmi̭-rbhū॒mnā dyau-rva̭ri॒ṇetyā̭hā॒-''śiṣai॒vaina॒mā dha̭tte sa॒rpā vai jīrya̭nto 'manyanta॒ sa e॒ta-ṅka̭sa॒rṇīraḥ̭ kādrave॒yo mantra̭mapaśya॒-ttato॒ vai te jī॒rṇāsta॒nūrapā᳚ghnata sarparā॒jñiyā̭ ṛ॒gbhi-rgār​ha̭patya॒mā da̭dhāti punarna॒vame॒vaina̭ma॒jara̭-ṅkṛ॒tvā ''dha॒tte-'tho̭ pū॒tame॒va pṛ̭thi॒vīma॒nnādya॒-nnopā̭-'nama॒thsaita- [nopā̭-'nama॒thsaitam, mantra̭mapaśya॒-ttato॒ vai] 13
-mmantra̭mapaśya॒-ttato॒ vai tāma॒nnādya॒-mupā̭nama॒dyath -sa̭rparā॒jñiyā̭ ṛ॒gbhi-rgār​ha̭patya-mā॒dadhā᳚tya॒nnādya॒syāva̭ruddhyā॒ atho̭ a॒syāme॒vaina॒-mprati̭ṣṭhita॒mā dha̭tte॒ yattvā᳚ kru॒ddhaḥ pa̭ro॒vapetyā॒hāpa̭hnuta e॒vāsmai॒ ta-tpuna॒stvoddī̭payāma॒sītyā̭ha॒ sami̭ndha e॒vainaṃ॒-ya~ttḙ ma॒nyupa̭ropta॒syetyā̭ha de॒vatā̭bhire॒vai- [de॒vatā̭bhire॒va, e॒na॒gṃ॒ sa-mbha̭rati॒ vi vā] 14
-na॒gṃ॒ sa-mbha̭rati॒ vi vā e॒tasya̭ ya॒jñaśchi̭dyate॒ yo᳚-'gnimṷdvā॒saya̭te॒ bṛha॒spati̭vatya॒rcopa̭ tiṣṭhate॒ brahma॒ vai de॒vānā॒-mbṛha॒spati॒-rbrahma̭ṇai॒va ya॒jñagṃ sa-nda̭dhāti॒ vicchi̭nnaṃ-ya~॒jñagṃ sami॒ma-nda̭dhā॒tvityā̭ha॒ santa̭tyai॒ viśvḙ de॒vā i॒ha mā̭dayantā॒mityā̭ha sa॒ntatyai॒va ya॒jña-nde॒vebhyo-'nṷ diśati sa॒pta tḙ agne sa॒midhaḥ̭ sa॒pta ji॒hvā [ji॒hvāḥ, ityā̭ha] 15
ityā̭ha sa॒ptasa̭pta॒ vai sa̭pta॒dhā-'gneḥ pri॒yāsta॒nuva॒stā e॒vāva̭ rundhe॒ puna̭rū॒rjā sa॒ha ra॒yyetya॒bhitaḥ̭ puro॒ḍāśa॒māhṷtī juhoti॒ yaja̭māname॒vorjā ca̭ ra॒yyā co̭bha॒yataḥ॒ pari̭ gṛhṇātyādi॒tyā vā a॒smāllo॒kāda॒muṃ-lo~॒kamā̭ya॒-ntḙ-'muṣmi̭n ~lo॒ke vya̭tṛṣya॒-nta i॒maṃ-lo~॒ka-mpuna̭rabhya॒vetyā॒ 'gnimā॒dhāyai॒-tān. homā̭najuhavu॒sta ā᳚rdhnuva॒-nte sṷva॒rgaṃ-lo~॒kamā̭ya॒n॒. yaḥ pa̭rā॒cīna̭-mpunarā॒dheyā̭da॒gnimā॒dadhī̭ta॒ sa e॒tān. homā᳚n juhuyā॒dyāme॒vā-''di॒tyā ṛddhi॒mārdhnṷva॒-ntāme॒vardhno̭ti || 16 ||
(saitaṃ-de॒vatā̭bhire॒va-ji॒hvā-e॒tān-pañca̭vigṃśatiśca ) (a. 4)
u॒pa॒pra॒yanto̭ addhva॒ra-mmantraṃ̭-vo~cemā॒gnaye᳚ | ā॒re a॒sme ca̭ śṛṇva॒te || a॒sya pra॒tnāmanu॒ dyutagṃ̭ śu॒kra-ndṷduhre॒ ahra̭yaḥ | payaḥ̭ sahasra॒sāmṛṣi᳚m || a॒gni-rmū॒rdhā di॒vaḥ ka॒kutpatiḥ̭ pṛthi॒vyā a॒yam | a॒pāgṃ retāgṃ̭si jinvati || a॒yami॒ha pra̭tha॒mo dhā̭yi dhā॒tṛbhi॒r॒ hotā॒ yaji̭ṣṭho adhva॒reṣvīḍyaḥ̭ || yamapna̭vāno॒ bhṛga̭vo viruru॒curvanḙṣu ci॒traṃ-vi~॒bhuvaṃ̭-vi~॒śevi̭śe || u॒bhā vā̭mindrāgnī āhu॒vaddhyā̭ [āhu॒vaddhyai᳚, u॒bhā] 17
u॒bhā rādha̭sa-ssa॒ha mā̭da॒yaddhyai᳚ | u॒bhā dā॒tārā̭vi॒ṣāgṃ ra̭yī॒ṇāmu॒bhā vāja̭sya sā॒tayḙ huve vām || a॒ya-nte॒ yoni̭r-ṛ॒tviyo॒ yato̭ jā॒to aro̭cathāḥ | ta-ñjā॒nanna̭gna॒ ā ro॒hāthā̭ no vardhayā ra॒yim || agna॒ āyūgṃ̭ṣi pavasa॒ ā su॒vorja॒miṣa̭-ñca naḥ | ā॒re bā̭dhasva du॒cchunā᳚m || agne॒ pava̭sva॒ svapā̭ a॒sme varcaḥ̭ su॒vīrya᳚m | dadha॒tpoṣagṃ̭ ra॒yi- [ra॒yim, mmayi̭ |] 18
-mmayi̭ || agnḙ pāvaka ro॒ciṣā̭ ma॒ndrayā̭ deva ji॒hvayā᳚ | ā de॒vān. va̭kṣi॒ yakṣi̭ ca || sa naḥ̭ pāvaka dīdi॒vo-'gnḙ de॒vāgṃ i॒hā ''va̭ha | upa̭ ya॒jñagṃ ha॒viśca̭ naḥ || a॒gni-śśuci̭vratatama॒-śśuci॒-rvipra॒-śśuciḥ̭ ka॒viḥ | śucī̭ rocata॒ āhṷtaḥ || uda̭gne॒ śuca̭ya॒stava̭ śu॒krā bhrāja̭nta īrate | tava॒ jyotīg̭ṣya॒rcayaḥ̭ || ā॒yu॒rdā a̭gne॒-'syāyṷrme [a̭gne॒-'syāyṷrme, de॒hi॒ va॒rco॒dā] 19
dehi varco॒dā a̭gne-'si॒ varco̭ me dehi tanū॒pā a̭gne-'si ta॒nuva̭-mme pā॒hyagne॒ yanmḙ ta॒nuvā̭ ū॒na-ntanma॒ ā pṛ̭ṇa॒ citrā̭vaso sva॒sti tḙ pā॒rama̭śī॒yendhā̭nāstvā śa॒tagṃ himā᳚ dyu॒manta॒-ssami̭dhīmahi॒ vaya̭svanto vaya॒skṛtaṃ॒-ya~śa̭svanto yaśa॒skṛtagṃ̭ su॒vīrā̭so॒ adā᳚bhyam | agnḙ sapatna॒dambha̭naṃ॒-va~r​ṣi̭ṣṭhe॒ adhi॒ nāke᳚ || sa-ntvama̭gne॒ sūrya̭sya॒ varca̭sā 'gathā॒-ssamṛṣī̭ṇāg​ stu॒tena॒ sa-mpri॒yeṇa॒ dhāmnā᳚ | tvama̭gne॒ sūrya̭varcā asi॒ sa-mmāmāyṷṣā॒ varca̭sā pra॒jayā̭ sṛja || 20 ||
(ā॒hu॒vaddhyai॒-poṣagṃ̭ ra॒yiṃ-me॒-varca̭sā-sa॒ptada̭śa ca ) (a. 5)
sa-mpa̭śyāmi pra॒jā a॒ha-miḍa̭prajaso māna॒vīḥ | sarvā̭ bhavantu no gṛ॒he | ambha॒-ssthāmbho̭ vo bhakṣīya॒ mahaḥ̭ stha॒ maho̭ vo bhakṣīya॒ sahaḥ̭ stha॒ saho̭ vo bhakṣī॒yorja॒-ssthorjaṃ̭-vo~ bhakṣīya॒ reva̭tī॒ rama̭ddhva-ma॒smin ~lo॒ke᳚-'smi-ngo॒ṣṭhe᳚-'smin kṣaye॒-'smin yonā̭vi॒haiva ste॒to mā-'pa̭ gāta ba॒hvīrmḙ bhūyāsta [bhūyāsta, sa॒gṃ॒hi॒tā-'si̭] 21
sagṃhi॒tā-'si̭ viśvarū॒pīrā mo॒rjā vi॒śā ''gaṷpa॒tyenā ''rā॒yaspoṣḙṇa sahasrapo॒ṣaṃ-vaḥ̭ ~puṣyāsa॒-mmayi̭ vo॒ rāyaḥ̭ śrayantām || upa̭ tvā-'gne di॒vedi̭ve॒ doṣā̭vastardhi॒yā va॒yam | namo॒ bhara̭nta॒ ema̭si || rāja̭ntamaddhva॒rāṇā᳚-ṅgo॒pāmṛ॒tasya॒ dīdi̭vim | vardha̭māna॒gg॒ sve dame᳚ || sa naḥ̭ pi॒teva̭ sū॒nave-'gnḙ sūpāya॒no bha̭va | saca̭svā na-ssva॒staye᳚ || agne॒ [agne᳚, tva-nno॒ anta̭maḥ |] 22
tva-nno॒ anta̭maḥ | u॒ta trā॒tā śi॒vo bha̭va varū॒tthyaḥ̭ || ta-ntvā̭ śociṣṭha dīdivaḥ | su॒mnāya̭ nū॒namī̭mahe॒ sakhi̭bhyaḥ || vasṷra॒gni-rvasṷśravāḥ | acchā̭ nakṣi dyu॒matta̭mo ra॒yi-ndāḥ᳚ || ū॒rjā vaḥ̭ paśyāmyū॒rjā mā̭ paśyata rā॒yaspoṣḙṇa vaḥ paśyāmi rā॒yaspoṣḙṇa mā paśya॒teḍā᳚-sstha madhu॒kṛtaḥ̭ syo॒nā mā ''vi̭śa॒terā॒ madaḥ̭ | sa॒ha॒sra॒po॒ṣaṃ-vaḥ̭ ~puṣyāsa॒- [puṣyāsa॒m, mayi̭] 23
mmayi̭ vo॒ rāyaḥ̭ śrayantām || tathsa̭vi॒tu-rvare᳚ṇya॒-mbhargo̭ de॒vasya̭ dhīmahi | dhiyo॒ yonaḥ̭ praco॒dayā᳚t || so॒māna॒gg॒ svara̭ṇa-ṅkṛṇu॒hi bra̭hmaṇaspate | ka॒kṣīva̭ntaṃ॒-ya~ aṷśi॒jam || ka॒dā ca॒na sta॒rīra̭si॒ nendra̭ saścasi dā॒śuṣe᳚ || upo॒pennu ma̭ghava॒-nbhuya॒ innu te॒ dāna̭-nde॒vasya̭ pṛcyate || pari̭ tvā-'gne॒ puraṃ̭-va~॒yaṃ-vi~pragṃ̭ sahasya dhīmahi || dhṛ॒ṣadva̭rṇa-ndi॒vedi̭ve bhe॒ttāra̭-mbhaṅgu॒rāva̭taḥ || agnḙ gṛhapate sugṛhapa॒tira॒ha-ntvayā̭ gṛ॒hapa̭tinā bhūyāsagṃ sugṛhapa॒tirmayā॒ tva-ṅgṛ॒hapa̭tinā bhūyā-śśa॒tagṃ himā॒stāmā॒śiṣa॒mā śā̭se॒ tanta̭ve॒ jyoti̭ṣmatī॒-ntāmā॒śiṣa॒mā śā̭se॒-'muṣmai॒ jyoti̭ṣmatīm || 24 ||
(bhū॒yā॒sta॒-sva॒staye-'gnḙ-puṣyāsaṃ-dhṛ॒ṣadva̭rṇa॒-mekā॒nnatri॒gṃ॒śacca̭ ) (a. 6)
aya̭jño॒ vā e॒ṣa yo̭-'sā॒mopa̭pra॒yanto̭ addhva॒ramityā̭ha॒ stoma̭me॒vāsmai̭ yuna॒ktyupetyā̭ha pra॒jā vai pa॒śava॒ upe॒maṃ-lo~॒ka-mpra॒jāme॒va pa॒śūni॒maṃ-lo~॒kamupai᳚tya॒sya pra॒tnāmanu॒ dyuta॒mityā̭ha suva॒rgo vai lo॒kaḥ pra॒tna-ssṷva॒rgame॒va lo॒kagṃ sa॒māro̭hatya॒gni-rmū॒rdhā di॒vaḥ ka॒kudityā̭ha mū॒rdhāna̭- [mū॒rdhāna᳚m, e॒vainagṃ̭] 25
me॒vainagṃ̭ samā॒nānā᳚-ṅkaro॒tyatho̭ devalo॒kāde॒va ma̭nuṣyalo॒ke prati̭ tiṣṭhatya॒yami॒ha pra̭tha॒mo dhā̭yi dhā॒tṛbhi॒rityā̭ha॒ mukhya̭me॒vaina̭-ṅkarotyu॒bhā vā̭mindrāgnī āhu॒vaddhyā॒ ityā॒haujo॒ bala̭me॒vāva̭ rundhe॒ 'ya-nte॒ yoni̭r-ṛ॒tviya॒ ityā̭ha pa॒śavo॒ vai ra॒yiḥ pa॒śūne॒vāva̭ rundhe ṣa॒ḍbhirupa̭ tiṣṭhate॒ ṣaḍvā [ṣaḍvai, ṛ॒tava̭ ṛ॒tuṣve॒va] 26
ṛ॒tava̭ ṛ॒tuṣve॒va prati̭ tiṣṭhati ṣa॒ḍbhirutta̭rābhi॒rupa̭ tiṣṭhate॒ dvāda̭śa॒ sa-mpa̭dyante॒ dvāda̭śa॒ māsā᳚-ssaṃ​va~thsa॒ra-ssaṃ̭~vathsa॒ra e॒va prati̭ tiṣṭhati॒ yathā॒ vai puru॒ṣo-'śvo॒ gau-rjīrya̭tye॒va-ma॒gnirāhi̭to jīryati saṃ​va~thsa॒rasya̭ pa॒rastā̭dāgnipāvamā॒nībhi॒-rupa̭ tiṣṭhate punarna॒va-me॒vaina̭-ma॒jara̭-ṅkaro॒tyatho̭ pu॒nātye॒vopa̭ tiṣṭhate॒ yoga̭ e॒vāsyai॒ṣa upa̭ tiṣṭhate॒ [upa̭ tiṣṭhate, dama̭ e॒vāsyai॒ṣa] 27
dama̭ e॒vāsyai॒ṣa upa̭ tiṣṭhate yācñaivā-'syai॒ṣopa̭ tiṣṭhate॒ yathā॒ pāpī̭yā॒ñchreya̭sa ā॒hṛtya̭ nama॒syati̭ tā॒dṛge॒va tadā̭yu॒rdā a̭gne॒-'syāyṷrme de॒hītyā̭hā-''yu॒rdā hyḙṣa va̭rco॒dā a̭gne-'si॒ varco̭ me de॒hītyā̭ha varco॒dā hyḙṣa ta̭nū॒pā a̭gne-'si ta॒nuva̭-mme pā॒hītyā̭ha [pā॒hītyā̭ha, ta॒nū॒pā] 28
tanū॒pā hyḙṣo-'gne॒ yanmḙ ta॒nuvā̭ ū॒na-ntanma॒ ā pṛ॒ṇetyā̭ha॒ yanme᳚ pra॒jāyai̭ paśū॒nāmū॒na-ntanma॒ ā pṷ̄ra॒yeti॒ vāvaitadā̭ha॒ citrā̭vaso sva॒sti tḙ pā॒rama̭śī॒yetyā̭ha॒ rātri॒-rvai ci॒trāva̭su॒ravyṷṣṭyai॒ vā e॒tasyai̭ pu॒rā brā᳚hma॒ṇā a̭bhaiṣu॒-rvyṷṣṭime॒vāva̭ rundha॒ indhā̭nāstvā śa॒tagṃ [śa॒tam, himā॒ ityā̭ha] 29
himā॒ ityā̭ha śa॒tāyuḥ॒ purṷṣa-śśa॒tendri̭ya॒ āyṷṣye॒vendri॒ye prati̭ tiṣṭhatye॒ṣā vai sū॒rmī karṇa̭kāvatye॒tayā̭ ha sma॒ vai de॒vā asṷrāṇāgṃ śatata॒r॒hāg​ stṛgṃ̭hanti॒ yade॒tayā̭ sa॒midha̭mā॒dadhā̭ti॒ vajra̭me॒vaitaccha̭ta॒ghnīṃ-ya~ja̭māno॒ bhrātṛ̭vyāya॒ pra ha̭rati॒ stṛtyā॒ acha̭mbaṭkāra॒gṃ॒ sa-ntvama̭gne॒ sūrya̭sya॒ varca̭sā-'gathā॒ ityā̭hai॒tattvamasī॒dama॒ha-mbhṷ̄yāsa॒miti॒ vāvaitadā̭ha॒ tvama̭gne॒ sūrya̭varcā a॒sītyā̭hā॒-''śiṣa̭me॒vaitāmā śā᳚ste || 30 ||
(mū॒rdhāna॒gṃ॒-ṣaḍvā-e॒ṣa upa̭ tiṣṭhate-pā॒hītyā̭ha-śa॒ta-ma॒hagṃ ṣoḍa̭śa ca) (a. 7)
sa-mpa̭śyāmi pra॒jā a॒hamityā̭ha॒ yāva̭nta e॒va grā॒myāḥ pa॒śava॒stāne॒vāva̭ ru॒ndhe-'mbha॒-ssthāmbho̭ vo bhakṣī॒yetyā॒hāmbho॒ hyḙtā mahaḥ̭ stha॒ maho̭ vo bhakṣī॒yetyā̭ha॒ maho॒ hyḙtā-ssahaḥ̭ stha॒ saho̭ vo bhakṣī॒yetyā̭ha॒ saho॒ hyḙtā ūrja॒-ssthorjaṃ̭-vo~ bhakṣī॒ye- [bhakṣī॒yeti̭, ā॒horjo॒ hyḙtā] 31
-tyā॒horjo॒ hyḙtā reva̭tī॒ rama̭ddhva॒mityā̭ha pa॒śavo॒ vai re॒vatīḥ᳚ pa॒śūne॒vātma-nra̭mayata i॒haiva ste॒to mā-'pa̭ gā॒tetyā̭ha dhru॒vā e॒vainā॒ ana̭pagāḥ kuruta iṣṭaka॒cidvā a॒nyo᳚-'gniḥ pa̭śu॒cida॒nya-ssagṃ̭hi॒tāsi̭ viśvarū॒pīriti̭ va॒thsama॒bhi mṛ̭śa॒tyupai॒vaina̭-ndhatte paśu॒cita̭mena-ṅkurute॒ pra [ ] 32
vā e॒ṣo᳚-'smāllo॒kāccya̭vate॒ ya ā̭hava॒nīya̭-mupa॒tiṣṭha̭te॒ gār​ha̭patya॒mupa̭ tiṣṭhate॒ 'sminne॒va lo॒ke prati̭ tiṣṭha॒tyatho॒ gār​ha̭patyāyai॒va ni hnṷte gāya॒trībhi॒rupa̭ tiṣṭhate॒ tejo॒ vai gā̭ya॒trī teja̭ e॒vātma-ndha॒tte-'tho॒ yade॒ta-ntṛ॒cama॒nvāha॒ santa̭tyai॒ gār​ha̭patyaṃ॒-vā~ anṷ dvi॒pādo̭ vī॒rāḥ pra jā̭yante॒ ya e॒vaṃ-vi~॒dvā-ndvi॒padā̭bhi॒-rgār​ha̭patya-mupa॒tiṣṭha̭ta॒ [mupa॒tiṣṭha̭te, ā-'sya̭] 33
ā-'sya̭ vī॒ro jā̭yata ū॒rjā vaḥ̭ paśyāmyū॒rjā mā̭ paśya॒tetyā̭hā॒ ''śiṣa̭me॒vaitāmā śā᳚ste॒ tathsa̭vi॒tu-rvare᳚ṇya॒mityā̭ha॒ prasū᳚tyai so॒māna॒gg॒ svara̭ṇa॒mityā̭ha somapī॒thame॒vāva̭ rundhe kṛṇu॒hi bra̭hmaṇaspata॒ ityā̭ha brahmavarca॒same॒vāva̭ rundhe ka॒dā ca॒na sta॒rīra॒sītyā̭ha॒ na sta॒rīgṃ rātriṃ̭-va~sati॒ [rātriṃ̭-va~sati, ya e॒vaṃ] 34
ya e॒vaṃ-vi~॒dvāna॒gni-mṷpa॒tiṣṭha̭te॒ pari̭ tvā-'gne॒ puraṃ̭-va~॒yamityā̭ha pari॒dhime॒vaita-mpari̭ dadhā॒tyaska̭ndā॒yāgnḙ gṛhapata॒ ityā̭ha yathāya॒jure॒vaitaccha॒tagṃ himā॒ ityā̭ha śa॒ta-ntvā̭ hema॒ntāni̭ndhiṣī॒yeti॒ vāvaitadā̭ha pu॒trasya॒ nāma̭ gṛhṇātyannā॒dame॒vaina̭-ṅkaroti॒ tāmā॒śiṣa॒mā śā̭se॒ tanta̭ve॒ jyoti̭ṣmatī॒miti̭ brūyā॒dyasya̭ pu॒tro-'jā̭ta॒-ssyā-ttḙja॒svyḙvāsya̭ brahmavarca॒sī pu॒tro jā̭yate॒ tāmā॒śiṣa॒mā śā̭se॒ 'muṣmai॒ jyoti̭ṣmatī॒ miti̭ brūyā॒dyasya̭ pu॒tro jā॒ta-ssyā-tteja̭ e॒vāsmi̭-nbrahmavarca॒sa-nda̭dhāti || 35 ||
(ūrjaṃ̭-vo~ bhakṣī॒yeti॒ - pra -gār​ha̭patyamupa॒tiṣṭha̭te -vasati॒-jyoti̭ṣmatī॒ - mekā॒nnatri॒gṃ॒śacca̭) (a. 8)
a॒gni॒ho॒tra-ñjṷhoti॒ yade॒va ki-ñca॒ yaja̭mānasya॒ sva-ntasyai॒va tadretaḥ̭ siñcati pra॒jana̭ne pra॒jana̭na॒gṃ॒ hi vā a॒gnirathauṣa̭dhī॒ranta̭gatā dahati॒ tāstato॒ bhūya̭sīḥ॒ pra jā̭yante॒ yathsā॒ya-ñju॒hoti॒ reta̭ e॒va tathsi̭ñcati॒ praiva prā̭ta॒stanḙna janayati॒ tadretaḥ̭ si॒kta-nna tvaṣṭrā-'vi̭kṛta॒-mprajā̭yate yāva॒ccho vai reta̭sa-ssi॒ktasya॒ [reta̭sa-ssi॒ktasya̭, tvaṣṭā̭ rū॒pāṇi̭] 36
tvaṣṭā̭ rū॒pāṇi̭ vika॒roti̭ tāva॒ccho vai tatpra jā̭yata e॒ṣa vai daivya॒stvaṣṭā॒ yo yaja̭te ba॒hvībhi॒rupa̭ tiṣṭhate॒ reta̭sa e॒va si॒ktasya̭ bahu॒śo rū॒pāṇi॒ vi ka̭roti॒ sa praiva jā̭yate॒ śvasśvo॒ bhūyā᳚-nbhavati॒ ya e॒vaṃ ~vi॒dvāna॒gnimṷpa॒tiṣṭha॒te 'ha̭rde॒vānā॒māsī॒-d- rātri॒rasṷrāṇā॒-nte-'sṷrā॒ yadde॒vānāṃ᳚-vi~॒ttaṃ ~vedya॒māsī॒ttena̭ sa॒ha [ ] 37
rātri॒-mprā-'vi̭śa॒nte de॒vā hī॒nā a̭manyanta॒ tḙ-'paśyannāgne॒yī rātri̭rāgne॒yāḥ pa॒śava̭ i॒mame॒vāgnigg​ sta̭vāma॒ sa naḥ̭ stu॒taḥ pa॒śū-npuna̭rdāsya॒tīti॒ te᳚-'gnima̭stuva॒n-thsa e᳚bhya-sstu॒to rātri̭yā॒ addhyaha̭ra॒bhi pa॒śūnnirā᳚rja॒tte de॒vāḥ pa॒śūn vi॒ttvā kāmāgṃ̭ akurvata॒ ya e॒vaṃ-vi~॒dvāna॒gnimṷpa॒tiṣṭha̭te paśu॒mā-nbha̭va- [paśu॒mā-nbha̭vati, ā॒di॒tyo] 38
-tyādi॒tyo vā a॒smāllo॒kāda॒muṃ-lo~॒kamai॒thso̭-'muṃ-lo~॒ka-ṅga॒tvā puna̭ri॒maṃ-lo~॒kama॒bhya̭ddhyāya॒-thsa i॒maṃ-lo~॒kamā॒gatya̭ mṛ॒tyora̭bibhenmṛ॒tyusaṃ̭​yu~ta iva॒ hya̭yaṃ-lo~॒ka-sso̭-'manyate॒ma-me॒vāgnigg​ sta̭vāni॒ sa mā᳚ stu॒ta-ssṷva॒rgaṃ-lo~॒ka-ṅga̭mayiṣya॒tīti॒ so᳚-'gnima̭stau॒-thsa ḙnagg​ stu॒ta-ssṷva॒rgaṃ-lo~॒kama̭gamaya॒dya [lo॒kama̭gamaya॒dyaḥ, e॒vaṃ-vi~॒dvāna॒gni-] 39
e॒vaṃ-vi~॒dvāna॒gnimṷpa॒tiṣṭha̭te suva॒rgame॒va lo॒kamḙti॒ sarva॒māyṷretya॒bhi vā e॒ṣo᳚-'gnī ā ro̭hati॒ ya ḙnāvupa॒tiṣṭha̭te॒ yathā॒ khalu॒ vai śreyā̭na॒bhyārṷ̄ḍhaḥ kā॒maya̭te॒ tathā̭ karoti॒ nakta॒mupa̭ tiṣṭhate॒ na prā॒ta-ssagṃ hi naktaṃ̭-vra~॒tāni̭ sṛ॒jyantḙ sa॒ha śreyāg̭śca॒ pāpī̭yāg​ścāsāte॒ jyoti॒rvā a॒gnistamo॒ rātri॒rya- [rātri॒ryat, nakta̭mupa॒tiṣṭha̭te॒] 40
-nnakta̭mupa॒tiṣṭha̭te॒ jyoti̭ṣai॒va tama̭staratyupa॒stheyo॒ 'gnī(3)-rnopa॒stheyā(3) ityā̭hu-rmanu॒ṣyā̭yennvai yo-'ha̭raharā॒hṛtyā-'thai̭naṃ॒-yā~ca̭ti॒ sa innvai tamupā᳚rccha॒tyatha॒ ko de॒vānaha̭raharyāciṣya॒tīti॒ tasmā॒nnopa॒stheyo 'tho॒ khalvā̭hurā॒śiṣe॒ vai kaṃ-ya~ja̭māno yajata॒ itye॒ṣā khalu॒ vā [khalu॒ vai, āhi̭tāgne-] 41
āhi̭tāgne rā॒śī-ryada॒gnimṷpa॒tiṣṭha̭te॒ tasmā̭dupa॒stheyaḥ̭ pra॒jāpa̭tiḥ pa॒śūna̭sṛjata॒ te sṛ॒ṣṭā a̭horā॒tre prā-'vi̭śa॒-ntāñchando̭bhi॒-ranva̭̭vinda॒-dyacchando̭bhi-rupa॒tiṣṭha̭te॒ svame॒va tadanvi̭cchati॒ na tatra̭ jā॒mya̭stītyā̭hu॒ryo-'ha̭raharupa॒ tiṣṭha̭ta॒ iti॒ yo vā a॒gni-mpra॒tyaṅṅṷpa॒ tiṣṭha̭te॒ pratyḙnamoṣati॒ yaḥ parāṃ॒-vi~ṣva̭-mpra॒jayā̭ pa॒śubhi̭ reti॒ kavā̭tiryaṅṅi॒vopa̭ tiṣṭheta॒ naina̭-mpra॒tyoṣa̭ti॒ na viṣva̭-mpra॒jayā̭ pa॒śubhi̭reti || 42 ||
(si॒ktasya̭-sa॒ha-bha̭vati॒-yo-yat-khalu॒ vai-pa॒śubhi॒-strayo̭daśa ca) (a. 9)
mama॒ nāma̭ pratha॒ma-ñjā̭tavedaḥ pi॒tā mā॒tā ca̭ dadhatu॒ryadagre᳚ | tattva-mbi̭bhṛhi॒ puna॒rā madaito॒stavā॒ha-nnāma̭ bibharāṇyagne || mama॒ nāma॒ tava̭ ca jātavedo॒ vāsa̭sī iva vi॒vasā̭nau॒ ye carā̭vaḥ | āyṷṣe॒ tva-ñjī॒vasḙ va॒yaṃ-ya~̭thāya॒thaṃ-vi~ pari̭ dadhāvahai॒ puna॒ste || namo॒-'gnaye 'pra̭tividdhāya॒ namo-'nā̭dhṛṣṭāya॒ namaḥ̭ sa॒mrāje᳚ | aṣā̭ḍho [aṣā̭ḍhaḥ, a॒gnirbṛ॒hadva̭yā] 43
a॒gnirbṛ॒hadva̭yā viśva॒ji-thsaha̭ntya॒-śśreṣṭho̭ gandha॒rvaḥ | tvatpi̭tāro agne de॒vā-stvāmā̭hutaya॒-stvadvi̭vācanāḥ | sa-mmāmāyṷṣā॒ sa-ṅgaṷpa॒tyena॒ suhi̭te mā dhāḥ || a॒yama॒gni-śśreṣṭha̭tamo॒ 'ya-mbhaga̭vattamo॒ 'yagṃ sa̭hasra॒sāta̭maḥ | a॒smā a̭stu su॒vīrya᳚m || mano॒ jyoti̭-rjuṣatā॒mājyaṃ॒ ~vicchi̭nnaṃ-ya~॒jñagṃ sami॒ma-nda̭dhātu | yā i॒ṣṭā u॒ṣaso̭ ni॒mruca̭śca॒ tā-ssa-nda̭dhāmi ha॒viṣā̭ ghṛ॒tena̭ || paya̭svatī॒roṣa̭dhayaḥ॒- [paya̭svatī॒roṣa̭dhayaḥ, paya̭sva-] 44
paya̭svadvī॒rudhā॒-mpayaḥ̭ | a॒pā-mpaya̭so॒ yatpaya॒stena॒ māmi̭ndra॒ sagṃ sṛ̭ja || agne᳚ vratapate vra॒ta-ñca̭riṣyāmi॒ taccha̭keya॒-ntanmḙ rāddhyatām || a॒gnigṃ hotā̭rami॒ha tagṃ hṷve de॒vān. ya॒jñiyā̭ni॒ha yān. havā̭mahe || ā ya̭ntu de॒vā-ssṷmana॒syamā̭nā vi॒yantṷ de॒vā ha॒viṣo̭ me a॒sya || kastvā̭ yunakti॒ sa tvā̭ yunaktu॒ yāni̭ gha॒rme ka॒pālā᳚nyupaci॒nvanti̭ [ ] 45
ve॒dhasaḥ̭ | pū॒ṣṇastānyapi̭ vra॒ta i̭ndravā॒yū vi mṷñcatām ||abhi̭nno gha॒rmo jī॒radā̭nu॒ryata॒ ātta॒stada̭ga॒-npunaḥ̭ | i॒ddhmo vediḥ̭ pari॒dhaya̭śca॒ sarvḙ ya॒jñasyā-''yu॒ranu॒ sa-ñca̭ranti || traya̭strigṃśa॒-ttanta̭vo॒ ye vi̭tatni॒re ya i॒maṃ-ya~॒jñagg​ sva॒dhayā॒ dada̭nte॒ teṣā᳚-ñchi॒nna-mpratye॒ta-dda̭dhāmi॒ svāhā̭ gha॒rmo de॒vāgṃ apyḙtu || 46 ||
(aṣā̭ḍha॒-oṣa̭dhaya-upaci॒nvanti॒-pañca̭catvārigṃśacca) (a. 10)
vai॒śvā॒na॒ro na̭ ū॒tyā-'' pra yā̭tu parā॒vataḥ̭ | a॒gniru॒kthena॒ vāha̭sā || ṛ॒tāvā̭naṃ-vai~śvāna॒ramṛ॒tasya॒ jyoti̭ṣa॒spati᳚m | aja̭sra-ṅgha॒rmamī̭mahe || vai॒śvā॒na॒rasya̭ da॒gṃ॒sanā᳚bhyo bṛ॒hadari̭ṇā॒dekaḥ̭ svapa॒sya̭yā ka॒viḥ | u॒bhā pi॒tarā̭ ma॒haya̭nnajāyatā॒gni-rdyāvā̭pṛthi॒vī bhūri̭retasā || pṛ॒ṣṭo di॒vi pṛ॒ṣṭo a॒gniḥ pṛ̭thi॒vyā-mpṛ॒ṣṭo viśvā॒ oṣa̭dhī॒rā vi̭veśa | vai॒śvā॒na॒ra-ssaha̭sā pṛ॒ṣṭo a॒gni-ssano॒ divā॒ sa- [divā॒ saḥ, ri॒ṣaḥ pā̭tu॒ nakta᳚m |] 47
ri॒ṣaḥ pā̭tu॒ nakta᳚m || jā॒to yada̭gne॒ bhuva̭nā॒ vyakhyaḥ̭ pa॒śu-nna go॒pā iryaḥ॒ pari̭jmā | vaiśvā̭nara॒ brahma̭ṇe vinda gā॒tuṃ-yū~॒ya-mpā̭ta sva॒stibhi॒-ssadā̭ naḥ || tvama̭gne śo॒ciṣā॒ śośṷcāna॒ ā roda̭sī apṛṇā॒ jāya̭mānaḥ | tva-nde॒vāgṃ a॒bhiśa̭steramuñco॒ vaiśvā̭nara jātavedo mahi॒tvā || a॒smāka̭magne ma॒ghava̭thsu dhāra॒yānā̭mi kṣa॒trama॒jaragṃ̭ su॒vīrya᳚m | va॒ya-ñja̭yema śa॒tinagṃ̭ saha॒sriṇaṃ॒-vai~śvā̭nara॒ [vaiśvā̭nara, vāja̭magne॒] 48
vāja̭magne॒ tavo॒tibhiḥ̭ || vai॒śvā॒na॒rasya̭ suma॒tau syā̭ma॒ rājā॒ hika॒-mbhuva̭nānā-mabhi॒śrīḥ | i॒to jā॒to viśva̭mi॒daṃ-vi~ ca̭ṣṭe vaiśvāna॒ro ya̭tate॒ sūryḙṇa || ava̭ te॒ heḍo̭ varuṇa॒ namo̭bhi॒rava̭ ya॒jñebhi̭rīmahe ha॒virbhiḥ̭ | kṣaya̭nna॒smabhya̭masura praceto॒ rāja॒nnenāgṃ̭si śiśrathaḥ kṛ॒tāni̭ || udṷtta॒maṃ-va~̭ruṇa॒ pāśa̭ma॒smadavā̭-'dha॒maṃ-vi~ma̭ddhya॒magg​ śra̭thāya | athā̭ va॒yamā̭ditya [ ] 49
vra॒te tavā-'nā̭gaso॒ adi̭taye syāma || da॒dhi॒krāv.ṇṇo̭ akāriṣa-ñji॒ṣṇoraśva̭sya vā॒jinaḥ̭ || su॒ra॒bhino॒ mukhā̭ kara॒-tpraṇa॒ āyūgṃ̭ṣi tāriṣat || ā da̭dhi॒krā-śśava̭sa॒ pañca̭ kṛ॒ṣṭī-ssūrya̭ iva॒ jyoti̭ṣā॒-'pasta̭tāna | sa॒ha॒sra॒sā-śśa̭ta॒sā vā॒jyarvā̭ pṛ॒ṇaktu॒ maddhvā॒ sami॒mā vacāgṃ̭si | a॒gni-rmū॒rdhā, bhuvaḥ̭ | marṷto॒ yaddha̭vo di॒va-ssṷmnā॒yanto॒ havā̭mahe | ā tū na॒ [ā tū naḥ̭, upa̭ gantana |] 50
upa̭ gantana || yā va॒-śśarma̭ śaśamā॒nāya॒ santi̭ tri॒dhātṷ̄ni dā॒śuṣḙ yaccha॒tādhi̭ | a॒smabhya॒-ntāni̭ maruto॒ vi ya̭nta ra॒yi-nno̭ dhatta vṛṣaṇa-ssu॒vīra᳚m || adi̭ti-rna uruṣya॒tvadi̭ti॒-śśarma̭ yacchatu | adi̭tiḥ pā॒tvagṃha̭saḥ || ma॒hīmū॒ṣu mā॒taragṃ̭ suvra॒tānā̭mṛ॒tasya॒ patnī॒mava̭se huvema | tu॒vi॒kṣa॒trā-ma॒jara̭ntī-murū॒cīgṃ su॒śarmā̭ṇa॒madi̭tigṃ su॒praṇī̭tim || su॒trāmā̭ṇa-mpṛthi॒vī-ndyāma̭ne॒hasagṃ̭ su॒śarmā̭ṇa॒ madi̭tigṃ su॒praṇī̭tim | daivī॒-nnāvagg̭ svari॒trā-manā̭gasa॒-masra̭vantī॒mā rṷhemā sva॒staye᳚ || i॒māgṃ su nāva॒mā-'rṷhagṃ śa॒tāri̭trāgṃ śa॒tasphyā᳚m | acchi̭drā-mpārayi॒ṣṇum || 51 ||
(divā॒ sa-sa̭ha॒sriṇaṃ॒-vai~śvā̭narā-ditya॒- tū no ̭- 'ne॒hasagṃ̭ su॒śarmā̭ṇa॒-mekā॒nnavigṃ̭śa॒tiśca̭ ) (a. 11)
(de॒vā॒su॒rāḥ-parā॒-bhūmi॒-rbhūmi̭-rupapra॒yantaḥ॒-sa-mpa̭śyā॒-myaya̭jñaḥ॒- sa-mpa̭śyā - myagniho॒traṃ - mama॒ nāma̭-vaiśvāna॒ra-ekā̭daśa | )
(de॒vā॒su॒rāḥ-kru॒ddhaḥ-sa-mpa̭śyāmi॒-sa-mpa̭śyāmi॒-nakta॒-mupa̭ganta॒-naika̭pañcā॒śat | )
(de॒vā॒su॒rāḥ, pā̭rayi॒ṣṇum)
|| hariḥ̭ om ||
|| kṛṣṇa yajurvedīya taittirīya saṃhitāyā-mprathamakāṇḍe pañcamaḥ praśna-ssamāptaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in