Krishna

2.8 - काम्यपशुयाज्यानुवाक्या ब्राह्मणम् - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - पीवोन्नां रयिवृधः

2.8 - Kamyapashuyajyanuvakya Brahmanam - Krishna Yajurveda Taittiriya Brahmana Pathah - Pivonnam Rayivridhah

✍️ Vedic 🖋️ Devanagari script
📄 Download PDF
कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके अष्टमः प्रपाठकः - काम्यपशुयाज्यानुवाक्या ब्राह्मणम्
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
अनुवाकं 1 - वायव्यादिपशूनां सूक्तानि
पीवो᳚न्नाग्ं रयि॒वृधः॑ सुमे॒धाः । श्वे॒त-स्सि॑षक्ति नि॒युता॑मभि॒श्रीः । ते वा॒यवे॒ सम॑नसो॒ वित॑स्थुः । विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः ॥ रा॒ये-ऽनु य-ञ्ज॒ज्ञतू॒ रोद॑सी उ॒भे । रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् । अधा॑ वा॒यु-न्नि॒युतः॑ सश्चत॒ स्वाः । उ॒त श्वे॒तं-वँसु॑धिति-न्निरे॒के ॥ आ वा॑यो भूष शुचिपा॒ उप॑ न-स्स॒हस्र॑-न्ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू᳚र्व॒पेय᳚म् ॥ प्र याभि॒र्यासि॑ दा॒श्वाग्ं समच्छा॑ नि॒युद्भि॑-र्वायवि॒ष्टये॑ दुरो॒णे । नि नो॑ र॒यिग्ं सु॒भोज॑सं-युँवे॒ह नि वी॒रव॒-द्गव्य॒मश्वि॑य-ञ्च॒ राधः॑ ॥॥ प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा ॥ 1 ॥
बृ॒हद्र॑यिं-विँ॒श्ववा॑राग्ं रथ॒प्राम् । द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः । क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥ आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भि-रद्ध्व॒रम् । स॒ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् । वायो॑ अ॒स्मिन्. ह॒विषि॑ मादयस्व । यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ॥ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । य-त्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु ॥ 2 ॥
व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् ॥ र॒यी॒णा-म्पतिं॑-यँज॒त-म्बृ॒हन्त᳚म् । अ॒स्मिन्भरे॒ नृत॑मं॒-वाँज॑सातौ । प्र॒जाप॑ति-म्प्रथम॒जामृ॒तस्य॑ । यजा॑म दे॒वमधि॑ नो ब्रवीतु ॥ प्रजा॑पते॒ त्व-न्नि॑धि॒पाः पु॑रा॒णः । दे॒वाना᳚-म्पि॒ता ज॑नि॒ता प्र॒जाना᳚म् । पति॒-र्विश्व॑स्य॒ जग॑तः पर॒स्पाः । ह॒विर्नो॑ देव विह॒वे जु॑षस्व ॥ तवे॒मे लो॒काः प्र॒दिशो॒ दिश॑श्च ॥ 3 ॥
प॒रा॒वतो॑ नि॒वत॑ उ॒द्वत॑श्च । प्रजा॑पते विश्व॒सृज्जी॒वध॑न्य इ॒द-न्नो॑ देव । प्रति॑हर्य ह॒व्यम् ॥ प्र॒जाप॑ति-म्प्रथ॒मं-यँ॒ज्ञिया॑नाम् । दे॒वाना॒मग्रे॑ यज॒तं-यँ॑जद्ध्वम् । स नो॑ ददातु॒ द्रवि॑णग्ं सु॒वीर्य᳚म् । रा॒यस्पोषं॒-विँष्य॑तु॒ नाभि॑म॒स्मे ॥ यो रा॒य ईशे॑ शतदा॒य उ॒क्थ्यः॑ । यः प॑शू॒नाग्ं र॑क्षि॒ता विष्ठि॑तानाम् । प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ ॥ 4 ॥
स॒हस्र॑धामा जुषताग्ं ह॒विर्नः॑ ॥ सोमा॑पूषणा॒ जन॑ना रयी॒णा-ञ्जन॑ना दि॒वो जन॑ना पृथि॒व्याः । जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि᳚म् ॥ इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमाग्ं॑सि गूहता॒मजु॑ष्टा । आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्त-स्सो॑मापू॒षभ्या᳚-ञ्जनदु॒स्रिया॑सु ॥ ॥ सोमा॑पूषणा॒ रज॑सो वि॒मान᳚म् । स॒प्तच॑क्र॒ग्ं॒ रथ॒मवि॑श्वमिन्वम् । वि॒षू॒वृत॒-म्मन॑सा यु॒ज्यमा॑नम् । त-ञ्जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् ॥ दि॒व्य॑न्य-स्सद॑न-ञ्च॒क्र उ॒च्चा । पृ॒थि॒व्याम॒न्यो अद्ध्य॒न्तरि॑क्षे । ताव॒स्मभ्य॑-म्पुरु॒वार॑-म्पुरु॒क्षुम् । रा॒यस्पोषं॒-विँष्य॑ता॒-न्नाभि॑म॒स्मे ॥ 5 ॥
धिय॑-म्पू॒षा जि॑न्वतु विश्वमि॒न्वः । र॒यिग्ं सोमो॑ रयि॒पति॑-र्दधातु । अव॑तु दे॒व्यदि॑तिर-न॒र्वा । बृ॒ह-द्व॑देम वि॒दथे॑ सु॒वीराः᳚ ॥ विश्वा᳚न्य॒न्यो भुव॑ना ज॒जान॑ । विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति । सोमा॑पूषणा॒-वव॑त॒-न्धिय॑-म्मे । यु॒वभ्यां॒-विँश्वाः॒ पृत॑ना जयेम ॥ उदु॑त्त॒मं-वँ॑रुण॒ पाश॑म॒स्मदवा॑-ऽध॒मं-विँम॑ध्य॒मग्ग्​ श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवा-ऽना॑गसो॒ अदि॑तये स्याम अस्त॑भ्ना॒द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माण॑-म्पृथि॒व्या आ-ऽसी॑द॒-द्विश्वा॒ भुव॑नानि स॒म्रा-ड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥ । य-त्किञ्चे॒दं-वँ॑रुण॒ दैव्ये॒ जने॑-ऽभिद्रो॒ह-म्म॑नु॒ष्या᳚श्चरा॑मसि । अचि॑त्ती॒य-त्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒ देन॑सो देव रीरिषः ॥ कि॒त॒वासो॒ यद्रि॑ रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्य मु॒तयन्न वि॒द्म । सर्वा॒ ता विष्य॑ शिथि॒रेव॑ दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑ ॥( ) । अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाग्ं॑सि शिश्रथः कृ॒तानि॑ ॥, तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ ॥ आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शन्त॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं-यँ॒ज्ञ-न्द॑धतु॒ श्रोष॑माणाः ॥, न द॑क्षि॒णा विचि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा । पा॒क्या॑ चिद्वसवो धी॒र्या॑ चि--द्यु॒ष्मानी॑तो॒ अभ॑य॒-ञ्ज्योति॑रश्याम् ॥ । धा॒रय॑न्त आदि॒त्यासो॒ जग॒थ्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः । दी॒र्घाधि॑यो॒ रक्ष॑माणा असु॒र्य॑मृ॒तावा॑न॒-श्चय॑माना ऋ॒णानि॑ ॥, ति॒स्रो भूमी᳚र्धारय॒-न्त्रीग्ं रु॒त द्यू-न्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् । ऋ॒तेना॑-ऽऽदित्या॒ महि॑ वो महि॒त्व-न्तद॑र्यमन् वरुण मित्र॒ चारु॑ ॥ । य॒ज्ञो दे॒वाना॒-म्प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वो॒-ऽर्वाची॑ सुम॒ति र्व॑वृत्याद॒ग्ं॒ होश्चि॒द्या व॑रिवो॒वित्त॒रा-ऽस॑त् ॥ शुचि॑र॒प-स्सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑या-स्सु॒वीरः॑ । नकि॒ष्ट-ङ्घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्याना॒-म्भव॑ति॒ प्रणी॑तौ ॥ ॥ 6 ॥
(म॒नी॒षा-ऽस्तु॑-च॒-र्त-स्या॒स्मे-कि॑त॒वास॑ श्च॒त्वारि॑ च ) (अ. 1)
अनुवाकं 2 - वशादीनां सूक्तानि
ते शु॒क्रास॒-श्शुच॑यो रश्मि॒वन्तः॑ । सीद॑न्नादि॒त्या अधि॑ ब॒र॒ःइषि॑ प्रि॒ये । कामे॑न दे॒वा-स्स॒रथ॑-न्दि॒वो नः॑ । आया᳚न्तु य॒ज्ञमुप॑ नो जुषा॒णाः ॥ ते सू॒नवो॒ अदि॑तेः पीव॒सामिष᳚म् । घृ॒त-म्पिन्व॒त्-प्रति॑हर्यन्नृते॒जाः । प्र य॒ज्ञिया॒ यज॑मानाय येमुरे । आ॒दि॒त्याः काम॑-म्पितु॒मन्त॑म॒स्मे ॥ आ नः॑ पु॒त्रा अदि॑तेर्यान्तु य॒ज्ञम् । आ॒दि॒त्यासः॑ प॒थिभि॑-र्देव॒यानैः᳚ ॥ 7 ॥
अ॒स्मे काम॑-न्दा॒शुषे॑ स॒न्नम॑न्तः । पु॒रो॒डाश॑-ङ्घृ॒तव॑न्त-ञ्जुषन्ताम् ॥ स्क॒भा॒यत॒ निर्-ऋ॑ति॒ग्ं॒ सेध॒ताम॑तिम् । प्र र॒श्मिभि॒-र्यत॑माना अमृद्ध्राः । आदि॑त्याः॒ काम॒ प्रय॑तां॒-वँष॑ट्कृतिम् । जु॒षद्ध्व॑-न्नो ह॒व्यदा॑तिं-यँजत्राः ॥ आ॒दि॒त्यान्-काम॒मव॑से हुवेम । ये भू॒तानि॑ ज॒नय॑न्तो विचि॒ख्युः । सीद॑न्तु पु॒त्रा अदि॑तेरु॒पस्थ᳚म् । स्ती॒र्ण-म्ब॒र॒ःइर्​ह॑वि॒रद्या॑य दे॒वाः ॥ 8 ॥
स्ती॒र्ण-म्ब॒र॒ःइ-स्सी॑दता य॒ज्ञे अ॒स्मिन्न् । ध्रा॒जा-स्सेध॑न्तो॒ अम॑ति-न्दु॒रेवा᳚म् । अ॒स्मभ्य॑-म्पुत्रा अदितेः॒ प्रयग्ं॑सत । आदि॑त्याः॒ काम॑ ह॒विषो॑ जुषा॒णाः ॥ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् । विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒द्ध्य॑स्म-ज्जु॑हुरा॒णमेनः॑ । भूयि॑ष्ठा-न्ते॒ नम॑ उक्तिं-विँधेम ॥ प्रवः॑ शु॒क्राय॑ भा॒नवे॑ भरद्ध्वम् । ह॒व्य-म्म॒ति-ञ्चा॒ग्नये॒ सुपू॑तम् ॥ 9 ॥
यो दैव्या॑नि॒ मानु॑षा ज॒नूग्ंषि॑ । अ॒न्त-र्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥ अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्तीः᳚ । अ॒ग्निं-यँ॑न्ति॒ द्रवि॑ण॒-म्भिक्ष॑माणाः । सु॒स॒दृंशग्ं॑ सु॒प्रती॑क॒ग्ग्॒ स्वञ्च᳚म् । ह॒व्य॒वाह॑मर॒ति-म्मानु॑षाणाम् ॥ अग्ने॒ त्वम॒स्म-द्यु॑यो॒द्ध्यमी॑वाः । अन॑ग्नित्रा अ॒भ्य॑मन्त कृ॒ष्टीः । पुन॑र॒स्मभ्यग्ं॑ सुवि॒ताय॑ देव । क्षां-विँश्वे॑भिर॒जरे॑भि-र्यजत्र ॥ 10 ॥
अग्ने॒ त्व-म्पा॑रया॒ नव्यो॑ अ॒स्मान् । स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी । भवा॑ तो॒काय॒ तन॑याय॒ शं-योः ँ॥ प्र का॑रवो मन॒ना व॒च्यमा॑नाः । दे॒व॒द्रीची᳚-न्नयथ देव॒यन्तः॑ । द॒क्षि॒णा॒वाड्-वा॒जिनी॒ प्राच्ये॑ति । ह॒विर्भर॑न्त्य॒ग्नये॑ घृ॒ताची᳚ ॥ इन्द्र॒-न्नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः । शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वन्नः॑ ॥ यु॒जे रथ॑-ङ्ग॒वेष॑ण॒ग्ं॒ हरि॑भ्याम् । उप॒ ब्रह्मा॑णि जुजुषा॒ण-म॑स्थुः । विबा॑धिष्टा॒स्य रोद॑सी महि॒त्वा । इन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥ ॥ ज॒गृ॒भ्णा ते॒ दक्षि॑णामिन्द्र॒ हस्त᳚म् ॥ 11 ॥
व॒सू॒यवो॑ वसुपते॒ वसू॑नाम् । वि॒द्मा हि त्वा॒ गोप॑तिग्ं शूर॒ गोना᳚म् । अ॒स्मभ्य॑-ञ्चि॒त्रं-वृँष॑णग्ं र॒यि-न्दाः᳚ ॥ तवे॒दं-विँश्व॑म॒भितः॑ पश॒व्य᳚म् । य-त्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य । गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र । भ॒क्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ॥ समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॑ । सग्ं सू॒रिभि॑-र्मघव॒न्-थ्सग्ग्​ स्व॒स्त्या । स-म्ब्रह्म॑णा दे॒वकृ॑तं॒-यँदस्ति॑ ॥ 12 ॥
स-न्दे॒वानाग्ं॑ सुम॒त्या य॒ज्ञिया॑नाम् ॥ आ॒राच्छत्रु॒-मप॑बाधस्व दू॒रम् । उ॒ग्रो य-श्शम्बः॑ पुरुहूत॒ तेन॑ । अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र । कृ॒धी धिय॑-ञ्जरि॒त्रे वाज॑रत्नाम् ॥ आवे॒धस॒-न्नील॑पृष्ठ-म्बृ॒हन्त᳚म् । बृह॒स्पति॒ग्ं॒ सद॑ने सादयध्वम् । सा॒दद्यो॑नि॒-न्दम॒ आदी॑दि॒वाग्ंस᳚म् । हिर॑ण्यवर्णमरु॒षग्ं स॑पेम ॥ स हि शुचिः॑ ॥ बृह॒स्पतिः॑ प्रथ॒म-ञ्जाय॑मानः । म॒हो ज्योति॑षः पर॒मे व्यो॑मन्न् । स॒प्तास्य॑स्तुविजा॒तो रवे॑ण । वि स॒प्तर॑श्मिरधम॒त्तमाग्ं॑सि ॥ 13 ॥
बृह॒स्पति॒-स्सम॑जय॒-द्वसू॑नि । म॒हो व्र॒जा-न्गोम॑तो दे॒व ए॒षः । अ॒प-स्सिषा॑स॒न्-थ्सुव॒र प्र॑तीत्तः । बृह॒स्पति॒र॒ःअन्त्य॒मित्र॑-म॒र्कैः ॥ बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हा ऽमित्राग्ं॑ अप॒ बाध॑मानः । प्र॒भ॒ञ्जन्-थ्सेनाः᳚ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑-मेध्यवि॒ता रथा॑नाम् ॥ ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ । बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् ॥ ॥ आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम् । हव॑-न्दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मा-न्नो॒ वाच॑मुश॒ती शृ॑णोतु ॥पावी॑रवी क॒न्या॑ चि॒त्रायु॒-स्सर॑स्वती वी॒रप॑त्नी॒ धिय॑-न्धात् । ग्नाभि॒रच्छि॑द्रग्ं शर॒णग्ं स॒जोषा॑ दुरा॒धर्​ष॑-ङ्गृण॒ते शर्म॑ यग्ंसत् ॥ । इ॒मा जुह्वा॑ना यु॒ष्मदा नमो॑भिः । प्रति॒ स्तोमग्ं॑ सरस्वति जुषस्व । तव॒ शर्म॑-न्प्रि॒यत॑मे॒ दधा॑नाः । उप॑स्थेयाम शर॒ण-न्न वृ॒क्षम् ॥ यस्ते॒ स्तन॑श्शश॒य इत्या॑ह । स्तौत्ये॒वैना᳚म् । उस्र॑ घ॒र्मग्ं शि॒ग्ं॒षोस्र॑ घ॒र्म-म्पा॑हि घ॒र्माय॑ शि॒ग्ं॒षेत्या॑ह । यथा᳚ ब्रू॒याद॒मुष्मै॑ दे॒हीति॑ । ता॒दृगे॒व तत् । बृह॒स्पति॒स्त्वोप॑ सीद॒त्वित्या॑ह । । सर॑स्वत्य॒भि नो॑ नेषि॒ वस्यः॑ । मा प॑स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् । जु॒षस्व॑ न-स्स॒ख्या॑ वे॒श्या॑ च । मा त्वत्क्षेत्रा॒-ण्यर॑णानि गन्म ॥ ॥ इ॒यग्ं शुष्मे॑भिर्बिस॒खा इ॑वारुजत् । सानु॑ गिरी॒णा-न्त॑वि॒षेभि॑रू॒र्मिभिः॑ । पा॒रा॒व॒द॒घ्नीमव॑से सुवृ॒क्तिभिः॑ । सर॑स्वती॒-मावि॑वासेम धी॒तिभिः॑ ॥ 14 ॥
(दे॒व॒यानै᳚--र् दे॒वाः - सुपू॑तं​यँजत्र॒-हस्त॒-मस्ति॒-तमाग्॑-स्यू॒र्मिभि॒-र्द्वे च॑) (अ. 2)
अनुवाकं 3 - सौम्यादीनां सूक्तानि
सोमो॑ धे॒नुग्ं सोमो॒ अर्व॑न्तमा॒शुम् । सोमो॑ वी॒र-ङ्क॑र्म॒ण्य॑-न्ददातु । सा॒द॒न्यं॑-विँद॒थ्यग्ं॑ स॒भेय᳚म् । पि॒तु॒-श्श्रव॑णं॒-योँ ददा॑शदस्मै ॥ अषा॑ढं-युँ॒थ्सु पृत॑नासु॒ पप्रि᳚म् । सु॒व॒र्॒षाम॒फ्स्वां-वृँ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जाग्ं सु॑क्षि॒तिग्ं सु॒श्रव॑सम् । जय॑न्त॒-न्त्वामनु॑ मदेम सोम ॥ त्वग्ं सो॑म॒ क्रतु॑भिः ॥ या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञ-ङ्ग॑य॒स्फानः॑ प्र॒तर॑ण-स्सु॒वीरो-ऽवी॑रहा॒ प्रच॑रा सोम॒ दुर्या॒न॥ त्वमि॒मा ओष॑धी-स्सोम॒ विश्वाः᳚ । त्वम॒पो अ॑जनय॒स्त्व-ङ्गाः । त्वमात॑तन्थो॒र्व॑न्तरि॑क्षम् । त्व-ञ्ज्योति॑षा॒ वितमो॑ ववर्थ ॥ 15 ॥
या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याम् । या पर्व॑ते॒ष्वोष॑धीष्व॒फ्सु । तेभि॑र्नो॒ विश्वै᳚-स्सु॒मना॒ अहे॑डन्न् । राजन्᳚-थ्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥ विष्णो॒र्नुकं॑-वीँ॒र्या॑णि॒ प्र वो॑चं॒-यः ँपार्थि॑वानि विम॒मे रजाग्ं॑सि॒ यो अस्क॑भाय॒दुत्त॑रग्ं स॒धस्थं॑-विँचक्रमा॒ण स्त्रे॒धोरु॑गा॒यो विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णो॒-श्श्न्यप्त्रे᳚ स्थो॒ विष्णो॒-स्स्यूर॑सि॒ विष्णो᳚-र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ तद॑स्य प्रि॒यम॒भि पाथो॑ अश्याम् । नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति । उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था । विष्णोः᳚ प॒दे प॑र॒मे मध्व॒ उथ्सः॑ ॥ । प्रत-द्विष्णुः॑ स्तवते वी॒र्या॑य । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ॥ ॥ प॒रो मात्र॑या त॒नुवा॑ वृधान । न ते॑ महि॒त्व-मन्व॑श्नुवन्ति । उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वम् । प॒र॒मस्य॑ विथ्से ॥ 16 ॥
विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् । क्षेत्रा॑य॒ विष्णु॒-र्मनु॑षे दश॒स्यन्न् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः । उ॒रु॒क्षि॒तिग्ं सु॒जनि॑मा चकार ॥ त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒ताम् । विच॑क्रमे श॒तर्च॑स-म्महि॒त्वा । प्र विष्णु॑-रस्तु त॒वस॒स्त वी॑यान् । त्वे॒षग्ग्​ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥ ॥ आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ य-थ्स॒मर॑न्त॒ सेनाः᳚ । पता॑ति दि॒द्युन्नर्य॑स्य बाहु॒वोर्मा ते॒ मनो॑ विष्व॒द्रिय॒ग्वि चा॑रीत् ॥ यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वा-न्दे॒वो दे॒वान् क्रतु॑ना प॒र्यभू॑षत् । यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेता-न्नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥ । अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानो-ऽदा॒यो वी॒र-श्श॒तम॑न्यु॒रिन्द्रः॑ । दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑ यु॒ध्यो᳚-स्माक॒ग्ं॒ सेना॑ अवतु॒ प्र यु॒थ्सु ॥ ॥ आभि॒-स्स्पृधो॑ मिथ॒ती- ररि॑षण्यन्न् । अ॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र । आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑चीः । आर्या॑य॒ विशो-ऽव॑तारी॒र्दासीः᳚ ॥ अ॒यग्ं शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्न् । अ॒यमु॒त प्रकृ॑णुते यु॒धा गाः । य॒दा स॒त्य-ङ्कृ॑णु॒ते म॒न्युमिन्द्रः॑ ॥ 17 ॥
विश्व॑-न्दृ॒ढ-म्भ॑यत॒ एज॑दस्मात् ॥ अनु॑ स्व॒धा-म॑क्षर॒न्नापो॑ अस्य । अव॑र्धत॒ मद्ध्य॒ आ ना॒व्या॑नाम् । स॒द्ध्री॒चीने॑न॒ मन॑सा॒ तमि॑न्द्र॒ ओजि॑ष्ठेन । हन्म॑ना-ऽहन्न॒भिद्यून् ॥ म॒रुत्व॑न्तं-वृँष॒भं-वाँ॑वृधा॒नम् । अक॑वारि-न्दि॒व्यग्ं शा॒समिन्द्र᳚म् । वि॒श्वा॒साह॒मव॑से॒ नूत॑नाय । उ॒ग्रग्ं स॑हो॒दामि॒ह तग्ं हु॑वेम ॥ जनि॑ष्ठा उ॒ग्र-स्सह॑से तु॒राय॑ ॥ 18 ॥
म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः । अव॑र्ध॒न्निन्द्र॑-म्म॒रुत॑श्चि॒दत्र॑ । मा॒ता य-द्वी॒र-न्द॒धन॒द्धनि॑ष्ठा ॥ क्व॑ स्या वो॑ मरुत-स्स्व॒धा-ऽऽसी᳚त् । य-न्मामेकग्ं॑ स॒मध॑त्ताहि॒हत्ये᳚ । अ॒हग्ग्​ ह्यु॑ग्रस्त॑वि॒ष-स्तुवि॑ष्मान् । विश्व॑स्य॒ शत्रो॒रन॑मं-वँध॒स्नैः ॥ वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणाः । विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः । म॒रुद्भि॑रिन्द्र स॒ख्य-न्ते॑ अस्तु ॥ 19 ॥
अथे॒मा विश्वाः॒ पृत॑ना जयासि ॥ वधीं᳚-वृँ॒त्र-म्म॑रुत इन्द्रि॒येण॑ । स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् । अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः । सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ॥ स यो वृषा॒ वृष्णि॑येभि॒-स्समो॑काः । म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् । स॒ती॒नस॑त्त्वा॒ हव्यो॒ भरे॑षु । म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ इन्द्रो॑ वृ॒त्रम॑तर-द्वृत्र॒तूर्ये᳚ ॥ 20 ॥
अ॒ना॒धृ॒ष्यो म॒घवा॒ शूर॒ इन्द्रः॑ । अन्वे॑नं॒-विँशो॑ अमदन्त पू॒र्वीः । अ॒यग्ं राजा॒ जग॑तश्चर्​षणी॒नाम् ॥ स ए॒व वी॒र-स्स उ॑ वी॒र्या॑वान् । स ए॑करा॒जो जग॑तः पर॒स्पाः । य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ । अथा॑ भवद्दमि॒ता-ऽभिक्र॑तूनाम् ॥ इन्द्रो॑ य॒ज्ञं-वँ॒र्धय॑न् वि॒श्ववे॑दाः । पु॒रो॒डाश॑स्य जुषताग्ं ह॒विर्नः॑ । वृ॒त्र-न्ती॒र्त्वा दा॑न॒वं-वँज्र॑बाहुः ॥ 21 ॥
दिशो॑-ऽदृग्ं हद्दृग्ंहि॒ता दृग्ंह॑णेन ॥ इ॒मं-यँ॒ज्ञं-वँ॒र्धय॑न् वि॒श्ववे॑दाः । पु॒रो॒डाश॒-म्प्रति॑गृभ्णा॒त्विन्द्रः॑ । य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ । अथै॑करा॒जो अ॑भव॒ज्जना॑नाम् ॥ इन्द्रो॑ दे॒वाञ्छ॑म्बर॒हत्य॑ आवत् । इन्द्रो॑ दे॒वाना॑- मभव-त्पुरो॒गाः । इन्द्रो॑ य॒ज्ञे ह॒विषा॑ वावृधा॒नः । वृ॒त्र॒तूर्णो॒ अभ॑य॒ग्ं॒ शर्म॑ यग्ंसत् ॥ य-स्स॒प्त सिन्धू॒ग्ं॒ रद॑धात्-पृथि॒व्याम् । य-स्स॒प्त लो॒कानकृ॑णो॒-द्दिश॑श्च । इन्द्रो॑ ह॒विष्मा॒न्-थ्सग॑णो म॒रुद्भिः॑ । वृ॒त्र॒तूर्णो॑ य॒ज्ञमि॒होप॑यासत् ॥ 22 ॥
(व॒व॒र्थ॒ - वि॒थ्स॒ - इन्द्र॑ - स्तु॒रा - या᳚स्तु॒ - वृत्र॒तूर्ये॒ - वज्र॑बाहुः - पृथि॒व्या-न्त्रीणि॑ च) (अ. 3)
अनुवाकं 4 - अभिमातिहैन्द्रादिपशूनां सूक्तानि
इन्द्र॒-स्तर॑स्वा-नभिमाति॒होग्रः । हिर॑ण्यवाशी-रिषि॒र-स्सु॑व॒र॒.षाः । तस्य॑ व॒यग्ं सु॑म॒तौ य॒ज्ञिय॑स्य । अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥ हिर॑ण्यवर्णो॒ अभ॑य-ङ्कृणोतु । अ॒भि॒मा॒ति॒हेन्द्रः॒ पृत॑नासु जि॒ष्णुः । स न॒-श्शर्म॑ त्रि॒वरू॑थं॒-विँयग्ं॑सत् । यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ॥ इन्द्रग्ग्॑ स्तुहि व॒ज्रिण॒ग्ग्॒ स्तोम॑पृष्ठम् । पु॒रो॒डाश॑स्य जुषताग्ं ह॒विर्नः॑ ॥ 23 ॥
ह॒त्वा-ऽभिमा॑तीः॒ पृत॑ना॒-स्सह॑स्वान् । अथाभय॑-ङ्कृणुहि वि॒श्वतो॑ नः ॥ स्तु॒हि शूरं॑-वँ॒ज्रिण॒-मप्र॑तीतम् (मप्र॑तीत्तम्) । अ॒भि॒मा॒ति॒हन॑-म्पुरुहू॒तमिन्द्र᳚म् । य एक॒ इच्छ॒तप॑ति॒र्जने॑षु । तस्मा॒ इन्द्रा॑य ह॒विराजु॑होत ॥ इन्द्रो॑ दे॒वाना॑मधि॒पाः पु॒रोहि॑तः । दि॒शा-म्पति॑रभव-द्वा॒जिनी॑वान् । अ॒भि॒मा॒ति॒हा त॑वि॒षस्तुवि॑ष्मान् । अ॒स्मभ्य॑-ञ्चि॒त्रं-वृँष॑णग्ं र॒यि-न्दा᳚त् ॥ 24 ॥
य इ॒मे द्यावा॑पृथि॒वी म॑हि॒त्वा । बले॒नादृग्ं॑हदभिमाति॒हेन्द्रः॑ । स नो॑ ह॒विः प्रति॑गृभ्णातु रा॒तये᳚ । दे॒वाना᳚-न्दे॒वो नि॑धि॒पा नो॑ अव्यात् ॥ अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न्-त्वष्टा॒ वज्र॑-म्पुरुहूत द्यु॒मन्त᳚म् । ब्र॒ह्माण॒ इन्द्र॑-म्म॒हय॑न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒ वा उ॑ ॥ वृष्णे॒ य-त्ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑ति-स्स॒जोषाः᳚ । अ॒न॒श्वासो॒ ये प॒वयो॑-ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यून्॑ ॥ । इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्रवो॑चम् । यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ॥ अह॒-न्नहि॒मन्व॒पस्त॑तर्द । प्र व॒क्षणा॑ अभिन॒-त्पर्व॑तानाम् ॥ ॥ इन्द्रो॑ या॒तो-ऽव॑सितस्य॒ राजा᳚ । शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः । सेदु॒ राजा᳚ क्षेति चर्​षणी॒नाम् । अ॒रान्न ने॒मिः परि॒ता ब॑भूव ॥ 25 ॥
अ॒भि सि॒द्ध्मो अ॑जिगादस्य॒ शत्रून्॑ । वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑-ऽभेत् । सं-वँज्रे॑णासृज-द्वृ॒त्रमिन्द्रः॑ । प्र स्वा-म्म॒तिम॑तिर॒च्छाश॑दानः ॥ विष्णु॑-न्दे॒वं-वँरु॑णमू॒तये॒ भग᳚म् । मेद॑सा दे॒वा व॒पया॑ यजद्ध्वम् । ता नो॑ य॒ज्ञमाग॑तं-विँ॒श्वधे॑ना । प्र॒जाव॑द॒स्मे द्रवि॑णे॒ह ध॑त्तम् ॥ मेद॑सा दे॒वा व॒पया॑ यजद्ध्वम् । विष्णु॑-ञ्च दे॒वं-वँरु॑ण-ञ्च रा॒तिम् ॥ 26 ॥
ता नो॒ अमी॑वा अप॒बाध॑मानौ । इ॒मं-यँ॒ज्ञ-ञ्जु॒षमा॑णा॒वुपेत᳚म् ॥ विष्णू॑वरुणा यु॒वम॑द्ध्व॒राय॑ नः । वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । दी॒र्घप्र॑यज्यू ह॒विषा॑ वृधा॒ना । ज्योति॒षा-ऽरा॑तीर्दहत॒-न्तमाग्ं॑सि ॥ ययो॒रोज॑सा स्कभि॒ता रजाग्ं॑सि । वी॒र्ये॑भि-र्वी॒रत॑मा॒ शवि॑ष्ठा । या पत्ये॑ते॒ अप्र॑तीत्ता॒ सहो॑भिः । विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ॥ 27 ॥
विष्णू॑वरुणा वभिशस्ति॒पा वा᳚म् । दे॒वा य॑जन्त ह॒विषा॑ घृ॒तेन॑ । अपामी॑वाग्ं सेधतग्ं र॒क्षस॑श्च । अथा॑ धत्तं॒-यँज॑मानाय॒ शं-योः ँ॥ अ॒ग्ं॒हो॒मुचा॑ वृष॒भा सु॒प्रतू᳚र्ती । दे॒वाना᳚-न्दे॒वत॑मा॒ शचि॑ष्ठा । विष्णू॑वरुणा॒ प्रति॑हर्यत-न्नः । इ॒द-न्नरा॒ प्रय॑तमू॒तये॑ ह॒विः ॥ म॒ही नु द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे᳚ । रु॒चा भ॑वताग्ं शु॒चय॑द्भि-र॒र्कैः ॥ 28 ॥
यथ्सीं॒-वँरि॑ष्ठे बृह॒ती वि॑मि॒न्वन्न् । नृ॒वद्भ्यो॒-ऽक्षा प॑प्रथा॒नेभि॒रेवैः᳚ ॥ प्र पू᳚र्व॒जे पि॒तरा॒ नव्य॑सीभिः । गी॒र्भिः कृ॑णुद्ध्व॒ग्ं॒ सद॑ने ऋ॒तस्य॑ । आ नो᳚ द्यावापृथिवी॒ दैव्ये॑न । जने॑न यात॒-म्महि॑ वां॒-वँरू॑थम् ॥ स इथ्स्वपा॒ भुव॑नेष्वास । य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ । उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके᳚ । अ॒व॒ग्ं॒शे धीर॒-श्शच्या॒ समै॑रत् ॥ 29 ॥
भूरि॒-न्द्वे अच॑रन्ती॒ चर॑न्तम् । प॒द्वन्त॒-ङ्गर्भ॑म॒पदी॑ दधाते । नित्य॒-न्न सू॒नु-म्पि॒त्रोरु॒पस्थे᳚ । त-म्पि॑पृतग्ं रोदसी सत्य॒वाच᳚म् ॥ इ॒द-न्द्या॑वापृथिवी स॒त्यम॑स्तु । पित॒-र्मात॒-र्यदि॒होप॑ब्रु॒वे वा᳚म् । भू॒त-न्दे॒वाना॑मव॒मे अवो॑भिः । विद्यामे॒षं-वृँ॒जन॑-ञ्जी॒रदा॑नुम् ॥ उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रे अ॑न्ते । उप॑ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन्न् । दधा॑ते॒ ये सु॒भगे॑ सु॒प्रतू᳚र्ती । द्यावा॒ रक्ष॑त-म्पृथि॒वी नो॒ अभ्वा᳚त् ॥ या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒ग-म्पु॒रा । मन्दा॑मि ब॒भ्रूणा॑म॒हग्ं श॒त-न्धामा॑नि स॒प्त च॑ ॥, अति॒ विश्वाः᳚ परि॒ष्ठा-स्स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धयः॒ प्राचु॑च्यवु॒ र्य-त्कि-ञ्च॑ त॒नुवा॒ग्ं॒ रपः॑ ॥ । या ओष॑धय॒-स्सोम॑राज्ञीः॒ प्रवि॑ष्टाः पृथि॒वीमनु॑ । तासा॒-न्त्वम॑स्युत्त॒मा प्रणो॑ जी॒वात॑-वेसुव ॥ अ॒श्वा॒व॒तीग्ं सो॑मव॒ती मू॒र्जय॑न्ती॒ मुदो॑जसम् । आ वि॑थ्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥ । ओष॑धी॒रिति॑ मातर॒-स्तद्वो॑ देवी॒-रुप॑ ब्रुवे । रपाग्ं॑सि विघ्न॒तीरि॑त॒ रप॑श्चा॒तय॑मानाः ॥ अ॒न्या वो॑ अ॒न्याम॑व-त्व॒न्या-ऽन्यस्या॒ उपा॑वत । ता-स्सर्वा॒ ओष॑धय-स्सं​विँदा॒ना इ॒द-म्मे॒ प्राव॑ता॒ वचः॑ ॥ ॥ 30 ॥
(ह॒विर्नो॑ - दा-द्- बभूव - रा॒तिं - पू॒र्वहू॑ता - व॒र्कै - रै॑र - द॒स्मि-न्पञ्च च) (अ. 4)
अनुवाकं 5 - ऐन्द्राग्नपश्वादीनां सूक्तानि
शुचि॒-न्नु स्तोम॒-न्नव॑जात-म॒द्येन्द्रा᳚ग्नी वृत्रहणा जु॒षेथा᳚म् । उ॒भा हि वाग्ं॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजग्ं॑ स॒द्य उ॑श॒ते धेष्ठा᳚ ॥, श्नथ॑-द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरे॒-स्सह॑स्तमा॒ सह॑सा वाज॒यन्ता᳚ ॥ । उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑स-स्स॒ह मा॑द॒यध्यै᳚ । उ॒भा दा॒तारा॑वि॒षाग्ं र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥,प्र च॑र्​ष॒णिभ्यः॑ पृतना॒ हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ । प्र सिन्धु॑भ्यः॒ प्रगि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा᳚ग्नी॒ विश्वा॒ भुव॒ना-ऽत्य॒न्या ॥ । आ वृ॑त्रहणा वृत्र॒हभि॒-श्शुष्मैः᳚ । इन्द्र॑ या॒त-न्नमो॑भिरग्ने अ॒र्वाक् । यु॒वग्ं राधो॑भि॒रक॑वेभिरिन्द्र । अग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ॥ गी॒र्भि-र्विप्रः॒ प्रम॑तिमि॒च्छमा॑नः । ई॒॑ र॒यिं-यँ॒शस॑-म्पूर्व॒भाज᳚म् । इन्द्रा᳚ग्नी वृत्रहणा सुवज्रा । प्रणो॒ नव्ये॑भिस्तिरत-न्दे॒ष्णैः ॥ ॥ ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता । सू॒क्तस्य॑ बोधि॒ तन॑य-ञ्च जिन्व । विश्व॒-न्त-द्भ॒द्रं-यँद॒वन्ति॑ दे॒वाः । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚ ॥ स ईग्ं॑ स॒त्येभि॒-स्सखि॑भि-श्शु॒चद्भिः॑ । गोधा॑यसं॒​विँ ध॑न॒सैर॑तर्दत् । ब्रह्म॑ण॒स्पति॒-र्वृष॑भिर्व॒राहैः᳚ ॥ 31 ॥
घ॒र्मस्वे॑देभि॒-र्द्रवि॑णं॒-व्याँ॑नट् ॥ ब्रह्म॑ण॒स्पते॑-रभवद्यथा व॒शम् । स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः । यो गा उ॒दाज॒थ्स दि॒वे वि चा॑भजत् । म॒हीव॑ री॒ति-श्शव॑सा सर॒-त्पृथ॑क् ॥ इन्धा॑नो अ॒ग्निं-वँ॑नवद्वनुष्य॒तः । कृ॒तब्र॑ह्मा शूशुव-द्रा॒तह॑व्य॒ इत् । जा॒तेन॑ जा॒तमति॒ सृ-त्प्रसृग्ं॑सते । यं-यँं॒-युँज॑-ङ्कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥ ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा᳚ ॥ 32 ॥
रा॒य-स्स्या॑म र॒थ्यो॑ विव॑स्वतः । वी॒रेषु॑ वी॒राग्ं उप॑पृङ्ग्धि न॒स्त्वम् । यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव᳚म् ॥ स इज्जने॑न॒ स वि॒शा स जन्म॑ना । स पु॒त्रैर्वाज॑-म्भरते॒ धना॒ नृभिः॑ । दे॒वानां॒-यः ँपि॒तर॑मा॒विवा॑सति । श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति᳚म् ॥ यास्ते॑ पूष॒न्नावो॑ अ॒न्त-स्स॑मु॒द्रे । हि॒र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति । याभि॑र्यासि दू॒त्याग्ं सूर्य॑स्य । कामे॑न कृ॒त-श्श्रव॑ इ॒च्छमा॑नः ॥ । शु॒क्र-न्ते॑ अ॒न्यद्य॑ज॒त-न्ते॑ अ॒न्यद्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥, पू॒षेमा आशा॒ अनु॑वेद॒ सर्वा᳚-स्सो अ॒स्माग्ं अभ॑यतमेन नेषत् । स्व॒स्ति॒दा अघृ॑णि॒-स्सर्व॑वीरः । अप्र॑युच्छ-न्पु॒र ए॑तु॒ प्रजा॒नन्न् ॥ ॥ प्रप॑थे प॒थाम॑जनिष्ट पू॒षा ॥ 33 ॥
प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः । उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे᳚ । आ च॒ परा॑ च चरति प्रजा॒नन्न् ॥ पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्याः । इ॒डस्पति॑-र्म॒घवा॑ द॒स्मव॑र्चाः । त-न्दे॒वासो॒ अद॑दु-स्सू॒र्यायै᳚ । कामे॑न कृ॒त-न्त॒वस॒ग्ग्॒ स्वञ्च᳚म् ॥ अ॒जाश्वः॑ पशु॒पा वाज॑वस्त्यः । धि॒य॒जि॒न्न्वो विश्वे॒ भुव॑ने॒ अर्पि॑तः । अष्ट्रा᳚-म्पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत् ॥ 34 ॥
स॒चङ्क्षा॑णो॒ भुव॑ना दे॒व ई॑यते ॥ शुची॑ वो ह॒व्या म॑रुत॒-श्शुची॑नाम् । शुचिग्ं॑ हिनोम्यद्ध्व॒रग्ं शुचि॑भ्यः । ऋ॒तेन॑ स॒त्यमृत॒साप॑ आयन्न् । शुचि॑जन्मान॒-श्शुच॑यः पाव॒काः ॥ प्र चि॒त्रम॒र्क-ङ्गृ॑ण॒ते तु॒राय॑ । मारु॑ताय॒ स्वत॑वसे भरद्ध्वम् । ये सहाग्ं॑सि॒ सह॑सा॒ सह॑न्ते । रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ॥ अग्ंसे॒ष्वा म॑रुतः खा॒दयो॑ वः ॥ 35 ॥
वक्षः॑सु रु॒क्मा उप॑शिश्रिया॒णाः । वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒नाः । अनु॑ स्व॒धामायु॑धै॒-र्यच्छ॑मानाः ॥ या व॒-श्शर्म॑ शशमा॒नाय॒ सन्ति॑ । त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्य॒-न्तानि॑ मरुतो॒ विय॑न्त । र॒यि-न्नो॑ धत्त वृषण-स्सु॒वीर᳚म् ॥ इ॒मे तु॒र-म्म॒रुतो॑ रामयन्ति । इ॒मे स॒ह-स्सह॑स॒ आन॑मन्ति । इ॒मे शग्ंसं॑-वँनुष्य॒तो निपा᳚न्ति ॥ 36 ॥
गु॒रुद्वेषो॒ अर॑रुषे दधन्ति ॥ अ॒रा इ॒वेदच॑रमा॒ अहे॑व । प्र प्र॑जायन्ते॒ अक॑वा॒ महो॑भिः । पृश्नेः᳚ पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः । स्वया॑ म॒त्या म॒रुत॒-स्सम्मि॑मिक्षुः ॥ अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ । स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ । अनु॑ क्ष॒त्रमनु॒ सहो॑ यजत्र । इन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ॥ य इन्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॑ ॥ 37 ॥
शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्यः॑ । त्वग्ं हि दृ॒ढा म॑घव॒न् विचे॑ताः । अपा॑वृधि॒ परि॑वृति॒-न्न राधः॑ ॥ इन्द्रो॒ राजा॒ जग॑तश्चर्​षणी॒नाम् । अधि॒क्षमि॒ विषु॑रूपं॒-यँदस्ति॑ । ततो॑ ददातु दा॒शुषे॒ वसू॑नि । चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ॥ तमु॑ ष्टुहि॒ यो अ॒भिभू᳚त्योजाः । व॒न्वन्नवा॑तः पुरुहू॒त इन्द्रः॑ । अषा॑ढमु॒ग्रग्ं सह॑मानमा॒भिः ॥ 38 ॥
गी॒र्भिर्व॑र्ध वृष॒भ-ञ्च॑र्​षणी॒नाम् ॥ स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे᳚ । तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र᳚म् । यो वा॒युना॒ जय॑ति॒ गोम॑तीषु । प्र धृ॑ष्णु॒या न॑यति॒ वस्यो॒ अच्छ॑ ॥ आ ते॒ शुष्मो॑ वृष॒भ एतु॑ प॒श्चात् । ओत्त॒राद॑ध॒रागा पु॒रस्ता᳚त् । आ वि॒श्वतो॑ अ॒भि समे᳚त्व॒र्वाम् । इन्द्र॑ द्यु॒म्नग्ं सुव॑र्वद्धेह्य॒स्मे ॥ 39 ॥
(व॒राहै᳚--र् वि॒श्वहा॑ - ऽजनिष्ट पू॒षो - द्वरी॑वृजत् - खा॒दयो॑ वः - पा॒न् - त्यस्त - या॒भि--र् + नव॑ च) (अ. 5)
अनुवाकं 6 - सावित्रादिपशूनां सूक्तानि
आ दे॒वो या॑तु सवि॒ता सु॒रत्नः॑ । अ॒न्त॒रि॒क्ष॒प्रा वह॑मानो॒ अश्वैः᳚ । हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ । नि॒वे॒शय॑न् च प्रसु॒वन् च॒ भूम॑ ॥ अ॒भीवृ॑त॒-ङ्कृश॑नै-र्वि॒श्वरू॑पम् ।
हिर॑ण्यशम्यं-यँज॒तो बृ॒हन्त᳚म् । आस्था॒-द्रथग्ं॑ सवि॒ता चि॒त्रभा॑नुः । कृ॒ष्णा रजाग्ं॑सि॒ तवि॑षी॒-न्दधा॑नः ॥ सघा॑ नो दे॒व-स्स॑वि॒ता स॒वाय॑ । आसा॑विष॒-द्वसु॑पति॒-र्वसू॑नि ॥ 40 ॥
वि॒श्रय॑माणो॒ अम॑तिमुरू॒चीम् । म॒र्त॒भोज॑न॒मध॑ रासते न ॥ वि जना᳚ञ्छ्या॒वा-श्शि॑ति॒पादो॑ अख्यन्न् । रथ॒ग्ं॒ हिर॑ण्य प्र उगं॒-वँह॑न्तः । शश्व॒-द्दिशः॑ सवि॒तु-र्दैव्य॑स्य । उ॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥ वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यत् । ग॒भी॒रवे॑पा॒ असु॑र-स्सुनी॒थः । क्वे॑दानी॒ग्ं॒ सूर्यः॒ कश्चि॑केत । क॒त॒मा-न्द्याग्ं र॒श्मिर॒स्यात॑तान ॥ 41 ॥
भग॒-न्धियं॑-वाँ॒जय॑न्तः॒ पुर॑न्धिम् । नरा॒शग्ंसो॒ ग्नास्पति॑र्नो अव्यात् । आ-ऽये वा॒मस्य॑ सङ्ग॒थे र॑यी॒णाम् । प्रि॒या दे॒वस्य॑ सवि॒तु-स्स्या॑म ॥ आ नो॒ विश्वे॒ अस्क्रा॑ गमन्तु दे॒वाः । मि॒त्रो अ॑र्य॒मा वरु॑ण-स्स॒जोषाः᳚ । भुव॒न्॒. यथा॑ नो॒ विश्वे॑ वृ॒धासः॑ । कर᳚न्-थ्सु॒षहा॑ विथु॒र-न्न शवः॑ ॥ श-न्नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु । शग्ं सर॑स्वती स॒ह धी॒भिर॑स्तु ॥ 42 ॥
शम॑भि॒षाच॒-श्शमु॑ राति॒षाचः॑ । श-न्नो॑ दि॒व्याः पार्थि॑वा॒-श्श-न्नो॒ अप्याः᳚ ॥ ये स॑वि॒तु-स्स॒त्यस॑वस्य॒ विश्वे᳚ । मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः । ते सौभ॑गं-वीँ॒रव॒द्गोम॒दप्नः॑ । दधा॑तन॒ द्रवि॑ण-ञ्चि॒त्रम॒स्मे ॥ अग्ने॑ या॒हि दू॒त्यं॑-वाँरि॑षेण्यः । दे॒वां अच्छा᳚ ब्रह्म॒कृता॑ ग॒णेन॑ । सर॑स्वती-म्म॒रुतो॑ अ॒श्विना-ऽ॒पः । य॒क्षि॒ दे॒वा-न्र॑त्न॒धेया॑य॒ विश्वान्॑ ॥ 43 ॥
द्यौः पि॑तः॒ पृथि॑वि॒ मात॒रद्ध्रु॑क् । अग्ने᳚ भ्रातर्वसवो मृ॒डता॑ नः । विश्व॑ आदित्या आदिते स॒जोषाः᳚ । अ॒स्मभ्य॒ग्ं॒ शर्म॑ बहु॒लं-विँय॑न्त ॥ विश्वे॑ देवा-श्शृणु॒तेमग्ं हव॑-म्मे । ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्राः । आ॒स-द्या॒स्मि-न्ब॒र्॒हिषि॑ मादयद्ध्वम् ॥ आ वा᳚-म्मित्रावरुणा ह॒व्यजु॑ष्टिम् । नम॑सा देवा॒ वव॑सा-ऽऽववृत्याम् ॥ 44 ॥
अ॒स्माक॒-म्ब्रह्म॒ पृत॑नासु सह्या अ॒स्माक᳚म् । वृ॒ष्टि-र्दि॒व्या सु॑पा॒रा ॥ यु॒वं-वँस्त्रा॑णि पीव॒सा व॑साथे । यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः᳚ । अवा॑तिरत॒मनृ॑तानि॒ विश्वा᳚ । ऋ॒तेन॑ मित्रावरुणा सचेथे ॥ तथ्सु वा᳚-म्मित्रावरुणा महि॒त्वम् । ई॒र्मा त॒स्थुषी॒रह॑भि-र्दुदुह्रे । विश्वाः᳚ पिन्वथ॒ स्वस॑रस्य॒ धेनाः᳚ । अनु॑ वा॒मेकः॑ प॒विराव॑वर्ति ॥ 45 ॥
यद्बग्ंहि॑ष्ठ॒-न्नाति॒विदे॑ सुदानू । अच्छि॑द्र॒ग्ं॒ शर्म॒ भुव॑नस्य गोपा । ततो॑ नो मित्रावरुणा-ववीष्टम् । सिषा॑सन्तो जीगि॒वाग्ंसः॑ स्याम ॥ आ नो॑ मित्रावरुणा ह॒व्यदा॑तिम् । घृ॒तै-र्गव्यू॑तिमुक्षत॒मिडा॑भिः । प्रति॑ वा॒मत्र॒ वर॒मा जना॑य । पृ॒णी॒तमु॒द्गो दि॒व्यस्य॒ चारोः᳚ ॥ प्र बा॒हवा॑ सिसृत-ञ्जी॒वसे॑ नः । आ नो॒ गव्यू॑तिमुक्षत-ङ्घृ॒तेन॑ ॥ 46 ॥
आ नो॒ जने᳚ श्रवयतं-युँवाना । श्रु॒त-म्मे॑ मित्रावरुणा॒ हवे॒मा ॥ इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः॑ । क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाम्ने᳚ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ । ति॒ग्मायु॑धाय भरता शृ॒णोत॑न ॥ त्वा द॑त्तेभी रुद्र॒ शन्त॑मेभिः । श॒तग्ं हिमा॑ अशीय भेष॒जेभिः॑ । व्य॑स्मद्द्वेषो॑ वित॒रं-व्यँग्ंहः॑ । व्यमी॑वाग्​ श्चातयस्वा॒ विषू॑चीः ॥ 47 ॥
अर्​ह॑न्बिभर्​षि॒ साय॑कानि॒ धन्व॑ । अर्​ह॑न्नि॒ष्कं-यँ॑ज॒तं-विँ॒श्वरू॑पम् । अर्​ह॑न्नि॒दन्द॑यसे॒ विश्व॒मब्भु॑वम् । न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥, मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रा-न्मानो॑ रुद्र भामि॒तो व॑धीर्​ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥॥ आ ते॑ पितर्मरुताग्ं सु॒म्नमे॑तु । मा न॒-स्सूर्य॑स्य स॒दृंशो॑ युयोथाः । अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत । प्रजा॑येमहि रुद्र प्र॒जाभिः॑ ॥ ए॒वा ब॑भ्रो वृषभ चेकितान । यथा॑ देव॒ न हृ॑णी॒षे न हग्ंसि॑ । हा॒व॒न॒श्रूर्नो॑ रुद्रे॒ह बो॑धि । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚ ॥ परि॑णो रु॒द्रस्य॑ हे॒ति र्वृ॑णक्तु॒ परि॑त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः । अव॑ स्थि॒रा म॒घव॑द्भ्य-स्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ॥, स्तु॒हि श्रु॒त-ङ्ग॑र्त॒सदं॒-युँवा॑न-म्मृ॒ग-न्न भी॒म-मु॑पह॒त्नु-मु॒ग्रम् । मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेनाः᳚ ॥ । मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव ।प॒र॒मे वृ॒क्ष आयु॑ध-न्नि॒धाय॒ कृत्तिं॒-वँसा॑न॒ आच॑र॒ पिना॑क॒म्बिभ्र॒दाग॑हि ॥ अर्​ह॑न्बिभर्​षि॒ साय॑कानि॒ धन्व॑ । अर्​ह॑न्नि॒ष्कं-यँ॑ज॒तं-विँ॒श्वरू॑पम् । अर्​ह॑न्नि॒दन्द॑यसे॒ विश्व॒मब्भु॑वम् । न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥। त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वग्ं शर्धो॒ मारु॑त-म्पृ॒क्ष ई॑शिषे । त्वं-वाँतै॑ररु॒णैर्या॑सि शङ्ग॒यस्त्व-म्पू॒षा वि॑ध॒तः पा॑सि॒ नुत्मना᳚ ॥, आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रग्ं होता॑रग्ं सत्य॒यज॒ग्ं॒ रोद॑स्योः । अ॒ग्नि-म्पु॒रा त॑नयि॒त्नो र॒चित्ता॒-द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥ ॥ 48 ॥
(वसू॑नि - तता - नास्तु॒ - विश्वान्॑.-ववृत्यां​वँवर्ति-घृ॒तेन॒-विषू॑चीः-श्रु॒त-न्द्वे च॑) (अ. 6)
अनुवाकं 7 - सौर्यादिपशूनां सूक्तानि
सूर्यो॑ दे॒वीमु॒षस॒ग्ं रोच॑माना॒ मर्यः॑ । न योषा॑म॒भ्ये॑ति प॒श्चात् । यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ । वि॒त॒न्वते॒ प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥ भ॒द्रा अश्वा॑ ह॒रित॒-स्सूर्य॑स्य । चि॒त्रा एद॑ग्वा अनु॒माद्या॑सः । न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः ।
परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ॥ त-थ्सूर्य॑स्य देव॒त्व-न्त-न्म॑हि॒त्वम् । म॒द्ध्या कर्तो॒-र्वित॑त॒ग्ं॒ सञ्ज॑भार ॥ 49 ॥
य॒देदयु॑क्त ह॒रितः॑ स॒धस्था᳚त् । आद्रात्री॒ वास॑स्तनुते सि॒मस्मै᳚ ॥ त-न्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे᳚ । सूर्यो॑ रू॒प-ङ्कृ॑णुते॒ द्योरु॒पस्थे᳚ । अ॒न॒न्तम॒न्य-द्रुश॑दस्य॒ पाजः॑ । कृ॒ष्णम॒न्यद्ध॒रित॒-स्सम्भ॑रन्ति ॥ अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य । निरग्ंह॑सः पिपृ॒तान्निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ताम् । अदि॑ति॒-स्सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ 50 ॥
दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति । दू॒रे अ॑र्थस्त॒रणि॒-र्भ्राज॑मानः । नू॒न-ञ्जना॒-स्सूर्ये॑ण॒ प्रसू॑ताः । आयन्नर्था॑नि कृ॒णव॒न्नपाग्ं॑सि ॥ श-न्नो॑ भव॒ चक्ष॑सा॒ श-न्नो॒ अह्ना᳚ । श-म्भा॒नुना॒ शग्ं हि॒मा श-ङ्घृ॒णेन॑ । यथा॒ शम॒स्मै शमस॑-द्दुरो॒णे । त-थ्सू᳚र्य॒ द्रवि॑ण-न्धे॒हि चि॒त्रम् ॥ चि॒त्र-न्दे॒वाना॒-मुद॑गा॒दनी॑कम् । चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ॥ 51 ॥
आ-ऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् । सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ त्वष्टा॒ दध॒दिन्द्रा॑य॒ शुष्म᳚म् । अपा॒को-ऽचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑ । वृषा॒ यज॒न् वृष॑ण॒-म्भूरि॑रेताः । मू॒र्धन्. य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥, तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒ण-स्स्य॑स्व । यतो॑ वी॒रः क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥ । त्वष्टा॑ वी॒र-न्दे॒वका॑म-ञ्जजान॒ त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः॑ । त्वष्टे॒दं-विँश्व॒-म्भुव॑न-ञ्जजान ब॒होः क॒र्तार॑मि॒ह य॑क्षि होतः ॥ पि॒शङ्ग॑रूप-स्सु॒भरो॑ वयो॒धा-श्श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जा-न्त्वष्टा॒ विष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ ॥ दशे॒म-न्त्वष्टु॑र्जनयन्त॒ गर्भ᳚म् । अत॑न्द्रासो युव॒तयो॒ बिभ॑र्त्रम् । ति॒ग्मानी॑क॒ग्ग्॒ स्वय॑शस॒-ञ्जने॑षु । वि॒रोच॑मान॒-म्परि॑षी-न्नयन्ति ॥ आविष्ट्यो॑ वर्धते॒ चारु॑रासु । जि॒ह्माना॑मू॒र्ध्व-स्स्वय॑शा उ॒पस्थे᳚ ॥ 52 ॥
उ॒भे त्वष्टु॑र्बिभ्यतु॒-र्जाय॑मानात् । प्र॒तीची॑ सि॒ग्ं॒ह-म्प्रति॑जोषयेते ॥ मि॒त्रो जनान्॑ यातयति प्रजा॒न-न्मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् । मि॒त्रः कृ॒ष्टीरनि॑मिषा॒-ऽभि च॑ष्टे स॒त्याय॑ ह॒व्य-ङ्घृ॒तव॑-द्विधेम ॥, प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न् यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मग्ंहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ॥ ॥ अ॒य-म्मि॒त्रो न॑म॒स्यः॑ सु॒शेवः॑ । राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः । तस्य॑ व॒यग्ं सु॑म॒तौ य॒ज्ञिय॑स्य । अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥ अ॒न॒मी॒वास॒ इड॑या॒ मद॑न्तः । मि॒तज्म॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः । आ॒दि॒त्यस्य॑ व्र॒तमु॑प॒क्ष्यन्तः॑ ॥ 53 ॥
व॒य-म्मि॒त्रस्य॑ सुम॒तौ स्या॑म ॥ मि॒त्र-न्न ईग्ं शिम्या॒ गोषु॑ ग॒व्यव॑त् । स्वा॒धियो॑ वि॒दथे॑ अ॒फ्स्वजी॑जनन्न् । अरे॑जयता॒ग्ं॒ रोद॑सी॒ पाज॑सा गि॒रा । प्रति॑ प्रि॒यं-यँ॑ज॒त-ञ्ज॒नुषा॒मवः॑ ॥ म॒हाग्ं आ॑दि॒त्यो नम॑सोप॒सद्यः॑ । या॒त॒यज्ज॑नो गृण॒ते सु॒शेवः॑ । तस्मा॑ ए॒त-त्पन्य॑तमाय॒ जुष्ट᳚म् । अ॒ग्नौ मि॒त्राय॑ ह॒विराजु॑होत ॥ आवा॒ग्ं॒ रथो॒ रोद॑सी बद्बधा॒नः ॥ 54 ॥
हि॒र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः᳚ । घृ॒तव॑र्तनिः प॒विभी॑ रुचा॒नः । इ॒षां-वोँ॒ढा नृ॒पति॑र्वा॒जिनी॑वान् ॥ स प॑प्रथा॒नो अ॒भि पञ्च॒ भूम॑ । त्रि॒व॒न्धु॒रो मन॒सा-ऽऽया॑तु यु॒क्तः । विशो॒ येन॒ गच्छ॑थो देव॒यन्तीः᳚ । कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना ॥ स्वश्वा॑ य॒शसा-ऽऽया॑तम॒र्वाक् । दस्रा॑ नि॒धि-म्मधु॑मन्त-म्पिबाथः । वि वा॒ग्ं॒ रथो॑ व॒द्ध्वा॑ याद॑मानः ॥ 55 ॥
अन्ता᳚-न्दि॒वो बा॑धते वर्त॒निभ्या᳚म् ॥ यु॒वो-श्श्रिय॒-म्परि॒ योषा॑ वृणीत । सूरो॑ दुहि॒ता परि॑तक्मियायाम् । य-द्दे॑व॒यन्त॒मव॑थ॒-श्शची॑भिः । परि॑घ्र॒ग्ं॒स वा॒-म्मना॑ वां॒-वँयो॑ गाम् ॥ यो ह॒ स्य वाग्ं॑ रथिरा॒ वस्त॑ उ॒स्राः । रथो॑ युजा॒नः प॑रि॒याति॑ व॒र्तिः । तेन॑ न॒-श्शं-योँरु॒षसो॒ व्यु॑ष्टौ । न्य॑श्विना वहतं-यँ॒ज्ञे अ॒स्मिन्न् ॥ यु॒व-म्भु॒ज्युमव॑विद्धग्ं समु॒द्रे ॥ 56 ॥
उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः । प॒त॒त्रिभि॑-रश्र॒मै-र॑व्य॒थिभिः॑ । द॒ग्ं॒सना॑भिरश्विना पा॒रय॑न्ता ॥ अग्नी॑षोमा॒ यो अ॒द्य वा᳚म् । इ॒दं-वँचः॑ सप॒र्यति॑ । तस्मै॑ धत्तग्ं सु॒वीर्य᳚म् । गवा॒-म्पोष॒ग्ग्॒ स्वश्वि॑यम् ॥ यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्यात् । दे॒व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ । तस्य॑ व्र॒तग्ं र॑क्षत-म्पा॒तमग्ंह॑सः ॥ 57 ॥
वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ॥ अग्नी॑षोमा॒ य आहु॑तिम् । यो वा॒-न्दाशा᳚द्ध॒विष्कृ॑तिम् । स प्र॒जया॑ सु॒वीर्य᳚म् । विश्व॒मायु॒-र्व्य॑श्नवत् ॥ अग्नी॑षोमा॒ चेति॒ त-द्वी॒र्यं॑-वाँम् । यदमु॑ष्णीतमव॒स-म्प॒णि-ङ्गोः । अवा॑तिरत॒-म्प्रथ॑यस्य॒ शेषः॑ । अवि॑न्दत॒-ञ्ज्योति॒रेक॑-म्ब॒हुभ्यः॑ ॥ अग्नी॑षोमा वि॒मग्ं सु मे॑ शृणु॒तं-वृँ॑षणा॒ हव᳚म् । प्रति॑ सू॒क्तानि॑ हर्यत॒-म्भव॑त-न्दा॒शुषे॒ मयः॑ ॥ अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तग्ंहर्य॑तं-वृँषणा जु॒षेथा᳚म् । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒-यँज॑मानाय॒ शं-योः ँ॥ ॥ 58 ॥
(ज॒भा॒र॒ - द्यौ - र॒ग्ने - रु॒पस्थ॑ - उप॒क्ष्यन्तो॑ - बद्बधा॒नो-याद॑मानः - समु॒द्रे - ऽग्ंह॑सः॒ - प्रस्थि॑तस्य) (अ. 7)
अनुवाकं 8 - वेहदादिपशूनां सूक्तानि
अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑ । पूर्व॑-न्दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ । यो मा॒ ददा॑ति॒ स इदे॒व मा वाः᳚ । अ॒ह-मन्न॒-मन्न॑-म॒दन्त॑मद्मि ॥ पूर्व॑-म॒ग्नेरपि॑ दह॒त्यन्न᳚म् । य॒त्तौ हा॑-ऽऽसाते अहमुत्त॒रेषु॑ । व्यात्त॑मस्य प॒शवः॑ सु॒जम्भ᳚म् । पश्य॑न्ति॒ धीराः॒ प्रच॑रन्ति॒ पाकाः᳚ ॥ जहा᳚म्य॒न्य-न्न ज॑हाम्य॒न्यम् । अ॒हमन्नं॒-वँश॒मिच्च॑रामि ॥ 59 ॥
स॒मा॒नमर्थ॒-म्पर्ये॑मि भु॒ञ्जत् । को मामन्न॑-म्मनु॒ष्यो॑ दयेत ॥ परा॑के॒ अन्न॒-न्निहि॑तं-लोँ॒क ए॒तत् । विश्वै᳚-र्दे॒वैः पि॒तृभि॑-र्गु॒प्तमन्न᳚म् । यद॒द्यते॑ लु॒प्यते॒ य-त्प॑रो॒प्यते᳚ । श॒त॒त॒मी सा त॒नूर्मे॑ बभूव ॥ म॒हान्तौ॑ च॒रू स॑कृ-द्दु॒ग्धेन॑ पप्रौ । दिव॑ञ्च॒ पृश्ञि॑ पृथि॒वी-ञ्च॑ सा॒कम् । त-थ्स॒म्पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑ । नैत-द्भूयो॒ भव॑ति॒ नो कनी॑यः ॥ 60 ॥
अन्न॑-म्प्रा॒ण-मन्न॑-मपा॒न-मा॑हुः । अन्न॑-म्मृ॒त्यु-न्तमु॑ जी॒वातु॑माहुः । अन्न॑-म्ब्र॒ह्माणो॑ ज॒रसं॑-वँदन्ति । अन्न॑माहुः प्र॒जन॑न-म्प्र॒जाना᳚म् ॥ मोघ॒मन्नं॑-विँन्दते॒ अप्र॑चेताः । स॒त्य-म्ब्र॑वीमि व॒ध इथ्स तस्य॑ । नार्य॒मण॒-म्पुष्य॑ति॒ नो सखा॑यम् । केव॑लाघो भवति केवला॒दी ॥ अ॒ह-म्मे॒घ-स्स्त॒नय॒न्. वर्​ष॑न्नस्मि । माम॑दन्त्य॒हम॑द्म्य॒न्यान् ॥ 61 ॥
अ॒हग्ं सद॒मृतो॑ भवामि । मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति ॥ सा नो॑ म॒न्द्रेष॒मूर्ज॒-न्दुहा॑ना । धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥, य-द्वाग्वद॑न्त्य-विचेत॒नानि॑ । राष्ट्री॑ दे॒वाना᳚-न्निष॒साद॑ म॒न्द्रा । चत॑स्र॒ ऊर्ज॑-न्दुदुहे॒ पयाग्ं॑सि । क्व॑ स्वि दस्याः पर॒म-ञ्ज॑गाम ॥ ॥ अ॒न॒न्ता-मन्ता॒दधि॒ निर्मि॑ता-म्म॒हीम् । यस्या᳚-न्दे॒वा अ॑दधु॒-र्भोज॑नानि । एका᳚क्षरा-न्द्वि॒पदा॒ग्ं॒ षट्प॑दाञ्च । वाच॑-न्दे॒वा उप॑जीवन्ति॒ विश्वे᳚ ॥ वाच॑-न्दे॒वा उप॑जीवन्ति॒ विश्वे᳚ । वाच॑-ङ्गन्ध॒र्वाः प॒शवो॑ मनु॒ष्याः᳚ । वा॒चीमा विश्वा॒ भुव॑ना॒न्यर्पि॑ता ॥ 62 ॥
सा नो॒ हव॑-ञ्जुषता॒-मिन्द्र॑पत्नी ॥ वाग॒क्षर॑-म्प्रथम॒जा ऋ॒तस्य॑ । वेदा॑ना-म्मा॒ता-ऽमृत॑स्य॒ नाभिः॑ । सा नो॑ जुषा॒णोप॑ य॒ज्ञमागा᳚त् । अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु ॥ या मृष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑ । अ॒न्वैच्छ॑-न्दे॒वा-स्तप॑सा॒ श्रमे॑ण । ता-न्दे॒वीं-वाँचग्ं॑ ह॒विषा॑ यजामहे । सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के ॥ च॒त्वारि॒ वा-क्परि॑मिता प॒दानि॑ ॥ 63 ॥
तानि॑ विदु-र्ब्राह्म॒णा ये म॑नी॒षिणः॑ । गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति । तु॒रीयं॑-वाँ॒चो म॑नु॒ष्या॑ वदन्ति ॥ श्र॒द्धया॒-ऽग्नि-स्समि॑द्ध्यते । श्र॒द्धया॑ विन्दते ह॒विः । श्र॒द्धा-म्भग॑स्य मू॒र्धनि॑ । वच॒सा ऽऽवे॑दयामसि ॥ प्रि॒यग्ग्​ श्र॑द्धे॒ दद॑तः । प्रि॒यग्ग्​ श्र॑द्धे॒ दिदा॑सतः । प्रि॒य-म्भो॒जेषु॒ यज्व॑सु ॥ 64 ॥
इ॒द-म्म॑ उदि॒त-ङ्कृ॑धि ॥ यथा॑ दे॒वा असु॑रेषु । श्र॒द्धा-मु॒ग्रेषु॑ चक्रि॒रे । ए॒व-म्भो॒जेषु॒ यज्व॑सु । अ॒स्माक॑-मुदि॒त-ङ्कृ॑धि ॥ श्र॒द्धा-न्दे॑वा॒ यज॑मानाः । वा॒युगो॑पा॒ उपा॑सते । श्र॒द्धाग्ं हृ॑द॒य्य॑या-ऽऽकू᳚त्या । श्र॒द्धया॑ हूयते ह॒विः ॥ श्र॒द्धा-म्प्रा॒तर्-ह॑वामहे ॥ 65 ॥
श्र॒द्धा-म्म॒द्ध्यन्दि॑न॒-म्परि॑ । श्र॒द्धाग्ं सूर्य॑स्य नि॒म्रुचि॑ । श्रद्धे॒ श्रद्धा॑पये॒ह मा᳚ ॥ श्र॒द्धा दे॒वा-नधि॑वस्ते । श्र॒द्धा विश्व॑मि॒द-ञ्जग॑त् । श्र॒द्धा-ङ्काम॑स्य मा॒तर᳚म् । ह॒विषा॑ वर्धयामसि ॥ ब्रह्म॑जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता᳚त् । वि सी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः । स बु॒द्ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः ॥ 66 ॥
स॒तश्च॒ योनि॒-मस॑तश्च॒ विवः॑ ॥ पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् । अ॒न्तरि॑क्षं-विँ॒श्वरू॑प॒ आवि॑वेश । तम॒र्कै-र॒भ्य॑र्चन्ति व॒थ्सम् । ब्रह्म॒ सन्त॒-म्ब्रह्म॑णा व॒र्धय॑न्तः ॥ ब्रह्म॑ दे॒वान॑जनयत् । ब्रह्म॒ विश्व॑मि॒द-ञ्जग॑त् । ब्रह्म॑णः, क्ष॒त्र-न्निर्मि॑तम् । ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ॥ अ॒न्तर॑स्मि-न्नि॒मे लो॒काः ॥ 67 ॥
अ॒न्त-र्विश्व॑मि॒द-ञ्जग॑त् । ब्रह्मै॒व भू॒ताना॒-ञ्ज्येष्ठ᳚म् । तेन॒ को॑-ऽर्​हति॒ स्पर्धि॑तुम् ॥ ब्रह्म॑-न्दे॒वा-स्त्रय॑स्त्रिग्ंशत् । ब्रह्म॑न्निन्द्र प्रजाप॒ती । ब्रह्म॑न्. ह॒ विश्वा॑ भू॒तानि॑ । ना॒वी वा॒न्त-स्स॒माहि॑ता ॥ चत॑स्र॒ आशाः॒ प्रच॑रन्त्व॒-ग्नयः॑ । इ॒मन्नो॑ य॒ज्ञ-न्न॑यतु प्रजा॒नन्न् । घृ॒त-म्पिन्व॑न्न॒जरग्ं॑ सु॒वीर᳚म् ॥ 68 ॥
ब्रह्म॑ स॒मि-द्भ॑व॒त्याहु॑तीनाम् ॥ आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्रन्न् । सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे । प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्युः । इन्द्रा॑य पू॒र्वी रु॒षसो॒ दुहा॑नाः ॥ इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्षति । उपेद्द॑दाति॒ न स्व-म्मु॑षायति । भूयो॑ भूयो र॒यिमिद॑स्य व॒र्धयन्न्॑ । अभि॑न्ने खि॒ल्ले निद॑धाति देव॒युम् ॥ न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रः । नैना॑ अमि॒त्रो व्यथि॒राद॑धर्​षति । दे॒वाग्​श्च॒ याभि॒-र्यज॑ते॒ ददा॑ति च । ज्योगित्ताभिः॑ सचते॒ गोप॑ति-स्स॒ह ॥, न ता अर्वा॑ रे॒णुक॑काटो अश्नुते । न सग्ग्॑ स्कृत॒त्र-मुप॑यन्ति॒ ता अ॒भि । उ॒रु॒गा॒यमभ॑य॒-न्तस्य॒ ता अनु॑ । गावो॒ मर्त्य॑स्य॒ विच॑रन्ति॒ यज्व॑नः ॥ ॥ 69 ॥
गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छात् । गाव॒-स्सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः । इ॒मा या गाव॒-स्सज॑नास॒ इन्द्रः॑ । इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र᳚म् ॥ यू॒य-ङ्गा॑वो मेदयथा कृ॒श-ञ्चि॑त् । अ॒श्ली॒ल-ञ्चि॑-त्कृणुथा सु॒प्रती॑कम् । भ॒द्र-ङ्गृ॒ह-ङ्कृ॑णुथ भद्रवाचः । बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥ प्र॒जाव॑ती-स्सू॒यव॑सग्ं रि॒शन्तीः᳚ (रु॒शन्तीः᳚) । शु॒द्धा अ॒प-स्सु॑प्रपा॒णे पिब॑न्तीः । मा वः॑ स्ते॒न ई॑शत॒ मा-ऽघशग्ं॑सः । परि॑वो हे॒ती रु॒द्रस्य॑ वृञ्ज्यात् ॥ उपे॒द-मु॑प॒पर्च॑नम् । आ॒सु गोषूप॑पृच्यताम् । उप॑र्​ष॒भस्य॒ रेत॑सि । उपे᳚न्द्र॒ तव॑ वी॒र्ये᳚ ॥ 70 ॥
(च॒रा॒मि॒ - कनी॑यो॒ - ऽन्या - नर्पि॑ता - प॒दानि॒ - यज्व॑सु - हवामहे - वि॒ष्ठा - लो॒काः - सु॒वीर॒ - मर्वा॒ - पिब॑न्ती॒-ष्षट्च॑) (अ. 8)
अनुवाकं 9 - शुक्लकृष्णपश्वादीनां सूक्तानि
ता सू᳚र्या चन्द्र॒मसा॑ विश्व॒भृत्त॑मा म॒हत् । तेजो॒ वसु॑म-द्राजतो दि॒वि । सामा᳚त्माना चरत-स्सामचा॒रिणा᳚ । ययो᳚र्व्र॒त-न्न म॒मे जातु॑ दे॒वयोः᳚ ॥ उ॒भावन्तौ॒ परि॑यात॒ अर्म्या᳚ । दि॒वो न र॒श्मीग्​ स्त॑नु॒तो-व्य॑र्ण॒वे । उ॒भा भु॑व॒न्ती भुव॑ना क॒विक्र॑तू । सूर्या॒ न च॒न्द्रा च॑रतो ह॒ताम॑ती ॥ पती᳚ द्यु॒म-द्वि॑श्व॒विदा॑ उ॒भा दि॒वः । सूर्या॑ उ॒भा च॒न्द्रम॑सा विचक्ष॒णा ॥ 71 ॥
वि॒श्ववा॑रा वरिवो॒भा वरे᳚ण्या । ता नो॑-ऽवत-म्मति॒मन्ता॒ महि॑व्रता ॥ वि॒श्व॒वप॑री प्र॒तर॑णा तर॒न्ता । सु॒व॒र्विदा॑ दृ॒शये॒ भूरि॑रश्मी । सूर्या॒ हि च॒न्द्रा वसु॑त्वे॒ष-द॑र्​शता । म॒न॒स्विनो॒भा-ऽनु॑ चर॒तो नु॒ स-न्दिव᳚म् ॥ अ॒स्य श्रवो॑ न॒द्यः॑ स॒प्त बि॑भ्रति । द्यावा॒ क्षामा॑ पृथि॒वी द॑र्​श॒तं-वँपुः॑ । अ॒स्मे सू᳚र्या चन्द्र॒मसा॑-ऽभि॒चक्षे᳚ । श्र॒द्धे कमि॑न्द्र चरतो विचर्तु॒रम् ॥ 72 ॥
पू॒र्वा॒प॒र-ञ्च॑रतो मा॒य यै॒तौ । शिशू॒ क्रीड॑न्तौ॒ परि॑यातो अद्ध्व॒रम् । विश्वा᳚न्य॒न्यो भुव॑ना ऽभि॒चष्टे᳚ । ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ॥ हिर॑ण्यवर्णा॒-श्शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं-याँ गर्भ॑-न्दधि॒रे विरू॑पा॒स्ता न॒ आप॒-श्शग्ग्​ स्यो॒ना भ॑वन्तु ॥,
यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नाम् । म॒धु॒श्चुत॒-श्शुच॑यो॒ याः पा॑व॒कास्ता न॒ आप॒-श्शग्ग्​ स्यो॒ना भ॑वन्तु ॥ । यासा᳚-न्दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं-याँ अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । याः पृ॑थि॒वी-म्पय॑सो॒न्दन्ति॑शु॒क्रास्ता न॒ आप॒-श्शग्ग्​ स्यो॒ना भ॑वन्तु ॥, शि॒वेन॑ मा॒ चक्षु॑षा पश्यता-ऽऽप-श्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑-म्मे । सर्वाग्ं॑ अ॒ग्नीग्ं र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ॥ । आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नी-षोमौ॑ बिभ्र॒त्याप॒ इ-त्ताः । ती॒व्रो रसो॑ मधु॒पृचा॑ -मरङ्ग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ॥, आदि-त्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वान्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्​हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं-यँ॒दा वः॑ ॥ ॥ नास॑दासी॒न्नो सदा॑सी-त्त॒दानी᳚म् । नासी॒-द्रजो॒ नो व्यो॑माप॒रो यत् । किमाव॑रीवः॒ कुह॒ कस्य॒ शर्मन्न्॑ ॥ 73 ॥
अम्भः॒ किमा॑सी॒-द्गह॑न-ङ्गभी॒रम् ॥ न मृ॒त्युर॒मृत॒-न्तर्​हि॒ न । रात्रि॑या॒ अह्न॑ आसी-त्प्रके॒तः । आनी॑दवा॒तग्ग्​ स्व॒धया॒ तदेक᳚म् । तस्मा᳚-द्धा॒न्य-न्न प॒रः (प॒रं) किञ्च॒ नास॑ ॥ तम॑ आसी॒-त्तम॑सा गू॒ढमग्रे᳚ प्रके॒तम् । स॒लि॒लग्ं सर्व॑मा इ॒दम् । तु॒च्छे ना॒भ्वपि॑हितQं-यँदासी᳚त् । तम॑स॒ स्तन्म॑हि॒ना जा॑य॒तैक᳚म् ॥ काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ ॥ 74 ॥
मन॑सो॒ रेतः॑ प्रथ॒मं-यँदासी᳚त् । स॒ तो बन्धु॒मस॑ति॒ निर॑विन्दन्न् (निर॑विदन्न्) । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥ ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम् । अ॒ध-स्स्वि॑दा॒सी(3) दु॒परि॑ स्विदासी(3)त् । रे॒तो॒धा आ॑स-न्महि॒मान॑ आसन्न् । स्व॒धा अ॒वस्ता॒-त्प्रय॑तिः प॒रस्ता᳚त् ॥ को अ॒द्धा वे॑द॒ क इ॒ह प्रवो॑चत् । कुत॒ आजा॑ता॒ कुत॑ इ॒यं-विँसृ॑ष्टिः । अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑नाय ॥ 75 ॥
अथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ॥ इ॒यं-विँसृ॑ष्टि॒-र्यत॑ आब॒भूव॑ । यदि॑ वा द॒धे यदि॑ वा॒ न । यो अ॒स्याद्ध्य॑क्षः पर॒मे व्यो॑मन्न् । सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ ॥ किग्ग्​स्वि॒द्वन॒-ङ्क उ॒ स वृ॒क्ष आ॑सीत् । यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तत् । यद॒द्ध्यति॑ष्ठ॒-द्भुव॑नानि धा॒रयन्न्॑ ॥ ब्रह्म॒ वन॒-म्ब्रह्म॒ स वृ॒क्ष आ॑सीत् ॥ 76 ॥
यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा॒ विब्र॑वीमि वः । ब्रह्मा॒द्ध्यति॑ष्ठ॒-द्भुव॑नानि धा॒रयन्न्॑ ॥ प्रा॒तर॒ग्नि-म्प्रा॒तरिन्द्रग्ं॑ हवामहे । प्रा॒त र्मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚ । प्रा॒त र्भग॑-म्पू॒षण॒-म्ब्रह्म॑ण॒स्पति᳚म् । प्रा॒तस्सोम॑मु॒त रु॒द्रग्ं हु॑वेम ॥ प्रा॒त॒र्जित॒-म्भग॑मु॒ग्रग्ं हु॑वेम । व॒य-म्पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒द्ध्रश्चि॒द्य-म्मन्य॑मान-स्तु॒रश्चि॑त् ॥ 77 ॥
राजा॑ चि॒द्य-म्भग॑-म्भ॒क्षीत्याह॑ ॥ भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः । भगे॒मा-न्धिय॒मुद॑व॒ दद॑न्नः । भग॒ प्रणो॑ जनय॒ गोभि॒रश्वैः᳚ । भग॒ प्रनृभि॑-र्नृ॒वन्तः॑ स्याम । उ॒तेदानी॒-म्भग॑वन्त-स्स्याम ॥ उ॒त प्रपि॒त्व उ॒त मद्ध्ये॒ अह्ना᳚म् । उ॒तोदि॑ता मघव॒न्-थ्सूर्य॑स्य । व॒य-न्दे॒वानाग्ं॑ सुम॒तौ स्या॑म ॥ भग॑ ए॒व भग॑वाग्ं अस्तु देवाः ॥ 78 ॥
तेन॑ व॒य-म्भग॑वन्त-स्स्याम । त-न्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि । स नो॑ भग पुर ए॒ता भ॑वे॒ह ॥ सम॑द्ध्व॒रायो॒षसो॑ नमन्त । द॒धि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नं-वँ॑सु॒विद॒-म्भग॑न्नः । रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु ॥ अश्वा॑वती॒-र्गोम॑ती-र्न उ॒षासः॑ । वी॒रव॑ती॒-स्सद॑मुच्छन्तु भ॒द्राः । घृ॒त-न्दुहा॑ना वि॒श्वतः॒ प्रपी॑नाः । यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ॥ 79 ॥
(वि॒च॒क्ष॒णा - वि॑चर्तु॒रग्ं - शर्म॒ - न्नधि॑ - वि॒सर्ज॑नाय॒ - ब्रह्म॒ वन॒-म्ब्रह्म॒ स वृ॒क्ष आ॑सीत्- तु॒रश्चि॑-द्- देवाः॒ - प्रपी॑ना॒ एक॑-ञ्च) (अ. 9)
(पीवो᳚-ऽन्ना॒ - मग्ने॒ त्व-म्पा॑र - यानाघृ॒ष्यः - शुचि॒-न्नु स्तोमं॑ - ँवि॒श्रय॑माणो - दि॒वो रु॒क्मो - ऽन्न॑-म्प्रा॒णं - ता सू᳚र्याचन्द्र॒मसा॒ नव॑सप्ततिः)
(पीवो᳚न्ना - ँयू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑नः)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके अष्टमः प्रपाठक-स्समाप्तः ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टकं समाप्तम् ॥
Roman (IAST) Transliteration
kṛṣṇa yajurvedīya taittirīya brāhmaṇe dvitīyāṣṭake aṣṭamaḥ prapāṭhakaḥ - kāmyapaśuyājyānuvākyā brāhmaṇam
o-nnamaḥ paramātmane, śrī mahāgaṇapataye namaḥ,
śrī gurubhyo namaḥ | ha॒riḥ॒ om ||
anuvākaṃ 1 - vāyavyādipaśūnāṃ sūktāni
pīvo᳚nnāgṃ rayi॒vṛdhaḥ̭ sume॒dhāḥ | śve॒ta-ssi̭ṣakti ni॒yutā̭mabhi॒śrīḥ | te vā॒yave॒ sama̭naso॒ vita̭sthuḥ | viśvennaraḥ̭ svapa॒tyāni̭ cakruḥ || rā॒ye-'nu ya-ñja॒jñatū॒ roda̭sī u॒bhe | rā॒ye de॒vī dhi॒ṣaṇā̭ dhāti de॒vam | adhā̭ vā॒yu-nni॒yutaḥ̭ saścata॒ svāḥ | u॒ta śve॒taṃ-va~sṷdhiti-nnire॒ke || ā vā̭yo bhūṣa śucipā॒ upa̭ na-ssa॒hasra̭-nte ni॒yuto̭ viśvavāra | upo̭ te॒ andho॒ madya̭mayāmi॒ yasya̭ deva dadhi॒ṣe pū᳚rva॒peya᳚m || pra yābhi॒ryāsi̭ dā॒śvāgṃ samacchā̭ ni॒yudbhi̭-rvāyavi॒ṣṭayḙ duro॒ṇe | ni no̭ ra॒yigṃ su॒bhoja̭saṃ-yu~ve॒ha ni vī॒rava॒-dgavya॒maśvi̭ya-ñca॒ rādhaḥ̭ |||| pra vā॒yumacchā̭ bṛha॒tī ma̭nī॒ṣā || 1 ||
bṛ॒hadra̭yiṃ-vi~॒śvavā̭rāgṃ ratha॒prām | dyu॒tadyā̭mā ni॒yutaḥ॒ patya̭mānaḥ | ka॒viḥ ka॒vimi̭yakṣasi prayajyo || ā no̭ ni॒yudbhiḥ̭ śa॒tinī̭bhi-raddhva॒ram | sa॒ha॒sriṇī̭bhi॒rupa̭ yāhi ya॒jñam | vāyo̭ a॒smin. ha॒viṣi̭ mādayasva | yū॒ya-mpā̭ta sva॒stibhi॒-ssadā̭ naḥ || prajā̭pate॒ na tvade॒tānya॒nyaḥ | viśvā̭ jā॒tāni॒ pari॒ tā ba̭bhūva | ya-tkā̭māste juhu॒mastanno̭ astu || 2 ||
va॒yagg​ syā̭ma॒ pata̭yo rayī॒ṇām || ra॒yī॒ṇā-mpatiṃ̭-ya~ja॒ta-mbṛ॒hanta᳚m | a॒sminbhare॒ nṛta̭maṃ॒-vā~ja̭sātau | pra॒jāpa̭ti-mprathama॒jāmṛ॒tasya̭ | yajā̭ma de॒vamadhi̭ no bravītu || prajā̭pate॒ tva-nni̭dhi॒pāḥ pṷrā॒ṇaḥ | de॒vānā᳚-mpi॒tā ja̭ni॒tā pra॒jānā᳚m | pati॒-rviśva̭sya॒ jaga̭taḥ para॒spāḥ | ha॒virno̭ deva viha॒ve jṷṣasva || tave॒me lo॒kāḥ pra॒diśo॒ diśa̭śca || 3 ||
pa॒rā॒vato̭ ni॒vata̭ u॒dvata̭śca | prajā̭pate viśva॒sṛjjī॒vadha̭nya i॒da-nno̭ deva | prati̭harya ha॒vyam || pra॒jāpa̭ti-mpratha॒maṃ-ya~॒jñiyā̭nām | de॒vānā॒magrḙ yaja॒taṃ-ya~̭jaddhvam | sa no̭ dadātu॒ dravi̭ṇagṃ su॒vīrya᳚m | rā॒yaspoṣaṃ॒-vi~ṣya̭tu॒ nābhi̭ma॒sme || yo rā॒ya īśḙ śatadā॒ya u॒kthyaḥ̭ | yaḥ pa̭śū॒nāgṃ ra̭kṣi॒tā viṣṭhi̭tānām | pra॒jāpa̭tiḥ prathama॒jā ṛ॒tasya̭ || 4 ||
sa॒hasra̭dhāmā juṣatāgṃ ha॒virnaḥ̭ || somā̭pūṣaṇā॒ jana̭nā rayī॒ṇā-ñjana̭nā di॒vo jana̭nā pṛthi॒vyāḥ | jā॒tau viśva̭sya॒ bhuva̭nasya go॒pau de॒vā a̭kṛṇvanna॒mṛta̭sya॒ nābhi᳚m || i॒mau de॒vau jāya̭mānau juṣante॒mau tamāgṃ̭si gūhatā॒majṷṣṭā | ā॒bhyāmindraḥ̭ pa॒kvamā॒māsva॒nta-sso̭māpū॒ṣabhyā᳚-ñjanadu॒sriyā̭su || || somā̭pūṣaṇā॒ raja̭so vi॒māna᳚m | sa॒ptaca̭kra॒gṃ॒ ratha॒mavi̭śvaminvam | vi॒ṣū॒vṛta॒-mmana̭sā yu॒jyamā̭nam | ta-ñji̭nvatho vṛṣaṇā॒ pañca̭raśmim || di॒vya̭nya-ssada̭na-ñca॒kra u॒ccā | pṛ॒thi॒vyāma॒nyo addhya॒ntari̭kṣe | tāva॒smabhya̭-mpuru॒vāra̭-mpuru॒kṣum | rā॒yaspoṣaṃ॒-vi~ṣya̭tā॒-nnābhi̭ma॒sme || 5 ||
dhiya̭-mpū॒ṣā ji̭nvatu viśvami॒nvaḥ | ra॒yigṃ somo̭ rayi॒pati̭-rdadhātu | ava̭tu de॒vyadi̭tira-na॒rvā | bṛ॒ha-dva̭dema vi॒dathḙ su॒vīrāḥ᳚ || viśvā᳚nya॒nyo bhuva̭nā ja॒jāna̭ | viśva̭ma॒nyo a̭bhi॒cakṣā̭ṇa eti | somā̭pūṣaṇā॒-vava̭ta॒-ndhiya̭-mme | yu॒vabhyāṃ॒-vi~śvāḥ॒ pṛta̭nā jayema || udṷtta॒maṃ-va~̭ruṇa॒ pāśa̭ma॒smadavā̭-'dha॒maṃ-vi~ma̭dhya॒magg​ śra̭thāya | athā̭ va॒yamā̭ditya vra॒te tavā-'nā̭gaso॒ adi̭taye syāma asta̭bhnā॒dyāmṛ̭ṣa॒bho a॒ntari̭kṣa॒mami̭mīta vari॒māṇa̭-mpṛthi॒vyā ā-'sī̭da॒-dviśvā॒ bhuva̭nāni sa॒mrā-ḍviśvettāni॒ varṷṇasya vra॒tāni̭ || | ya-tkiñce॒daṃ-va~̭ruṇa॒ daivye॒ janḙ-'bhidro॒ha-mma̭nu॒ṣyā᳚ścarā̭masi | aci̭ttī॒ya-ttava॒ dharmā̭ yuyopi॒ma mā na॒stasmā॒ dena̭so deva rīriṣaḥ || ki॒ta॒vāso॒ yadri̭ ri॒purna dī॒vi yadvā̭ ghā sa॒tya mu॒tayanna vi॒dma | sarvā॒ tā viṣya̭ śithi॒reva̭ de॒vāthā̭ te syāma varuṇa pri॒yāsaḥ̭ ||( ) | ava̭ te॒ heḍo̭ varuṇa॒ namo̭bhi॒rava̭ ya॒jñebhi̭rīmahe ha॒virbhiḥ̭ | kṣaya̭nna॒smabhya̭masura praceto॒ rāja॒nnenāgṃ̭si śiśrathaḥ kṛ॒tāni̭ ||, tattvā̭ yāmi॒ brahma̭ṇā॒ vanda̭māna॒stadā śā᳚ste॒ yaja̭māno ha॒virbhiḥ̭ | ahḙḍamāno varuṇe॒ha bo॒dhyurṷśagṃsa॒ mā na॒ āyuḥ॒ pramo̭ṣīḥ || || ā॒di॒tyānā॒mava̭sā॒ nūta̭nena sakṣī॒mahi॒ śarma̭ṇā॒ śanta̭mena | a॒nā॒gā॒stve a̭diti॒tve tu॒rāsa̭ i॒maṃ-ya~॒jña-nda̭dhatu॒ śroṣa̭māṇāḥ ||, na da̭kṣi॒ṇā vici̭kite॒ na sa॒vyā na prā॒cīna̭mādityā॒ nota pa॒ścā | pā॒kyā̭ cidvasavo dhī॒ryā̭ ci--dyu॒ṣmānī̭to॒ abha̭ya॒-ñjyoti̭raśyām || | dhā॒raya̭nta ādi॒tyāso॒ jaga॒thsthā de॒vā viśva̭sya॒ bhuva̭nasya go॒pāḥ | dī॒rghādhi̭yo॒ rakṣa̭māṇā asu॒rya̭mṛ॒tāvā̭na॒-ścaya̭mānā ṛ॒ṇāni̭ ||, ti॒sro bhūmī᳚rdhāraya॒-ntrīgṃ ru॒ta dyū-ntrīṇi̭ vra॒tā vi॒dathḙ a॒ntarḙṣām | ṛ॒tenā̭-''dityā॒ mahi̭ vo mahi॒tva-ntada̭ryaman varuṇa mitra॒ cārṷ || | ya॒jño de॒vānā॒-mpratyḙti su॒mnamādi̭tyāso॒ bhava̭tā mṛḍa॒yantaḥ̭ | ā vo॒-'rvācī̭ suma॒ti rva̭vṛtyāda॒gṃ॒ hości॒dyā va̭rivo॒vitta॒rā-'sa̭t || śuci̭ra॒pa-ssū॒yava̭sā॒ ada̭bdha॒ upa̭ kṣeti vṛ॒ddhava̭yā-ssu॒vīraḥ̭ | naki॒ṣṭa-ṅghna॒ntyanti̭to॒ na dū॒rādya ā̭di॒tyānā॒-mbhava̭ti॒ praṇī̭tau || || 6 ||
(ma॒nī॒ṣā-'stṷ-ca॒-rta-syā॒sme-ki̭ta॒vāsa̭ śca॒tvāri̭ ca ) (a. 1)
anuvākaṃ 2 - vaśādīnāṃ sūktāni
te śu॒krāsa॒-śśuca̭yo raśmi॒vantaḥ̭ | sīda̭nnādi॒tyā adhi̭ ba॒ra॒ḥiṣi̭ pri॒ye | kāmḙna de॒vā-ssa॒ratha̭-ndi॒vo naḥ̭ | āyā᳚ntu ya॒jñamupa̭ no juṣā॒ṇāḥ || te sū॒navo॒ adi̭teḥ pīva॒sāmiṣa᳚m | ghṛ॒ta-mpinva॒t-prati̭haryannṛte॒jāḥ | pra ya॒jñiyā॒ yaja̭mānāya yemure | ā॒di॒tyāḥ kāma̭-mpitu॒manta̭ma॒sme || ā naḥ̭ pu॒trā adi̭teryāntu ya॒jñam | ā॒di॒tyāsaḥ̭ pa॒thibhi̭-rdeva॒yānaiḥ᳚ || 7 ||
a॒sme kāma̭-ndā॒śuṣḙ sa॒nnama̭ntaḥ | pu॒ro॒ḍāśa̭-ṅghṛ॒tava̭nta-ñjuṣantām || ska॒bhā॒yata॒ nir-ṛ̭ti॒gṃ॒ sedha॒tāma̭tim | pra ra॒śmibhi॒-ryata̭mānā amṛddhrāḥ | ādi̭tyāḥ॒ kāma॒ praya̭tāṃ॒-va~ṣa̭ṭkṛtim | ju॒ṣaddhva̭-nno ha॒vyadā̭tiṃ-ya~jatrāḥ || ā॒di॒tyān-kāma॒mava̭se huvema | ye bhū॒tāni̭ ja॒naya̭nto vici॒khyuḥ | sīda̭ntu pu॒trā adi̭teru॒pastha᳚m | stī॒rṇa-mba॒ra॒ḥir​ha̭vi॒radyā̭ya de॒vāḥ || 8 ||
stī॒rṇa-mba॒ra॒ḥi-ssī̭datā ya॒jñe a॒sminn | dhrā॒jā-ssedha̭nto॒ ama̭ti-ndu॒revā᳚m | a॒smabhya̭-mputrā aditeḥ॒ prayagṃ̭sata | ādi̭tyāḥ॒ kāma̭ ha॒viṣo̭ juṣā॒ṇāḥ || agne॒ naya̭ su॒pathā̭ rā॒ye a॒smān | viśvā̭ni deva va॒yunā̭ni vi॒dvān | yu॒yo॒ddhya̭sma-jjṷhurā॒ṇamenaḥ̭ | bhūyi̭ṣṭhā-nte॒ nama̭ uktiṃ-vi~dhema || pravaḥ̭ śu॒krāya̭ bhā॒navḙ bharaddhvam | ha॒vya-mma॒ti-ñcā॒gnaye॒ supṷ̄tam || 9 ||
yo daivyā̭ni॒ mānṷṣā ja॒nūgṃṣi̭ | a॒nta-rviśvā̭ni vi॒dmanā॒ jigā̭ti || acchā॒ giro̭ ma॒tayo̭ deva॒yantīḥ᳚ | a॒gniṃ-ya~̭nti॒ dravi̭ṇa॒-mbhikṣa̭māṇāḥ | su॒sa॒dṛṃśagṃ̭ su॒pratī̭ka॒gg॒ svañca᳚m | ha॒vya॒vāha̭mara॒ti-mmānṷṣāṇām || agne॒ tvama॒sma-dyṷyo॒ddhyamī̭vāḥ | ana̭gnitrā a॒bhya̭manta kṛ॒ṣṭīḥ | puna̭ra॒smabhyagṃ̭ suvi॒tāya̭ deva | kṣāṃ-vi~śvḙbhira॒jarḙbhi-ryajatra || 10 ||
agne॒ tva-mpā̭rayā॒ navyo̭ a॒smān | sva॒stibhi॒rati̭ du॒rgāṇi॒ viśvā᳚ | pūśca̭ pṛ॒thvī ba̭hu॒lā na̭ u॒rvī | bhavā̭ to॒kāya॒ tana̭yāya॒ śaṃ-yoḥ ~|| pra kā̭ravo mana॒nā va॒cyamā̭nāḥ | de॒va॒drīcī᳚-nnayatha deva॒yantaḥ̭ | da॒kṣi॒ṇā॒vāḍ-vā॒jinī॒ prācyḙti | ha॒virbhara̭ntya॒gnayḙ ghṛ॒tācī᳚ || indra॒-nnaro̭ ne॒madhi̭tā havante॒ yatpāryā̭ yu॒naja̭te॒ dhiya॒stāḥ | śūro॒ nṛṣā̭tā॒ śava̭saścakā॒na ā goma̭ti vra॒je bha̭jā॒ tvannaḥ̭ || yu॒je ratha̭-ṅga॒veṣa̭ṇa॒gṃ॒ hari̭bhyām | upa॒ brahmā̭ṇi jujuṣā॒ṇa-ma̭sthuḥ | vibā̭dhiṣṭā॒sya roda̭sī mahi॒tvā | indro̭ vṛ॒trāṇya̭pra॒tī ja̭gha॒nvān || || ja॒gṛ॒bhṇā te॒ dakṣi̭ṇāmindra॒ hasta᳚m || 11 ||
va॒sū॒yavo̭ vasupate॒ vasṷ̄nām | vi॒dmā hi tvā॒ gopa̭tigṃ śūra॒ gonā᳚m | a॒smabhya̭-ñci॒traṃ-vṛ~ṣa̭ṇagṃ ra॒yi-ndāḥ᳚ || tave॒daṃ-vi~śva̭ma॒bhitaḥ̭ paśa॒vya᳚m | ya-tpaśya̭si॒ cakṣa̭sā॒ sūrya̭sya | gavā̭masi॒ gopa̭ti॒reka̭ indra | bha॒kṣī॒mahi̭ te॒ praya̭tasya॒ vasvaḥ̭ || sami̭ndra ṇo॒ mana̭sā neṣi॒ gobhiḥ̭ | sagṃ sū॒ribhi̭-rmaghava॒n-thsagg​ sva॒styā | sa-mbrahma̭ṇā de॒vakṛ̭taṃ॒-ya~dasti̭ || 12 ||
sa-nde॒vānāgṃ̭ suma॒tyā ya॒jñiyā̭nām || ā॒rācchatru॒-mapa̭bādhasva dū॒ram | u॒gro ya-śśambaḥ̭ puruhūta॒ tena̭ | a॒sme dhḙhi॒ yava̭ma॒dgoma̭dindra | kṛ॒dhī dhiya̭-ñjari॒tre vāja̭ratnām || āve॒dhasa॒-nnīla̭pṛṣṭha-mbṛ॒hanta᳚m | bṛha॒spati॒gṃ॒ sada̭ne sādayadhvam | sā॒dadyo̭ni॒-ndama॒ ādī̭di॒vāgṃsa᳚m | hira̭ṇyavarṇamaru॒ṣagṃ sa̭pema || sa hi śuciḥ̭ || bṛha॒spatiḥ̭ pratha॒ma-ñjāya̭mānaḥ | ma॒ho jyoti̭ṣaḥ para॒me vyo̭mann | sa॒ptāsya̭stuvijā॒to ravḙṇa | vi sa॒ptara̭śmiradhama॒ttamāgṃ̭si || 13 ||
bṛha॒spati॒-ssama̭jaya॒-dvasṷ̄ni | ma॒ho vra॒jā-ngoma̭to de॒va e॒ṣaḥ | a॒pa-ssiṣā̭sa॒n-thsuva॒ra pra̭tīttaḥ | bṛha॒spati॒ra॒ḥantya॒mitra̭-ma॒rkaiḥ || bṛha̭spate॒ pari̭ dīyā॒ rathḙna rakṣo॒hā 'mitrāgṃ̭ apa॒ bādha̭mānaḥ | pra॒bha॒ñjan-thsenāḥ᳚ pramṛ॒ṇo yu॒dhā jaya̭nna॒smāka̭-medhyavi॒tā rathā̭nām || e॒vā pi॒tre vi॒śvadḙvāya॒ vṛṣṇḙ ya॒jñairvi̭dhema॒ nama̭sā ha॒virbhiḥ̭ | bṛha̭spate supra॒jā vī॒rava̭nto va॒yagg​ syā̭ma॒ pata̭yo rayī॒ṇām || || ā no̭ di॒vo bṛ̭ha॒taḥ parva̭tā॒dā sara̭svatī yaja॒tā ga̭ntu ya॒jñam | hava̭-nde॒vī jṷjuṣā॒ṇā ghṛ॒tācī̭ śa॒gmā-nno॒ vāca̭muśa॒tī śṛ̭ṇotu ||pāvī̭ravī ka॒nyā̭ ci॒trāyu॒-ssara̭svatī vī॒rapa̭tnī॒ dhiya̭-ndhāt | gnābhi॒racchi̭dragṃ śara॒ṇagṃ sa॒joṣā̭ durā॒dhar​ṣa̭-ṅgṛṇa॒te śarma̭ yagṃsat || | i॒mā juhvā̭nā yu॒ṣmadā namo̭bhiḥ | prati॒ stomagṃ̭ sarasvati juṣasva | tava॒ śarma̭-npri॒yata̭me॒ dadhā̭nāḥ | upa̭stheyāma śara॒ṇa-nna vṛ॒kṣam || yaste॒ stana̭śśaśa॒ya ityā̭ha | stautye॒vainā᳚m | usra̭ gha॒rmagṃ śi॒gṃ॒ṣosra̭ gha॒rma-mpā̭hi gha॒rmāya̭ śi॒gṃ॒ṣetyā̭ha | yathā᳚ brū॒yāda॒muṣmai̭ de॒hīti̭ | tā॒dṛge॒va tat | bṛha॒spati॒stvopa̭ sīda॒tvityā̭ha | | sara̭svatya॒bhi no̭ neṣi॒ vasyaḥ̭ | mā pa̭spharīḥ॒ paya̭sā॒ mā na॒ ā dha̭k | ju॒ṣasva̭ na-ssa॒khyā̭ ve॒śyā̭ ca | mā tvatkṣetrā॒-ṇyara̭ṇāni ganma || || i॒yagṃ śuṣmḙbhirbisa॒khā i̭vārujat | sānṷ girī॒ṇā-nta̭vi॒ṣebhi̭rū॒rmibhiḥ̭ | pā॒rā॒va॒da॒ghnīmava̭se suvṛ॒ktibhiḥ̭ | sara̭svatī॒-māvi̭vāsema dhī॒tibhiḥ̭ || 14 ||
(de॒va॒yānai᳚--r de॒vāḥ - supṷ̄taṃ​ya~jatra॒-hasta॒-masti॒-tamāg̭-syū॒rmibhi॒-rdve ca̭) (a. 2)
anuvākaṃ 3 - saumyādīnāṃ sūktāni
somo̭ dhe॒nugṃ somo॒ arva̭ntamā॒śum | somo̭ vī॒ra-ṅka̭rma॒ṇya̭-ndadātu | sā॒da॒nyaṃ̭-vi~da॒thyagṃ̭ sa॒bheya᳚m | pi॒tu॒-śśrava̭ṇaṃ॒-yo~ dadā̭śadasmai || aṣā̭ḍhaṃ-yu~॒thsu pṛta̭nāsu॒ papri᳚m | su॒va॒r॒ṣāma॒phsvāṃ-vṛ~॒jana̭sya go॒pām | bha॒re॒ṣu॒jāgṃ sṷkṣi॒tigṃ su॒śrava̭sam | jaya̭nta॒-ntvāmanṷ madema soma || tvagṃ so̭ma॒ kratṷbhiḥ || yā te॒ dhāmā̭ni ha॒viṣā॒ yaja̭nti॒ tā te॒ viśvā̭ pari॒bhūra̭stu ya॒jña-ṅga̭ya॒sphānaḥ̭ pra॒tara̭ṇa-ssu॒vīro-'vī̭rahā॒ praca̭rā soma॒ duryā॒na|| tvami॒mā oṣa̭dhī-ssoma॒ viśvāḥ᳚ | tvama॒po a̭janaya॒stva-ṅgāḥ | tvamāta̭tantho॒rva̭ntari̭kṣam | tva-ñjyoti̭ṣā॒ vitamo̭ vavartha || 15 ||
yā te॒ dhāmā̭ni di॒vi yā pṛ̭thi॒vyām | yā parva̭te॒ṣvoṣa̭dhīṣva॒phsu | tebhi̭rno॒ viśvai᳚-ssu॒manā॒ ahḙḍann | rājan᳚-thsoma॒ prati̭ ha॒vyā gṛ̭bhāya || viṣṇo॒rnukaṃ̭-vī~॒ryā̭ṇi॒ pra vo̭caṃ॒-yaḥ ~pārthi̭vāni vima॒me rajāgṃ̭si॒ yo aska̭bhāya॒dutta̭ragṃ sa॒dhasthaṃ̭-vi~cakramā॒ṇa stre॒dhorṷgā॒yo viṣṇo̭ ra॒rāṭa̭masi॒ viṣṇoḥ᳚ pṛ॒ṣṭhama̭si॒ viṣṇo॒-śśnyaptre᳚ stho॒ viṣṇo॒-ssyūra̭si॒ viṣṇo᳚-rdhru॒vama̭si vaiṣṇa॒vama̭si॒ viṣṇa̭ve tvā || tada̭sya pri॒yama॒bhi pātho̭ aśyām | naro॒ yatra̭ deva॒yavo॒ mada̭nti | u॒ru॒kra॒masya॒ sa hi bandhṷri॒tthā | viṣṇoḥ᳚ pa॒de pa̭ra॒me madhva॒ uthsaḥ̭ || | prata-dviṣṇuḥ̭ stavate vī॒ryā̭ya | mṛ॒go na bhī॒maḥ kṷca॒ro gi̭ri॒ṣṭhāḥ | yasyo॒ruṣṷ tri॒ṣu vi॒krama̭ṇeṣu | adhi̭kṣi॒yanti॒ bhuva̭nāni॒ viśvā᳚ || || pa॒ro mātra̭yā ta॒nuvā̭ vṛdhāna | na tḙ mahi॒tva-manva̭śnuvanti | u॒bhe tḙ vidma॒ raja̭sī pṛthi॒vyā viṣṇo̭ deva॒ tvam | pa॒ra॒masya̭ vithse || 16 ||
vica̭krame pṛthi॒vīme॒ṣa e॒tām | kṣetrā̭ya॒ viṣṇu॒-rmanṷṣe daśa॒syann | dhru॒vāso̭ asya kī॒rayo॒ janā̭saḥ | u॒ru॒kṣi॒tigṃ su॒jani̭mā cakāra || trirde॒vaḥ pṛ̭thi॒vīme॒ṣa e॒tām | vica̭krame śa॒tarca̭sa-mmahi॒tvā | pra viṣṇṷ-rastu ta॒vasa॒sta vī̭yān | tve॒ṣagg​ hya̭sya॒ sthavi̭rasya॒ nāma̭ || || ā tḙ ma॒ha i̭ndro॒tyṷgra॒ sama̭nyavo॒ ya-thsa॒mara̭nta॒ senāḥ᳚ | patā̭ti di॒dyunnarya̭sya bāhu॒vormā te॒ mano̭ viṣva॒driya॒gvi cā̭rīt || yo jā॒ta e॒va pra̭tha॒mo mana̭svā-nde॒vo de॒vān kratṷnā pa॒ryabhṷ̄ṣat | yasya॒ śuṣmā॒droda̭sī॒ abhya̭setā-nnṛ॒mṇasya̭ ma॒hnā sa ja̭nāsa॒ indraḥ̭ || | a॒bhi go॒trāṇi॒ saha̭sā॒ gāha̭māno-'dā॒yo vī॒ra-śśa॒tama̭nyu॒rindraḥ̭ | du॒ścya॒va॒naḥ pṛ̭tanā॒ṣāḍa̭ yu॒dhyo᳚-smāka॒gṃ॒ senā̭ avatu॒ pra yu॒thsu || || ābhi॒-sspṛdho̭ mitha॒tī- rari̭ṣaṇyann | a॒mitra̭sya vyathayā ma॒nyumi̭ndra | ābhi॒rviśvā̭ abhi॒yujo॒ viṣṷ̄cīḥ | āryā̭ya॒ viśo-'va̭tārī॒rdāsīḥ᳚ || a॒yagṃ śṛ̭ṇve॒ adha॒ jaya̭nnu॒ta ghnann | a॒yamu॒ta prakṛ̭ṇute yu॒dhā gāḥ | ya॒dā sa॒tya-ṅkṛ̭ṇu॒te ma॒nyumindraḥ̭ || 17 ||
viśva̭-ndṛ॒ḍha-mbha̭yata॒ eja̭dasmāt || anṷ sva॒dhā-ma̭kṣara॒nnāpo̭ asya | ava̭rdhata॒ maddhya॒ ā nā॒vyā̭nām | sa॒ddhrī॒cīnḙna॒ mana̭sā॒ tami̭ndra॒ oji̭ṣṭhena | hanma̭nā-'hanna॒bhidyūn || ma॒rutva̭ntaṃ-vṛ~ṣa॒bhaṃ-vā~̭vṛdhā॒nam | aka̭vāri-ndi॒vyagṃ śā॒samindra᳚m | vi॒śvā॒sāha॒mava̭se॒ nūta̭nāya | u॒gragṃ sa̭ho॒dāmi॒ha tagṃ hṷvema || jani̭ṣṭhā u॒gra-ssaha̭se tu॒rāya̭ || 18 ||
ma॒ndra oji̭ṣṭho bahu॒lābhi̭mānaḥ | ava̭rdha॒nnindra̭-mma॒ruta̭ści॒datra̭ | mā॒tā ya-dvī॒ra-nda॒dhana॒ddhani̭ṣṭhā || kva̭ syā vo̭ maruta-ssva॒dhā-''sī᳚t | ya-nmāmekagṃ̭ sa॒madha̭ttāhi॒hatye᳚ | a॒hagg​ hyṷgrasta̭vi॒ṣa-stuvi̭ṣmān | viśva̭sya॒ śatro॒rana̭maṃ-va~dha॒snaiḥ || vṛ॒trasya̭ tvā śva॒sathā॒dīṣa̭māṇāḥ | viśvḙ de॒vā a̭jahu॒rye sakhā̭yaḥ | ma॒rudbhi̭rindra sa॒khya-ntḙ astu || 19 ||
athe॒mā viśvāḥ॒ pṛta̭nā jayāsi || vadhīṃ᳚-vṛ~॒tra-mma̭ruta indri॒yeṇa̭ | svena॒ bhāmḙna tavi॒ṣo ba̭bhū॒vān | a॒hame॒tā mana̭ve vi॒śvaśca̭ndrāḥ | su॒gā a॒paśca̭kara॒ vajra̭bāhuḥ || sa yo vṛṣā॒ vṛṣṇi̭yebhi॒-ssamo̭kāḥ | ma॒ho di॒vaḥ pṛ̭thi॒vyāśca̭ sa॒mrāṭ | sa॒tī॒nasa̭ttvā॒ havyo॒ bharḙṣu | ma॒rutvā᳚nno bhava॒tvindra̭ ū॒tī || indro̭ vṛ॒trama̭tara-dvṛtra॒tūrye᳚ || 20 ||
a॒nā॒dhṛ॒ṣyo ma॒ghavā॒ śūra॒ indraḥ̭ | anvḙnaṃ॒-vi~śo̭ amadanta pū॒rvīḥ | a॒yagṃ rājā॒ jaga̭taścar​ṣaṇī॒nām || sa e॒va vī॒ra-ssa ṷ vī॒ryā̭vān | sa ḙkarā॒jo jaga̭taḥ para॒spāḥ | ya॒dā vṛ॒tramata̭ra॒cchūra॒ indraḥ̭ | athā̭ bhavaddami॒tā-'bhikra̭tūnām || indro̭ ya॒jñaṃ-va~॒rdhaya̭n vi॒śvavḙdāḥ | pu॒ro॒ḍāśa̭sya juṣatāgṃ ha॒virnaḥ̭ | vṛ॒tra-ntī॒rtvā dā̭na॒vaṃ-va~jra̭bāhuḥ || 21 ||
diśo̭-'dṛgṃ haddṛgṃhi॒tā dṛgṃha̭ṇena || i॒maṃ-ya~॒jñaṃ-va~॒rdhaya̭n vi॒śvavḙdāḥ | pu॒ro॒ḍāśa॒-mprati̭gṛbhṇā॒tvindraḥ̭ | ya॒dā vṛ॒tramata̭ra॒cchūra॒ indraḥ̭ | athai̭karā॒jo a̭bhava॒jjanā̭nām || indro̭ de॒vāñcha̭mbara॒hatya̭ āvat | indro̭ de॒vānā̭- mabhava-tpuro॒gāḥ | indro̭ ya॒jñe ha॒viṣā̭ vāvṛdhā॒naḥ | vṛ॒tra॒tūrṇo॒ abha̭ya॒gṃ॒ śarma̭ yagṃsat || ya-ssa॒pta sindhū॒gṃ॒ rada̭dhāt-pṛthi॒vyām | ya-ssa॒pta lo॒kānakṛ̭ṇo॒-ddiśa̭śca | indro̭ ha॒viṣmā॒n-thsaga̭ṇo ma॒rudbhiḥ̭ | vṛ॒tra॒tūrṇo̭ ya॒jñami॒hopa̭yāsat || 22 ||
(va॒va॒rtha॒ - vi॒thsa॒ - indra̭ - stu॒rā - yā᳚stu॒ - vṛtra॒tūrye॒ - vajra̭bāhuḥ - pṛthi॒vyā-ntrīṇi̭ ca) (a. 3)
anuvākaṃ 4 - abhimātihaindrādipaśūnāṃ sūktāni
indra॒-stara̭svā-nabhimāti॒hograḥ | hira̭ṇyavāśī-riṣi॒ra-ssṷva॒ra॒.ṣāḥ | tasya̭ va॒yagṃ sṷma॒tau ya॒jñiya̭sya | api̭ bha॒dre saṷmana॒se syā̭ma || hira̭ṇyavarṇo॒ abha̭ya-ṅkṛṇotu | a॒bhi॒mā॒ti॒hendraḥ॒ pṛta̭nāsu ji॒ṣṇuḥ | sa na॒-śśarma̭ tri॒varṷ̄thaṃ॒-vi~yagṃ̭sat | yū॒ya-mpā̭ta sva॒stibhi॒-ssadā̭ naḥ || indragg̭ stuhi va॒jriṇa॒gg॒ stoma̭pṛṣṭham | pu॒ro॒ḍāśa̭sya juṣatāgṃ ha॒virnaḥ̭ || 23 ||
ha॒tvā-'bhimā̭tīḥ॒ pṛta̭nā॒-ssaha̭svān | athābhaya̭-ṅkṛṇuhi vi॒śvato̭ naḥ || stu॒hi śūraṃ̭-va~॒jriṇa॒-mapra̭tītam (mapra̭tīttam) | a॒bhi॒mā॒ti॒hana̭-mpuruhū॒tamindra᳚m | ya eka॒ iccha॒tapa̭ti॒rjanḙṣu | tasmā॒ indrā̭ya ha॒virājṷhota || indro̭ de॒vānā̭madhi॒pāḥ pu॒rohi̭taḥ | di॒śā-mpati̭rabhava-dvā॒jinī̭vān | a॒bhi॒mā॒ti॒hā ta̭vi॒ṣastuvi̭ṣmān | a॒smabhya̭-ñci॒traṃ-vṛ~ṣa̭ṇagṃ ra॒yi-ndā᳚t || 24 ||
ya i॒me dyāvā̭pṛthi॒vī ma̭hi॒tvā | bale॒nādṛgṃ̭hadabhimāti॒hendraḥ̭ | sa no̭ ha॒viḥ prati̭gṛbhṇātu rā॒taye᳚ | de॒vānā᳚-nde॒vo ni̭dhi॒pā no̭ avyāt || ana̭vaste॒ ratha॒maśvā̭ya takṣa॒n-tvaṣṭā॒ vajra̭-mpuruhūta dyu॒manta᳚m | bra॒hmāṇa॒ indra̭-mma॒haya̭nto a॒rkairava̭rdhaya॒nnaha̭ye॒ hanta॒ vā ṷ || vṛṣṇe॒ ya-tte॒ vṛṣa̭ṇo a॒rkamarcā॒nindra॒ grāvā̭ṇo॒ adi̭ti-ssa॒joṣāḥ᳚ | a॒na॒śvāso॒ ye pa॒vayo̭-'ra॒thā indrḙṣitā a॒bhyava̭rtanta॒ dasyūṋ || | indra̭sya॒ nu vī॒ryā̭ṇi॒ pravo̭cam | yāni̭ ca॒kāra̭ pratha॒māni̭ va॒jrī || aha॒-nnahi॒manva॒pasta̭tarda | pra va॒kṣaṇā̭ abhina॒-tparva̭tānām || || indro̭ yā॒to-'va̭sitasya॒ rājā᳚ | śama̭sya ca śṛ॒ṅgiṇo॒ vajra̭bāhuḥ | sedu॒ rājā᳚ kṣeti car​ṣaṇī॒nām | a॒rānna ne॒miḥ pari॒tā ba̭bhūva || 25 ||
a॒bhi si॒ddhmo a̭jigādasya॒ śatrūṋ | vi ti॒gmena̭ vṛṣa॒bheṇā॒ puro̭-'bhet | saṃ-va~jrḙṇāsṛja-dvṛ॒tramindraḥ̭ | pra svā-mma॒tima̭tira॒cchāśa̭dānaḥ || viṣṇṷ-nde॒vaṃ-va~rṷṇamū॒taye॒ bhaga᳚m | meda̭sā de॒vā va॒payā̭ yajaddhvam | tā no̭ ya॒jñamāga̭taṃ-vi~॒śvadhḙnā | pra॒jāva̭da॒sme dravi̭ṇe॒ha dha̭ttam || meda̭sā de॒vā va॒payā̭ yajaddhvam | viṣṇṷ-ñca de॒vaṃ-va~rṷṇa-ñca rā॒tim || 26 ||
tā no॒ amī̭vā apa॒bādha̭mānau | i॒maṃ-ya~॒jña-ñju॒ṣamā̭ṇā॒vupeta᳚m || viṣṇṷ̄varuṇā yu॒vama̭ddhva॒rāya̭ naḥ | vi॒śe janā̭ya॒ mahi॒ śarma̭ yacchatam | dī॒rghapra̭yajyū ha॒viṣā̭ vṛdhā॒nā | jyoti॒ṣā-'rā̭tīrdahata॒-ntamāgṃ̭si || yayo॒roja̭sā skabhi॒tā rajāgṃ̭si | vī॒ryḙbhi-rvī॒rata̭mā॒ śavi̭ṣṭhā | yā patyḙte॒ apra̭tīttā॒ saho̭bhiḥ | viṣṇṷ̄ aga॒nvarṷṇā pū॒rvahṷ̄tau || 27 ||
viṣṇṷ̄varuṇā vabhiśasti॒pā vā᳚m | de॒vā ya̭janta ha॒viṣā̭ ghṛ॒tena̭ | apāmī̭vāgṃ sedhatagṃ ra॒kṣasa̭śca | athā̭ dhattaṃ॒-ya~ja̭mānāya॒ śaṃ-yoḥ ~|| a॒gṃ॒ho॒mucā̭ vṛṣa॒bhā su॒pratū᳚rtī | de॒vānā᳚-nde॒vata̭mā॒ śaci̭ṣṭhā | viṣṇṷ̄varuṇā॒ prati̭haryata-nnaḥ | i॒da-nnarā॒ praya̭tamū॒tayḙ ha॒viḥ || ma॒hī nu dyāvā̭pṛthi॒vī i॒ha jyeṣṭhe᳚ | ru॒cā bha̭vatāgṃ śu॒caya̭dbhi-ra॒rkaiḥ || 28 ||
yathsīṃ॒-va~ri̭ṣṭhe bṛha॒tī vi̭mi॒nvann | nṛ॒vadbhyo॒-'kṣā pa̭prathā॒nebhi॒revaiḥ᳚ || pra pū᳚rva॒je pi॒tarā॒ navya̭sībhiḥ | gī॒rbhiḥ kṛ̭ṇuddhva॒gṃ॒ sada̭ne ṛ॒tasya̭ | ā no᳚ dyāvāpṛthivī॒ daivyḙna | janḙna yāta॒-mmahi̭ vāṃ॒-va~rṷ̄tham || sa ithsvapā॒ bhuva̭neṣvāsa | ya i॒me dyāvā̭pṛthi॒vī ja॒jāna̭ | u॒rvī ga̭bhī॒re raja̭sī su॒meke᳚ | a॒va॒gṃ॒śe dhīra॒-śśacyā॒ samai̭rat || 29 ||
bhūri॒-ndve aca̭rantī॒ cara̭ntam | pa॒dvanta॒-ṅgarbha̭ma॒padī̭ dadhāte | nitya॒-nna sū॒nu-mpi॒troru॒pasthe᳚ | ta-mpi̭pṛtagṃ rodasī satya॒vāca᳚m || i॒da-ndyā̭vāpṛthivī sa॒tyama̭stu | pita॒-rmāta॒-ryadi॒hopa̭bru॒ve vā᳚m | bhū॒ta-nde॒vānā̭mava॒me avo̭bhiḥ | vidyāme॒ṣaṃ-vṛ~॒jana̭-ñjī॒radā̭num || u॒rvī pṛ॒thvī ba̭hu॒le dū॒re a̭nte | upa̭bruve॒ nama̭sā ya॒jñe a॒sminn | dadhā̭te॒ ye su॒bhagḙ su॒pratū᳚rtī | dyāvā॒ rakṣa̭ta-mpṛthi॒vī no॒ abhvā᳚t || yā jā॒tā oṣa̭dhayo de॒vebhya̭striyu॒ga-mpu॒rā | mandā̭mi ba॒bhrūṇā̭ma॒hagṃ śa॒ta-ndhāmā̭ni sa॒pta ca̭ ||, ati॒ viśvāḥ᳚ pari॒ṣṭhā-sste॒na i̭va vra॒jama̭kramuḥ | oṣa̭dhayaḥ॒ prācṷcyavu॒ rya-tki-ñca̭ ta॒nuvā॒gṃ॒ rapaḥ̭ || | yā oṣa̭dhaya॒-ssoma̭rājñīḥ॒ pravi̭ṣṭāḥ pṛthi॒vīmanṷ | tāsā॒-ntvama̭syutta॒mā praṇo̭ jī॒vāta̭-vesuva || a॒śvā॒va॒tīgṃ so̭mava॒tī mū॒rjaya̭ntī॒ mudo̭jasam | ā vi̭thsi॒ sarvā॒ oṣa̭dhīra॒smā a̭ri॒ṣṭatā̭taye || | oṣa̭dhī॒riti̭ mātara॒-stadvo̭ devī॒-rupa̭ bruve | rapāgṃ̭si vighna॒tīri̭ta॒ rapa̭ścā॒taya̭mānāḥ || a॒nyā vo̭ a॒nyāma̭va-tva॒nyā-'nyasyā॒ upā̭vata | tā-ssarvā॒ oṣa̭dhaya-ssaṃ​vi~dā॒nā i॒da-mme॒ prāva̭tā॒ vacaḥ̭ || || 30 ||
(ha॒virno̭ - dā-d- babhūva - rā॒tiṃ - pū॒rvahṷ̄tā - va॒rkai - rai̭ra - da॒smi-npañca ca) (a. 4)
anuvākaṃ 5 - aindrāgnapaśvādīnāṃ sūktāni
śuci॒-nnu stoma॒-nnava̭jāta-ma॒dyendrā᳚gnī vṛtrahaṇā ju॒ṣethā᳚m | u॒bhā hi vāgṃ̭ su॒havā॒ joha̭vīmi॒ tā vājagṃ̭ sa॒dya ṷśa॒te dheṣṭhā᳚ ||, śnatha̭-dvṛ॒tramu॒ta sa̭noti॒ vāja॒mindrā॒ yo a॒gnī sahṷrī sapa॒ryāt | i॒ra॒jyantā̭ vasa॒vya̭sya॒ bhūre॒-ssaha̭stamā॒ saha̭sā vāja॒yantā᳚ || | u॒bhā vā̭mindrāgnī āhu॒vadhyā̭ u॒bhā rādha̭sa-ssa॒ha mā̭da॒yadhyai᳚ | u॒bhā dā॒tārā̭vi॒ṣāgṃ ra̭yī॒ṇāmu॒bhā vāja̭sya sā॒tayḙ huve vām ||,pra ca̭r​ṣa॒ṇibhyaḥ̭ pṛtanā॒ havḙṣu॒ pra pṛ̭thi॒vyā ri̭ricāthe di॒vaśca̭ | pra sindhṷbhyaḥ॒ pragi॒ribhyo̭ mahi॒tvā prendrā᳚gnī॒ viśvā॒ bhuva॒nā-'tya॒nyā || | ā vṛ̭trahaṇā vṛtra॒habhi॒-śśuṣmaiḥ᳚ | indra̭ yā॒ta-nnamo̭bhiragne a॒rvāk | yu॒vagṃ rādho̭bhi॒raka̭vebhirindra | agnḙ a॒sme bha̭vatamutta॒mebhiḥ̭ || gī॒rbhi-rvipraḥ॒ prama̭timi॒cchamā̭naḥ | ī॒̭ ra॒yiṃ-ya~॒śasa̭-mpūrva॒bhāja᳚m | indrā᳚gnī vṛtrahaṇā suvajrā | praṇo॒ navyḙbhistirata-nde॒ṣṇaiḥ || || brahma̭ṇaspate॒ tvama॒sya ya॒ntā | sū॒ktasya̭ bodhi॒ tana̭ya-ñca jinva | viśva॒-nta-dbha॒draṃ-ya~da॒vanti̭ de॒vāḥ | bṛ॒hadva̭dema vi॒dathḙ su॒vīrāḥ᳚ || sa īgṃ̭ sa॒tyebhi॒-ssakhi̭bhi-śśu॒cadbhiḥ̭ | godhā̭yasaṃ॒​vi~ dha̭na॒saira̭tardat | brahma̭ṇa॒spati॒-rvṛṣa̭bhirva॒rāhaiḥ᳚ || 31 ||
gha॒rmasvḙdebhi॒-rdravi̭ṇaṃ॒-vyā~̭naṭ || brahma̭ṇa॒spatḙ-rabhavadyathā va॒śam | sa॒tyo ma॒nyurmahi॒ karmā̭ kariṣya॒taḥ | yo gā u॒dāja॒thsa di॒ve vi cā̭bhajat | ma॒hīva̭ rī॒ti-śśava̭sā sara॒-tpṛtha̭k || indhā̭no a॒gniṃ-va~̭navadvanuṣya॒taḥ | kṛ॒tabra̭hmā śūśuva-drā॒taha̭vya॒ it | jā॒tena̭ jā॒tamati॒ sṛ-tprasṛgṃ̭sate | yaṃ-ya~ṃ॒-yu~ja̭-ṅkṛṇu॒te brahma̭ṇa॒spatiḥ̭ || brahma̭ṇaspate su॒yama̭sya vi॒śvahā᳚ || 32 ||
rā॒ya-ssyā̭ma ra॒thyo̭ viva̭svataḥ | vī॒reṣṷ vī॒rāgṃ upa̭pṛṅgdhi na॒stvam | yadīśā̭no॒ brahma̭ṇā॒ veṣi̭ me॒ hava᳚m || sa ijjanḙna॒ sa vi॒śā sa janma̭nā | sa pu॒trairvāja̭-mbharate॒ dhanā॒ nṛbhiḥ̭ | de॒vānāṃ॒-yaḥ ~pi॒tara̭mā॒vivā̭sati | śra॒ddhāma̭nā ha॒viṣā॒ brahma̭ṇa॒spati᳚m || yāstḙ pūṣa॒nnāvo̭ a॒nta-ssa̭mu॒dre | hi॒ra॒ṇyayī̭ra॒ntari̭kṣe॒ cara̭nti | yābhi̭ryāsi dū॒tyāgṃ sūrya̭sya | kāmḙna kṛ॒ta-śśrava̭ i॒cchamā̭naḥ || | śu॒kra-ntḙ a॒nyadya̭ja॒ta-ntḙ a॒nyadviṣṷrūpe॒ aha̭nī॒ dyauri̭vāsi | viśvā॒ hi mā॒yā ava̭si svadhāvo bha॒drā tḙ pūṣanni॒ha rā॒tira̭stu ||, pū॒ṣemā āśā॒ anṷveda॒ sarvā᳚-sso a॒smāgṃ abha̭yatamena neṣat | sva॒sti॒dā aghṛ̭ṇi॒-ssarva̭vīraḥ | apra̭yuccha-npu॒ra ḙtu॒ prajā॒nann || || prapa̭the pa॒thāma̭janiṣṭa pū॒ṣā || 33 ||
prapa̭the di॒vaḥ prapa̭the pṛthi॒vyāḥ | u॒bhe a॒bhi pri॒yata̭me sa॒dhasthe᳚ | ā ca॒ parā̭ ca carati prajā॒nann || pū॒ṣā su॒bandhṷrdi॒va ā pṛ̭thi॒vyāḥ | i॒ḍaspati̭-rma॒ghavā̭ da॒smava̭rcāḥ | ta-nde॒vāso॒ ada̭du-ssū॒ryāyai᳚ | kāmḙna kṛ॒ta-nta॒vasa॒gg॒ svañca᳚m || a॒jāśvaḥ̭ paśu॒pā vāja̭vastyaḥ | dhi॒ya॒ji॒nnvo viśve॒ bhuva̭ne॒ arpi̭taḥ | aṣṭrā᳚-mpū॒ṣā śi̭thi॒rāmu॒dvarī̭vṛjat || 34 ||
sa॒caṅkṣā̭ṇo॒ bhuva̭nā de॒va ī̭yate || śucī̭ vo ha॒vyā ma̭ruta॒-śśucī̭nām | śucigṃ̭ hinomyaddhva॒ragṃ śuci̭bhyaḥ | ṛ॒tena̭ sa॒tyamṛta॒sāpa̭ āyann | śuci̭janmāna॒-śśuca̭yaḥ pāva॒kāḥ || pra ci॒trama॒rka-ṅgṛ̭ṇa॒te tu॒rāya̭ | mārṷtāya॒ svata̭vase bharaddhvam | ye sahāgṃ̭si॒ saha̭sā॒ saha̭nte | reja̭te agne pṛthi॒vī ma॒khebhyaḥ̭ || agṃse॒ṣvā ma̭rutaḥ khā॒dayo̭ vaḥ || 35 ||
vakṣaḥ̭su ru॒kmā upa̭śiśriyā॒ṇāḥ | vi vi॒dyuto॒ na vṛ॒ṣṭibhī̭ rucā॒nāḥ | anṷ sva॒dhāmāyṷdhai॒-ryaccha̭mānāḥ || yā va॒-śśarma̭ śaśamā॒nāya॒ santi̭ | tri॒dhātṷ̄ni dā॒śuṣḙ yaccha॒tādhi̭ | a॒smabhya॒-ntāni̭ maruto॒ viya̭nta | ra॒yi-nno̭ dhatta vṛṣaṇa-ssu॒vīra᳚m || i॒me tu॒ra-mma॒ruto̭ rāmayanti | i॒me sa॒ha-ssaha̭sa॒ āna̭manti | i॒me śagṃsaṃ̭-va~nuṣya॒to nipā᳚nti || 36 ||
gu॒rudveṣo॒ ara̭ruṣe dadhanti || a॒rā i॒vedaca̭ramā॒ ahḙva | pra pra̭jāyante॒ aka̭vā॒ maho̭bhiḥ | pṛśneḥ᳚ pu॒trā ṷpa॒māso॒ rabhi̭ṣṭhāḥ | svayā̭ ma॒tyā ma॒ruta॒-ssammi̭mikṣuḥ || anṷ te dāyi ma॒ha i̭ndri॒yāya̭ | sa॒trā te॒ viśva॒manṷ vṛtra॒hatye᳚ | anṷ kṣa॒tramanu॒ saho̭ yajatra | indra̭ de॒vebhi॒ranṷ te nṛ॒ṣahye᳚ || ya indra॒ śuṣmo̭ maghavante॒ asti̭ || 37 ||
śikṣā॒ sakhi̭bhyaḥ puruhūta॒ nṛbhyaḥ̭ | tvagṃ hi dṛ॒ḍhā ma̭ghava॒n vicḙtāḥ | apā̭vṛdhi॒ pari̭vṛti॒-nna rādhaḥ̭ || indro॒ rājā॒ jaga̭taścar​ṣaṇī॒nām | adhi॒kṣami॒ viṣṷrūpaṃ॒-ya~dasti̭ | tato̭ dadātu dā॒śuṣe॒ vasṷ̄ni | coda॒drādha॒ upa̭stutaścida॒rvāk || tamṷ ṣṭuhi॒ yo a॒bhibhū᳚tyojāḥ | va॒nvannavā̭taḥ puruhū॒ta indraḥ̭ | aṣā̭ḍhamu॒gragṃ saha̭mānamā॒bhiḥ || 38 ||
gī॒rbhirva̭rdha vṛṣa॒bha-ñca̭r​ṣaṇī॒nām || sthū॒rasya̭ rā॒yo bṛ̭ha॒to ya īśe᳚ | tamṷ ṣṭavāma vi॒dathe॒ṣvindra᳚m | yo vā॒yunā॒ jaya̭ti॒ goma̭tīṣu | pra dhṛ̭ṣṇu॒yā na̭yati॒ vasyo॒ accha̭ || ā te॒ śuṣmo̭ vṛṣa॒bha etṷ pa॒ścāt | otta॒rāda̭dha॒rāgā pu॒rastā᳚t | ā vi॒śvato̭ a॒bhi same᳚tva॒rvām | indra̭ dyu॒mnagṃ suva̭rvaddhehya॒sme || 39 ||
(va॒rāhai᳚--r vi॒śvahā̭ - 'janiṣṭa pū॒ṣo - dvarī̭vṛjat - khā॒dayo̭ vaḥ - pā॒n - tyasta - yā॒bhi--r + nava̭ ca) (a. 5)
anuvākaṃ 6 - sāvitrādipaśūnāṃ sūktāni
ā de॒vo yā̭tu savi॒tā su॒ratnaḥ̭ | a॒nta॒ri॒kṣa॒prā vaha̭māno॒ aśvaiḥ᳚ | haste॒ dadhā̭no॒ naryā̭ pu॒rūṇi̭ | ni॒ve॒śaya̭n ca prasu॒van ca॒ bhūma̭ || a॒bhīvṛ̭ta॒-ṅkṛśa̭nai-rvi॒śvarṷ̄pam |
hira̭ṇyaśamyaṃ-ya~ja॒to bṛ॒hanta᳚m | āsthā॒-drathagṃ̭ savi॒tā ci॒trabhā̭nuḥ | kṛ॒ṣṇā rajāgṃ̭si॒ tavi̭ṣī॒-ndadhā̭naḥ || saghā̭ no de॒va-ssa̭vi॒tā sa॒vāya̭ | āsā̭viṣa॒-dvasṷpati॒-rvasṷ̄ni || 40 ||
vi॒śraya̭māṇo॒ ama̭timurū॒cīm | ma॒rta॒bhoja̭na॒madha̭ rāsate na || vi janā᳚ñchyā॒vā-śśi̭ti॒pādo̭ akhyann | ratha॒gṃ॒ hira̭ṇya pra ugaṃ॒-va~ha̭ntaḥ | śaśva॒-ddiśaḥ̭ savi॒tu-rdaivya̭sya | u॒pasthe॒ viśvā॒ bhuva̭nāni tasthuḥ || vi sṷpa॒rṇo a॒ntari̭kṣāṇyakhyat | ga॒bhī॒ravḙpā॒ asṷra-ssunī॒thaḥ | kvḙdānī॒gṃ॒ sūryaḥ॒ kaści̭keta | ka॒ta॒mā-ndyāgṃ ra॒śmira॒syāta̭tāna || 41 ||
bhaga॒-ndhiyaṃ̭-vā~॒jaya̭ntaḥ॒ pura̭ndhim | narā॒śagṃso॒ gnāspati̭rno avyāt | ā-'ye vā॒masya̭ saṅga॒the ra̭yī॒ṇām | pri॒yā de॒vasya̭ savi॒tu-ssyā̭ma || ā no॒ viśve॒ askrā̭ gamantu de॒vāḥ | mi॒tro a̭rya॒mā varṷṇa-ssa॒joṣāḥ᳚ | bhuva॒n॒. yathā̭ no॒ viśvḙ vṛ॒dhāsaḥ̭ | kara᳚n-thsu॒ṣahā̭ vithu॒ra-nna śavaḥ̭ || śa-nno̭ de॒vā vi॒śvadḙvā bhavantu | śagṃ sara̭svatī sa॒ha dhī॒bhira̭stu || 42 ||
śama̭bhi॒ṣāca॒-śśamṷ rāti॒ṣācaḥ̭ | śa-nno̭ di॒vyāḥ pārthi̭vā॒-śśa-nno॒ apyāḥ᳚ || ye sa̭vi॒tu-ssa॒tyasa̭vasya॒ viśve᳚ | mi॒trasya̭ vra॒te varṷṇasya de॒vāḥ | te saubha̭gaṃ-vī~॒rava॒dgoma॒dapnaḥ̭ | dadhā̭tana॒ dravi̭ṇa-ñci॒trama॒sme || agnḙ yā॒hi dū॒tyaṃ̭-vā~ri̭ṣeṇyaḥ | de॒vāṃ acchā᳚ brahma॒kṛtā̭ ga॒ṇena̭ | sara̭svatī-mma॒ruto̭ a॒śvinā-'॒paḥ | ya॒kṣi॒ de॒vā-nra̭tna॒dheyā̭ya॒ viśvāṋ || 43 ||
dyauḥ pi̭taḥ॒ pṛthi̭vi॒ māta॒raddhrṷk | agne᳚ bhrātarvasavo mṛ॒ḍatā̭ naḥ | viśva̭ ādityā ādite sa॒joṣāḥ᳚ | a॒smabhya॒gṃ॒ śarma̭ bahu॒laṃ-vi~ya̭nta || viśvḙ devā-śśṛṇu॒temagṃ hava̭-mme | ye a॒ntari̭kṣe॒ ya upa॒ dyavi॒ ṣṭha | ye a̭gniji॒hvā u॒ta vā॒ yaja̭trāḥ | ā॒sa-dyā॒smi-nba॒r॒hiṣi̭ mādayaddhvam || ā vā᳚-mmitrāvaruṇā ha॒vyajṷṣṭim | nama̭sā devā॒ vava̭sā-''vavṛtyām || 44 ||
a॒smāka॒-mbrahma॒ pṛta̭nāsu sahyā a॒smāka᳚m | vṛ॒ṣṭi-rdi॒vyā sṷpā॒rā || yu॒vaṃ-va~strā̭ṇi pīva॒sā va̭sāthe | yu॒voracchi̭drā॒ manta̭vo ha॒ sargāḥ᳚ | avā̭tirata॒manṛ̭tāni॒ viśvā᳚ | ṛ॒tena̭ mitrāvaruṇā sacethe || tathsu vā᳚-mmitrāvaruṇā mahi॒tvam | ī॒rmā ta॒sthuṣī॒raha̭bhi-rduduhre | viśvāḥ᳚ pinvatha॒ svasa̭rasya॒ dhenāḥ᳚ | anṷ vā॒mekaḥ̭ pa॒virāva̭varti || 45 ||
yadbagṃhi̭ṣṭha॒-nnāti॒vidḙ sudānū | acchi̭dra॒gṃ॒ śarma॒ bhuva̭nasya gopā | tato̭ no mitrāvaruṇā-vavīṣṭam | siṣā̭santo jīgi॒vāgṃsaḥ̭ syāma || ā no̭ mitrāvaruṇā ha॒vyadā̭tim | ghṛ॒tai-rgavyṷ̄timukṣata॒miḍā̭bhiḥ | prati̭ vā॒matra॒ vara॒mā janā̭ya | pṛ॒ṇī॒tamu॒dgo di॒vyasya॒ cāroḥ᳚ || pra bā॒havā̭ sisṛta-ñjī॒vasḙ naḥ | ā no॒ gavyṷ̄timukṣata-ṅghṛ॒tena̭ || 46 ||
ā no॒ jane᳚ śravayataṃ-yu~vānā | śru॒ta-mmḙ mitrāvaruṇā॒ have॒mā || i॒mā ru॒drāya̭ sthi॒radha̭nvane॒ giraḥ̭ | kṣi॒preṣa̭ve de॒vāya̭ sva॒dhāmne᳚ | aṣā̭ḍhāya॒ saha̭mānāya mī॒ḍhuṣe᳚ | ti॒gmāyṷdhāya bharatā śṛ॒ṇota̭na || tvā da̭ttebhī rudra॒ śanta̭mebhiḥ | śa॒tagṃ himā̭ aśīya bheṣa॒jebhiḥ̭ | vya̭smaddveṣo̭ vita॒raṃ-vya~gṃhaḥ̭ | vyamī̭vāg​ ścātayasvā॒ viṣṷ̄cīḥ || 47 ||
ar​ha̭nbibhar​ṣi॒ sāya̭kāni॒ dhanva̭ | ar​ha̭nni॒ṣkaṃ-ya~̭ja॒taṃ-vi~॒śvarṷ̄pam | ar​ha̭nni॒danda̭yase॒ viśva॒mabbhṷvam | na vā ojī̭yo rudra॒ tvada̭sti ||, mā na̭sto॒ke tana̭ye॒ mā na॒ āyṷṣi॒ mā no॒ goṣu॒ mā no॒ aśvḙṣu rīriṣaḥ | vī॒rā-nmāno̭ rudra bhāmi॒to va̭dhīr​ha॒viṣma̭nto॒ nama̭sā vidhema te |||| ā tḙ pitarmarutāgṃ su॒mnamḙtu | mā na॒-ssūrya̭sya sa॒dṛṃśo̭ yuyothāḥ | a॒bhi no̭ vī॒ro arva̭ti kṣameta | prajā̭yemahi rudra pra॒jābhiḥ̭ || e॒vā ba̭bhro vṛṣabha cekitāna | yathā̭ deva॒ na hṛ̭ṇī॒ṣe na hagṃsi̭ | hā॒va॒na॒śrūrno̭ rudre॒ha bo̭dhi | bṛ॒hadva̭dema vi॒dathḙ su॒vīrāḥ᳚ || pari̭ṇo ru॒drasya̭ he॒ti rvṛ̭ṇaktu॒ pari̭tve॒ṣasya̭ durma॒tira̭ghā॒yoḥ | ava̭ sthi॒rā ma॒ghava̭dbhya-stanuṣva॒ mīḍhva̭sto॒kāya॒ tana̭yāya mṛḍaya ||, stu॒hi śru॒ta-ṅga̭rta॒sadaṃ॒-yu~vā̭na-mmṛ॒ga-nna bhī॒ma-mṷpaha॒tnu-mu॒gram | mṛ॒ḍā ja̭ri॒tre rṷdra॒ stavā̭no a॒nyantḙ a॒smanniva̭pantu॒ senāḥ᳚ || | mīḍhṷṣṭama॒ śiva̭tama śi॒vo naḥ̭ su॒manā̭ bhava |pa॒ra॒me vṛ॒kṣa āyṷdha-nni॒dhāya॒ kṛttiṃ॒-va~sā̭na॒ āca̭ra॒ pinā̭ka॒mbibhra॒dāga̭hi || ar​ha̭nbibhar​ṣi॒ sāya̭kāni॒ dhanva̭ | ar​ha̭nni॒ṣkaṃ-ya~̭ja॒taṃ-vi~॒śvarṷ̄pam | ar​ha̭nni॒danda̭yase॒ viśva॒mabbhṷvam | na vā ojī̭yo rudra॒ tvada̭sti ||| tvama̭gne ru॒dro asṷro ma॒ho di॒vastvagṃ śardho॒ mārṷta-mpṛ॒kṣa ī̭śiṣe | tvaṃ-vā~tai̭raru॒ṇairyā̭si śaṅga॒yastva-mpū॒ṣā vi̭dha॒taḥ pā̭si॒ nutmanā᳚ ||, ā vo॒ rājā̭namadhva॒rasya̭ ru॒dragṃ hotā̭ragṃ satya॒yaja॒gṃ॒ roda̭syoḥ | a॒gni-mpu॒rā ta̭nayi॒tno ra॒cittā॒-ddhira̭ṇyarūpa॒mava̭se kṛṇudhvam || || 48 ||
(vasṷ̄ni - tatā - nāstu॒ - viśvāṋ.-vavṛtyāṃ​va~varti-ghṛ॒tena॒-viṣṷ̄cīḥ-śru॒ta-ndve ca̭) (a. 6)
anuvākaṃ 7 - sauryādipaśūnāṃ sūktāni
sūryo̭ de॒vīmu॒ṣasa॒gṃ roca̭mānā॒ maryaḥ̭ | na yoṣā̭ma॒bhyḙti pa॒ścāt | yatrā॒ naro̭ deva॒yanto̭ yu॒gāni̭ | vi॒ta॒nvate॒ prati̭ bha॒drāya̭ bha॒dram || bha॒drā aśvā̭ ha॒rita॒-ssūrya̭sya | ci॒trā eda̭gvā anu॒mādyā̭saḥ | na॒ma॒syanto̭ di॒va ā pṛ॒ṣṭhama̭sthuḥ |
pari॒ dyāvā̭pṛthi॒vī ya̭nti sa॒dyaḥ || ta-thsūrya̭sya deva॒tva-nta-nma̭hi॒tvam | ma॒ddhyā karto॒-rvita̭ta॒gṃ॒ sañja̭bhāra || 49 ||
ya॒dedayṷkta ha॒ritaḥ̭ sa॒dhasthā᳚t | ādrātrī॒ vāsa̭stanute si॒masmai᳚ || ta-nmi॒trasya॒ varṷṇasyābhi॒cakṣe᳚ | sūryo̭ rū॒pa-ṅkṛ̭ṇute॒ dyoru॒pasthe᳚ | a॒na॒ntama॒nya-druśa̭dasya॒ pājaḥ̭ | kṛ॒ṣṇama॒nyaddha॒rita॒-ssambha̭ranti || a॒dyā dḙvā॒ udi̭tā॒ sūrya̭sya | niragṃha̭saḥ pipṛ॒tānnira̭va॒dyāt | tanno̭ mi॒tro varṷṇo māmahantām | adi̭ti॒-ssindhuḥ̭ pṛthi॒vī u॒ta dyauḥ || 50 ||
di॒vo ru॒kma ṷru॒cakṣā॒ udḙti | dū॒re a̭rthasta॒raṇi॒-rbhrāja̭mānaḥ | nū॒na-ñjanā॒-ssūryḙṇa॒ prasṷ̄tāḥ | āyannarthā̭ni kṛ॒ṇava॒nnapāgṃ̭si || śa-nno̭ bhava॒ cakṣa̭sā॒ śa-nno॒ ahnā᳚ | śa-mbhā॒nunā॒ śagṃ hi॒mā śa-ṅghṛ॒ṇena̭ | yathā॒ śama॒smai śamasa̭-dduro॒ṇe | ta-thsū᳚rya॒ dravi̭ṇa-ndhe॒hi ci॒tram || ci॒tra-nde॒vānā॒-muda̭gā॒danī̭kam | cakṣṷrmi॒trasya॒ varṷṇasyā॒gneḥ || 51 ||
ā-'prā॒ dyāvā̭pṛthi॒vī a॒ntari̭kṣam | sūrya̭ ā॒tmā jaga̭tasta॒sthuṣa̭śca || tvaṣṭā॒ dadha॒dindrā̭ya॒ śuṣma᳚m | apā॒ko-'ci̭ṣṭurya॒śasḙ pu॒rūṇi̭ | vṛṣā॒ yaja॒n vṛṣa̭ṇa॒-mbhūri̭retāḥ | mū॒rdhan. ya॒jñasya॒ sama̭naktu de॒vān ||, tanna̭stu॒rīpa॒madha̭ poṣayi॒tnu deva̭ tvaṣṭa॒rvi ra̭rā॒ṇa-ssya̭sva | yato̭ vī॒raḥ ka̭rma॒ṇyaḥ̭ su॒dakṣo̭ yu॒ktagrā̭vā॒ jāya̭te de॒vakā̭maḥ || | tvaṣṭā̭ vī॒ra-nde॒vakā̭ma-ñjajāna॒ tvaṣṭu॒rarvā̭ jāyata ā॒śuraśvaḥ̭ | tvaṣṭe॒daṃ-vi~śva॒-mbhuva̭na-ñjajāna ba॒hoḥ ka॒rtāra̭mi॒ha ya̭kṣi hotaḥ || pi॒śaṅga̭rūpa-ssu॒bharo̭ vayo॒dhā-śśru॒ṣṭī vī॒ro jā̭yate de॒vakā̭maḥ | pra॒jā-ntvaṣṭā॒ viṣya̭tu॒ nābhi̭ma॒sme athā̭ de॒vānā॒mapyḙtu॒ pāthaḥ̭ || || daśe॒ma-ntvaṣṭṷrjanayanta॒ garbha᳚m | ata̭ndrāso yuva॒tayo॒ bibha̭rtram | ti॒gmānī̭ka॒gg॒ svaya̭śasa॒-ñjanḙṣu | vi॒roca̭māna॒-mpari̭ṣī-nnayanti || āviṣṭyo̭ vardhate॒ cārṷrāsu | ji॒hmānā̭mū॒rdhva-ssvaya̭śā u॒pasthe᳚ || 52 ||
u॒bhe tvaṣṭṷrbibhyatu॒-rjāya̭mānāt | pra॒tīcī̭ si॒gṃ॒ha-mprati̭joṣayete || mi॒tro janāṋ yātayati prajā॒na-nmi॒tro dā̭dhāra pṛthi॒vīmu॒ta dyām | mi॒traḥ kṛ॒ṣṭīrani̭miṣā॒-'bhi ca̭ṣṭe sa॒tyāya̭ ha॒vya-ṅghṛ॒tava̭-dvidhema ||, pra sa mi̭tra॒ marto̭ astu॒ praya̭svā॒n yasta̭ āditya॒ śikṣa̭ti vra॒tena̭ | na ha̭nyate॒ na jī̭yate॒ tvoto॒ naina॒magṃho̭ aśno॒tyanti̭to॒ na dū॒rāt || || a॒ya-mmi॒tro na̭ma॒syaḥ̭ su॒śevaḥ̭ | rājā̭ sukṣa॒tro a̭janiṣṭa ve॒dhāḥ | tasya̭ va॒yagṃ sṷma॒tau ya॒jñiya̭sya | api̭ bha॒dre saṷmana॒se syā̭ma || a॒na॒mī॒vāsa॒ iḍa̭yā॒ mada̭ntaḥ | mi॒tajma̭vo॒ vari̭ma॒nnā pṛ̭thi॒vyāḥ | ā॒di॒tyasya̭ vra॒tamṷpa॒kṣyantaḥ̭ || 53 ||
va॒ya-mmi॒trasya̭ suma॒tau syā̭ma || mi॒tra-nna īgṃ śimyā॒ goṣṷ ga॒vyava̭t | svā॒dhiyo̭ vi॒dathḙ a॒phsvajī̭janann | arḙjayatā॒gṃ॒ roda̭sī॒ pāja̭sā gi॒rā | prati̭ pri॒yaṃ-ya~̭ja॒ta-ñja॒nuṣā॒mavaḥ̭ || ma॒hāgṃ ā̭di॒tyo nama̭sopa॒sadyaḥ̭ | yā॒ta॒yajja̭no gṛṇa॒te su॒śevaḥ̭ | tasmā̭ e॒ta-tpanya̭tamāya॒ juṣṭa᳚m | a॒gnau mi॒trāya̭ ha॒virājṷhota || āvā॒gṃ॒ ratho॒ roda̭sī badbadhā॒naḥ || 54 ||
hi॒ra॒ṇyayo॒ vṛṣa̭bhiryā॒tvaśvaiḥ᳚ | ghṛ॒tava̭rtaniḥ pa॒vibhī̭ rucā॒naḥ | i॒ṣāṃ-vo~॒ḍhā nṛ॒pati̭rvā॒jinī̭vān || sa pa̭prathā॒no a॒bhi pañca॒ bhūma̭ | tri॒va॒ndhu॒ro mana॒sā-''yā̭tu yu॒ktaḥ | viśo॒ yena॒ gaccha̭tho deva॒yantīḥ᳚ | kutrā̭ ci॒dyāma̭maśvinā॒ dadhā̭nā || svaśvā̭ ya॒śasā-''yā̭tama॒rvāk | dasrā̭ ni॒dhi-mmadhṷmanta-mpibāthaḥ | vi vā॒gṃ॒ ratho̭ va॒ddhvā̭ yāda̭mānaḥ || 55 ||
antā᳚-ndi॒vo bā̭dhate varta॒nibhyā᳚m || yu॒vo-śśriya॒-mpari॒ yoṣā̭ vṛṇīta | sūro̭ duhi॒tā pari̭takmiyāyām | ya-ddḙva॒yanta॒mava̭tha॒-śśacī̭bhiḥ | pari̭ghra॒gṃ॒sa vā॒-mmanā̭ vāṃ॒-va~yo̭ gām || yo ha॒ sya vāgṃ̭ rathirā॒ vasta̭ u॒srāḥ | ratho̭ yujā॒naḥ pa̭ri॒yāti̭ va॒rtiḥ | tena̭ na॒-śśaṃ-yo~ru॒ṣaso॒ vyṷṣṭau | nya̭śvinā vahataṃ-ya~॒jñe a॒sminn || yu॒va-mbhu॒jyumava̭viddhagṃ samu॒dre || 56 ||
udṷ̄hathu॒rarṇa̭so॒ asri̭dhānaiḥ | pa॒ta॒tribhi̭-raśra॒mai-ra̭vya॒thibhiḥ̭ | da॒gṃ॒sanā̭bhiraśvinā pā॒raya̭ntā || agnī̭ṣomā॒ yo a॒dya vā᳚m | i॒daṃ-va~caḥ̭ sapa॒ryati̭ | tasmai̭ dhattagṃ su॒vīrya᳚m | gavā॒-mpoṣa॒gg॒ svaśvi̭yam || yo a॒gnīṣomā̭ ha॒viṣā̭ sapa॒ryāt | de॒va॒drīcā॒ mana̭sā॒ yo ghṛ॒tena̭ | tasya̭ vra॒tagṃ ra̭kṣata-mpā॒tamagṃha̭saḥ || 57 ||
vi॒śe janā̭ya॒ mahi॒ śarma̭ yacchatam || agnī̭ṣomā॒ ya āhṷtim | yo vā॒-ndāśā᳚ddha॒viṣkṛ̭tim | sa pra॒jayā̭ su॒vīrya᳚m | viśva॒māyu॒-rvya̭śnavat || agnī̭ṣomā॒ ceti॒ ta-dvī॒ryaṃ̭-vā~m | yadamṷṣṇītamava॒sa-mpa॒ṇi-ṅgoḥ | avā̭tirata॒-mpratha̭yasya॒ śeṣaḥ̭ | avi̭ndata॒-ñjyoti॒reka̭-mba॒hubhyaḥ̭ || agnī̭ṣomā vi॒magṃ su mḙ śṛṇu॒taṃ-vṛ~̭ṣaṇā॒ hava᳚m | prati̭ sū॒ktāni̭ haryata॒-mbhava̭ta-ndā॒śuṣe॒ mayaḥ̭ || agnī̭ṣomā ha॒viṣaḥ॒ prasthi̭tasya vī॒tagṃharya̭taṃ-vṛ~ṣaṇā ju॒ṣethā᳚m | su॒śarmā̭ṇā॒ svava̭sā॒ hi bhū॒tamathā̭ dhattaṃ॒-ya~ja̭mānāya॒ śaṃ-yoḥ ~|| || 58 ||
(ja॒bhā॒ra॒ - dyau - ra॒gne - ru॒pastha̭ - upa॒kṣyanto̭ - badbadhā॒no-yāda̭mānaḥ - samu॒dre - 'gṃha̭saḥ॒ - prasthi̭tasya) (a. 7)
anuvākaṃ 8 - vehadādipaśūnāṃ sūktāni
a॒hama̭smi prathama॒jā ṛ॒tasya̭ | pūrva̭-nde॒vebhyo̭ a॒mṛta̭sya॒ nābhiḥ̭ | yo mā॒ dadā̭ti॒ sa ide॒va mā vāḥ᳚ | a॒ha-manna॒-manna̭-ma॒danta̭madmi || pūrva̭-ma॒gnerapi̭ daha॒tyanna᳚m | ya॒ttau hā̭-''sāte ahamutta॒reṣṷ | vyātta̭masya pa॒śavaḥ̭ su॒jambha᳚m | paśya̭nti॒ dhīrāḥ॒ praca̭ranti॒ pākāḥ᳚ || jahā᳚mya॒nya-nna ja̭hāmya॒nyam | a॒hamannaṃ॒-va~śa॒micca̭rāmi || 59 ||
sa॒mā॒namartha॒-mparyḙmi bhu॒ñjat | ko māmanna̭-mmanu॒ṣyo̭ dayeta || parā̭ke॒ anna॒-nnihi̭taṃ-lo~॒ka e॒tat | viśvai᳚-rde॒vaiḥ pi॒tṛbhi̭-rgu॒ptamanna᳚m | yada॒dyatḙ lu॒pyate॒ ya-tpa̭ro॒pyate᳚ | śa॒ta॒ta॒mī sā ta॒nūrmḙ babhūva || ma॒hāntaṷ ca॒rū sa̭kṛ-ddu॒gdhena̭ paprau | diva̭ñca॒ pṛśñi̭ pṛthi॒vī-ñca̭ sā॒kam | ta-thsa॒mpiba̭nto॒ na mi̭nanti ve॒dhasaḥ̭ | naita-dbhūyo॒ bhava̭ti॒ no kanī̭yaḥ || 60 ||
anna̭-mprā॒ṇa-manna̭-mapā॒na-mā̭huḥ | anna̭-mmṛ॒tyu-ntamṷ jī॒vātṷmāhuḥ | anna̭-mbra॒hmāṇo̭ ja॒rasaṃ̭-va~danti | anna̭māhuḥ pra॒jana̭na-mpra॒jānā᳚m || mogha॒mannaṃ̭-vi~ndate॒ apra̭cetāḥ | sa॒tya-mbra̭vīmi va॒dha ithsa tasya̭ | nārya॒maṇa॒-mpuṣya̭ti॒ no sakhā̭yam | keva̭lāgho bhavati kevalā॒dī || a॒ha-mme॒gha-ssta॒naya॒n. var​ṣa̭nnasmi | māma̭dantya॒hama̭dmya॒nyān || 61 ||
a॒hagṃ sada॒mṛto̭ bhavāmi | madā̭di॒tyā adhi॒ sarvḙ tapanti || sā no̭ ma॒ndreṣa॒mūrja॒-nduhā̭nā | dhe॒nurvāga॒smānupa॒ suṣṭu॒taitṷ ||, ya-dvāgvada̭ntya-viceta॒nāni̭ | rāṣṭrī̭ de॒vānā᳚-nniṣa॒sāda̭ ma॒ndrā | cata̭sra॒ ūrja̭-nduduhe॒ payāgṃ̭si | kva̭ svi dasyāḥ para॒ma-ñja̭gāma || || a॒na॒ntā-mantā॒dadhi॒ nirmi̭tā-mma॒hīm | yasyā᳚-nde॒vā a̭dadhu॒-rbhoja̭nāni | ekā᳚kṣarā-ndvi॒padā॒gṃ॒ ṣaṭpa̭dāñca | vāca̭-nde॒vā upa̭jīvanti॒ viśve᳚ || vāca̭-nde॒vā upa̭jīvanti॒ viśve᳚ | vāca̭-ṅgandha॒rvāḥ pa॒śavo̭ manu॒ṣyāḥ᳚ | vā॒cīmā viśvā॒ bhuva̭nā॒nyarpi̭tā || 62 ||
sā no॒ hava̭-ñjuṣatā॒-mindra̭patnī || vāga॒kṣara̭-mprathama॒jā ṛ॒tasya̭ | vedā̭nā-mmā॒tā-'mṛta̭sya॒ nābhiḥ̭ | sā no̭ juṣā॒ṇopa̭ ya॒jñamāgā᳚t | ava̭ntī de॒vī su॒havā̭ me astu || yā mṛṣa̭yo mantra॒kṛto̭ manī॒ṣiṇaḥ̭ | a॒nvaiccha̭-nde॒vā-stapa̭sā॒ śramḙṇa | tā-nde॒vīṃ-vā~cagṃ̭ ha॒viṣā̭ yajāmahe | sā no̭ dadhātu sukṛ॒tasya̭ lo॒ke || ca॒tvāri॒ vā-kpari̭mitā pa॒dāni̭ || 63 ||
tāni̭ vidu-rbrāhma॒ṇā ye ma̭nī॒ṣiṇaḥ̭ | guhā॒ trīṇi॒ nihi̭tā॒ neṅga̭yanti | tu॒rīyaṃ̭-vā~॒co ma̭nu॒ṣyā̭ vadanti || śra॒ddhayā॒-'gni-ssami̭ddhyate | śra॒ddhayā̭ vindate ha॒viḥ | śra॒ddhā-mbhaga̭sya mū॒rdhani̭ | vaca॒sā ''vḙdayāmasi || pri॒yagg​ śra̭ddhe॒ dada̭taḥ | pri॒yagg​ śra̭ddhe॒ didā̭sataḥ | pri॒ya-mbho॒jeṣu॒ yajva̭su || 64 ||
i॒da-mma̭ udi॒ta-ṅkṛ̭dhi || yathā̭ de॒vā asṷreṣu | śra॒ddhā-mu॒greṣṷ cakri॒re | e॒va-mbho॒jeṣu॒ yajva̭su | a॒smāka̭-mudi॒ta-ṅkṛ̭dhi || śra॒ddhā-ndḙvā॒ yaja̭mānāḥ | vā॒yugo̭pā॒ upā̭sate | śra॒ddhāgṃ hṛ̭da॒yya̭yā-''kū᳚tyā | śra॒ddhayā̭ hūyate ha॒viḥ || śra॒ddhā-mprā॒tar-ha̭vāmahe || 65 ||
śra॒ddhā-mma॒ddhyandi̭na॒-mpari̭ | śra॒ddhāgṃ sūrya̭sya ni॒mruci̭ | śraddhe॒ śraddhā̭paye॒ha mā᳚ || śra॒ddhā de॒vā-nadhi̭vaste | śra॒ddhā viśva̭mi॒da-ñjaga̭t | śra॒ddhā-ṅkāma̭sya mā॒tara᳚m | ha॒viṣā̭ vardhayāmasi || brahma̭jajñā॒na-mpra̭tha॒ma-mpu॒rastā᳚t | vi sī̭ma॒ta-ssu॒ruco̭ ve॒na ā̭vaḥ | sa bu॒ddhniyā̭ upa॒mā a̭sya vi॒ṣṭhāḥ || 66 ||
sa॒taśca॒ yoni॒-masa̭taśca॒ vivaḥ̭ || pi॒tā vi॒rājā̭mṛṣa॒bho ra̭yī॒ṇām | a॒ntari̭kṣaṃ-vi~॒śvarṷ̄pa॒ āvi̭veśa | tama॒rkai-ra॒bhya̭rcanti va॒thsam | brahma॒ santa॒-mbrahma̭ṇā va॒rdhaya̭ntaḥ || brahma̭ de॒vāna̭janayat | brahma॒ viśva̭mi॒da-ñjaga̭t | brahma̭ṇaḥ, kṣa॒tra-nnirmi̭tam | brahma̭ brāhma॒ṇa ā॒tmanā᳚ || a॒ntara̭smi-nni॒me lo॒kāḥ || 67 ||
a॒nta-rviśva̭mi॒da-ñjaga̭t | brahmai॒va bhū॒tānā॒-ñjyeṣṭha᳚m | tena॒ ko̭-'r​hati॒ spardhi̭tum || brahma̭-nde॒vā-straya̭strigṃśat | brahma̭nnindra prajāpa॒tī | brahma̭n. ha॒ viśvā̭ bhū॒tāni̭ | nā॒vī vā॒nta-ssa॒māhi̭tā || cata̭sra॒ āśāḥ॒ praca̭rantva॒-gnayaḥ̭ | i॒manno̭ ya॒jña-nna̭yatu prajā॒nann | ghṛ॒ta-mpinva̭nna॒jaragṃ̭ su॒vīra᳚m || 68 ||
brahma̭ sa॒mi-dbha̭va॒tyāhṷtīnām || ā gāvo̭ agmannu॒ta bha॒drama̭krann | sīda̭ntu go॒ṣṭhe ra॒ṇaya̭ntva॒sme | pra॒jāva̭tīḥ puru॒rūpā̭ i॒ha syuḥ | indrā̭ya pū॒rvī ru॒ṣaso॒ duhā̭nāḥ || indro॒ yajva̭ne pṛṇa॒te ca̭ śikṣati | upedda̭dāti॒ na sva-mmṷṣāyati | bhūyo̭ bhūyo ra॒yimida̭sya va॒rdhayanṋ | abhi̭nne khi॒lle nida̭dhāti deva॒yum || na tā na̭śanti॒ na da̭bhāti॒ taska̭raḥ | nainā̭ ami॒tro vyathi॒rāda̭dhar​ṣati | de॒vāg​śca॒ yābhi॒-ryaja̭te॒ dadā̭ti ca | jyogittābhiḥ̭ sacate॒ gopa̭ti-ssa॒ha ||, na tā arvā̭ re॒ṇuka̭kāṭo aśnute | na sagg̭ skṛta॒tra-mupa̭yanti॒ tā a॒bhi | u॒ru॒gā॒yamabha̭ya॒-ntasya॒ tā anṷ | gāvo॒ martya̭sya॒ vica̭ranti॒ yajva̭naḥ || || 69 ||
gāvo॒ bhago॒ gāva॒ indro̭ me acchāt | gāva॒-ssoma̭sya pratha॒masya̭ bha॒kṣaḥ | i॒mā yā gāva॒-ssaja̭nāsa॒ indraḥ̭ | i॒cchāmīddhṛ॒dā mana̭sā ci॒dindra᳚m || yū॒ya-ṅgā̭vo medayathā kṛ॒śa-ñci̭t | a॒ślī॒la-ñci̭-tkṛṇuthā su॒pratī̭kam | bha॒dra-ṅgṛ॒ha-ṅkṛ̭ṇutha bhadravācaḥ | bṛ॒hadvo॒ vaya̭ ucyate sa॒bhāsṷ || pra॒jāva̭tī-ssū॒yava̭sagṃ ri॒śantīḥ᳚ (ru॒śantīḥ᳚) | śu॒ddhā a॒pa-ssṷprapā॒ṇe piba̭ntīḥ | mā vaḥ̭ ste॒na ī̭śata॒ mā-'ghaśagṃ̭saḥ | pari̭vo he॒tī ru॒drasya̭ vṛñjyāt || upe॒da-mṷpa॒parca̭nam | ā॒su goṣūpa̭pṛcyatām | upa̭r​ṣa॒bhasya॒ reta̭si | upe᳚ndra॒ tava̭ vī॒rye᳚ || 70 ||
(ca॒rā॒mi॒ - kanī̭yo॒ - 'nyā - narpi̭tā - pa॒dāni॒ - yajva̭su - havāmahe - vi॒ṣṭhā - lo॒kāḥ - su॒vīra॒ - marvā॒ - piba̭ntī॒-ṣṣaṭca̭) (a. 8)
anuvākaṃ 9 - śuklakṛṣṇapaśvādīnāṃ sūktāni
tā sū᳚ryā candra॒masā̭ viśva॒bhṛtta̭mā ma॒hat | tejo॒ vasṷma-drājato di॒vi | sāmā᳚tmānā carata-ssāmacā॒riṇā᳚ | yayo᳚rvra॒ta-nna ma॒me jātṷ de॒vayoḥ᳚ || u॒bhāvantau॒ pari̭yāta॒ armyā᳚ | di॒vo na ra॒śmīg​ sta̭nu॒to-vya̭rṇa॒ve | u॒bhā bhṷva॒ntī bhuva̭nā ka॒vikra̭tū | sūryā॒ na ca॒ndrā ca̭rato ha॒tāma̭tī || patī᳚ dyu॒ma-dvi̭śva॒vidā̭ u॒bhā di॒vaḥ | sūryā̭ u॒bhā ca॒ndrama̭sā vicakṣa॒ṇā || 71 ||
vi॒śvavā̭rā varivo॒bhā vare᳚ṇyā | tā no̭-'vata-mmati॒mantā॒ mahi̭vratā || vi॒śva॒vapa̭rī pra॒tara̭ṇā tara॒ntā | su॒va॒rvidā̭ dṛ॒śaye॒ bhūri̭raśmī | sūryā॒ hi ca॒ndrā vasṷtve॒ṣa-da̭r​śatā | ma॒na॒svino॒bhā-'nṷ cara॒to nu॒ sa-ndiva᳚m || a॒sya śravo̭ na॒dyaḥ̭ sa॒pta bi̭bhrati | dyāvā॒ kṣāmā̭ pṛthi॒vī da̭r​śa॒taṃ-va~puḥ̭ | a॒sme sū᳚ryā candra॒masā̭-'bhi॒cakṣe᳚ | śra॒ddhe kami̭ndra carato vicartu॒ram || 72 ||
pū॒rvā॒pa॒ra-ñca̭rato mā॒ya yai॒tau | śiśū॒ krīḍa̭ntau॒ pari̭yāto addhva॒ram | viśvā᳚nya॒nyo bhuva̭nā 'bhi॒caṣṭe᳚ | ṛ॒tūna॒nyo vi॒dadha̭jjāyate॒ punaḥ̭ || hira̭ṇyavarṇā॒-śśuca̭yaḥ pāva॒kā yāsṷ jā॒taḥ ka॒śyapo॒ yāsvindraḥ̭ | a॒gniṃ-yā~ garbha̭-ndadhi॒re virṷ̄pā॒stā na॒ āpa॒-śśagg​ syo॒nā bha̭vantu ||,
yāsā॒gṃ॒ rājā॒ varṷṇo॒ yāti॒ madhyḙ satyānṛ॒te a̭va॒paśya॒n janā̭nām | ma॒dhu॒ścuta॒-śśuca̭yo॒ yāḥ pā̭va॒kāstā na॒ āpa॒-śśagg​ syo॒nā bha̭vantu || | yāsā᳚-nde॒vā di॒vi kṛ॒ṇvanti̭ bha॒kṣaṃ-yā~ a॒ntari̭kṣe bahu॒dhā bhava̭nti | yāḥ pṛ̭thi॒vī-mpaya̭so॒ndanti̭śu॒krāstā na॒ āpa॒-śśagg​ syo॒nā bha̭vantu ||, śi॒vena̭ mā॒ cakṣṷṣā paśyatā-''pa-śśi॒vayā̭ ta॒nuvopa̭ spṛśata॒ tvaca̭-mme | sarvāgṃ̭ a॒gnīgṃ ra̭phsu॒ṣado̭ huve vo॒ mayi॒ varco॒ bala॒mojo॒ ni dha̭tta || | āpo̭ bha॒drā ghṛ॒tamidāpa̭ āsura॒gnī-ṣomaṷ bibhra॒tyāpa॒ i-ttāḥ | tī॒vro raso̭ madhu॒pṛcā̭ -maraṅga॒ma ā mā᳚ prā॒ṇena̭ sa॒ha varca̭sā gann ||, ādi-tpa̭śyāmyu॒ta vā̭ śṛṇo॒myā mā॒ ghoṣo̭ gacchati॒ vānna̭ āsām | manyḙ bhejā॒no a॒mṛta̭sya॒ tar​hi॒ hira̭ṇyavarṇā॒ atṛ̭paṃ-ya~॒dā vaḥ̭ || || nāsa̭dāsī॒nno sadā̭sī-tta॒dānī᳚m | nāsī॒-drajo॒ no vyo̭māpa॒ro yat | kimāva̭rīvaḥ॒ kuha॒ kasya॒ śarmanṋ || 73 ||
ambhaḥ॒ kimā̭sī॒-dgaha̭na-ṅgabhī॒ram || na mṛ॒tyura॒mṛta॒-ntar​hi॒ na | rātri̭yā॒ ahna̭ āsī-tprake॒taḥ | ānī̭davā॒tagg​ sva॒dhayā॒ tadeka᳚m | tasmā᳚-ddhā॒nya-nna pa॒raḥ (pa॒raṃ) kiñca॒ nāsa̭ || tama̭ āsī॒-ttama̭sā gū॒ḍhamagre᳚ prake॒tam | sa॒li॒lagṃ sarva̭mā i॒dam | tu॒cche nā॒bhvapi̭hitaQṃ-ya~dāsī᳚t | tama̭sa॒ stanma̭hi॒nā jā̭ya॒taika᳚m || kāma॒stadagre॒ sama̭varta॒tādhi̭ || 74 ||
mana̭so॒ retaḥ̭ pratha॒maṃ-ya~dāsī᳚t | sa॒ to bandhu॒masa̭ti॒ nira̭vindann (nira̭vidann) | hṛ॒di pra॒tīṣyā̭ ka॒vayo̭ manī॒ṣā || ti॒ra॒ścīno॒ vita̭to ra॒śmirḙṣām | a॒dha-ssvi̭dā॒sī(3) du॒pari̭ svidāsī(3)t | re॒to॒dhā ā̭sa-nmahi॒māna̭ āsann | sva॒dhā a॒vastā॒-tpraya̭tiḥ pa॒rastā᳚t || ko a॒ddhā vḙda॒ ka i॒ha pravo̭cat | kuta॒ ājā̭tā॒ kuta̭ i॒yaṃ-vi~sṛ̭ṣṭiḥ | a॒rvāgde॒vā a॒sya vi॒sarja̭nāya || 75 ||
athā॒ ko vḙda॒ yata̭ āba॒bhūva̭ || i॒yaṃ-vi~sṛ̭ṣṭi॒-ryata̭ āba॒bhūva̭ | yadi̭ vā da॒dhe yadi̭ vā॒ na | yo a॒syāddhya̭kṣaḥ para॒me vyo̭mann | so a॒ṅga vḙda॒ yadi̭ vā॒ na veda̭ || kigg​svi॒dvana॒-ṅka u॒ sa vṛ॒kṣa ā̭sīt | yato॒ dyāvā̭pṛthi॒vī ni̭ṣṭata॒kṣuḥ | manī̭ṣiṇo॒ mana̭sā pṛ॒cchatedu॒ tat | yada॒ddhyati̭ṣṭha॒-dbhuva̭nāni dhā॒rayanṋ || brahma॒ vana॒-mbrahma॒ sa vṛ॒kṣa ā̭sīt || 76 ||
yato॒ dyāvā̭pṛthi॒vī ni̭ṣṭata॒kṣuḥ | manī̭ṣiṇo॒ mana̭sā॒ vibra̭vīmi vaḥ | brahmā॒ddhyati̭ṣṭha॒-dbhuva̭nāni dhā॒rayanṋ || prā॒tara॒gni-mprā॒tarindragṃ̭ havāmahe | prā॒ta rmi॒trāvarṷṇā prā॒tara॒śvinā᳚ | prā॒ta rbhaga̭-mpū॒ṣaṇa॒-mbrahma̭ṇa॒spati᳚m | prā॒tassoma̭mu॒ta ru॒dragṃ hṷvema || prā॒ta॒rjita॒-mbhaga̭mu॒gragṃ hṷvema | va॒ya-mpu॒tramadi̭te॒ryo vi̭dha॒rtā | ā॒ddhraści॒dya-mmanya̭māna-stu॒raści̭t || 77 ||
rājā̭ ci॒dya-mbhaga̭-mbha॒kṣītyāha̭ || bhaga॒ praṇḙta॒rbhaga॒ satya̭rādhaḥ | bhage॒mā-ndhiya॒muda̭va॒ dada̭nnaḥ | bhaga॒ praṇo̭ janaya॒ gobhi॒raśvaiḥ᳚ | bhaga॒ pranṛbhi̭-rnṛ॒vantaḥ̭ syāma | u॒tedānī॒-mbhaga̭vanta-ssyāma || u॒ta prapi॒tva u॒ta maddhye॒ ahnā᳚m | u॒todi̭tā maghava॒n-thsūrya̭sya | va॒ya-nde॒vānāgṃ̭ suma॒tau syā̭ma || bhaga̭ e॒va bhaga̭vāgṃ astu devāḥ || 78 ||
tena̭ va॒ya-mbhaga̭vanta-ssyāma | ta-ntvā̭ bhaga॒ sarva॒ ijjo̭havīmi | sa no̭ bhaga pura e॒tā bha̭ve॒ha || sama̭ddhva॒rāyo॒ṣaso̭ namanta | da॒dhi॒krāvḙva॒ śuca̭ye pa॒dāya̭ | a॒rvā॒cī॒naṃ-va~̭su॒vida॒-mbhaga̭nnaḥ | ratha̭mi॒vāśvā̭ vā॒jina॒ āva̭hantu || aśvā̭vatī॒-rgoma̭tī-rna u॒ṣāsaḥ̭ | vī॒rava̭tī॒-ssada̭mucchantu bha॒drāḥ | ghṛ॒ta-nduhā̭nā vi॒śvataḥ॒ prapī̭nāḥ | yū॒ya-mpā̭ta sva॒stibhi॒-ssadā̭ naḥ || 79 ||
(vi॒ca॒kṣa॒ṇā - vi̭cartu॒ragṃ - śarma॒ - nnadhi̭ - vi॒sarja̭nāya॒ - brahma॒ vana॒-mbrahma॒ sa vṛ॒kṣa ā̭sīt- tu॒raści̭-d- devāḥ॒ - prapī̭nā॒ eka̭-ñca) (a. 9)
(pīvo᳚-'nnā॒ - magne॒ tva-mpā̭ra - yānāghṛ॒ṣyaḥ - śuci॒-nnu stomaṃ̭ - ~vi॒śraya̭māṇo - di॒vo ru॒kmo - 'nna̭-mprā॒ṇaṃ - tā sū᳚ryācandra॒masā॒ nava̭saptatiḥ)
(pīvo᳚nnā - ~yū॒ya-mpā̭ta sva॒stibhi॒-ssadā̭naḥ)
|| hariḥ̭ om ||
|| kṛṣṇa yajurvedīya taittirīya brāhmaṇe dvitīyāṣṭake aṣṭamaḥ prapāṭhaka-ssamāptaḥ ||
|| kṛṣṇa yajurvedīya taittirīya brāhmaṇe dvitīyāṣṭakaṃ samāptam ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in