Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
अगस्तिरुवाच
आजानुबाहुमरविन्ददलायताक्ष-
-माजन्मशुद्धरसहासमुखप्रसादम् ।
Verse 1
श्यामं गृहीत शरचापमुदाररूपं
रामं सराममभिराममनुस्मरामि ॥ 1 ॥
रामं सराममभिराममनुस्मरामि ॥ 1 ॥
śyāmaṃ gṛhīta śaracāpamudārarūpaṃ
rāmaṃ sarāmamabhirāmamanusmarāmi || 1 ||
rāmaṃ sarāmamabhirāmamanusmarāmi || 1 ||
Verse 1
अस्य श्रीरामकवचस्य अगस्त्य ऋषिः अनुष्टुप् छन्दः सीतालक्ष्मणोपेतः श्रीरामचन्द्रो देवता श्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।
अथ ध्यानं
नीलजीमूतसङ्काशं विद्युद्वर्णाम्बरावृतम् ।
कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् ॥ 1 ॥

asya śrīrāmakavacasya agastya ṛṣiḥ anuṣṭup chandaḥ sītālakṣmaṇopetaḥ śrīrāmacandro devatā śrīrāmacandraprasādasiddhyarthe jape viniyogaḥ |
atha dhyānaṃ
nīlajīmūtasaṅkāśaṃ vidyudvarṇāmbarāvṛtam |
komalāṅgaṃ viśālākṣaṃ yuvānamatisundaram || 1 ||

Verse 2
सीतासौमित्रिसहितं जटामुकुटधारिणम् ।
सासितूणधनुर्बाणपाणिं दानवमर्दनम् ॥ 2 ॥
सासितूणधनुर्बाणपाणिं दानवमर्दनम् ॥ 2 ॥
sītāsaumitrisahitaṃ jaṭāmukuṭadhāriṇam |
sāsitūṇadhanurbāṇapāṇiṃ dānavamardanam || 2 ||

Verse 3
यदा चोरभये राजभये शत्रुभये तथा ।
ध्यात्वा रघुपतिं क्रुद्धं कालानलसमप्रभम् ॥ 3 ॥

yadā corabhaye rājabhaye śatrubhaye tathā |
dhyātvā raghupatiṃ kruddhaṃ kālānalasamaprabham || 3 ||

Verse 4
चीरकृष्णाजिनधरं भस्मोद्धूलितविग्रहम् ।
आकर्णाकृष्टविशिखकोदण्डभुजमण्डितम् ॥ 4 ॥
आकर्णाकृष्टविशिखकोदण्डभुजमण्डितम् ॥ 4 ॥
cīrakṛṣṇājinadharaṃ bhasmoddhūlitavigraham |
ākarṇākṛṣṭaviśikhakodaṇḍabhujamaṇḍitam || 4 ||

Verse 5
रणे रिपून् रावणादींस्तीक्ष्णमार्गणवृष्टिभिः ।
संहरन्तं महावीरमुग्रमैन्द्ररथस्थितम् ॥ 5 ॥

raṇe ripūn rāvaṇādīṃstīkṣṇamārgaṇavṛṣṭibhiḥ |
saṃharantaṃ mahāvīramugramaindrarathasthitam || 5 ||

Verse 6
लक्ष्मणाद्यैर्महावीरैर्वृतं हनुमदादिभिः ।
सुग्रीवाद्यैर्माहावीरैः शैलवृक्षकरोद्यतैः ॥ 6 ॥

lakṣmaṇādyairmahāvīrairvṛtaṃ hanumadādibhiḥ |
sugrīvādyairmāhāvīraiḥ śailavṛkṣakarodyataiḥ || 6 ||

Verse 7
वेगात्करालहुङ्कारैर्भुभुक्कारमहारवैः ।
नदद्भिः परिवादद्भिः समरे रावणं प्रति ॥ 7 ॥

vegātkarālahuṅkārairbhubhukkāramahāravaiḥ |
nadadbhiḥ parivādadbhiḥ samare rāvaṇaṃ prati || 7 ||

Verse 8
श्रीराम शत्रुसङ्घान्मे हन मर्दय खादय ।
भूतप्रेतपिशाचादीन् श्रीरामाशु विनाशय ॥ 8 ॥

śrīrāma śatrusaṅghānme hana mardaya khādaya |
bhūtapretapiśācādīn śrīrāmāśu vināśaya || 8 ||

Verse 9
एवं ध्यात्वा जपेद्रामकवचं सिद्धिदायकम् ।
सुतीक्ष्ण वज्रकवचं शृणु वक्ष्याम्यनुत्तमम् ॥ 9 ॥

evaṃ dhyātvā japedrāmakavacaṃ siddhidāyakam |
sutīkṣṇa vajrakavacaṃ śṛṇu vakṣyāmyanuttamam || 9 ||

Verse 10
अथ कवचम्
श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशजः ।
दक्षिणे मे रघुवरः पश्चिमे पातु पावनः ॥ 10 ॥

atha kavacam
śrīrāmaḥ pātu me mūrdhni pūrve ca raghuvaṃśajaḥ |
dakṣiṇe me raghuvaraḥ paścime pātu pāvanaḥ || 10 ||

Verse 11
उत्तरे मे रघुपतिर्भालं दशरथात्मजः ।
भ्रुवोर्दूर्वादलश्यामस्तयोर्मध्ये जनार्दनः ॥ 11 ॥

uttare me raghupatirbhālaṃ daśarathātmajaḥ |
bhruvordūrvādalaśyāmastayormadhye janārdanaḥ || 11 ||

Verse 12
श्रोत्रं मे पातु राजेन्द्रो दृशौ राजीवलोचनः ।
घ्राणं मे पातु राजर्षिर्गण्डौ मे जानकीपतिः ॥ 12 ॥

śrotraṃ me pātu rājendro dṛśau rājīvalocanaḥ |
ghrāṇaṃ me pātu rājarṣirgaṇḍau me jānakīpatiḥ || 12 ||

Verse 13
कर्णमूले खरध्वंसी भालं मे रघुवल्लभः ।
जिह्वां मे वाक्पतिः पातु दन्तपङ्क्ती रघूत्तमः ॥ 13 ॥

karṇamūle kharadhvaṃsī bhālaṃ me raghuvallabhaḥ |
jihvāṃ me vākpatiḥ pātu dantapaṅktī raghūttamaḥ || 13 ||

Verse 14
ओष्ठौ श्रीरामचन्द्रो मे मुखं पातु परात्परः ।
कण्ठं पातु जगद्वन्द्यः स्कन्धौ मे रावणान्तकः ॥ 14 ॥

oṣṭhau śrīrāmacandro me mukhaṃ pātu parātparaḥ |
kaṇṭhaṃ pātu jagadvandyaḥ skandhau me rāvaṇāntakaḥ || 14 ||

Verse 15
धनुर्बाणधरः पातु भुजौ मे वालिमर्दनः ।
सर्वाण्यङ्गुलिपर्वाणि हस्तौ मे राक्षसान्तकः ॥ 15 ॥

dhanurbāṇadharaḥ pātu bhujau me vālimardanaḥ |
sarvāṇyaṅguliparvāṇi hastau me rākṣasāntakaḥ || 15 ||

Verse 16
वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः ।
स्तनौ सीतापतिः पातु पार्श्वं मे जगदीश्वरः ॥ 16 ॥

vakṣo me pātu kākutsthaḥ pātu me hṛdayaṃ hariḥ |
stanau sītāpatiḥ pātu pārśvaṃ me jagadīśvaraḥ || 16 ||

Verse 17
मध्यं मे पातु लक्ष्मीशो नाभिं मे रघुनायकः ।
कौसल्येयः कटी पातु पृष्ठं दुर्गतिनाशनः ॥ 17 ॥

madhyaṃ me pātu lakṣmīśo nābhiṃ me raghunāyakaḥ |
kausalyeyaḥ kaṭī pātu pṛṣṭhaṃ durgatināśanaḥ || 17 ||

Verse 18
गुह्यं पातु हृषीकेशः सक्थिनी सत्यविक्रमः ।
ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ॥ 18 ॥

guhyaṃ pātu hṛṣīkeśaḥ sakthinī satyavikramaḥ |
ūrū śārṅgadharaḥ pātu jānunī hanumatpriyaḥ || 18 ||

Verse 19
जङ्घे पातु जगद्व्यापी पादौ मे ताटकान्तकः ।
सर्वाङ्गं पातु मे विष्णुः सर्वसन्धीननामयः ॥ 19 ॥

jaṅghe pātu jagadvyāpī pādau me tāṭakāntakaḥ |
sarvāṅgaṃ pātu me viṣṇuḥ sarvasandhīnanāmayaḥ || 19 ||

Verse 20
ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः ।
पातु श्रीरामभद्रो मे शब्दादीन्विषयानपि ॥ 20 ॥

jñānendriyāṇi prāṇādīn pātu me madhusūdanaḥ |
pātu śrīrāmabhadro me śabdādīnviṣayānapi || 20 ||

Verse 21
द्विपदादीनि भूतानि मत्सम्बन्धीनि यानि च ।
जामदग्न्यमहादर्पदलनः पातु तानि मे ॥ 21 ॥

dvipadādīni bhūtāni matsambandhīni yāni ca |
jāmadagnyamahādarpadalanaḥ pātu tāni me || 21 ||

Verse 22
सौमित्रिपूर्वजः पातु वागादीनीन्द्रियाणि च ।
रोमाङ्कुराण्यशेषाणि पातु सुग्रीवराज्यदः ॥ 22 ॥

saumitripūrvajaḥ pātu vāgādīnīndriyāṇi ca |
romāṅkurāṇyaśeṣāṇi pātu sugrīvarājyadaḥ || 22 ||

Verse 23
वाङ्मनोबुद्ध्यहङ्कारैर्ज्ञानाज्ञानकृतानि च ।
जन्मान्तरकृतानीह पापानि विविधानि च ॥ 23 ॥

vāṅmanobuddhyahaṅkārairjñānājñānakṛtāni ca |
janmāntarakṛtānīha pāpāni vividhāni ca || 23 ||

Verse 24
तानि सर्वाणि दग्ध्वाशु हरकोदण्डखण्डनः ।
पातु मां सर्वतो रामः शार्ङ्गबाणधरः सदा ॥ 24 ॥

tāni sarvāṇi dagdhvāśu harakodaṇḍakhaṇḍanaḥ |
pātu māṃ sarvato rāmaḥ śārṅgabāṇadharaḥ sadā || 24 ||

इति श्रीरामचन्द्रस्य कवचं वज्रसम्मितम् ।
गुह्याद्गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तम ॥ 25 ॥

Verse 26
यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः ।
स याति परमं स्थानं रामचन्द्रप्रसादतः ॥ 26 ॥

yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā samāhitaḥ |
sa yāti paramaṃ sthānaṃ rāmacandraprasādataḥ || 26 ||

Verse 27
महापातकयुक्तो वा गोघ्नो वा भ्रूणहा तथा ।
श्रीरामचन्द्रकवचपठनाच्छुद्धिमाप्नुयात् ॥ 27 ॥

mahāpātakayukto vā goghno vā bhrūṇahā tathā |
śrīrāmacandrakavacapaṭhanācchuddhimāpnuyāt || 27 ||

Verse 28
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।
भो सुतीक्ष्ण यथा पृष्टं त्वया मम पुराः शुभम् ।
तथा श्रीरामकवचं मया ते विनिवेदितम् ॥ 28 ॥

brahmahatyādibhiḥ pāpairmucyate nātra saṃśayaḥ |
bho sutīkṣṇa yathā pṛṣṭaṃ tvayā mama purāḥ śubham |
tathā śrīrāmakavacaṃ mayā te viniveditam || 28 ||

इति श्रीमदानन्दरामायणे मनोहरकाण्डे सुतीक्ष्णागस्त्यसंवादे श्रीरामकवचम् ॥
Sanskrit — Devanagari (original)
अगस्तिरुवाच
आजानुबाहुमरविन्ददलायताक्ष-
-माजन्मशुद्धरसहासमुखप्रसादम् ।
श्यामं गृहीत शरचापमुदाररूपं
रामं सराममभिराममनुस्मरामि ॥ 1 ॥
अस्य श्रीरामकवचस्य अगस्त्य ऋषिः अनुष्टुप् छन्दः सीतालक्ष्मणोपेतः श्रीरामचन्द्रो देवता श्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।
अथ ध्यानं
नीलजीमूतसङ्काशं विद्युद्वर्णाम्बरावृतम् ।
कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् ॥ 1 ॥
सीतासौमित्रिसहितं जटामुकुटधारिणम् ।
सासितूणधनुर्बाणपाणिं दानवमर्दनम् ॥ 2 ॥
यदा चोरभये राजभये शत्रुभये तथा ।
ध्यात्वा रघुपतिं क्रुद्धं कालानलसमप्रभम् ॥ 3 ॥
चीरकृष्णाजिनधरं भस्मोद्धूलितविग्रहम् ।
आकर्णाकृष्टविशिखकोदण्डभुजमण्डितम् ॥ 4 ॥
रणे रिपून् रावणादींस्तीक्ष्णमार्गणवृष्टिभिः ।
संहरन्तं महावीरमुग्रमैन्द्ररथस्थितम् ॥ 5 ॥
लक्ष्मणाद्यैर्महावीरैर्वृतं हनुमदादिभिः ।
सुग्रीवाद्यैर्माहावीरैः शैलवृक्षकरोद्यतैः ॥ 6 ॥
वेगात्करालहुङ्कारैर्भुभुक्कारमहारवैः ।
नदद्भिः परिवादद्भिः समरे रावणं प्रति ॥ 7 ॥
श्रीराम शत्रुसङ्घान्मे हन मर्दय खादय ।
भूतप्रेतपिशाचादीन् श्रीरामाशु विनाशय ॥ 8 ॥
एवं ध्यात्वा जपेद्रामकवचं सिद्धिदायकम् ।
सुतीक्ष्ण वज्रकवचं शृणु वक्ष्याम्यनुत्तमम् ॥ 9 ॥
अथ कवचम्
श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशजः ।
दक्षिणे मे रघुवरः पश्चिमे पातु पावनः ॥ 10 ॥
उत्तरे मे रघुपतिर्भालं दशरथात्मजः ।
भ्रुवोर्दूर्वादलश्यामस्तयोर्मध्ये जनार्दनः ॥ 11 ॥
श्रोत्रं मे पातु राजेन्द्रो दृशौ राजीवलोचनः ।
घ्राणं मे पातु राजर्षिर्गण्डौ मे जानकीपतिः ॥ 12 ॥
कर्णमूले खरध्वंसी भालं मे रघुवल्लभः ।
जिह्वां मे वाक्पतिः पातु दन्तपङ्क्ती रघूत्तमः ॥ 13 ॥
ओष्ठौ श्रीरामचन्द्रो मे मुखं पातु परात्परः ।
कण्ठं पातु जगद्वन्द्यः स्कन्धौ मे रावणान्तकः ॥ 14 ॥
धनुर्बाणधरः पातु भुजौ मे वालिमर्दनः ।
सर्वाण्यङ्गुलिपर्वाणि हस्तौ मे राक्षसान्तकः ॥ 15 ॥
वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः ।
स्तनौ सीतापतिः पातु पार्श्वं मे जगदीश्वरः ॥ 16 ॥
मध्यं मे पातु लक्ष्मीशो नाभिं मे रघुनायकः ।
कौसल्येयः कटी पातु पृष्ठं दुर्गतिनाशनः ॥ 17 ॥
गुह्यं पातु हृषीकेशः सक्थिनी सत्यविक्रमः ।
ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ॥ 18 ॥
जङ्घे पातु जगद्व्यापी पादौ मे ताटकान्तकः ।
सर्वाङ्गं पातु मे विष्णुः सर्वसन्धीननामयः ॥ 19 ॥
ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः ।
पातु श्रीरामभद्रो मे शब्दादीन्विषयानपि ॥ 20 ॥
द्विपदादीनि भूतानि मत्सम्बन्धीनि यानि च ।
जामदग्न्यमहादर्पदलनः पातु तानि मे ॥ 21 ॥
सौमित्रिपूर्वजः पातु वागादीनीन्द्रियाणि च ।
रोमाङ्कुराण्यशेषाणि पातु सुग्रीवराज्यदः ॥ 22 ॥
वाङ्मनोबुद्ध्यहङ्कारैर्ज्ञानाज्ञानकृतानि च ।
जन्मान्तरकृतानीह पापानि विविधानि च ॥ 23 ॥
तानि सर्वाणि दग्ध्वाशु हरकोदण्डखण्डनः ।
पातु मां सर्वतो रामः शार्ङ्गबाणधरः सदा ॥ 24 ॥
इति श्रीरामचन्द्रस्य कवचं वज्रसम्मितम् ।
गुह्याद्गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तम ॥ 25 ॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः ।
स याति परमं स्थानं रामचन्द्रप्रसादतः ॥ 26 ॥
महापातकयुक्तो वा गोघ्नो वा भ्रूणहा तथा ।
श्रीरामचन्द्रकवचपठनाच्छुद्धिमाप्नुयात् ॥ 27 ॥
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।
भो सुतीक्ष्ण यथा पृष्टं त्वया मम पुराः शुभम् ।
तथा श्रीरामकवचं मया ते विनिवेदितम् ॥ 28 ॥
इति श्रीमदानन्दरामायणे मनोहरकाण्डे सुतीक्ष्णागस्त्यसंवादे श्रीरामकवचम् ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.