6.19 युद्धकाण्ड - एकोनविंश सर्गः

6.19 Yuddhakanda - Ekonavimsha Sargah

✍️ Valmiki 🖋️ Devanagari script
📄 Download PDF
श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकोनविंशस्सर्गः ।
राघवेणाभयेदत्तेसन्नतोरावणानुजः ।
विभीषणोमहाप्राज्ञोभूमिंसमवलोकयन् ॥ 1 ॥
खात्पपातावनींहृष्टोभक्तेरनुचरैस्सह ।
सतरामस्यपरमात्मानिपपातविभीषणः ॥ 2 ॥
पादयोश्शरणान्वेषीचतुर्भिस्सहराक्षसैः ।
अब्रवीच्चतदावाक्यंरामम्प्रतिविभीषणः ॥ 3 ॥
धर्मयुक्तञ्चयुक्तञ्चसाम्प्रतंसम्प्रहर्षणम् ।
अनुजोरावणस्याहन्तेनचाप्यवमानितः ।
भवन्तंसर्वभूतानांशरण्यंशरणागतः ॥ 4 ॥
परित्यक्तामयालङ्कमित्राणिचधनानिच ।
भवद्गतंहिमेराज्यञ्जीवितञ्चसुखानिच ॥ 5 ॥
तथ्यतद्वचनंश्रुत्वारामोवचनमब्रवीत् ॥ 6 ॥
वचसासान्त्वयित्वैनंलोचनाभ्याम्पिबन्निव ।
आख्याहिममतत्त्वेनराक्षसानाम्बलाबलम् ॥ 7 ॥
एवमुक्तन्तदारक्षोरामेणाक्लिष्टकर्मणा ।
रावणस्यबलंसर्वमाख्यातुमुपचक्रमे ॥ 8 ॥
अवध्यस्सर्वभूतानाङ्गन्धर्वोरगरक्षसाम् ।
राजपुत्रदशग्रीवोवरदानात्स्वयम्भुवः ॥ 9 ॥
रावणानन्तरोभ्राताममज्येष्ठश्चवीर्यवान् ।
कुम्भकर्णोमहातेजाश्शक्रप्रतिबलोयुधि ॥ 10 ॥
रामसेनापतिस्तस्यप्रहास्तोयदिवाश्रुतः ।
कैलासेयेनसङ्ग्रामेमणिभद्रःपराजितः ॥ 11 ॥
बद्दगोधाङ्गुलित्रश्च अवध्यकवचो युधि ।
धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥ 12 ॥
सङ्ग्रामसमयव्यूहेतर्पयित्वाहुताशनम् ।
अन्तर्धानगतश्शत्रूनिन्द्रजिद् हन्तिराघवः ॥ 13 ॥
महोदरमहापार्श्वौराक्षसश्चाप्यकम्पनः ।
अनीकस्थास्तुतस्यैतेलोकपालसमायुधि ॥ 14 ॥
दशकोटिसहस्राणिरक्षसाङ्कामरूपिणाम् ।
मांसशोणितभक्ष्याणांलङ्कापुरनिवासिनाम् ॥ 15 ॥
सतैस्तुसहितोराजालोकपालानयोधयत् ।
सहदेवैस्तुतेभग्नारावणेनमहात्मना ॥ 16 ॥
विभीषणवचः श्रुत्वारामोदृढपराक्रमः ।
अन्वीक्ष्यमनसासर्वमिदंवचनमब्रवीत् ॥ 17 ॥
यानिकर्मापदानानिरावणस्यविभीषणः ।
अख्यातानिचतत्त्वेनह्यवगच्छामितान्यहम् ॥ 18 ॥
अहंहत्वादशग्रीवंसप्रहस्तंसबान्धवम् ।
राजानन्त्वाङ्करिष्यामिसत्यमेतद्ब्रवीमिते ॥ 19 ॥
रसातलं वा प्रविशेत्पातालं वापि रावणः ।
पितामहसकाशं वा न मे जीवन्विमोक्ष्यते ॥ 20 ॥
अहत्वारावणंसङ् ख्येसपुत्रजनबान्धवम् ।
अयोध्यान्नप्रवेक्ष्यामित्रिभिस्तैर्भ्रातृभिश्शपे ॥ 21 ॥
श्रुत्वातुवचनन्तस्यरामस्याक्लिष्टकर्मणः ।
शिरसावन्द्यधर्मात्मावक्तुमेवोपचक्रमे ॥ 22 ॥
राक्षसानांवधेसाह्यंलङ्कायाश्चप्रधर्षणे ।
करिष्यामियथाप्राणम्प्रवेक्ष्यामिचवाहिनीम् ॥ 23 ॥
इतिब्रुवाणांरामस्तुपरिष्वज्यविभीषणम् ।
अब्रवील्लक्ष्मणम्प्रीतस्समुद्राज्जलमानय ॥ 24 ॥
तेनचेमम्महाप्राज्ञमभिषिञ्चविभीषणम् ।
राजानंरक्षसाङ्क्षिप्रम्प्रसन्नेमयिमानद ॥ 25 ॥
एवमुक्तस्तुसौमित्रिरभ्यषिञ्चद्विभीषणम् ।
मध्येवानरमुख्यानांराजानंरामशासनात् ॥ 26 ॥
तम्प्रसादन्तुरामस्यदृष्टवासद्यःप्लवङ्गमाः ।
प्रचुक्रुशुर्महात्मानंसाधुसाध्वितिचाब्रुवन् ॥ 27 ॥
अथाब्रवीद् हनूमांश्चसुग्रीवश्चविभीषणम् ।
कथंसागरमक्षोभ्यन्तरामवरुणालयम् ॥ 28 ॥
सैन्यैःपरिवृतास्सर्वेवानराणाम्महौजसाम् ।
उपायन्नाधिगच्छामोयथानदनदीपतिम् ।
तरामतरसासर्वेससैन्यावरुणालयम् ॥ 29 ॥
एवमुक्तस्तुधर्मज्ञःप्रत्युवाचविभीषणः ।
समुद्रंराघवोराजाशरणङ्गन्तुमर्हति ॥ 30 ॥
खानितस्सगरेणायमप्रमेयोमहोदधिः ।
कर्तुमर्हतिरामस्यज्ञातेः कार्यम्महामतिः ॥ 31 ॥
एवंविभीषणेनोक्तोराक्षसेनविपश्चिता ।
अजगामाथसुग्रीवोयत्ररामस्सलक्ष्मणः ॥ 32 ॥
ततश्चाख्यातुमारेभेविभीषणवचश्शुभम् ।
सुग्रीवोविपुलग्रीवोस्सागरस्योपवेशनम् ॥ 33 ॥
प्रकृत्याधर्मशीलस्यराघवस्याप्यरोचत ॥ 34 ॥
विभीषणस्यमन्त्रोऽयम्ममलक्ष्मण रोचते ।
सुग्रीवःपण्डितोनित्यम्भवान्मन्त्रविचक्षणः ॥ 35 ॥
उभाभ्यांसम्प्रधार्यार्थंरोचतेयत्तदुच्यताम् ।
एवमुक्तौततोवीरावुभौसुग्रीवलक्ष्मणौ ।
समुदाचारसंयुक्तमिदंवचनमूचतुः ॥ 36 ॥
किमर्थनौनरव्याघ्रः नरोचिष्यतिराघवः ।
विभीषणेनयच्चोक्तमस्मिन् कालेसुखावहम् ॥ 37 ॥
अबध्वासागरेसेतुङ्घोरेऽस्मिन्वरुणालये ।
लङ्कानासादितुंशक्यासेन्द्रैरपिसुरासुरैः ॥ 38 ॥
विभीषणस्यशूरस्ययथार्थङ्क्रियतांवचः ॥ 39 ॥
अलङ्कालात्ययङ्कृत्वासागरोऽयन्नियुज्यताम् ।
यथासैन्येनगच्छामपुरींरावणपालिताम् ॥ 40 ॥
एवमुक्तःकुशास्तीर्नोतीरेनदनदीपतेः ।
संविवेशतदारामोवेद्यामिवहुताशनः ॥ 41 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकोनविंशस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe yuddhakāṇḍam |
atha ekonaviṃśassargaḥ |
rāghaveṇābhayedattesannatorāvaṇānujaḥ |
vibhīṣaṇomahāprājñobhūmiṃsamavalokayan || 1 ||
khātpapātāvanīṃhṛṣṭobhakteranucaraissaha |
satarāmasyaparamātmānipapātavibhīṣaṇaḥ || 2 ||
pādayośśaraṇānveṣīcaturbhissaharākṣasaiḥ |
abravīccatadāvākyaṃrāmamprativibhīṣaṇaḥ || 3 ||
dharmayuktañcayuktañcasāmprataṃsampraharṣaṇam |
anujorāvaṇasyāhantenacāpyavamānitaḥ |
bhavantaṃsarvabhūtānāṃśaraṇyaṃśaraṇāgataḥ || 4 ||
parityaktāmayālaṅkamitrāṇicadhanānica |
bhavadgataṃhimerājyañjīvitañcasukhānica || 5 ||
tathyatadvacanaṃśrutvārāmovacanamabravīt || 6 ||
vacasāsāntvayitvainaṃlocanābhyāmpibanniva |
ākhyāhimamatattvenarākṣasānāmbalābalam || 7 ||
evamuktantadārakṣorāmeṇākliṣṭakarmaṇā |
rāvaṇasyabalaṃsarvamākhyātumupacakrame || 8 ||
avadhyassarvabhūtānāṅgandharvoragarakṣasām |
rājaputradaśagrīvovaradānātsvayambhuvaḥ || 9 ||
rāvaṇānantarobhrātāmamajyeṣṭhaścavīryavān |
kumbhakarṇomahātejāśśakrapratibaloyudhi || 10 ||
rāmasenāpatistasyaprahāstoyadivāśrutaḥ |
kailāseyenasaṅgrāmemaṇibhadraḥparājitaḥ || 11 ||
baddagodhāṅgulitraśca avadhyakavaco yudhi |
dhanurādāya yastiṣṭhannadṛśyo bhavatīndrajit || 12 ||
saṅgrāmasamayavyūhetarpayitvāhutāśanam |
antardhānagataśśatrūnindrajid hantirāghavaḥ || 13 ||
mahodaramahāpārśvaurākṣasaścāpyakampanaḥ |
anīkasthāstutasyaitelokapālasamāyudhi || 14 ||
daśakoṭisahasrāṇirakṣasāṅkāmarūpiṇām |
māṃsaśoṇitabhakṣyāṇāṃlaṅkāpuranivāsinām || 15 ||
sataistusahitorājālokapālānayodhayat |
sahadevaistutebhagnārāvaṇenamahātmanā || 16 ||
vibhīṣaṇavacaḥ śrutvārāmodṛḍhaparākramaḥ |
anvīkṣyamanasāsarvamidaṃvacanamabravīt || 17 ||
yānikarmāpadānānirāvaṇasyavibhīṣaṇaḥ |
akhyātānicatattvenahyavagacchāmitānyaham || 18 ||
ahaṃhatvādaśagrīvaṃsaprahastaṃsabāndhavam |
rājānantvāṅkariṣyāmisatyametadbravīmite || 19 ||
rasātalaṃ vā praviśetpātālaṃ vāpi rāvaṇaḥ |
pitāmahasakāśaṃ vā na me jīvanvimokṣyate || 20 ||
ahatvārāvaṇaṃsaṅ khyesaputrajanabāndhavam |
ayodhyānnapravekṣyāmitribhistairbhrātṛbhiśśape || 21 ||
śrutvātuvacanantasyarāmasyākliṣṭakarmaṇaḥ |
śirasāvandyadharmātmāvaktumevopacakrame || 22 ||
rākṣasānāṃvadhesāhyaṃlaṅkāyāścapradharṣaṇe |
kariṣyāmiyathāprāṇampravekṣyāmicavāhinīm || 23 ||
itibruvāṇāṃrāmastupariṣvajyavibhīṣaṇam |
abravīllakṣmaṇamprītassamudrājjalamānaya || 24 ||
tenacemammahāprājñamabhiṣiñcavibhīṣaṇam |
rājānaṃrakṣasāṅkṣipramprasannemayimānada || 25 ||
evamuktastusaumitrirabhyaṣiñcadvibhīṣaṇam |
madhyevānaramukhyānāṃrājānaṃrāmaśāsanāt || 26 ||
tamprasādanturāmasyadṛṣṭavāsadyaḥplavaṅgamāḥ |
pracukruśurmahātmānaṃsādhusādhviticābruvan || 27 ||
athābravīd hanūmāṃścasugrīvaścavibhīṣaṇam |
kathaṃsāgaramakṣobhyantarāmavaruṇālayam || 28 ||
sainyaiḥparivṛtāssarvevānarāṇāmmahaujasām |
upāyannādhigacchāmoyathānadanadīpatim |
tarāmatarasāsarvesasainyāvaruṇālayam || 29 ||
evamuktastudharmajñaḥpratyuvācavibhīṣaṇaḥ |
samudraṃrāghavorājāśaraṇaṅgantumarhati || 30 ||
khānitassagareṇāyamaprameyomahodadhiḥ |
kartumarhatirāmasyajñāteḥ kāryammahāmatiḥ || 31 ||
evaṃvibhīṣaṇenoktorākṣasenavipaścitā |
ajagāmāthasugrīvoyatrarāmassalakṣmaṇaḥ || 32 ||
tataścākhyātumārebhevibhīṣaṇavacaśśubham |
sugrīvovipulagrīvossāgarasyopaveśanam || 33 ||
prakṛtyādharmaśīlasyarāghavasyāpyarocata || 34 ||
vibhīṣaṇasyamantro'yammamalakṣmaṇa rocate |
sugrīvaḥpaṇḍitonityambhavānmantravicakṣaṇaḥ || 35 ||
ubhābhyāṃsampradhāryārthaṃrocateyattaducyatām |
evamuktautatovīrāvubhausugrīvalakṣmaṇau |
samudācārasaṃyuktamidaṃvacanamūcatuḥ || 36 ||
kimarthanaunaravyāghraḥ narociṣyatirāghavaḥ |
vibhīṣaṇenayaccoktamasmin kālesukhāvaham || 37 ||
abadhvāsāgaresetuṅghore'sminvaruṇālaye |
laṅkānāsādituṃśakyāsendrairapisurāsuraiḥ || 38 ||
vibhīṣaṇasyaśūrasyayathārthaṅkriyatāṃvacaḥ || 39 ||
alaṅkālātyayaṅkṛtvāsāgaro'yanniyujyatām |
yathāsainyenagacchāmapurīṃrāvaṇapālitām || 40 ||
evamuktaḥkuśāstīrnotīrenadanadīpateḥ |
saṃviveśatadārāmovedyāmivahutāśanaḥ || 41 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye yuddhakāṇḍe ekonaviṃśassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
🕉 InfoLyter.in